भार्गवतन्त्रम्/अध्यायः ४
← अध्यायः ३ | भार्गवतन्त्रम् अध्यायः ४ [[लेखकः :|]] |
अध्यायः ५ → |
भार्गवतन्त्रस्य अध्यायाः |
---|
।। चतुर्थोऽध्यायः ।।
[प्रतिमाङ्गमानादिनिरूपणाध्यायः]
[प्रतिमानिर्माणविषये सामान्यजिज्ञासा]
अगस्यः
कथं वा वासुदेवस्य निर्मेया प्रतिमा हरेः।
कति भेदानि बिम्बानां ब्रूहि मे कृपया प्रभो ।। 4.1 ।।
[रेण्वादिमानविशेषाणां लक्षणम्]
रामः
वातायनपथं प्राप्य ये भान्ति रविरश्मयः।
तेषु सूक्ष्मा विसर्पन्ति रेणवः परमाणवः ।। 4.2 ।।
(a: T. प्रथं for पथम्;)
(c: A. तेषु सूक्ष्माणि सर्पन्ति;)
परमाणुरजः केशलीक्षायूकयवाष्टकैः।
लब्धं मानाङ्गुलं शालित्रिभिर्मानान्तराङ्गुलम् ।। 4.3 ।।
(b: A. लीक्षलूक for लीक्षायूक;)
आचार्यदक्षिणकरे मध्यमाङ्गुलमध्यमे।
पर्वणोरन्तरं दीर्घं मात्राङ्गुलमुदाहृतम् ।। 4.4 ।।
विनाङ्गुष्ठेन शेषाभिः मुष्टिमङ्गुलिभिः कृतम्।
चतुर्धा विभजेदेको भागो मुष्ट्यङ्गुलिः स्मृताः ।। 4.5 ।।
यत्किञ्चि प्रतिमामानं विभज्य दशधा पुनः।
एकं द्वादशधा लब्धं देहलब्धाङ्गुलं भवेत् ।। 4.6 ।।
(श्लोकात् पूर्वं M. कोशे `बिम्बभेदः' इत्यधिकः;)
[उपादानद्रव्यभेदानुसारं सप्तविधानि बिम्बानि]
रत्नजं शैलजं बिम्बं दारुजं लोहजं तथा।
मृत्त्रैवस्तुकयोर्बिम्बं चित्रजं चेति सप्तधा ।। 4.7 ।।
[बिम्बोत्सेधविषये उत्तमः पक्षः]
बिम्बानि वासुदेवस्य कथ्यन्ते कलशोद्भव।
तत्र प्रतिकृतेस्तावत्तदङ्गानां च कथ्यते ।। 4.8 ।।
उत्सेधमानं मूर्धादिपादान्तमनुपूर्वशः।
लब्धानां देहतस्तावत् अङ्गुलीनां शतेन च ।। 4.9 ।।
(a: A. मूर्त्यादि for मूर्धादि;)
चतुर्विंशति मानेन प्रतिमां परिकल्पयेत्।
[प्रतिमायाः तत्तदङ्गमाननिर्देशः]
उष्णीषमङ्गुलमितं केशान्तं त्र्यङ्गुलं मतम् ।। 4.10 ।।
दृक्सूत्रान्तं तदारभ्य षट्त्रिंशत् यवसम्मितम्।
तद्वन्नासापुटान्तं स्यात् तद्वच्च चिबुकावधि ।। 4.11 ।।
(a: A. द्रक्षूतान्तं for दृक्सूत्रान्तं;)
(b: A. सहितम् for सम्मितम्;)
तेन केशान्तमारभ्य मुखमानं मुनीश्वर।
अष्टोत्तरयवशतं चिबुकावयवावधि ।। 4.12 ।।
गलमर्धाङ्गुलं सार्धं त्र्यङ्गुलं कण्ठमिष्यते।
हिक्कासूत्रं समारभ्य हृदयान्तं मुखेरितम् ।। 4.13 ।।
ततः प्रभृति नाभ्यन्तं सार्धं सत्रिदशाङ्गुलम्।
ततः प्रभृति मेढ्रान्तं तद्वदुत्सेधमिष्यते ।। 4.14 ।।
तन्मूलाज्जानुपर्यन्तं त्रिन्यूनं त्रिदशाङ्गुलम्।
चतुरङ्गुलमुत्सेधं जानुमण्डलमिष्यते ।। 4.15 ।।
(a: b: c: d: A. om;)
जानोरधस्तादक्षान्तमूरुमानमुदीरितम्।
ततस्तालान्तमुत्सेधं चतुरङ्गुलसम्मितम् ।। 4.16 ।।
[बिम्बोत्सेधविषये मध्यमपक्षः]
देहलब्धानि यावन्ति दशतालेऽभिपूजिते।
विभज्य तावदुक्तानि मध्यमे प्रतिमाविधौ ।। 4.17 ।।
त्रयोदशाङ्गुलं वक्त्रं त्रिस्थाने चतुरङ्गुलम्।
षड्विंशत्यङ्गुलोत्सेधमूरुमानमुदाहृतम् ।। 4.18 ।।
(b: A.M. त्रिस्थानं for त्रिस्थाने;)
तद्वज्जङ्धासमुत्सेधमुत्तरेणेतरत्समम्।
[बिम्बोत्सेधविषये अधमः पक्षः तत्तदङ्गविस्तारादिकं च]
अधमे दशताले तु मुखं शतयवं मतम् ।। 4.19 ।।
त्रिस्थाने तावदेव स्यात् ऊरुर्यवशतद्वयम्।
जङ्घा च तत्समोत्सेधा मुख्येनान्यत्समं स्मृतम् ।। 4.20 ।।
(a: A.M. त्रिस्थानं for त्रिस्थाने;)
विंशद्यवशतं पादं द्राघिमा कमलापतेः।
अङ्कुष्ठं वेदमानं स्यात् तदायामा च तर्जनी ।। 4.21 ।।
(b:A. द्रढिमा for द्राधिमा;)
एकत्रिंशद्यवायामा मध्यमाङ्गुलिरिष्यते।
त्रिंशद्यवानामिका स्यात्कनिष्ठा त्र्यङ्गुलात्मिका ।। 4.22 ।।
(d: A. त्र्यङ्गुलोऽपि च, M. त्रियङ्गुलापि च for त्रयङ्गुलात्मिका,)
यवैश्च पञ्चभिर्युक्ता पार्ष्णो च चतुरङ्गुला।
हिक्कान्तयोरधो बाहुरङ्गुलिस्सप्तर्विशतिः ।। 4.23 ।।
(c: M. हिक्कान्ततः for हिक्कान्तयोः)
ततश्च मणिबन्धान्तं षड्विंशत्यङ्गुलायतम्।
यवद्वयेन च युतं मणिबन्धात्तलं पुनः ।। 4.24 ।।
मध्यमाङ्गुलिपर्यन्तम् अङ्गुलं सप्त कथ्यते।
पञ्चाङ्गुलमथाङ्गुष्ठं तर्जनी तद्वदायता ।। 4.25 ।।
षड्यवैश्चाधिकायामा मध्यमा तु षडङ्गुला।
आयता षड्यवैश्चापि तर्जन्यानामिका समा ।। 4.26 ।।
कनिष्ठाङ्गुष्ठतुलिता मांसलग्नं नखं स्मृतम्।
एकाङ्गुला नखायामा शिष्टा षड्यवसम्मिता ।। 4.27 ।।
(d: A. वर्जिता for सम्मिता,)
बाहुवच्चोपबाहुः स्याच्चतुरङ्गुलमायतम्।
चतुर्यवं चोर्ध्वकण्ठं नालं पञ्चाङ्गुलायतम् ।। 4.28 ।।
लिङ्गं पञ्चाङ्गुलायामं मुष्कं तु चतुरङ्गुलम्।
सार्धाष्टाङ्गुलविस्तारं ललाटं तदनन्तरम् ।। 4.29 ।।
द्वादशाङ्गुलविस्तारं बालचन्द्रसमाकृतिः।
ततस्तु कर्णयोर्मध्यं सार्धं सत्रिदशाङ्गुलम् ।। 4.30 ।।
दशाङ्गुलमधस्तस्य विस्तारं चिबुकस्य तु।
सपादं द्व्यङ्गुलं पूर्णं चापतुल्याकृतिर्भवेत् ।। 4.31 ।।
मूलमध्याग्रविस्तारो ग्रीवायाः क्रमशो भवेत्।
नवाङ्गुलं तथैकोनं सार्धसप्ताङ्गुलं तथा ।। 4.32 ।।
हिक्कान्ततोरधो बाहुर्मूलयोरन्तरं भवेत्।
यवैश्चतुर्भिर्विस्तीर्णं स चत्वारिंशदङ्गुलम् ।। 4.33 ।।
कक्षयोर्मध्यविस्तारस्त्र्यङ्गलः सार्धविंशतिः।
अष्टादशाङ्गुलं मानं स्तनयोरपि चान्तरम् ।। 4.34 ।।
षोडशाङ्गुलविस्तारं तुन्दमध्यमुदाहृतम्।
अष्टादशाङ्गुला श्रोणिरधरोदरमिष्यते ।। 4.35 ।।
(b: A. भुज for तुन्द,)
कटिप्रदेशविस्तारस्त्र्यङ्गुलः सार्धविंशतिः।
ऊरुमूलस्य विस्तारस्सार्धं सत्रिदशांङ्गुलम् ।। 4.36 ।।
अग्रमेकाङ्गुलं सार्धं द्व्यङ्गुलं मध्यमिष्यते।
द्व्यङ्गुलो मूलविस्तारो लिङ्गस्य समुदाहृतम् ।। 4.37 ।।
विस्तीर्णं त्र्यङ्गुलं मूलं मध्यमर्धाधिकं पुनः।
विस्तीर्णमग्रमुष्कस्य द्वात्रिंशद्यवसम्मितम् ।। 4.38 ।।
विस्तीर्णमेकादशभिरङ्गुलैरूरुमध्यमम्।
अग्रं दशभिरेव स्यात् विस्तीर्णं कलशोद्भव ।। 4.39 ।।
नवाङ्गुलं जानुचक्रं सार्धमर्धेन्दुसन्निभम्।
मूलं नवाष्टौ मध्ये स्याज्जङ्घाग्रं सार्धसप्तकम् ।। 4.40 ।।
विस्तीर्णो नालिकाभागः सार्धैश्च चतुरङ्गुलैः।
अङ्घ्रिमूलस्य विस्तारस्त्र्यङ्गुलस्सचतुर्यवः ।। 4.41 ।।
(a: M. नलका for नालिका;)
सार्धपञ्चाङ्गुलं मध्यमग्रं सार्धषडङ्गुलम्।
सार्धमष्टाङ्गुलं मूलं बाहू सप्ताङ्गुलौ पुनः ।। 4.42 ।।
मध्येऽग्रे तुल्यविस्तारे प्रकोष्ठावयवं पुनः।
सार्धेन सप्तभिर्मूले विस्तीर्णं सार्धपञ्चभिः ।। 4.43 ।।
(a: A. मध्येश्रे for मध्येऽग्रे;)
मध्ये चतुर्भिरग्रे स्यान्मणिबन्धस्य तूच्यते।
पञ्चाङ्गुलार्धसहितस्तद्वत् करतलं स्मृतम् ।। 4.44 ।।
अङ्गुष्ठे मूलविस्तारो द्व्यङ्गुलो मध्यमाङ्गुलम्।
सषड्यवममुष्याग्रमङ्गुलेनैव सम्मतम् ।। 4.45 ।।
तर्जन्या मूलविस्तारो नवभिः सम्मितो यवैः।
मध्यमेकाङ्गुलं सप्त यवमग्रमुदाहृतम् ।। 4.46 ।।
मूलं दशयवं मध्यं मध्यमायाः यवा नव।
अग्रमेकाङ्गुलं प्रोक्तमितरा तर्जनी समा ।। 4.47 ।।
(b: T.M. मध्यमायाथवा नव;)
मूलमष्टौ कनिष्ठायाः यवाः सप्तैव मध्यमे।
षड्यवोऽग्रेऽङ्गुलाग्रेभ्यः पादोना नखविस्तृतिः ।। 4.48 ।।
मध्ये करतले रेखा मध्यमामूलमास्थिता।
कनिष्ठामूलमारभ्य रेखा मध्यमगा भवेत् ।। 4.49 ।।
मध्याङ्गुलितर्जन्योर्निमातव्या विचक्षणैः।
अङ्गुष्ठमूलमारभ्य तर्जन्यन्तश्च मध्यमा ।। 4.50 ।।
तयोश्च रेखयोर्मध्ये तर्जनी मूलगामिनी।
रेखा कल्प्या यथाशास्त्रं शास्त्राभिज्ञेन शिल्पिना ।। 4.51 ।।
ललाटस्य च विस्तारस्सपादस्त्र्यङ्गुलो भवेत्।
तस्याधस्ताद्भ्रुवौ कल्प्यौ चत्वारिंशद्यवायतौ ।। 4.52 ।।
(d: M. यवायतम् for यवायतौ;)
मध्ये यवेन विस्तीर्णे यूकाग्रे चापसन्निभे।
तयोर्मध्यं नव यवम् अष्टादशयवायतम् ।। 4.53 ।।
(a: b: c: d: om. M.)
चक्षुःकनीनिकायामो विस्तारश्च यवः स्मृतः।
अङ्गुलं श्वेतबिम्बस्य विस्तारं कृष्णमण्डलम् ।। 4.54 ।।
यवोनमङ्गुलं ज्योतिस्तन्मध्ये यवसम्मितम्।
यूकमानं तु तन्मध्ये दृष्टिः पक्ष्मावली पुनः ।। 4.55 ।।
अशीति पक्ष्मरोमाणि वक्त्राग्राण्यसितानि च।
द्व्यङ्गुलं चक्षुषोर्मध्यं मध्यं च श्रुत्यपाङ्गयोः ।। 4.56 ।।
(a: T. पक्ष for पक्ष्म;)
(b: A. वक्त्त्रा ग्राह्याण्यसितानि च;)
(c: A. द्व्यङ्गुले for द्व्यङ्गुलम्;)
चत्वारिंशद्यवं कर्णविस्तारो द्व्यङ्गुलो भवेत्।
ऊर्ध्वकर्णस्य चायामस्सहार्धचतुरङ्गुलः ।। 4.57 ।।
नालं पञ्चाङ्गुलमितं विस्तारः षड्यवं पुनः।
पश्चाच्चतुर्यवा पाली नालतुल्यं प्रकल्पयेत् ।। 4.58 ।।
(c: A. लाली for पाली;)
श्रवणस्य च पिप्पल्या मध्यगर्तं चतुर्यवम्।
त्रिवक्रकर्णपिप्ल्या गल्लपात्रमिव स्थितम् ।। 4.59 ।।
(a: A. om च; b: c: A. om; d: A. गलo for गल्लo;)
बन्धनं त्र्यङ्गुलं रन्ध्रं नेत्रसूत्रसमुन्नतम्।
नासिकामूलमध्याग्रविस्तारः कथ्यते क्रमात् ।। 4.60 ।।
अङ्गुलं चाङ्गुलं सार्धं द्व्यङ्गुलं सचतुर्यवम्।
अङ्गुलेनोन्नतं मूलं तेन सार्धेन मध्यमम् ।। 4.61 ।।
(c: T. अङ्गुष्ठेन for अङ्गुलेन;)
द्वाभ्यां यवाभ्या मूलेन द्व्यङ्गुलेनाग्रमुत्तमम्।
षड्यवं सुषिरं तस्य पुटमध्यं चतुर्यवम् ।। 4.62 ।।
(b: T.M. उन्नतम् for उत्तमम्;)
पुटपार्श्वस्य विस्तारो द्वियवः परिकीर्तितः।
उत्सेधोऽर्धाङ्गुलस्तस्य नासिका तिलपुष्पवत् ।। 4.63 ।।
(c: A. उत्सेधार्ध for उत्सेधोऽर्धo;)
उत्तरोष्ठायतं सार्धं चतुरङ्गुलमिष्यते।
विस्तारोऽर्धाङ्गुलस्तस्य पर सार्धाङ्गुलायतम् ।। 4.64 ।।
विस्तीर्णमङ्गुलं तस्य पाली चैकयवायता।
चिबुकोऽष्टादशयवः विस्तारायामसम्मितः ।। 4.65 ।।
(d: T.M. विस्तारो यवसम्मितः;)
गुल्फं पादाङ्गुलोत्सेधं दर्पणोदरसन्निभम्।
विस्तीर्णावयवौ तुल्यौ राजदन्तौ चतुर्यवौ ।। 4.66 ।।
द्वात्रिंशद्दशनाः कल्प्याः यथाशास्त्रं विचक्षणैः।
जिह्वा षडङ्गुलायामा विस्तीर्णा त्र्यङ्गुलैर्भवेत् ।। 4.67 ।।
रेखात्रयाङ्किता ग्रीवा हिक्कासूत्रात् स्तनस्थितिः।
एकादशाङ्गुलं वृत्तं द्व्यङ्गुलं स्तनमण्डलम् ।। 4.68 ।।
चतुर्यवं चूचुकं स्यात् स्तनमण्डलमध्यगम्।
चतुर्यवं नाभिगर्तं दक्षिणावर्तमिष्यते ।। 4.69 ।।
अध्यर्धमङ्गुलं वृत्तमक्षमर्धाङ्गुलोन्नतम्।
उष्णीषात्पृष्ठकेशान्तमेकाधिकदशाङ्गुलम् ।। 4.70 ।।
उष्णीषात्पार्श्वकेशान्तं द्वादशाङ्गुलमानकम्।
कर्णयोरन्तरं विद्यात् सार्धं सत्रिदशाङ्गुलम् ।। 4.71 ।।
मूलमध्याग्रभागेषु पृष्ठग्रीवा यथाक्रमम्।
विस्तीर्णा नवभिः सार्धैरङ्गुलैर्नवभिस्तथा ।। 4.72 ।।
अष्टभिश्च भवेत्तस्या अधस्तात् ककुदस्थितिः।
आयामोत्सेधविस्तारैः ककुदन्तं चतुर्यवम् ।। 4.73 ।।
षट्त्रिंशदङ्गुलं बाह्वोर्मध्यं विस्तार पृष्ठतः।
षड्विंशतिश्चाङ्गुलानां कक्षयोरन्तरं भवेत् ।। 4.74 ।।
पृष्ठमध्यस्य विस्तारो ब्रह्मन् सप्तदशाङ्गुलः।
विस्तीर्णौ पञ्चविंशत्या श्रोणीपार्श्वौ तथाङ्गुलैः ।। 4.75 ।।
कटिप्रदेशविस्तारष्षङ्विशत्यङ्गुलो भवेत्।
षट्त्रिंशदङ्गुलं मध्ये ककुदस्य कटेस्तथा ।। 4.76 ।।
(d: A. तदा for तथा,)
द्व्यङ्गुलोन्नतिरेतस्य स्फीतौ तन्मध्यमाङ्गुलम्।
अष्टाङ्गुलं स्तने मूलं मध्यं सप्ताङ्गुलं भवेत् ।। 4.77 ।।
(c: T. मूले for मूलम्;)
अग्र्यं त्र्यङ्गुलविस्तारम् ऊर्वोर्मूलादिषु त्रिषु।
भवेत्क्रमेण विस्तारः सार्धः सत्रिदशाङ्गुलः ।। 4.78 ।।
द्वादशाङ्गुलयुक्तः स्यात् तथैव द्वादशाङ्गुलः।
जान्वष्टाङ्गुलविस्तारं सार्धमष्टाङ्गुलं भवेत्।। 4.79 ।।
(a: b: T.M. om,;)
जङ्घामध्यस्य विस्तारो नलका चतुरङ्गुला।
चतुर्यवाधिका चैव गुल्फश्च चतुरङ्गुलः ।। 4.80 ।।
विस्तारमानं त्रिगुणं सर्वेषां नहनं मतम्।
अभीतिदो वा वरदो मुख्यो वामेतरः करः ।। 4.81 ।।
स्तनसूत्रसमं कार्यं अङ्गुलाग्रं करस्य तु।
तयोर्भवेदन्तरालं द्वादशाङ्गुलमानकम् ।। 4.82 ।।
[प्रतिमायाः आभूषणानाम् विवरणम्]
अङ्गुष्ठतर्जनीमध्ये सनालं कमलं भवेत्।
वरदे कमलाकारं लिखेत् करतलोदरे ।। 4.83 ।।
अधोमुखे वामहस्ते मुख्ये कुर्याद्गदां शुभाम्।
जघन्ययोस्तु करयोः शङ्खं चक्रं निवेशयेत् ।। 4.84 ।।
बाहुष्वष्टसु देवस्य तानि तान्यायुधान्यपि।
निवेशयेद्यथाकामं शिल्पशास्त्रविचक्षणः ।। 4.85 ।।
(d: A.M. शिल्पी for शिल्प;)
किरीटं कुण्डले हारान् यज्ञसूत्राङ्गुलियके।
कौस्तुभं वनमालां च श्रीवत्सं दक्षिणोरसि ।। 4.86 ।।
(b: T. अङ्ग for यज्ञ;)
अङ्गदे कटके रम्ये काञ्चीदाम च नूपुरे।
दुकूलमन्तरीयं च सोत्तरीयं निवेशयेत् ।। 4.87 ।।
(b: T. दामन forदाम च;)
देशकालोपलाल्यानि भूषणानि निवेशयेत्।
[भगवतः प्रतिमायाः आसीनादिस्वरूपविवेकः]
आसीनं वा शयानं वा तिष्ठन्तं वा यथारुचि ।। 4.88 ।।
आरुढं पक्षिराजे वा कल्पयेद्विष्णुविग्रहम्।
[प्रतिमायाः स्थापनस्थानविवेकः]
एवं गर्भगृहे देवं ब्रह्मस्थाने निवेशयेत् ।। 4.89 ।।
यद्वा दिव्ये मानुषे वा द्वारसूत्रे निवेशयेत्।
एवं संस्थापयेद्देवं प्रतिष्ठासमये सुधीः ।। 4.90 ।।
[देवीप्रतिमास्थापनस्थाननिर्देशः]
अष्टौ देवीः श्रियाद्याश्च पार्श्वयोर्विनिवेशयेत्।
श्रीर्दक्षिणे धरा वामे देव्यौ देवस्य कल्पयेत् ।। 4.91 ।।
रतिस्सरस्वती तुष्टिर्देव्यो देवस्य दक्षिणे।
कीर्तिः प्रीतिश्च शान्तिश्च वामे देवस्य संस्थिताः ।। 4.92 ।।
(d: M. वामदेवस्य for वामे देवस्य)
[देव्याः संख्याविचारः]
अष्टभिर्वा चतसृभिर्द्वाभ्यां यद्वैकयापि वा।
विना वा देवदेवेशं सश्रीवत्सं निवेशयेत् ।। 4.93 ।।
[देवीनां मूर्तिकल्पने विशेषः]
देवीनान्तु श्रियादीनां विशेषश्चैष कल्पने।
रेखात्रयाङ्किता ग्रीवा हिक्कासूत्रात्स्तनस्थितिः ।। 4.94 ।।
एकादशाङ्गुलं वृत्तं द्व्यङ्गुलं स्तनमण्डलम्।
चतुर्यवं चूचुकं स्यात् स्तनमण्डलमध्यगम् ।। 4.95 ।।
अष्टादशाङ्गुलमुरस्स्तनयोरपि मण्डलम्।
अङ्गुलैः पञ्चदशभिः परिच्छिन्नं यथातथम् ।। 4.96 ।।
(d: T.M. यथा तथा for यथातथम्;)
नवाङ्गुलश्च विस्तारः उत्सेधश्चापि तादृशः।
द्वादशाङ्गुलविस्तारः स्तनयोर्मध्य इष्यते ।। 4.97 ।।
कृष्णमण्डलविस्तारो द्व्यङ्गुलं परिकीर्तितम्।
श्रोणी षडङ्गुला यामा योनिस्सार्धाङ्गुलत्रयम् ।। 4.98 ।।
[देवीप्रतिमायाः आभूषणादिनिर्देशः]
अबलानुगुणैरन्यैरम्बरैरपि भूषणैः।
भूषयेन्मकुटं यद्वा धम्मिलं वा प्रकल्पयेत् ।। 4.99 ।।
अस्वतन्त्राः यदा देव्यः द्विभूजाः पार्श्वभूमिषु।
चतुर्भुजास्ताः स्वातन्त्र्ये द्विभुजा वा यथामति ।। 4.100 ।।
दक्षिणेतरभागस्था दक्षिणे पुष्पधारिणी।
वामेतरस्थिता देवी वामे कमलधारिणी ।। 4.101 ।।
(c: d: om. M.;)
अन्येन चोरुविश्रान्ताः कल्पयेच्छिल्पतन्त्रवित्।
[उत्सवादिप्रतिमोत्सेधादिविवरणम्]
मूलबिम्बतृतीयांशसममुत्सवकौतुकम् ।। 4.102 ।।
स्नपनप्रतिमा चापि तदुत्सेधाः प्रकीर्तिताः।
बलिबिम्बप्रतिकृतिः शयनोत्थानकौतुकम् ।। 4.103 ।।
(c: A. बलितीर्थ प्रतिकृती;)
कर्मबिम्बं च निर्मेयं मूलतालप्रमाणतः।
[अङ्गबिम्बकल्पनविचारः]
ब्राह्मे भागे ध्रुवे न्यस्ते नैवाङ्गपरिकल्पना ।। 4.104 ।।
लौकिकेनैव बिम्बेन कुर्यान्नैमित्तिकं बुधः।
ध्रुवबेरार्धमानेन कौतुकं लोहनिर्मितम् ।। 4.105 ।।
लौकिकं तेन कुर्वीत सर्वां देवक्रियां सुधीः।
चक्रेण बलिदानं स्यात् तथा तीर्थावगाहनम् ।। 4.106 ।।
कूर्चेन शयनं कार्यं ब्राह्मे मूलार्चनाविधौ।
दैव वा मानुष्ये स्थाप्ये ब्राह्मे कर्माणि विन्यसेत् ।। 4.107 ।।
(c: T. मानुषे for मानुष्ये;)
नित्यं नैमित्तिकं काम्यं सर्वं तेनैव पूर्यते।
स्थानयानासनविधौ ध्रुवबिम्बं यथाक्रमम् ।। 4.108 ।।
(b: A. तैरेव for तेनैव;)
(C; A. स्नान for स्थान;)
कर्मार्चादीनि तद्वत् स्याद्ध्रुवे तु शयिते पुनः।
तिष्ठेद्वासीत वा कामं कर्माद्यर्चा यथामति ।। 4.109 ।।
(c: A. तिष्ठेष्वासीत वा for तिष्ठेद्वासीत वा;)
नित्योत्सवप्रतिकृतिः सर्वत्रैव स्थिता भवेत्।
कर्मादिबिम्बषट्कं च श्रीभूमिसहितं भवेत् ।। 4.110 ।।
यद्वा श्रीभूमिसहितमेकं वा मखकौतुकम्।
[पीठकल्पनप्रकारः]
अर्चायामं त्रिधा कृत्वा पीठमेकेन कल्पयेत् ।। 4.111 ।।
उपानहादिपञ्चाङ्गयुक्तं वृत्तं सुखावहम्।
अथवा चतुरश्रं वा विस्तारतुलितायति ।। 4.112 ।।
पीठोत्सेधं त्रिधा कृत्वा पद्ममेकेन कल्पयेत्।
दलैर्द्वादशभिर्युक्तमष्टाभिर्वा यथारुचि ।। 4.113 ।।
पादमानं दलायामं केवलं वा सरोरुहम्।
पीठं वा केवलं वापि कल्पयेत्कलशोद्भव ।। 4.114 ।।
आसीनेऽश्रायतं यद्वा कुर्याद्वृत्तायतं तु वा।
प्रतिमार्धेन वा पीठं तृतीयांशेन वा तथा ।। 4.115 ।।
पद्मं बहुदलैर्युक्तं कर्णिकाकेसरान्वितम्।
लम्बमानपदाधारं कमलं तत्र कल्पयेत् ।। 4.116 ।।
सङ्कोचितप्रसव्याङ्घ्रेरितरं लम्बयेदधः।
मूलबेरत्रिपादेन पादेनार्धेन वा भवेत् ।। 4.117 ।।
(a: A.M. संकुञ्चित for संकोचित;)
उच्छ्रायः परिवाराणाम् एवं वैकुण्ठभाषितम्।
अंसतुल्या हरेर्देवी ब्रह्मद्या परिवारवत् ।। 4.118 ।।
(b: A. इत्थम् for एवं;)
(c: T. हंस for अंसo;)
बलिपीठानि सर्वाणि पिण्डिकामानमानतः ।
[विमाने कीलकल्पनाद्यवसरः]
एवं प्रकल्प्य बिम्बानि विमाने कीलकल्पनम् ।। 4.119 ।।
ततस्तु कलशन्यासः प्रतिष्ठा तदनन्तरम्।
।। इति भार्गवतन्त्रे चतुर्थोऽध्यायः ।।