← अध्यायः १५ भार्गवतन्त्रम्
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →
भार्गवतन्त्रस्य अध्यायाः

।। षोडशोऽध्यायः ।।
[समाराधनविधिनिरूपणाध्यायः]
[आराधकस्यालयप्रवेशक्रमः]

श्रीरामः
स्नात्वा पूर्वाह्निकं कृत्वा गुरुर्देवालयाद्बहिः।
प्रक्षाल्य पादौ पाणी च त्रिराचम्यालयं विशेत् ।। 16.1 ।।
 (d: T. व्रजेत् for विशेत्;)

[कवाटेद्धाटनं भगवत्प्रबोधनञ्च]

प्रथमावरणं गत्वा नत्वोद्दिश्य श्रियः पतिम्।
कृते तालत्रये पश्चात् कवाटोद्धाटनं चरेत् ।। 16.2 ।।
 (c: M. पञ्च for पश्चात्;)
तदा प्रबोधयेद्देवं वासुदेवं सनातनम्।
प्रबुद्ध जगदीशान प्रबुद्ध कमलापते ।। 16.3 ।।
प्रबुद्ध पुण्डरीकाक्ष प्रबुद्ध रमया सह।
प्रबुद्धानन्तकल्याणवारिधे करुणाम्बुधे ।। 16.4 ।।
प्रबुद्ध चन्द्रवदन कमलाङ्घ्रिसरोरुह।
स्तुवन्ति वेदाश्चत्वारः नमन्ति द्रुहिणादयः ।। 16.5 ।।
अस्ताचलं गतश्चन्द्रः उदयं याति भास्करः।
उन्मीलयाक्षियुगलं नृत्यत्यप्सरसां गणः ।। 16.6 ।।
तुम्बुरुर्नारदश्चोभौ वीणया मञ्जु गायतः।
तिष्ठन्ति ऋषयः सर्वे सेवार्थं गोपुराद्बहिः ।। 16.7 ।।
बालातपा विसर्पन्ति प्रबुद्धान्यम्बुजान्यपि।
षट्पदा मकरन्दाय भ्रमन्ति कमलोदरे ।। 16.8 ।।
चक्रवाकद्विजगणैर्गार्हस्थ्यमनुभूयते।
उत्तिष्ठ इति मन्त्रैस्त्वामुपासन्ते द्विजोत्तमाः ।। 16.9 ।।
उत्तिष्ठोतिष्ठ गोविन्द उत्तिष्ठ पुरुषोत्तम।

[निर्माल्यविनियोगः पात्रप्रक्षालनं च]

एवं प्रबोध्य देवेशं दीपेषु ज्वलितेष्वपि ।। 16.10 ।।
 (d: A. दौपेषूo for दीपेषु;)
माल्यगन्धादिदेवस्य विष्वक्सेनाय दापयेत्।
पूजायोग्यानि पात्राणि क्षालयेच्च यथातथम् ।। 16.11 ।।

[भूतशुद्धिप्रकारः]

सपवित्रकरो भूत्वा सोर्ध्वपुण्ड्रः स्वलङ्कृतः।
नादिते सकले वाद्ये ब्रह्मधोषे च घोषिते ।। 16.12 ।।
 (b: M. ऊर्ध्वं T. स्वोर्ध्व for सोर्ध्व;)
शब्दब्रह्ममयीं ध्यात्वा धण्टां हस्तेन चालयेत्।
`अस्त्रमन्त्रेण' बध्नियाद्देशिकः ककुभो दश ।। 16.13 ।।
`मूलमन्त्रेण' कुर्वीत प्राणायामत्रयं ततः।
रेचकं पुरकं चैव कुभकं रेचकं तथा ।। 16.14 ।।
 (c: T. कुंभकम् for पूरकम्;)
  (d: T. पूरकम् for कुंभकम्;)
एवं चतुर्विधैर्युक्तः प्राणायाम उदाहृतः।
सप्तभिर्द्विगुणैर्वापि पुनस्तद्वच्चतुर्गुणैः ।। 16.15 ।।
 (b: M. प्राणायामान् for प्राणायाम;)
  (c: M.T. उक्तम् for oउक्ता;)
आद्यैश्च `मूलमन्त्र'स्य संख्योक्ता शास्त्रवित्तमैः।
गन्धेन सहितां पृथ्वीं संहरेदप्सु योगवित् ।। 16.16 ।।
ता रसेन समं वह्नौ तं वायौ रूपमात्रया।
तमाकाशे स्पर्शयुतं तच्च शब्देन मानसे ।। 16.17 ।।
संहरोत्तदहंकारे तं बुद्धौ तां महत्यपि।
महान्तं संहरेज्जीवे जीवं तं ब्रह्मणि ध्रुवे ।। 16.18 ।।
निवेश्य वह्निबीजेन दग्धं ध्यायेद्वपुर्गुरुः।
वारुणेनैव बीजेन सिक्तं जातं पुनः स्मरेत् ।। 16.19 ।।
ब्रह्मणो निर्गतं जीवं स्मृत्वा तस्माद्गुरूत्तमः।
महान्तं च ततो बुद्धिं बुद्धेर्जातामहंकृतिम् ।। 16.20 ।।
अहंकृतेर्मनो ध्यायेत् तस्माच्छब्देन चाम्बरम्।
स्पर्शन चाम्बराद्वायुं वायो रूपेण चानलम् ।। 16.21 ।।
अनलाद्रससंयुक्ता आपश्ताभ्यो महीं स्मरेत्।
गन्धेन सहितामेवं विशोध्य वपुरात्मवान् ।। 16.22 ।।

[भूतशुद्धिक्रमे अङ्गेषु वर्णन्यासक्रमः]

न्यसेदङ्गेषु `मूल'स्य वर्णानष्टौ यथाक्रमम्।
विन्यसेत्प्रणवं नाभौ नकारं मेहने न्यसेत् ।। 16.23 ।।
मोकारं जानुयुगले नाकारं पादयोर्द्वयोः।
राकारं विन्यसेन्मूर्ध्नि यकारं नयनद्वये ।। 16.24 ।।
णाकारं वदनाम्भोजे यकारं हृदयाम्बुजे।
एवं विन्यस्य वर्णांस्तान् ध्यात्वा तं पुरुषोत्तमम् ।। 16.25 ।।
 (a: T. हृदय for वदन;)
  (c: A. तैः for तान्;)

[मानसयागविधिः]

मनसाराधयेद्देवमर्ध्याद्यैर्विविधैः क्रमैः।
अर्ध्यं पाद्यं तथाचामं स्नानं वस्त्रोपवीतके ।। 16.26 ।।
गन्धं पुष्पं तथा धूपं दीपं पुष्पाञ्जलिं तथा।
नैवेद्यं विविधं चाति ताम्बूलं मुखवासनाम् ।। 16.27 ।।
 (b: M.T. अञ्जलिः for अञ्जलिम्;)
  (d: A. वासना for वासनाम्;)
इत्यादि मानसेनैव `मूलमन्त्रे'ण कारयेत्।
मूलमन्त्रं जपेत्पश्चादष्टोत्तरशतावरम् ।। 16.28 ।।
 (d: A. शतं वरम् M. शतं वारम् for शतावरम्;)


[पूजापात्रादिसन्नाहः]

देवस्य पुरतः पात्रे आधारे पञ्च विन्यसेत्।
पात्रापि परिशुद्धानि शुद्धलोहमयानि च ।। 16.29 ।।
आवाहनाह्वयं पात्रमन्यदेकं निवेशयेत्।
पूरयेद्गलिताम्भोभिः `प्रणवे'नाभिमन्त्रयेत् ।। 16.30 ।।
शोषणं प्लावनं चापि कुर्या`दग्न्यमृताक्षरैः'।
दर्शयेत्सुरभीमुद्रां तच्चतुर्थ्या नमोऽन्तया ।। 16.31 ।।
 (d: M.T. नमोन्तथा for नमोऽन्तया;)
पाद्यं मध्ये दक्षिणेऽर्ध्यं वामे चाचामवारि च।
स्नानीयं शाङ्करे कोणे शुद्धोदमितरत्र च ।। 16.32 ।।
स्पृशन् दक्षिणहस्तेन तत्तन्नाम स्मरन् द्विजः।
उच्चार्य कल्पयामीति पात्रादर्ध्याज्जलं हरेत् ।। 16.33 ।।
 (b: T. om. तत्;)
  (c: A. आचार्य for उच्चार्य;)
किञ्चिदन्येन पात्रेण निनयेन्नासिकासमम्।
संमन्त्र्य `मूलमन्त्रे'ण सप्तवारं द्विजोत्तमः ।। 16.34 ।।
प्रोक्षयेत्पञ्चपात्राणि पूजाद्रव्याण्यशेषतः।

[नित्यार्चनात्पूर्वं योगपीठकल्पनप्रकारः]

पादपीठे तु देवस्य मूलबेरे गुरूत्तमः ।। 16.35 ।।
 (a: M. वं च for पञ्च;)
`आयान्त्वाद्येन' मन्त्रेण योगपीठं प्रकल्पयेत्।
आधारशक्तिः प्रथमा कूर्मकालानलस्ततः ।। 16.36 ।।
 (a: M.T. आधाराद्येन for आयान्त्वाद्येन;)
अनन्तोऽथ महीपश्चादूर्ध्वमूर्ध्वं यथाक्रमम्।
धर्मो ज्ञानं च वैराग्यमैश्वर्यं च यथाक्रमम् ।। 16.37 ।।
प्रागादिदिक्षु क्रमशः अधर्मादिचतुष्टयम्।
आग्नेय्यादिषु कोणेषु तेषां मध्ये सदाशिवः ।। 16.38 ।।
 (b: M.T. धर्मादि च for अधर्मादि;)
  (d: M.T. शिवम् for शिव);)
एते पादमयाः प्रोक्ताः खट्वायाः कमलापतेः।
ऋगादिवेदाश्चत्वारः खट्वाकाष्ठचतुष्टयम् ।। 16.39 ।।
वैकारिकस्तैजसश्च भौतिकश्चेति ते त्रिधा।
पूर्वापरगुणाः प्रोक्तास्तथा सत्वादयो गुणाः ।। 16.40 ।।
 (b: M.T. त्रय) for त्रिधा;)
दक्षिणोत्तरसूत्राणि तूलिका पञ्चभूमिका।
जीवात्मास्तरणं तस्मादूर्ध्वं पद्मासनं स्मृतम् ।। 16.41 ।।
(b: M.T. पाञ्च for पञ्च;)
पार्श्वयोरुभयोः कल्प्यौ परमेष्ठित्रिलोचनौ।
सनत्कुमारः सनकः सनन्दः पृष्ठतस्त्रयः ।। 16.42 ।।
एतेषान्तु नमोऽन्तेन चतुर्थ्या प्रणवादिना।
अर्चयेन्मन्त्रमुद्धृत्य तन्त्रशास्त्रार्थतत्तववित् ।। 16.43 ।।
 (d: A.M. सारo for तत्व;)
ततो देवं समालोक्य साम्मुख्यं शाश्वतीं स्थितिम्।
प्रार्थ्य मन्त्राक्षरन्यासः कर्तव्यः पूर्ववर्त्मना ।। 16.44 ।।
 (b: M. समम् for स्थितिम्;)

[कर्मार्चायाः योगपीठकल्पनक्रमः]

कर्मार्चासहजे पीठे योगपीठं यथापुरम्।

[भगवतः नित्यार्चनविधिः]

प्रकल्प्यावाहने पात्रे जलमर्ध्यार्थमाहरेत् ।। 16.45 ।।
 (d: M.T. जलमर्ध्यात्समाहरेत्;)
ललाटान्तं समुद्धृत्य मूलेनागच्छ चञ्चुना।
आवाहयेन्मूलबेरात् सिञ्चेन्मूर्धनि कर्मणः ।। 16.46 ।।
 (b: A.T. चुञ्चुना for चञ्चुना;)
  (d: M. सिञ्चन् for सिञ्चेत्;)
प्रणवेन ब्रह्मरन्ध्रं पिधाय कमलापतेः।
साम्मुख्यं स्वागतं चोक्त्वा स्थितिं यागावसानिकीम् ।। 16.47 ।।
 (b: T. विधाय for पिधाय;)
पार्थ्य मन्त्राक्षरान्न्यस्य यजेदर्ध्यादिभिः क्रमात्।
`सावित्र्या' वितरेदर्ध्यं पाद्यं `त्रीणि पदेति' च ।। 16.48 ।।
 (a: A. अक्षरे for अक्षरान्;)
  (d: M. पदेदिति for पदेति च;)
आचामो `विष्णुगायत्र्या' `तद्विष्णो' दन्तधावनम्।
जिह्वानिर्लेहनं कुर्यात् `तद्विप्रासो' विपर्ययात् ।। 16.49 ।।
 (b: M. विष्ण्वा for विष्णोः;)
`ऋतं सत्यमि'ति श्रुत्या गण्डूषपरिकल्पनम्।
`पौरुषेणैव सूक्तेन' स्नापयेत्पुरुषोत्तमम् ।। 16.50 ।।
`युवा सुवासे'ति ऋचा वस्त्रे द्वे धौतनिर्मले।
`यज्ञोपवीतमन्त्रेण' ब्रह्मसूत्रं प्रकल्पयेत् ।। 16.51 ।।
`गन्धद्वारेति'मन्त्रेण गन्धेनालेपनं हरेः।
`विष्णोर्नुकमि'ति श्रुत्या पुष्पैश्च परिमण्डयेत्।। 16.52 ।।
 (b: A. चरेत् for हरेः;)
`जितन्त' इति मन्त्रेण भूषयेत्सर्वभूषणैः।
`इरावतीति' मन्त्रेण पादयोरक्षतार्पणम् ।। 16.53 ।।
धूपः कालागरुमुखैः `धूरसी'ति मनुं जपेत्।
`उद्दीप्यस्वे'ति मन्त्रेण दीपानुज्वाल्य दर्शयेत् ।। 16.54 ।।
आधोष्य चतुरो देवान् नृत्तं गीतं च दर्शयन्।

[भगवतःनित्यार्चनक्रमे नैवेद्यसमर्पणप्रकारः]

अर्चयेद्विविधैः पुष्पैर्नामभिर्बहुभिर्हरिम् ।। 16.55 ।।
 (b: M. वर्शयेत् for दर्शयन्;)
हवींषि सुखपक्‌वानि विविधानि महानसात्।
सिक्तानि सर्पिभिः सम्यक् सोपदंशानि पानकैः ।। 16.56 ।।
 (c: T. सम्षक् सर्पिभिः for सर्पिभिः सम्यक्;)
आनीतानि यथायोगं विन्यस्तान्यासनेऽग्रतः।
प्रोक्षयेदस्त्रमन्त्रेण वर्मणा परिषेचयेत् ।। 16.57 ।।
`देवस्य त्वेति' मन्त्रेण दर्शयत् ग्रासमुद्रया।
त्रिपञ्च सप्त वारं वा देवाय विनिवेदयेत् ।। 16.58 ।।
एवं निवेद्य विधिवत् सोदकं सोपदंशकम्।
ताम्बूलीं वासनायुक्तां दद्याच्चरणमित्यपि ।। 16.59 ।।

[नित्याराधनक्रमे होमादिसम्पादननिर्देशः]

ततो निर्गत्य सदनान्नित्यहोमं समापयेत्।
बलिं च दद्याद्भूतेभ्यो नित्योत्सवमथाचरेत् ।। 16.60 ।।
 (a: A. निर्वर्त्य for निर्गत्य;)
  (b: A. समाचरेत् for समापयेत्;)

[नित्तार्चनप्रसंगे नीराजनोद्‌वासनादिक्रमः]

ततः प्रविश्य सदनं नीराज्य `चरमेण' च।
उद्वासयेन्मूलबेरे यथापूर्वं गुरूत्तमः ।। 16.61 ।।
जपेर्दष्टाक्षरं मन्त्रं' यथाशक्ति प्रणम्य च।
स्वीकृत्य पादसलिलं पिबेत्त्त्रिः शिरसा पुनः ।। 16.62 ।।
धारयेत्पादुकां चापि तुलस्यादि तथा हरेत्।
सेवार्थमागतानां च यतीनां विदुषामपि ।। 16.63 ।।
अन्येषां विष्णुभक्तानां पाद्यादि वितरेद्गुरुः।

[भगवन्निवेदितान्नविनियोगः]

विष्णोर्निवेदितान्नादि स्वीकृत्य स्वयमात्मनः ।। 16.64 ।।
सेवार्थमागतेभ्यश्च सर्वेभ्योऽपि प्रदापयेत्।
विष्णोर्निवेदितान्नेन यष्टव्या गृहदेवताः ।। 16.65 ।।
 (d: M. ग्रह for गृह;)
भुञ्जीत विष्णुनैवेद्यम् देवीभ्यो विनिवेदितम्।

[चण्डादिनिवेदितान्नविनियोगादिः]

चण्डादिपरिवाराणां यदन्नं विनिवेदितम् ।। 16.66 ।।
 (b: M. oपि for विo;)
  (d: M. च for विo;)
तन्न भुञ्जीत मनुजो जलेऽग्नौ वा विनिक्षित्।
तरन्ति पितरश्चापि तेन तृप्ताः न संशयः ।। 16.67 ।।
 (a: b: c: d: A. om.)
इदमाराधनं विष्णोः कथितं ते समासतः।

।। इति भार्गवतन्त्रे षोडशोऽध्यायः ।।