← अध्यायः २२ विश्वामित्रसंहिता
अध्यायः २३
[[लेखकः :|]]
अध्यायः २४ →
विश्वामित्रसंहितायाः अध्यायाः

त्रयोविंशोऽध्याय:
काश्यप:---
प्रासादनां च विम्बानां जीर्णानां गाधिनन्दन ।
उद्धारं भगवन् मह्मं वक्तुमर्हसि सांप्रतम् ।। 23.1 ।।
विश्वामित्र:---
[स्वयाभुवं च](वीनां ?) दिव्यानामार्षीणां चैव काश्यप ।
मानुषीणां भगवत: प्रतिमानां द्विजोत्तम ।। 23.2 ।।
मणिजानां च बिम्बानां हानिरङ्गेषु चेद् द्विज ।
यद्यदङ्गं विहीनं स्यात्तद्धेम्रा च महामते ।। 23.3 ।।
समाधातव्यमेव स्यान्न त्याज्यं द्विजपुंगव ।
शैलजानामपि तथा समाधानं विधीयते ।। 23.4 ।।
समाधानेऽङ्गात्रस्य सृष्टौ साकल्यतोऽपि वा ।
बिम्बमध्यस्थितां शाक्तिं यथापूर्वं विधाय च ।। 23.5 ।।
अधिवासादिकर्मादि प्रतिश्ठावत् समाचरेत् ।
बिम्बानि संस्थितान्येव शक्यन्ते यदि काश्यप ।। 23.6 ।।
समाधानं तत: कुर्यान्न त्यजेत् सर्वथा द्विज ।
कौतुकं लोहजं जीर्णं द्रावयित्वा पुन: सृजेत् ।। 23.7 ।।
पुन:सृष्टौ तु जातायां जीर्णवेषस्य काश्प ।
प्राचीना यदि विद्यन्ते देवयस्ताभिश्च तं प्रभुम् ।। 23.8 ।।
[संयोजने](येत् ?) पुनर्नान्या देव्य: कार्या द्विजोत्तम ।
अविच्छेदो यदि भवेत् तासां पूजनकर्मणि ।। 23.9 ।।
उद्वाहं न पुन: कुर्यादिति शास्त्रविदां मतम् ।
वैकल्यं यदि संजातं प्रभापह्मासनादिषु ।। 23.10 ।।
[हेतु](ति ?)ष्वपि न यष्टव्यमसमाधाय तत्पुन: ।
घटे वा मूलबेरे वा शक्तिं तद्विम्बसंस्थिताम् ।। 23.11 ।।
उद्वास्य कारयेत्तेषां समाधानं द्विजोत्तम ।
संप्रोक्ष्य च विधातव्यं पूजनं स्याद्यथापुरम् ।। 23.12 ।।
शैलजं वस्तुजं बिम्बं जीर्णं यदि भवेन्मुने ।
बालाजयं कल्पयित्वा शक्तिं विन्यस्य तत्र च ।। 23.13 ।।
आराधयेच्च तत्त्यक्तं खनेद्धूमौ जलेऽथवा ।
निक्षिपेद् द्विजवर्याग्रे प्रासादे च विधिं शृणु ।। 23.14 ।।
शैथिल्ये यदि(सति ?) संजाते प्रासादस्य माहामते ।
बालालये स्थापयित्वा देवं सपरिवारकम् ।। 23.15 ।।
तत्रैव पूजयेद्यावद्धामसंपादनं भवेत् ।
धाम्रि जीर्णे न जीर्णे च ध्रुवे तद्धामसंस्थितम् ।। 23.16 ।।
नान्यत्रोद्वासयेज्जीर्णं समादध्यात् पुनर्द्वित ।
धामादेरङ्गहानौ च न जातायां न काल्पयेत् ।। 23.17 ।।
अनीर्णे च पनु: स्थैर्यबुद्ध्या तत् कल्पयेद्यदि ।
यजमानस्य तस्याशु सान्वयस्य च नाशनम् ।। 23.18 ।।
पुरा प्रमादादुच्छ्रायं प्रासादादि कृतं यदि(?) ।
पुनर्लक्षणसंयुक्तं कल्पयेद् द्विजपुंगव ।। 23.19 ।।
पुन:प्रकल्पनविधौ बहुबेरैकबेरयो: ।
यथापुरं कल्पयेत व्यत्यासं नैव कल्पयेत् ।। 23.20 ।।
पूर्वं देवीविनाभूतं भूय:कलृप्तौ कृतं यदि ।
बहुबेरं तथा तस्य देवीभ्यो सह वा विना ।। 23.21 ।।
यथाबुद्धि विधातव्यं यजमानस्य सुव्रत ।
प्रासादं(दो?) बिम्बमथवा स्वयंव्यक्तममानुषम् ।। 23.22 ।।
पूर्वं लक्षणहीनं च(चेत्?)जीर्णेद्धारेऽपि तं(तत्?)तथा ।
अन्यथा नैव कर्तव्यं कृते दोषो महान् भवेत् ।। 23.23 ।।
स्थितयानशयानेषु बिम्बेषु च यथापुरम् ।
अमानुषेषु कर्तव्यमनघैरेवमेव हि ।। 23.24 ।।
मानुषेषु यथेच्छात: पुन:सृष्टौ न दोष्?ाभाक् ।
यद्वस्तु यच्च यन्मानं याट्टशं देवनिर्मितम् ।। 23.25 ।।
विमानं ताट्टगेवाथ जीर्णोद्धारेऽपि नान्यथ ।
मोहात् प्रकल्पयेत्त[च्च अ](च्चेद?)न्यथा राजराष्ट्रयो: ।। 23.26 ।।
दोषाय जायते विप्र यथापूर्वं प्रकल्पयेत् ।
ऐष्टकं मृण्मयं वा चेन्मानुषं वार्षमेव वा ।। 23.27 ।।
धाम जीर्णं सदि भवेत् पुनस्तच्छिलयापि वा ।
अथवेष्टकया कुर्यात् तत्र दोषो न विद्यते ।। 23.28 ।।
रक्षार्थमुपपीठादि कल्पयन् वर्धयेद्ब्रहि: ।
तत्रस्थान् परिवारांश्च स्थापयेत् कल्पयेत्पुन: ।। 23.29 ।।
तत्र दोषश्च न भवेत्तत्संरक्षणार्थिन: ।
जीर्णं भवेद्यदि पुनर्गोपुरं पीठमेव वा ।। 23.30 ।।
नद्यादीनां जलरयैर्नष्टं वा चलितं तु वा ।
धाम बिम्बादि तत्स्थानात् पुनरन्यत्र (त्तु?) कल्पयेत् ।। 23.31 ।।
येन मन्त्रेण या मूर्तिर्याट्टशेनाधिकारिणा ।
कल्पिता ताट्टशीमेव मूतीनां(र्तिं तु ?)परिकल्पयेत् ।। 23.32 ।।
मूर्तिस्तन्त्रं च मन्त्रं च ताट्टशं चैव देशिक: ।
जीर्णोद्धारे पूर्वविधौ फलं तुल्यं द्वयोर्भवेत् ।। 23.33 ।।
व्यत्यये कल्प्यमाने तु [मूर्तिनात्रा(तीनाम?) धिकारिणा] ।
क्षयो भवेदतिमाहन् राजराष्ट्रनृणामनि ।। 23.34 ।।
जीर्णोद्धारे कल्प्यमाने बहुबेरे प्रतिष्ठिते ।
स्त्रापयेत् कर्मबिम्बं च वेदिकायां च शायेत् ।। 23.35 ।।
न कार्यो जलसंवासो नयनोन्मीलनं विना ।
संहारसृष्टी च विना ह्मन्यत्सर्वं समाचरेत् ।। 23.36 ।।
आसाद्य ध्रुवबेरेण सर्वं विप्र प्रकल्पयेत् ।
बालालयं विधायाथ तद्रात्र्यां प्रार्थ्य सादरम् ।। 23.37 ।।
आवह्म तद्ग्रतां शक्तिं कुम्भे तद्धान्यमस्तके ।
स्थापयित्वा समभ्यर्च्य प्राप्ते काले च देशिक: ।। 23.38 ।।
निवेष्य मूलबेरे तां शक्तिं शास्त्रोक्तवर्त्मना ।
[कुम्भपातौ](?) विशेषेण परिवारान् प्रकल्पयेत् ।। 23.39 ।।
तदन्ते चोत्सर्व कुर्यात् स हि शान्तिविधि: स्मृत: ।
प्रासादे प्रतिमायां च प्रभापीठादिकेऽपि च ।। 23.40 ।।
अङ्गभङ्गादिदोषाणं कृते संधानकर्मणि ।
जातायामपि विच्छित्तौ पूजायाश्चैव काश्यप ।। 23.41 ।।
अस्पृश्यस्पर्शने जाते विण्मूत्ररुधिराधिरादिभि: ।
स्पर्शनाद् दूषणे जाते धाम्रो बिम्बस्य वा द्विज ।। 23.42 ।।
संप्रोक्षणं विधातव्यमिति शस्त्रस्य निश्चय: ।
दोषाणं तारतम्येन प्रोक्षणं स्त्रपनं हरे: ।। 23.43 ।।
होमं च कारयेद्विद्वान् शान्त्यर्थं सर्वकर्मणाम् ।।

इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
जीर्णोद्धारविधिर्नाम त्रयोर्विशोऽध्याय: ।।

--------*--------