← अध्यायः ८ भार्गवतन्त्रम्
अध्यायः ९
[[लेखकः :|]]
अध्यायः १० →
भार्गवतन्त्रस्य अध्यायाः

।। नवमोऽध्यायः ।।
[प्रतिष्ठाङ्गकुंभार्चनादिविधिनिरूपणाध्यायः]
[कुंभतोरणाद्याराध्यदेवताविवेकः]

श्रीरामः
गम्भीरवेदनिर्घोषवादित्रध्वनिमण्डिते।
दिगन्तरे द्विजगणे प्रसन्नवदनान्विते ।। 9.1 ।।
मङ्गलालापचतुरे संहृष्टवनिताजने।
आकाशे निर्मले ज्योत्स्नामङ्गले चन्द्रमण्डले ।। 9.2 ।।
सुखस्पर्शे गन्धवहे निर्मले मानसे गुरोः।
सुमुहूर्ते शुभे लग्ने कुम्भावाहनमाचरेत् ।। 9.3 ।।
पुण्याहं वाचयेत् सार्धं ब्राह्मणैः वेदपारगैः।
प्रोक्षयेदखिलान् कुंभान् यागद्रव्याणि तोरणान् ।। 9.4 ।।
भूतशुद्धिं पुरा कृत्वा मानसं यागमाचरेत्।
पूर्वस्मिन् तोरणे पूज्यो महेन्द्रः पाकशासनः ।। 9.5 ।।
ध्वजयोरन्तरयोस्तत्र पार्श्वयोर्वेष्टयेद्गुरुः।
कुमुदं कुमुदाक्षं च पौर्वापर्येण पूजयेत् ।। 9.6 ।।
  (a: T. रक्तयोः for रन्तरयोः;)
कुंभयोरुभयोस्तत्र पूजयेत्पूर्णपुष्करौ।
धर्मराजं तथा याम्ये तोरणे ध्वजयोस्तथा ।। 9.7 ।।
पुण्डरीको वामनश्च कुंभयोरुभयोरपि।
आनन्दो नन्दनश्चोभौ पूजनीयौ यथाक्रमम् ।। 9.8 ।।
वारुणे तोरणे चापि वरुणं देवमर्चयेत्।
पार्श्वयोर्ध्वजयोर्देवौ शङ्कुश्रुतिसुनेत्रकौ ।। 9.9 ।।
कुंभयोर्वीरसेनं च सुषेणं च समर्चयेत्।
सौम्ये तु तोरणे सोमं बद्धयोर्ध्वजयोस्तयोः ।। 9.10 ।।
सुमुखं सुप्रतिष्ठं च सम्भवप्रभवौ तथा।
कुम्भयोरर्चयैद्देवौ दक्षिणादित्रयो ध्वजाः ।। 9.11 ।।
  (d: A. त्रये for त्रयो;)
पीतनीलास्तथा श्वेताः कल्पिताः कलशोद्भव।

[तत्तद्वेदपारायणस्थाननिर्देशः]

ऋचं प्राच्यां यजुर्याम्ये सामनाम च वारुणे ।। 9.12 ।।
  (a: A. पीताः for पीतo;)
अथर्वणं तथोदीच्यां पाठयेद्ब्राह्मणोत्तमः।

[कुंभे भगवदर्चनं होमप्रकारश्च]

आवाहनं तु सर्वत्र योगपीठपुरस्सरम् ।। 9.13 ।।
शायितानां तु बिम्बानां परितः स्थापितेष्वपि।
कुम्भेष्वावाहनं कुर्यात् प्रागाद्याशापुरस्सरम् ।। 9.14 ।।
विष्ण्वादिमूर्तिरष्टौ च तदस्येत्यादिभिः क्रमात्।
अष्टभि`र्विष्णुसूक्त'स्य तेषां पूजा यथाक्रमम् ।। 9.15 ।।
ततस्तु परमात्मानं वासुदेवं सनातनम्।
महाकुम्भे समावाह्य `द्वादशाक्षर'विद्यया ।। 9.16 ।।
सुदर्शनं च करके सहस्रादित्यसन्निभम्।
आवाह्य पूजयेद्धीमान् अर्ध्याद्यैः स्व स्व विद्यया ।। 9.17 ।।
  (a: T. om. च;)
अर्ध्यं पाद्यं तथाचामं स्नानवस्त्रोपवीतके।
गन्धं पुष्पं धूपदीपौ अर्चनं चाक्षतं स्तुतिः ।। 9.18 ।।
नैवेद्यं परमान्नादि ताम्बूलं गन्धवस्तुभिः।
नीराजनं स्तुतिश्चान्ते नमस्कारं प्रदक्षिणम् ।। 9.19 ।।
एवं समाप्य तां पूजां ततः कुण्डेऽग्निमर्चयेत्।
समिद्भिश्चरुभिश्चाज्यैर्वीजैश्चाहुतिमाचरेत् ।। 9.20 ।।

[भगवतः वासुदेवस्य ध्यानप्रकारः]

अगस्त्यः

राम राम जगन्नाथ वासुदेव सनातन।
कथं ध्यायेद्वासुदेवं ब्रूहि मे कृपया विभो ।। 9.21 ।।

श्रीरामः
वासुदेवमजं शान्तं कोट्यर्केन्द्वग्निसन्निभवम्।
अनेकहस्तचरणमनेकाक्षिशिरोमुखम् ।। 9.22 ।।
  (b: T. कोट्यकेन्द्वाग्नि for कोट्यर्केन्द्वग्नि;)
अतीन्द्रियममर्यादम् अत्यद्भुतवपुर्धरम्।
भासयन्तं दिशः सर्वाः देहनिर्यत्प्रभाचयैः ।। 9.23 ।।
अनेकाभरणैर्युक्तमनेकायुधमण्डितम्।
नानावर्णमयं देवं स्वयं सुरभिविग्रहम् ।। 9.24 ।।
ऋषिभिश्च मरीच्याद्यैर्ब्रह्माद्यैरपि दैवतेः।
अचिन्त्यमहिमानं तमिन्दिराद्यैरभिष्टुतम् ।। 9.25 ।।
  (b: T. ब्राह्मणैः for ब्रह्माद्यैः,)
को वा ध्यातुं क्षमो लोके को वा स्तोतुं भुवि क्षमः।
तथापि परमेशानं पुरुषं भक्तवत्सलम् ।। 9.26 ।।
चतुर्भुजमुदाराङ्गं शङ्खचक्रगदाधरम्।
किरीटहारकटककाञ्चीकुण्डलमण्डितम् ।। 9.27 ।।
श्रीवत्सकौस्तुभस्वच्छयज्ञसूत्राङ्गुलीयकम्।
दिव्यपीताम्बरधरं कलक्‌वणितनूपुरम् ।। 9.28 ।।
अष्टभिश्चापि देवीभिः प्राञ्चलीभिश्च सेवितम्।
पक्षीन्द्रविष्वक्सेनाभ्यां परिवारैश्च सेवितम् ।। 9.29 ।।
अतिप्रसन्नवदनं बालकं तिलकोज्वलम्।
अभयप्रदमासीनं शेषभोगासने शुभे ।। 9.30 ।।
दिव्यगन्धविलिप्ताङ्गं नानामाल्योपशोभितम्।
स्मितेन विजितज्योत्स्नं नीलनीरजलोचनम् ।। 9.31 ।।
  (d: A. नीरद for नीरज;)
कम्बुकण्ठं महासत्वं पीनोत्तुङ्गांसशोभितम्।
उत्तुंगपीनविपुलसमस्निग्धमहोरसम् ।। 9.32 ।।
पुष्टोदरं मग्ननाभिं पृथुश्रोणीभराञ्चितम्।
ऊरुद्वयकृतद्वन्द्वरं भासंरंभलक्षितम् ।। 9.33 ।।
  (b: T. अञ्जितम् for अञ्चितम्;)
चरणद्वन्द्वविजितविकसत्सरसीरुहम्।
अङ्गुष्ठनखनिर्यद्भिर्भानुभिर्जितभास्करम् ।। 9.34 ।।
आजानुदीर्घैः पृथुलैः हस्तैरायुधधारिणम्।
ध्यात्वैवं वासुदेवं तं कुर्यादावाहनक्रियाम् ।। 9.35 ।।

[तत्तद्देवानां होमक्रमनिर्देशः]

मथितं मणिजं यद्वा लौकिकं वा हुताशनम्।
`द्वादशाक्षर'मन्त्रेण प्रोक्षयित्वा ससर्पिषा ।। 9.36 ।।
  (d: A. प्रोक्षयित्वाथ सर्पिषाः;)
पर्यग्निकरणं कुर्यात् कुण्डानां दर्भमुष्टिभिः।
उद्दीप्य ज्वलनं सम्यक् `परिवाजती'त्यृचा ।। 9.37 ।।
संस्कुर्यात्पश्चिमे कुण्डे ज्वलन्तं जालवेदसम्।
प्रागादिषु च कुण्डेषु प्रत्यक् कुण्डात् समाहरेत् ।। 9.38 ।।
अग्निमध्ये तु कुण्डेषु योगपीठं प्रकल्पयेत्।
शुनासीरे वासुदेवं याम्ये सङ्कर्षणं तथा ।। 9.39 ।।
प्रद्युम्नं वारुणे कुण्डे अनिरुद्धमुदक्‌पदे।
एवमावाह्य देवेशं पूजयेत्सर्पिषा ततः ।। 9.40 ।।
  (a: A. प्राचेतसे तु वरुणम्;)

[होमक्रमे समिधादिविवेकः]

चतस्रः समिधः प्रोक्ता प्रागादिषु यथाक्रमम्।
पलाशखदिराश्वत्थविल्वोदुम्बरभूरुहाः ।। 9.41 ।।
  (d: T; oरुहाम् for रुहाः;)
अलाभे सर्वकुण्डेषु पालाश्येकैव शस्यते।
पायसं कृसरं चापि गुडान्नं च यथाक्रमम् ।। 9.42 ।।
  (b: T. पलाश्ये for पालास्ये;)
हरिद्रान्नं च पूर्वादिकुण्डेषु चरवः स्मृताः।
पायसान्नेन वा कुर्यात् शुद्धान्नेनाथवा भवेत् ।। 9.43 ।।
  (a: A. हरिद्रान्नेन for हरिद्रान्नं च;)
  (c: A. कार्या for कुर्यात्;)
तिलशालियवा वेणुर्होमे बीजान्यनुक्रमात्।
तिलैर्वा सर्वकुण्डेषु बीजालाभे समाचरेत् ।। 9.44 ।।
वासुदेवादिभिर्मन्त्रैर्होमाः प्रागादिवह्निषु।
समिद्भिराज्यैश्चरुभिः बीजैः कार्याश्च मूर्तिपैः ।। 9.45 ।।
  (b: A.T. होमः for होभाः; वग्निषु for oवह्निषु;)
अष्टोत्तरशतं होमः प्रत्येकं कलशोद्भव।
एवं जुह्वत्सु ऋत्विक्षु मूर्तिहोमं यथाक्रमम् ।। 9.46 ।।

[तत्त्वहोमविधिः]

तत्त्वहोमं स्वयं कुर्यात् ब्राह्मकुण्डे गुरूत्तमः।
पुरस्ताद्देवदेवस्य बिम्बं भूतमयं स्मरेत् ।। 9.47 ।।
  (a: M. यथा for स्वयम्;)
अर्ध्याद्यैरुपचर्याथ तत्त्वसंहारमाचरेत्।
संहरेत्पृथिवीमप्सु तां वह्नौ तं च मारुते ।। 9.48 ।।
  (a: T. उपचार्य for उपचर्य;)
तमाकाशे च मनसि तच्च तन्मात्रया सह।
तदीयैश्चापि तत्त्वैश्च तन्मनोऽहंकृतौ हरेत् ।। 9.49 ।।
अहंकृतिं ततो बुद्धौ प्रकृतौ तां समाहरेत्।
तां च जीवे ततोऽभ्यर्च्य पुनरुत्पादयेद्गुरुः ।। 9.50 ।।
प्राचीनकुण्डे जुहुयात् तत्त्वानि कपिलाघृतैः।
वर्मणा परिषिच्यादौ सृष्टिपन्थानमास्थितः ।। 9.51 ।।
तत्त्वव्याहृतिभिः कुर्यात् पृथगष्टोत्तरं शतम्।
अष्टाविंशति वाष्टौ वा प्रतिमन्त्राहुतिर्भवेत् ।। 9.52 ।।

[मकाराद्यक्षरतत्त्वानां प्रतिमाङ्गेषु न्यासक्रमः]

जीवमन्त्रो मकारः स्यात् भकारः प्रकृतिर्भवेत्।
बुद्धितत्त्वं बकारः स्यात् फकारः स्यादहंकृतिः ।। 9.53 ।।
  (d: A. हकारः for फकारः;)
मनस्तत्त्वं पकारः स्यात् प्रतिमाहृदयस्थिताः।
नकारश्शब्दतन्मात्रं श्रोत्रैकविषयं भवेत् ।। 9.54 ।।
धकारः स्पर्शतन्मात्रं त्वचि नित्यं प्रतिष्ठितम्।
दकारो रूपतन्मात्रं नेत्रयोर्विषयं भवेत् ।। 9.55 ।।
थकारो रसतन्मात्रं जिह्वायामेव वर्तते।
तकारो गन्धतन्मात्रं वर्तते नासिकाञ्चले ।। 9.56 ।।
णकारः श्रोत्रतत्त्वं स्यात् श्रोत्रयोर्नित्यमावसेत्।
ढकारस्तु त्वगात्मा स्यात् त्वचि सर्वत्र वर्तते ।। 9.57 ।।
  (a: A. तत्वात्मा for तत्त्वं स्यात्;)
डकारो नेत्र तत्त्वात्मा नित्यं नयनयोर्वसेत्।
जिह्वात्मा तु ठकारः स्यात् जिह्वारूपं जगत्रये ।। 9.58 ।।
घ्राणात्मा तु टकारः स्यात् नासिकाग्रे निवेशितः।
ञकारो वाङ्मयो वर्णो वाचि नित्यं प्रतिष्ठितः ।। 9.59 ।।
  (a: T. प्राण for घ्राण;)
झकारः करतत्त्वं स्यात् करयोर्विधिनिर्मितः।
जकारः पादतत्त्वार्णः नित्यं पादतले स्थितः ।। 9.60 ।।
छकारः पायुतत्त्वात्मा पायुमूलमुपाश्रितः।
चकारो मेहनात्मा स्यात् मेहने सन्निवेशितः ।। 9.61 ।।
ङकारः पृथिवीतत्त्वम् पादाज्जानुप्रवर्तकम्।
अप्तत्त्वं तु धकारस्स्यात् जानोर्गुह्यावधिस्थितः ।। 9.62 ।।
  (b: M.T. पादं for पादात्;)
तेजस्तत्त्वं गकारः स्यात गुह्यादानाभि वर्तते।
खकारो वायुतत्त्वात्मा नाभेर्नासान्तमास्थितः ।। 9.63 ।।
ककारोऽम्बरतत्त्वात्मा ततो ब्रह्मबिलावधि।
एवं तत्त्वाक्षकः प्रोक्तः प्रणवादि समुद्धरेत् ।। 9.64 ।।
  (b: M. om. ततो;)
प्रणवस्तत्त्वमन्त्रश्च नतिश्च स्थाननाम च।
चतुर्थ्यन्तं समुद्धृत्य वह्निजायां गुरूत्तमः ।। 9.65 ।।
हुत्वा सम्पातमाहृत्य तत्तदङ्गेषु सेचयेत्।

[प्रतिमायां शक्तिनिवेशप्रकारः]

एवं हुत्वा ततः प्राणवायुहोमं समाचरेत् ।। 9.66 ।।
प्राणं हुत्वा सुषुम्नायामिलायां तदनन्तरम्।
अपानं पिङ्गलायान्तु समानं गन्धसंज्ञिके ।। 9.67 ।।
उदानं हस्तिजिह्वायां व्यानवायुं निवेशयेत्।
पूषायामपि नागेन्द्रं यशस्विन्यां तु कच्छपम् ।। 9.68 ।।
अलम्बुसायां कृकरं देवदत्तं कुहूपदे।
धनञ्जयं तु कैशिन्यां हृत्वा हृत्वा स्वविद्यया ।। 9.69 ।।
सम्पातं सेचयेद्बिम्बे तत्र शक्तिं निवेशयेत्।
सङ्खं चक्रं गदापद्मं शार्ङ्गं श्रीवत्सकौस्तुभे ।। 9.70 ।।
  (c: M; गदां पद्माम् for गदापद्मम्;)
  (d: M. शाङ्गं for शार्ङ्गम्;)
वनमालां खगेशं च हुत्वा सम्पातसेचनम्।
`असुनीते'ति मन्त्रेण अष्टोत्तरशताहुतीः ।। 9.71 ।।
  (d: A. oहुतिम् for oहुतीः;)
हृत्वा प्राणप्रतिष्ठार्ण शिरस्केनाज्यसेचनम्।
सम्पातसेचने काले तत्तच्छक्तिं निवेशयेत् ।। 9.72 ।।

[चण्डादिपरिवाणाम् अधिवासनादिविधिः]

चण्डादीनां च पीठानां परिवारगणस्य च।
अन्येषामपि सर्वेषां धान्यपीठेऽधिवासनम् ।। 9.73 ।।
कृत्वा तत्तद्विद्ययैव हुत्वा चाष्टोत्तरं शतम्।
सर्पिषाऽहृत्य सम्पातं तत्तद्बिम्बेषु सेचयेत् ।। 9.74 ।।
  (b: M. वा for चा;)
एवं निरवशेषेण कृते होमे यथाविधि।
शान्तिहोमं ततः कुर्यात् सर्वदोषापनुत्तये ।। 9.75 ।।
ओं भूर्भुवः सुवः स्वाहेत्यष्टोत्तरसहस्रकम्।
अष्टोत्तरशतं यद्वा सर्पिषा पूर्ववर्हिषि ।। 9.76 ।।
हुत्बा सम्पातमादाय सर्वेष्वङ्गेषु सेचयेत्।

[एकबेरबहबेरप्रतिष्ठाविधौ विशेषः]

ब्राह्मे पदे स्थापनीये ध्रुवबेरे मुनीश्वर ।। 9.77 ।।
वेदिकादिघटाम्बोभिरब्लिङ्गैः प्रोक्षयेत्ततः।
आग्नेयादिघटाम्भोभि`र्विष्णुगायत्रियो'क्षणम् ।। 9.78 ।।
  (a: A. दिग्घट for oदिघट;)
  (c: A. दिग्घट for oदिघट;)
बहुबेरे तु सदनं प्रविश्यैवोक्षणं भवेत्।
ततश्चतुर्विधान्नं च हरये विनिवेदयेत् ।। 9.79 ।।
  (c: T. विधान्तम् for विधान्नम्;)
प्रणवेनोपचारांस्तान् सर्वानपि समाचरेत्।

[बलिसमर्पणविधिः]

बिम्बमुत्थाप्य तेजस्वी प्राङ्मुखं विनिवेश्य च ।। 9.80 ।।
  (a: T. उपचारान्तान् for उपचारांस्तान्;)
अभ्यर्च्य गन्धपुष्पाद्यैः बलिदानं समाचरेत्।
माषोदनेन भूतेभ्यः सर्वेभ्योऽपि यथाविधि ।। 9.81 ।।
गोमयालेपिते भूमितले सम्यगलङ्कृते।
आद्याश्च कर्मजाश्चैव भूताः प्रागादिषु स्थिताः ।। 9.82 ।।
पर्वतेष्वप्यरण्येषु वृक्षाग्रेषु वसन्ति ये।
आलयेषु च तीर्थेषु ऋषीणामाश्रमेषु च ।। 9.83 ।।
कूपेषु च तटाकेषु ये वसन्ति गृहादिषु।
उत्तमाः मध्यमाश्चापि राजसास्तामसास्तु वा ।। 9.84 ।।
बल्यर्थिनः समायान्तु तेभ्यः पूजां करोम्यहम्।
इदमर्ध्यमिदं पाद्यमिदमाचमनीयकम् ।। 9.85 ।।
  (a: T. अधीनाः for अर्थिनः;)
स्नानमेतत् सगन्धोदं वस्त्रमेत्तसुनिर्मलम्।
इदं गन्धमिदं पुष्पम् इदं धूपं सदीपकम् ।। 9.86 ।।
अनर्घमक्षतमिदं गृह्णन्तु बलिदेवताः।
माषौदनं तत् सघृतं दधिमिश्रं गुडान्वितम् ।। 9.87 ।।
  (c: A. माषोदकम् for माषौदनम्;)
भक्ष्यैश्च विविधैर्युक्तं पायसेन च मिश्रितम्।
ताम्बूलपूगसहितं मधुद्रवसमन्वितम् ।। 9.88 ।।
भोक्तुं त्रिपुरुषैर्योज्ञं मिश्रयेत्पयसा गवाम्।
विभज्य तत्त्त्रिधा धीमान बलिदानं समाचरेत् ।। 9.89 ।।
कुर्वन्ति विघ्नं ये भूताः धर्मकार्येषु ये भुवि।
ये हरन्ति च पुण्यानि तेभ्यस्तेभ्यः अयं बलिः ।। 9.90 ।।
विनियुज्य च कार्येषु फलार्थ विन्दते त ये।
राजसा मध्यमगुणाः तेभ्यस्तेभ्यः अयं बलिः ।। 9.91 ।।
  (b: A. ते for ये;)
यागादिषु प्रवृत्तेषु दृष्ट्वा तुष्टिमवाप्नुयुः।
ये भूताः उत्तमगुणाः तेभ्यस्तेभ्यः अयं बलिः ।। 9.92 ।।

[प्रतिष्ठास्थानात् गन्तुं बलिदेवप्रार्थनाक्रमः]

दत्त्वैव बलिमाचार्यः प्रार्थयेद्बलिदेवताः।
प्रतिष्ठा देवदेवस्य क्रियते परमात्मनः ।। 9.93 ।।
इतः प्रभृति युष्मभिर्नैषा वस्तुं क्षमा मही।
तस्मादन्यत्र गच्छध्वं बलिदानेन तोषिताः ।। 9.94 ।।
  (b: T. वस्तु मही क्षमा for वस्तुं क्षमा मही;)
देशिकः प्रार्थयेदेवं विनीतो बलिदेवताः।
ते तुष्टाः बलिदानेन प्रार्थिताः यान्ति निश्चयम् ।। 9.95 ।।

[पिण्डिकाद्यधिवासः तदङ्गभूतहोमश्च]

पिण्डिकां देवदेवस्य धान्यपीठेऽधिवासयेत्।
रत्नान्यपि च लोहानि धान्यान्यप्यधिवासयेत् ।। 9.96 ।।
पृथक् पृथक् भाजनेषु वासोभिर्वेष्टयेन्नवैः।
विष्णुगायत्रियाज्येन होमश्चाष्टोत्तरं शतम् ।। 9.97 ।।

[प्रतिसरबन्धः पूर्णाहुतिक्रमः मङ्गलसूचकलक्षणानि च]

हेमसूत्रं प्रतिसरं प्रतिष्ठार्थ गुरूत्तमः।
बन्धयेद्देवदेवस्य हस्ते पुण्याहपूर्वकम् ।। 9.98 ।।
  (a: A. कुंभ for हेम;)
ततः पूर्णाहुतिं कुर्युः कुण्डे कुण्डे यथाक्रमम्।
पुण्यगन्धवहो धूमः ज्वालादक्षिणमण्डला ।। 9.99 ।।
अग्निः कनकवर्णाभः यद्वा कमलसन्निभः।
आचार्यस्य मनस्तुष्टिरिमे मङ्गलसूचकाः ।। 9.100 ।।

[रात्रियापनक्रमः]

गीतवादित्रनिर्घोषैः ब्रह्मघोषैश्च मङ्गलैः।
नयेयुस्तां निशामृत्विक् यजमानगुरूत्तमाः ।। 9.101 ।।

।। इति भार्गवतन्त्रे नवमोऽध्यायः ।।