← अध्यायः ७ भार्गवतन्त्रम्
अध्यायः ८
[[लेखकः :|]]
अध्यायः ९ →
भार्गवतन्त्रस्य अध्यायाः

।। अष्टमोऽध्यायः ।।
[प्रतिष्ठाङ्गभूतप्रतिमानेत्रोन्मीलनादिनिरूपणाध्यायः]
[यागमण्डपालङ्करणप्रकारः]

श्रीरामः
यागमण्डपसाद्य यजमानेन देशिकः।
स्थूणांश्च मण्डपे तस्मिन् वासोभिर्वेष्टयेन्नवैः ।। 8.1 ।।
वितानयेच्छुभैर्वस्त्रैः पताकाभिश्च भूषयेत्।
मुक्तादामभिरन्यैश्च कदलीक्रमुकादिभिः ।। 8.2 ।।
सफलैर्दर्भमालाभिर्मणिकाञ्चनभूषणैः।
शोभयेन्मण्डपं सर्वं तोरणानि च बन्धयेत् ।। 8.3 ।।
खात्वा द्वितालं धरणीं द्वारे द्वारे चतुर्दशम्।
स्थापयेदपि पूर्वादिपताकाश्चापि बन्धयेत् ।। 8.4 ।।
अश्वत्थोदुम्बरवटप्लक्षक्लृप्तानि वै क्रमात्।
शोभयित्वा यथादृश्यं दीपानुद्दीप्य सर्वतः ।। 8.5 ।।
  (b: A. सप्तानि for क्लृप्तानि;)

[अधिवासितबिम्बोत्थापनम् यागमण्डपानयनं च]

अपराह्णे तु सम्प्राप्ते काले संकल्पिते गते।
उत्थाप्य बिम्बान्युदकात् कुम्भाच्च कलशादपि ।। 8.6 ।।
उद्वास्य देवताः सर्वाः प्रतिमास्तीरविष्टरे।
निवेश्य प्राङ्मुखं शुद्धैर्वारिभिः क्षालयेद्गुरुः ।। 8.7 ।।
लोहजानि च बिम्बानि तिन्त्रिणीफलवारिणा।
वस्त्राभरणपुष्पाद्यैरलङ्कृत्य विचक्षणः ।। 8.8 ।।
यानमारोप्य विप्रेन्द्रैर्वेदवाद्यादिमङ्गलैः।
प्रादक्षिण्येन वै धाम्नो गमयेद्यागमण्डपम् ।। 8.9 ।।
उत्तरे विष्टरे बिम्बं प्राङ्मुखं विनिवेशयेत्।
तत उत्थाप्य कूर्चानि बिम्बे तां शक्तिमुद्वसेत् ।। 8.10 ।।
कुम्भेभ्यः देवताः सर्वाः पूर्ववच्च विसर्जयेत्।

[प्रतिमानयनोन्मीलनक्रमः]

नयोनोन्मीलनं कुर्यात् बिम्बानां तु यथाविधि ।। 8.11 ।।
सौवर्णं राजतं चापि पात्रयुग्मं शलाकया।
राजत्या स्वर्णमय्या च धान्यराशौ निवेशयेत् ।। 8.12 ।।
सौवर्णं पूर्वदिग्भागे पश्चिमे राजतं न्यसेत्।
परितः कलशानष्टौ चणकैः परिपूरितान् ।। 8.13 ।।
  (d: T. अभिo for परिo;)
स्थापयेद्वाचयेत्पश्चात् पुण्याहं प्रोक्षयेदपि।
आवाहयेन्मधुघटे `उद्वंय तमसे'त्यृचा ।। 8.14 ।।
आदित्यमितरेऽपीन्दुं `सोमोधेन्वि'ति विद्यया।
सम्पूज्य गन्धपुष्पाद्यैर्द्वे पात्रे सशलाकिके ।। 8.15 ।।
`मधुत्रयेण' च मधु `सविराजेति' वै घृतम्।
कन्यकारुचिराश्चाष्टौ गाः सवत्साः मनोहराः ।। 8.16 ।।
स्थापयित्वाथ तत्पार्श्वे त्रयी घोषं प्रवर्तयेत्।
शलाकया च सौवर्ण्या मध्वाक्तमुखया गुरुः ।। 8.17 ।।
उन्मील्य दक्षिणं नेत्रं राजत्या च घृताक्तया।
उन्मीलनं तु वामाक्ष्णः दक्षिणोत्तरयोर्मनुः ।। 8.18 ।।
  (a: T. चित्रं देवानां तच्चक्षुo;)
`चित्रं देवा' च `तच्छक्षु'रिति मन्त्रद्वयं स्मृतम्।
एवमुन्मील्य नेत्रे द्वे आच्छादनपटं त्यजेत् ।। 8.19 ।।
मकरन्दश्च सर्पिश्च चणकं चापि कन्यकाः।
गाः सवत्साश्च देवाय दर्शयेद्देशिकोत्तमः ।। 8.20 ।।
  (a: A. मकरन्दं for मकरन्दः;)
सर्वेषामपि बिम्बानामेवमुन्मीलनं दृशाम्।

[प्रतिसरबन्धनावसरनिर्देशः]

कौतुकं तु करे धार्यं स्नपनेऽम्ब्वधिवासने ।। 8.21 ।।
प्रतिष्ठायां च बिम्बानाम् आचार्यस्यापि ऋत्विजाम्।
तत्प्रकारमितो वक्ष्ये शृणु कुम्भसमुद्भव ।। 8.22 ।।

[प्रतिसरपरिकल्पनम्]

सौवर्णं वाथ कौशेयं कार्पासं वा यथावसु।
सप्तभिर्पञ्चभिर्वापि सूत्रैः प्रतिसरं भवेत ।। 8.23 ।।
निष्कप्रमाणस्वर्णेन कौतुकं परिकल्पयेत्।

[कौतुकसंस्कारः कौतुकबन्धनप्रकारश्च]

कमले तण्डुलैः पूर्णे ताम्बूलीदलशोभिते ।। 8.24 ।।
कदलीनारिकेराद्यैः फलैश्च परिमण्डिते।
विन्यस्य तत्र सूत्राणि प्रोक्ष्य पुण्याहवारिभिः ।। 8.25 ।।
सुदर्शनं हेतिराजं तत्रावाह्य समर्चयेत्।
सुदर्शनषडर्णेन सप्तवाराभिमन्त्रणम् ।। 8.26 ।।
अङ्गुष्ठानामिकाभ्यां तु चन्दनक्षोदवारिणा।
आलिंपेत् कौतुकं सम्यगपराजितविद्यया ।। 8.27 ।।
मूलमन्त्रेण देवस्य वध्नीयाद्दक्षिणे करे।
देवीनां तु श्रियादीनां वामे कौतुकमङ्गलम् ।। 8.28 ।।
आचार्याणां मूर्तिपानामङ्कुरार्पणकर्मणि।
कौतुकं दक्षिणे हस्ते येन दीक्षा प्रसिध्यति ।। 8.29 ।।
मन्त्रस्तु देवदेवीनामन्यासां वा मुनीश्वर।
बन्धने स्व स्व विद्यैव चक्रमन्त्राभिमन्त्रणम् ।। 8.30 ।।
विश्वेतातेति मन्त्रेण बन्धनं कौतुके गुरोः।
ऋत्विजामपि सर्वेषां यो ब्रह्मेत्यभिमन्त्रणम् ।। 8.31 ।।
वृहत्सामेति मन्त्रेण रक्षैषां धूपभस्मना।
प्रणम्य पुण्डरीकाक्षं द्वादशाक्षरविद्यया ।। 8.32 ।।

[स्नपनकुंभानां स्थापनक्रमः]

स्नानपीठे तु बिम्बानि समारोप्य गुरूत्तमः।
कलशान् सप्तदश च धान्यपीठे निवेशयेत् ।। 8.33 ।।
घृतकुम्भं पदे ब्राह्मे सोष्णमम्बु दिवस्पतौ।
फलोदकं यमपदे स्नानीयं वारुणे दिशि ।। 8.34 ।।
  (a: T. भवेत् for पदे;)
सौम्ये भवेदक्षताम्बु वह्नौ तु मणिजीवनम्।
यातुधाने लोहतीर्थं गन्धतीर्थं तु मारुते ।। 8.35 ।।
सोमैशानयोरक्षतयवे प्राच्यां पादाम्बु कल्पनम्।
अर्ध्यतीर्थं पदे याम्ये आचामं वारुणे दिशि ।। 8.36 ।
  (a: A. अक्षतयवे सोमेशाने;)
  (c: A. प्राच्यां for याम्ये;)
पञ्चगव्यमुदीचीने दध्यग्नौ नैर्ऋते पयः।
मारुते मधु भूतेशे काषायाम्बुप्रकल्पनम् ।। 8.37 ।।


[होमाभिषेचनक्रमः]

देवतावाहनं कृत्वा तत्तन्नामभिरष्टधा।
आवृत्य जुहुयादग्नौ सम्पातं तत्र सेचयेत् ।। 8.38 ।।
मन्त्रस्तु वैष्णवः सूक्तः पुंसूक्तेनाभिषेचनम्।
घृतकुम्भस्य मन्त्रस्तु गायत्री वैष्णवी मता ।। 8.39 ।।
  (b: T. वाo for oनाo;)

[बिम्बाधिवासनप्रकारः]

शाययेद्वेदिकामध्ये शालितण्डुलकल्पिते।
सतिले मञ्चमारोप्य कृष्णाजिनपरिष्कृतम् ।। 8.40 ।।
तूलिकां तत्र विन्यस्य रत्नकंबलमण्डिताम्।
क्षौमं च चित्रवस्त्रं च गण्डूषाणि च विन्यसेत् ।। 8.41 ।।
  (d: A. गण्डूकानि for गण्डूषाणि;)
शिरोपधानं च तथा सुगन्धैरधिवासयेत्।
`इदंविष्णु'रिति प्रायैर्मन्त्रैः परमपावनैः ।। 8.42 ।।
  (b: T. अपि for अधिo;)
शाययेद्देवदेवेशं सांगं वै दक्षिणे शिरः।
कम्बलैश्च दुकूलैश्च प्रतिमां छादयेद्गुरुः ।। 8.43 ।।

[कुम्भस्थापनप्रकारः]

आशास्वष्टस्वष्टकुम्भान् सूत्रवस्त्रादिवेष्टितान्।
सकूर्चान् पल्लवयुतान् सरत्नान् स्वर्णसंयुतान् ।। 8.44 ।।
वेष्टितान् वस्त्रयुग्मेन यद्वैकेन समष्टिना।
गन्धोदकेन सम्पूर्णान् धान्यपीठे निवेशयेत् ।। 8.45 ।।
शालीनां तण्डुलानूर्ध्वं तेषामूर्ध्वं तिलं भवेत्।
अन्तरान्तरवस्त्राढ्यं धान्यपीठमिदं स्मृतम् ।। 8.46 ।।
तत्तत्प्रतिकृतिं तत्र सौवर्णीं विनिवेशयेत्।
कुम्भानामन्तरालेषु विन्यसेष्टमङ्गलान् ।। 8.47 ।।
अपिधाय शरवेण नालिकेरादिभिः फलैः।
अलङ्कृत्य यथायोग्यं महाकुम्भं तु पश्चिमे ।। 8.48 ।।
  (c: A. यथायोगं for यथायोग्यम्;)
करकेण समायुक्तं नवरत्नसमन्वितम्।
सर्वलोहयुतं सर्वगन्धयुक्तं सकूर्चकम् ।। 8.49 ।।
पिप्लच्छदसंयुक्तं मूलप्रतिमयान्वितम्।
सूत्रवेष्टतसर्वाङ्गं जम्बीरफलसान्तरम् ।। 8.50 ।।
वेदिकायां धान्यपीठे सशरावं निवेशयेत्।
अलङ्कुर्याद्विशेषेण वस्त्रयुग्मेन वेष्टयेत् ।। 8.51 ।।
तस्य दक्षिणपार्श्वे तु तादृशं करकं न्यसेत्।
तोरणानामुभयतः द्वारकुम्भौ निवेशयेत् ।। 8.52 ।।
अलङ्कुर्याद्यथायोगं पूरयेद्‌गन्धवारिणा।
महाकुम्भं च करकं पूरयेद्‌गन्धवारिभिः ।। 8.53 ।।
  (a: T. युगं for योगम्;)
एवं संस्थाप्य मेधावी वेदघोषे प्रवर्तिते।
तूर्यवादित्रनिनदे प्रवृद्धेऽति कुतूहले ।। 8.54 ।।
आवाहयेन्महाकुम्भे वासुदेवं सनातनम्।

।। इति भार्गवतन्त्रेऽष्टमोऽध्यायः ।।