← अध्यायः २ भार्गवतन्त्रम्
अध्यायः ३
[[लेखकः :|]]
अध्यायः ४ →
भार्गवतन्त्रस्य अध्यायाः

।। तृतीयोऽध्यायः ।।
[देवालयकल्पनप्रयोजनस्थानादिनिरूपणाध्यायः]
[भगवदालयकल्पनविषयकजिज्ञासा]

अगस्त्यः
भगवन् भार्गव श्रीमन् सर्वकल्याणविग्रह।
हरिमन्दिरनिर्माणं कथं कुर्याज्जगत्‌प्रभो ।। 3.1 ।।
 (प्रारंभं M. कोशे-`तृतीयोध्याय प्रारंभः। श्रीमते हयग्रीवाय परमात्मने नमः। मन्दिरनिर्माणम्।' इति पाठः।)

[भगवदालयनिर्माणस्य प्रयोजनद्वयम्]

श्रीरामः
कृत्वा प्रभूतं सलिलमारामान् विनिवेश्य च।
देवतायतनं कुर्यात् यशोधर्माभिवृद्धये ।। 3.2 ।।
 (b: T.M. आरामानि निवेश्य च;)
इष्टापूर्तेन लभ्यन्ते ये लोकास्तान् बिभूषता।
देवानामालयः कार्यो द्वयमप्यत्र दृश्यते ।। 3.3 ।।

[भगवदालयकल्पनयोग्यस्थाननिर्देशः]

सलिलोद्यानयुक्तेषु कृतेष्वकृतकेषु च।
स्थानेष्वेतेषु सान्निध्यमुपगच्छन्ति देवताः ।। 3.4 ।।
सरस्सु नलिनीच्छत्रनिरस्तरविरश्मिषु।
हंसांसाक्षिप्तकल्हारवीचीविमलवारिषु ।। 3.5 ।।
 (a: M. नफेनी for नलिनी;)
हंसकारण्डवक्त्रौञ्चचक्रवाकविराविषु।
पर्यन्तनिचुलच्छायाविश्रान्तजलचारिषु ।। 3.6 ।।
 (d: A.M. वारिषु for oचारिषु;)
क्रौञ्चक्रौञ्चीकलापाश्च कलहंसकलस्वनाः।
फुल्लनीरद्रुमोत्तंसास्सङ्गमश्रेणिमङ्गलाः ।। 3.7 ।।
पुलिनाभ्युन्नतोरस्था हंसहासाश्च निम्नगाः।
वनोपान्तनदीशैलनिर्झरोपान्तभूमिषु ।। 3.8 ।।
रमन्ते देवताः नित्यं पुरेषूद्यानवत्सु च।
पर्वतेषु प्रशस्तेषु तीरेषु च पयोनिधेः ।। 3.9 ।।
 (b: पुरुषो for पुरेषू)
आश्रमेषु मुनीनां च ब्राह्मणाः यत्र नित्यशः।
तत्र हर्यादयो देवाः वस्तुमिच्छन्ति सर्वदा ।। 3.10 ।।
 (c: A. तत्प्र for तत्र ;)
यत्र भूमिः प्रशस्ता स्यात् भूसुराणां मनोहरा।
सा भवेद्देवतानां च प्रिया कलशसंभव ।। 3.11 ।।
 (श्लोकानन्तरं M. कोशे `प्रमाणम्' इत्यधिकः।)

[देवालयकल्पनक्रमे द्वारादितत्तद्भागानां प्रमाणादिः]

चतुष्षष्टिपदं कार्यं देवतायतनं सदा।
द्वारं च मध्यमं तत्र समदिक्स्थं प्रशस्यते ।। 3.12 ।।
यो विस्तारो भवेद्यस्य द्विगुणा तत्समुन्नतिः।
उच्छ्रायाद्यस्तृतीयोंऽशस्तेन तुल्या कटिर्भवेत् ।। 3.13 ।।
 (b: A. द्विगुणं for द्विगुणा;)
  (c: A. उच्छ्रायाद्यस्तु तुर्योऽशः,)
विस्तारार्धं भवेद्गर्भो भित्तयोऽन्यास्समन्ततः।
गर्भपादेन विस्तीर्णं द्वारं द्विगुणमुच्छ्रितम् ।। 3.14 ।।
उच्छ्रायात्पादविस्तीर्णा शाखा तद्वदुदुम्बरः।
विस्तारपादप्रतिमं बाहुल्यं शाखयोः स्मृतम् ।। 3.15 ।।
त्रिपञ्चसप्तनवभिः शाखाभिस्तत्प्रशस्यते।
अधश्शाखाचतुर्भागे प्रतिहारौ निवेशयेत्।। 3.16 ।।
 (d: T. प्रवेशयेत् for निवेशयेत्;)
शेषं मङ्गल्यविहगैः श्रीवृक्षस्वस्तिकैर्घटैः।
मिथुनैः पत्रवल्लीभिः प्रतिमाभिश्च शोभयेत् ।। 3.17 ।।
 (b: A. वटैः for घटैः;)
  (c: T. पञ्च for पत्र;)
द्वारमानाष्टभागोना प्रतिमा स्यात् सपिण्डिका।
द्वौ भागौ प्रतिमा तत्र तृतीयांशश्च पण्डिका ।। 3.18 ।।
 (श्लोकानन्तरं M. कोशे `विमानानि' इत्यधिकः।)
  (a: A. ऊनं for ऊना;)

[विंशतिसंख्याकानाम् आलयानां परिगणनम्]

मेरुमन्दरकैलासविमानच्छन्दनन्दनाः।
समुद्रपद्मगरुडनदीवर्धनकुञ्जराः ।। 3.19 ।।
गुहराजो वृषो सिंहस्सर्वतोभद्रको घटः।
हंसो वृत्तश्चतुष्कोणः षोडशाष्टाश्रकस्तथा ।। 3.20 ।।
इत्येते विंशतिः प्रोक्ताः प्रासादाः शार्ङ्गधन्वनः।

[देवालयस्य सामान्यं लक्षणम्]

यथोक्तेन क्रमेणैव तेषां लक्षणमुच्यते ।। 3.21 ।।
पूर्वोक्तायामविस्तारावर्धीकृत्य यथावसु।
चतुर्भागेन वा कुर्यात् सर्वं वित्तानुसारतः ।। 3.22 ।।
 (d: T. वृत्त for वित्त; श्लोकादनन्तरं M. कोशे `अर्धमण्डपादि' इत्यधिकः।)

[आलयकल्पनक्रमे अर्धमण्डपाद्यायामादिः]

गर्भगेहसमायामम् अर्धमण्टपमुच्यते।
सपादं सार्धयुक्तं वा त्रिपादाधिकसंयुता ।। 3.23 ।।
 (c:A.M. वार्धयुक्तं for सार्धयुक्तं;)
अर्धमण्डपमानेन सार्धं नृत्तार्धमण्डपम्।
वैपुल्यसदृशं सार्धं द्विगुणं वा यथेच्छया ।। 3.24 ।।
 (b: M. नृत्तार्थ for नृत्तार्ध;)
तयोर्मण्डपयोरेवमायामो मुनिपुङ्गव।
अन्तर्मण्डलनामानं प्राकारं प्रथमं विदुः ।। 3.25 ।।
 (c: T. अन्तमण्डल मानानाम्; A. तन्मानम् for नामानं;)
विमानं वेष्टयेदेतत् यद्वा स्यादर्धमण्डपम्।
अन्तर्हाराह्वयं वप्रं कारयेत्तदनन्तरम् ।। 3.26 ।।
 (c: A. अन्तर्धार for अन्तर्हार; T. भार for हार;)
मर्यादाख्यं तृतीयं तत्प्राकारं विधिभाषितम्।

[मूलबिम्बादिस्थापनस्थाननिर्देशः]

मूलबिम्बं प्रतिष्ठाप्यं गर्भगेहे विधेः पदे ।। 3.27 ।।
यद्वा दैवे मानुषे वा ध्रुवस्थापनमाचरेत्।

[द्वारपालस्थाननिर्देशः]

चण्डप्रचण्डौ संस्थाप्य गर्भद्वारे यथाक्रमम् ।। 3.28 ।।
अर्धमण्डपकद्वारे शङ्खचक्रोत्तमाङ्गिनौ।
अन्तर्मण्डलसंज्ञस्य स्थलस्य द्वारपार्श्वयोः ।। 3.29 ।।
जयश्च विजयश्चोभौ कर्तव्यौ मुनिपुङ्गव।
अन्तर्हाराह्वये धाम्नि द्वारि पद्मगदाधरौ ।। 3.30 ।।
दुर्जयप्रबलौ स्थाप्यौ मर्यादाद्वारपार्श्वयोः।

[परिवारदेवस्थाननिर्देशः]

एकावरणके धाम्नि परिवारान्निमान् शृणु ।। 3.31 ।।
नृत्तार्धमण्डपस्याग्रे कल्पनीयो विहङ्गराट्।
गोपुरस्योत्तरे साले मन्दिराभिमुखे रविः ।। 3.32 ।।
 (d: M. मुखो for मुखे;)
तस्यैव दक्षिणे साले चन्द्रमाः परिकल्प्यते।
वह्नौ कामो यमे ब्रह्मा नैर्ऋते स्याद्गजाननः ।। 3.33 ।।
वारुणे षण्मुखो दुर्गा वायौ सौम्ये धनाधिपः।
ईशाने शंकरं तत्र क्षेत्रपालं प्रकल्पयेत्।। 3.34 ।।
 (c: A. शंकरः for शंकरम्;)
सोमेशयोरन्तराले विष्वक्सेनं प्रकल्पयेत्।
अङ्गणे दक्षिणे सप्तमातरः श्रीस्तु नैर्ऋते ।। 3.35 ।।
इन्द्रादयो लोकपालाः पूज्याः स्वाशासु चाङ्गणे।
गोपुरस्य भवेदन्तर्बहिर्वा बलिपीठिका ।। 3.36 ।।
अन्तर्हराह्वयोपेते विशेषो धाम्नि कथ्यते।
सूर्याचन्द्रमसोः स्थाने विशेषौ पुरुषाच्युतौ ।। 3.37 ।।
 (a: A.T. अन्तर्भार for अन्तर्हार;)
  (b: A.M.ऽथास्ति for धाम्नि;)
सूर्याचन्द्रमसौ कल्प्यौ द्वीतीयावरणे तथा।
हयग्रीवः स्मरस्थाने स्थाप्यः सङ्कर्षणो विधेः ।। 3.38 ।।
 (d: A. स्थाने for स्थाप्यः;)
वराहो विघ्नराट् स्थाने प्रद्युम्नः षण्मुखस्य च।
कात्यायिन्याः अनन्तः स्यात् अनिरुद्धो नरासने ।। 3.39 ।।
 (b: A. शरजन्मनः for षण्मुखस्य च;)
  (c: T. अनन्तश्च for अनन्तः स्यात्;)
नृकेसरी शंकरस्य चाङ्गणे पीठिकासु चेत्।
इन्द्रादयः समभ्यर्च्याः तेषां स्थाने यथाक्रमम् ।। 3.40 ।।
 (a: A. शाङ्करे for शंकरस्य;)
  (b: A. स्यात् for चाo;)
चक्री च मुसली शंखी खड्गी चैव गदाधरः।
शर्ङ्गी पद्मी तथा वज्री पूज्या दिव्यास्त्रधारिणः ।। 3.41 ।।
 (a: b: c: d:,)
प्रथमावरणे येषां स्थाना ये समुदीरिताः।

[आलये द्वितीयावरणस्थपरिवारदेवानां स्थानानि]

ज्ञेयाः द्वितीये ते सर्वे परिवाराः यथाक्रमम् ।। 3.42 ।।
 (a: b: c: d: T. om.;)
मर्यादावरणे धाम्नि गोपुरोभयपार्श्वयोः।
शङ्खं चक्रं तथा स्थाप्य देवदेवायुधोत्तमौ ।। 3.43 ।।
उपेन्द्रं गोपुरशिरोभागे स्थाप्य ततः परम्।
आग्नेयादिक्रमेणैव प्राकृतादीन् प्रकल्पयेत्।। 3.44 ।।
उपेन्द्रः प्राकृतः पुण्यः पुष्करो विश्वभावनः।
असुरघ्नः कृतान्तश्च भूतनाथोऽष्टमः स्मृतः ।। 3.45 ।।
अङ्गणे पीठिकास्थाने कुमुदादीन् प्रकल्पयेत्।
कुमुदः कुमुदाक्षश्च पुण्डरीकश्च वामनः ।। 3.46 ।।
शङ्कुकर्णः सर्पनेत्रः सुमुखस्सुप्रतिष्ठितः।
विष्वक्सेनं तदाग्नेय्यां क्षेत्रपालं खगेश्वरम् ।। 3.47 ।।
 (a: M. सर्व for सर्पo;)
प्रधानवेद्यभिमुखं कल्पयेत्कुम्भसंभव।
महापीठं च तत्रैव ध्वजयष्टिं च शार्ङ्गिणः ।। 3.48 ।।
 (a: M: oकरवम् for oमुखम्;)

[आलये महानसादिस्थाननिर्देशः]

प्रथमावरणे वापि द्वितीयावरणेऽपि वा।
तृतीयावरणे वापि पाकस्थानं प्रकल्पयेत् ।। 3.49 ।।
 (श्लोकतः पूर्व M. कोशे-`महानसम्' इत्यधिकः।)
वारुणे वाऽथवा सौम्ये कूपं शार्वेऽपि वा भवेत्।
यत्र वाऽपां रसास्सन्ति तत्र कूपं प्रकल्पयेत् ।। 3.50 ।।

[त्रिविधं वैष्णवविमानम्]

नागरं द्राविडं चेति वेसरं च त्रिधा मतम्।
विमानं देवदेवस्य विमलं वैष्णवं स्मृतम् ।। 3.51 ।।

।। इति भार्गवतन्त्रे तृतीयोऽध्यायः ।।(1) (1. अध्यायः इत्यतः अनन्तरम् M. कोशे `हरिः ओम्' इत्यधिकः।)