भार्गवतन्त्रम्/अध्यायः २१
← अध्यायः २० | भार्गवतन्त्रम् अध्यायः २१ [[लेखकः :|]] |
अध्यायः २२ → |
भार्गवतन्त्रस्य अध्यायाः |
---|
।। एकविंशोऽध्यायः ।।
[पवित्रारोपणविधिनिरूपणाध्यायः]
[कर्मसु जायमानदोषपरिहारविषयकः प्रश्नः]
अगस्त्यः
भगवन् देवदेवेश जामदग्न्य कृपानिधे।
नित्यनैमित्तिकादीनां न्यूनाधिक्यादिसंभवे ।। 21.1 ।।
सर्वेषां ब्राह्मणादीनां चातुराश्रम्यमेयुषाम्।
किं नु तत्र समाधानं ब्रूहि मे भक्तवत्सल ।। 21.2 ।।
[पवित्रारोपणस्य दोषपरिहारोपायत्वम्]
श्रीरामः
पवित्रयजनं नाम समाराधनमुत्तमम्।
समाप्य पूताः ते सर्वे गलिताः कर्मणो नराः ।। 21.3 ।।
[पवित्रारोपणार्थं कालनिर्देशः]
श्रावणे भाद्रपद्यां वा मासि वाश्वयुजे भवेत्।
शोभने तिथिनक्षत्रे वासरे शुभनन्दिते ।। 21.4 ।।
पवित्रभूषणं कुर्यात् कल्याणं कमलापतेः।
अश्विन्योः श्रवणे पुष्ये रोहिण्यां वा पुनर्वसौ ।। 21.5 ।।
(c: A. अश्विने for अश्विन्योः;)
उत्तरत्रितये स्वातौ मृगे मैत्रेऽन्त्यभेऽपि वा।
कुर्यात् पवित्रं कल्याणं यथाविधि मुनीश्वर ।। 21.6 ।।
(b: A. चैत्रेन्तके for मैत्रेऽन्त्यभे;)
[पवित्रोपादानद्रव्यसन्नाहः]
तन्तून् ब्राह्मणकन्याभिर्निर्मितानथवाऽपणात्।
क्रीतान् वा दोषरहितान् कौशेयान् वा यथावसु ।। 21.7 ।।
आदाय क्षालयित्वाद्भिः मुद्गचूर्णैर्विमिश्रयेत्।
शोषयेदातपे सम्यक् त्रिगुणीकृत्य तान् पुनः ।। 21.8 ।।
पुनश्च त्रिगुणीकृत्य शङ्कोः सूत्रं निवेशयेत्।
अङ्गस्थलानुगुण्येन पवित्रं कारयेत् सुधीः ।। 21.9 ।।
सूत्राण्यष्टोत्तरशतं सर्वत्र परिकीर्तितम्।
[पवित्रमानं ग्रन्थिसंख्या च]
पवित्रमधिवासाय नाभ्यन्तं परिकल्पयेत् ।। 21.10 ।।
आचार्यदेवपद्मानां शिरोमानं गुरेर्भवेत्।
द्वात्रिंशद्ग्रन्थयस्तेषाम् अनले मेखलासमम् ।। 21.11 ।।
कुंभस्य करकस्यापि कण्ठमानमुदीरितम्।
विंशतिस्सप्त च तयोर्ग्रन्थयः परिकीर्तिताः ।। 21.12 ।।
[दशपवित्राणां नामानि लक्षणञ्च]
पवित्रसंख्या बेराणां दश तानि वदाम्यहम्।
प्रामाण्यं ग्रन्थिसंज्ञं च अलङ्काराह्वयं तथा ।। 21.13 ।।
उत्तमाधममध्यानि किरीटाख्यमनन्तरम्।
श्रीवत्सकौस्तुभाह्वानं वनमालाह्वयं दश ।। 21.14 ।।
प्रामाण्यं नाभिमर्यादं द्वात्रिंशद्ग्रन्थिसंयुतम्।
हृदयान्तं ग्रन्थिसंज्ञं ग्रन्थयः पञ्चविंशतिः ।। 21.15 ।।
अलङ्कारं तु जङ्घान्तं द्वात्रिंशद्ग्रन्थिनिर्मितम्।
उत्तमं जानुसीमान्तं ग्रन्थयोऽष्टोत्तरं शतम् ।। 21.16 ।।
अशीति ग्रन्थिसहितमूर्वन्तं मध्यमं भवेत्।
नाभ्यन्तं ग्रन्थयः षष्टिः जघन्यस्य प्रकीर्तितम् ।। 21.17 ।।
किरीटमानं तन्नाम्नो द्वात्रिंशत् ग्रन्थयः स्मृताः।
श्रीवत्सं स्नमर्यादं ग्रन्थयः सप्तविंशतिः ।। 21.18 ।।
कौस्तुभं हृदयान्तं स्यात् द्वात्रिंशद्ग्रन्थिसंयुतम्।
वनमालापवित्रं तु चरणान्तं प्रकल्पयेत् ।। 21.19 ।।
(b: M. सावितम् T. सम्मितम् for संयुतम्;)
अनेकग्रन्थिसहितं स्वतन्त्राणामिदं भवेत्।
[परतन्त्रबिम्बानां पवित्रमाननिर्देशः]
बिम्बानां परतन्त्राणां देवीनां चोत्तमादिकम् ।। 21.20 ।।
हस्तमानं भवेदग्नेर्ग्रन्थयो द्वादश स्मृताः।
सर्वेषां परिवाराणां द्वात्रिंशद्ग्रन्थिभिर्युतम् ।। 21.21 ।।
(a: T. सप्त for हस्त;)
नाभ्यन्तं द्वारपालानामपि तादृशकल्पनम्।
कर्णिकायामसदृशं पीठान्तं परिकल्पयेत् ।। 21.22 ।।
(d: T. पीठानाम् for पीठान्तम्;)
अनेकग्रन्थिसहितं गुरूणामृत्विजामपि।
अन्येषामपि सर्वेषां नाभ्यन्तं परिकल्पयेत् ।। 21.23 ।।
[पवित्रनिर्माणविधिः]
गन्धैः परिमलीकुर्यात् द्रव्यैः कर्पूरिकादिभिः।
मणिमुक्ताप्रवालाद्यैः स्वर्णैर्वा कुसुमैरपि ।। 21.24 ।।
ग्रन्थीनां पूरणं कुर्यात् कुङ्कुमाद्यैश्च शोभयेत्।
यथाविभवविस्तारं पवित्राणि प्रकल्पयेत् ।। 21.25 ।।
[पवित्रोत्सवसम्पादनार्थमनुज्ञायाचनम्]
अङ्कुराण्यर्पयोद्रात्रौ दशम्यां प्रार्थयेद्धरिम्।
प्रणम्य च परिक्रम्य ऋत्विग्भिः सहितो गुरुः ।। 21.26 ।।
चातुर्वर्णस्याश्रमिणां कर्मवैकल्यशान्तये।
सर्वदोषविनाशार्थं सेवतां च महोत्सवम् ।। 21.27 ।।
सम्पदे सर्वलोकानां दुर्भिक्षोत्सादनाय च।
आरोग्यसिध्यै रुग्णानां प्रभोरिष्टार्थसिद्धये ।। 21.28 ।।
पवित्रारोहणं नाम क्रियतेऽद्य महोत्सवः।
अनुजानीहि देवेश कर्मस्वस्मान्नियोजय ।। 21.29 ।।
[पवित्राधिवासनविधिनिर्देशः]
प्रार्थ्यैवं मन्दिरात्तस्मात् आचार्यो मण्डपान्तरे।
ऋत्विग्भिः सह दर्भेषु प्रागानन उपोषितः ।। 21.30 ।।
(b: A.M. मण्टप for मण्डप;)
जपैर्ध्यानेन च हरेः रात्रिं सर्वां समापयेत्।
आरभेत प्रभातायामधिवासनकर्मणि ।। 21.31 ।।
न्यस्तचित्तो हविर्भुक्त्वा निशायामधिवासयेत्।
पवित्रभूषणस्नानकौतुकानि ध्रुवे भवेत् ।। 21.32 ।।
एकबेरे तदितरे सव कल्याणकौतुके।
ततः प्रतिसरं बध्वा पूजयेत् द्वारतोरणान् ।। 21.33 ।।
चतुर्वेदविदो विप्रान् स्थापयेच्च चतुर्दिशम्।
वाद्यघोषे च संघुष्टे धान्यराशौ च मण्डपे ।। 21.34 ।।
(b: T. oदिश for oदिशम्;)
(c: M. oघुष्टे for oघोषे;)
प्रागग्रेषु च दर्भेषु पवित्राणि निवेशयेत्।
पुण्याहवारिभिः प्रोक्ष्य शोषयेच्छोषणादिभिः ।। 21.35 ।।
(a: M. अग्नेषु for अग्रेषु;)
गन्धवस्तुभिरालिप्य सुगन्धैरपि धूपयेत्।
कुसुमानि विकीर्याथ वेष्टयेन्नववाससा ।। 21.36 ।।
प्रदर्श्य चक्रमुद्रां च पूजयेदस्त्रविद्यया।
सूत्रैरीशानमारभ्य मण्डपं परिवेष्टयेत् ।। 21.37 ।।
ऊर्ध्वं चक्रमधः पद्मं गदां द्वारेषु चाष्टसु।
दिक्षु शंखं मण्डपस्य ध्वात्वा भूतबलिं क्षिपेत् ।। 21.38 ।।
(c: A. दिक्षी for दिक्षु;)
छिद्रयन्ति च कर्माणि विघ्नयन्ति च यानि वै।
बलिं गृहीत्वा निर्यान्तु तानि भूतानि वै बहिः ।। 21.39 ।।
इति मन्त्रेण भूतेभ्यो माषान्नेन बलिर्भवेत्।
[पवित्रोत्सवक्रमे भगवतः चतुःस्थानार्चनम्]
ततः संस्नाप्य देवेशमुपवीतान्तमर्चयेत् ।। 21.40 ।।
निर्माय मण्डलं तस्मिन् देवमारोप्य पूजयेत्।
मण्डलं च ततः कुंभे वासुदेवं समर्चयेत्।। 21.41 ।।
सुदर्शनं च करके निवेद्यान्नं यथाविधि।
ततः कुण्डेग्निमाधाय मूलेन समिदष्टकम् ।। 21.42 ।।
(c: M. ततः कुण्टे निधायाथ;)
(T. ततः कुंभे विधायाथ;)
चरुणाथ `नृसूक्तेन' जुहुयात् षोडशाहुतीः।
स्रुवेणाज्येन चाष्टौ च मूलमन्त्रेण देशिकः ।। 21.43 ।।
सम्पातमाज्यं सङ्गृह्य पवित्रेषु विसर्जयेत्।
[पवित्रारोहणप्रकारः]
`इदं विष्णु'रिति श्रुत्या पवित्रारोहणं भवेत् ।। 21.44 ।।
कल्याणकौतुके कुम्भे करकेऽग्नौ च मण्डले।
आरोप्य मङ्गलैः सार्धं मूलबिम्बे तथा चरेत् ।। 21.45 ।।
सर्वार्चासु तथा कत्वा प्रासादं वेष्टयेत्ततः।
पञ्चवर्णैस्तथा सूत्रैर्नयेद्रात्रिं जपादिभिः ।। 21.46 ।।
[पवित्रोत्सवद्वितीयदिनकृत्यम्]
जागरेण ततः प्रातर्मण्डलस्थं जगद्गुरुम्।
स्नापयित्वा समभ्यर्च्य चक्राब्जं वर्तयेत् पनः ।। 21.47 ।।
द्वारादियजनं कृत्त्वा पूजयेच्चक्रपङ्कजम्।
तस्मिन् देवं समारोप्य कुंभं च करकं तथा ।। 21.48 ।।
दीपान्तमर्चयेत्प्राज्ञः निवेद्य च चतुर्विधम्।
[पवित्रोत्सवक्रमे होमविधिः]
हविरग्नौ च जुहुयात् `नृसूक्तेन' चतुर्विधम् ।। 21.49 ।।
यवं ब्रीहिं च वेणुं च तिलं लाजं तथा सुमम्।
अगरुं च घृतं पश्चात् समिधो नवमं पृथक् ।। 21.50 ।।
अष्टोत्तरशतं होमो मुहूर्ते शोभने गुरुः।
[मण्डलादीनां पवित्रैः भूषणप्रकारः]
पवित्रैर्मण्डलं कुंभं करकं मखकौतुकम् ।। 21.51 ।।
(c: T. विछित्रैः for पवित्रैः;)
कुण्डं च हव्यवाहं च भूषयित्वाब्जमण्डलम्।
प्रदक्षिणीकृत्य ततो मन्दिरे ध्रुवकौतुकम् ।। 21.52 ।।
(d: T. कौतुके for कौतुकम्;)
पवित्रैः समलङ्कृत्य हविरन्तं समर्चयेत्।
बेराण्यन्यानि सर्वाणि परतन्त्रांस्तथेतरान् ।। 21.53 ।।
देवीश्च परिवारांश्च पीठान्यपि यथाक्रमम्।
वाद्यवेदादिघोषेश्च पवित्रारोहणं चरेत् ।। 21.54 ।।
`मूलमन्त्रे'ण सर्वेषां पवित्रारोहणं मतम्।
आचार्यो मूर्तिपैः सार्धं प्रविश्य हरिमन्दिरम् ।। 21.55 ।।
प्रणम्य स्वाञ्जलिं पुष्पैरापूर्य स्तुनुयात्ततः।
विकिरेत्तानि पुष्पाणि देवपादारविन्दयोः ।। 21.56 ।।
मनुष्यार्थानि सर्वाणि पवित्राणि तथा हरेः।
विन्यस्य पादयोः स्तुत्वा नत्वा स्वार्थ समाहरेत् ।। 21.57 ।।
ततः पूजकमुख्यानाम् ऋत्विजां सहकारिणाम्।
[अपराह्णे भगवन्तं प्रति क्षमाप्रार्थनम्]
अन्येषां ब्राह्मणादीनामितरेषां च दापयेत् ।। 21.58 ।।
देवस्याननमालोक्य पादौ स्पृष्ट्वा जगद्गुरोः।
विज्ञापयेदिमां गाथां प्राञ्चलिर्विनयान्वितः ।। 21.59 ।।
भगवन् देवदेवेश सर्वलोकनमस्कृतः।
संवत्सरोपचारेषु न्यूनाधिक्योपशान्तये ।। 21.60 ।।
आराधनमिदं भक्त्या सहास्माभिरनुष्ठितम्।
गृहाण नेह किञ्चिच्च स्वातन्त्र्यं मम माधव ।। 21.61 ।।
त्वदाज्ञया कृतं सर्वं त्वमेव परमा गतिः।
अत्र न्यूनातिरेकाणि क्षमस्व पुरुषोत्तम ।। 21.62 ।।
इति तं प्रार्थयेद्देवमपराह्णे जगत्पतेः।
[उत्सवक्रमे दैनन्दिनकृत्यम् महोत्सवदिवसश्च]
उत्सवं कारयेद्भक्त्या प्रत्यहं स्नपनं तथा ।। 21.63 ।।
कालद्वयेऽपि होमश्च नव वा सप्त पञ्च वा।
त्रिरात्रमेकरात्रं वा द्वारादियजनान्वितम् ।। 21.64 ।।
(a: A. होमम् for होमः;)
महोत्सवं प्रकुर्वीत चरमे दिवसे गुरुः।
[पवित्रारोहणे वैकल्पिकमन्त्रः]
पवित्रारोहणं कुर्यात् `पुंसूक्ते'नापि वा हरेः ।। 21.65 ।।
[पवित्रारोहणफलश्रुतिः]
इत्येष कथितो ब्रह्मन् पवित्रारोहणो विधिः।
एवं यः कुरुते भक्त्या स याति परमां गतिम् ।। 21.66 ।।
(b: A.M. आरोहण्म् for आरोहणः;)
।। इति भार्गवतन्त्रे एकविंशोऽध्यायः ।।