← अध्यायः २४ विश्वामित्रसंहिता
अध्यायः २५
[[लेखकः :|]]
अध्यायः २६ →
विश्वामित्रसंहितायाः अध्यायाः

पञ्चविंशोऽध्याय:
काश्यप:---
भगवन् करुणावास कङ्लारकुसुभार्चनम् ।
दमनीदलपूजां च वक्तुमर्हसि मे गुरो ।। 25.1 ।।
विश्वामित्र:---
कङ्लारकुसुमै: पूजां लक्ष्मीभर्तुर्वदाम्यहम् ।
सावधानेन मनसया तच्छुणु द्विजपुंगव ।। 25.2 ।।
पुराम्बरीषो नामाभूद्राजर्षिर्धार्मिकोत्तम: ।
चक्रकतींश्वर[श्चक्रे](?) सद्वीपां सागाराम्बराम् ।। 25.3 ।।
विजित्य सकलामुवीं स राजा धर्मत: प्रजा: ।
रञ्चयामस सकला: प्रजा स्वा इव भूपति: ।। 25.4 ।।
अदर्शनेन कार्याणामन्येषां यज्ञपूरुषम् ।
तोषयामास बहुभिर्यज्ञै: संपूर्णदिक्षिणै: ।। 25.5 ।।
एकोनमश्वेधानां शतं चक्रे महामना: ।
कर्तुं शततमं यज्ञं तुरंगं सवविसृष्टवान् ।। 26.6 ।।
खैरं चरन्तमश्वं तमात्यैर्बहुभिर्वृतम् ।
पश्यतां रक्षिणां शक्रो गृढमूर्तिर्जहार ह ।। 25.7 ।।
रक्षिणोऽन्विष्य सर्वत्र तुरगादिर्शनेन [तम्] (तु?) ।
विषण्णवदना भूत्वा भूमिपालं व्यजिज्ञपन् ।। 25.8 ।।
पश्यता सावधानेन(ना ?)अ(प्य ?)स्माकं ते (तु ?) तुरंगम: ।
अदर्शनं गतो देव करणीयं वद प्रभो ।। 25.9 ।।
इति शुत्वा गिरं तेषामम्बरीषो महीपति: ।
ऋत्विक्पुरोहिताचार्यानाहूयेदं चचोऽब्रवीत् ।। 25.10 ।।
मध्ये तुरंगमो नष्ट: किं कृत्यं वदत दिजा: ।
इत्युक्तास्ते गिरं चेमाचुर्द्विजवरा द्विज ।। 25.11 ।।
अन्विष्यतां द्विजसुत: कश्चित् तेन यजामहे ।
इत्युक्तो भूमिपालस्तु द्विजसूनुं स्वकैर्धनै: ।। 25.12 ।।
[विक्रया(?)]नीतवान् मार्गे मया नीत: कुमारक: ।
मह्मं निवेदयामास याथृत्तं मयापि स: ।। 25.13 ।।
पालित: शिष्यतां प्राप्त: शुन:शेप: स वै द्विज: ।
राजापि निर्विण्णमना वसिष्ठदिमुक्तवान् ।। 25. 14 ।।
यज्ञ[विध्रार्थ(?)]मानीतो मया विप्रकुमारक: ।
सोऽपि त्रातो भगवता विश्वाभित्रेण घीमता ।। 25.15 ।।
यज्ञ: सफलतां प्राप्स्तथापि मम चेतसि ।
विप्रो विशसनार्थाय मयानीत इति द्विज ।। 25.16 ।।
वर्तते विचिकित्सा तु प्रयश्चित्तं समादिश ।
इति पृष्ट: स भगवान् वसिष्ठो मुनिसत्तम: ।। 25.17 ।।
अम्बरीषं महाराजमुक्तवान् द्विजसत्तम ।
अत्मद्वाक्येन नृपते यत्त्वया द्विजबालक: ।। 25.18 ।।
अम्बरीषं महाराजमुक्तवान् द्विजसत्तम ।
अस्मद्वाक्येन नृपते यत्त्वया द्विजबालक: ।। 25.18 ।।
आनीतस्तव दोषोऽत्र न भविष्यति भूमिप ।
तथापि विचिकित्सा ते सर्तते यदि चेतसि ।। 25.19 ।।
ब्रह्मत्यापहं राजन् श्रुयतां व्रतमुत्तमम् ।
धन्यं यशस्यमायुष्यमारोग्यजनकं महत् ।। 25.20 ।।
विष्णो: प्रीतिकरं सर्वसंपदामेककारणम् ।
विशेषेण श्रियो देवया: प्रीणनं तद्व्रतोत्तमम् ।। 25.21 ।।
सदा धारयते देवी मीह कह्लारसूनकम् ।
द्विधाभूता स्थिता शक्तिरेकैकं(व ?)मधुविद्विष: ।। 25.22 ।।
श्रीमहीरूपभेदेन तस्माद्भूम्या करे धृतम् ।
कह्लारं भगवत्प्रीतिकारणं तत्सभाजय ।। 25.23 ।।
एवमुक्तो भगवता वसिष्ठेन महीपति: ।
कह्नारैर्देवदेवेशमर्चयित्वा श्रिय: पतिम् ।। 25.24 ।।
ऐहिकान् सकलान् भोगान् भुक्त्वान्ते वैष्णवं पदम् ।
[गच्छेदत:](?) प्रवक्ष्यामि तव तेजोऽभिवृद्धये ।। 25.25 ।।
मयाप्याराधितो देव: कह्लारै: पुरुषोत्तम: ।
ब्राह्मण्यं तपसा कलब्धं यदा कश्यपनन्दन ।। 25.26 ।।
तदा मां ब्रह्माण: पुत्रो वसिष्ठो भगवान् ऋषि: ।
ब्रह्मर्षिस्त्वमसीत्युक्त्वा तव तेतोभिवृद्धये ।। 25.27 ।।
कङ्लारैर्यज तं देवं विष्णुं सनातनम् ।
इत्युक्त्वा तद्विधिं भूय: कथयित्वा मुनीश्वर: ।। 25.28 ।।
जगामादर्शनं भूयस्तच्छ्रुत्वाहमपि द्विज ।
जी(ची?)र्णवांस्तु व्रतेनैव तदुक्त्तेनैव वर्त्मना ।। 25.29 ।।
सकृदेतेन चीर्णेन व्रतेन द्विजसत्तम(?) ।
तच्छुणुप्वा(?)वधानेन व्रतं सर्वार्थसाधन् ।। 25.30 ।।
ऋतुराजे वसन्ते वा तथा शरदि वा द्विज ।
ज्येष्ठे वा श्रावणे वापि मासे पौषेऽथ फालगुने ।। 25.31 ।।
पूर्वपक्षे तु पञ्चम्यां द्वादशीपूर्णयोरपि ।
रोहिणीश्रवणादित्येष्टूत्तरासु तथैव च ।। 25.32 ।।
यजमानानुकूलेषु मासर्क्षादिषु च द्विज ।
त्रैवर्णिकेष्वेकतमो यजमानोऽपि काश्यप ।। 25.33 ।।
प्रार्थितो यजमानेन देशिक: कारयेदिमम् ।
कह्लारं भगवद्यागं सांवत्सरिकमुत्तमम् ।। 25.34 ।।
आराधनदिनात्पूर्वं नवमे पप्तमेऽपि वा ।
तृतीये वाथ सद्यो वा मङ्गलाङ्कुरवापनम् ।। 25.35 ।।
तस्मादारभ्य कुवींत विशेषयजनं हरे: ।
मण्डपादिष्वलंकरविधि: कार्यो विशेषत: ।। 25.36 ।।
सर्वा[श्च वृतयो](श्चैवावृती:?) धाग्नो ग्राममध्यं च सर्वत: ।
तोरणै: केतुमालामि: पताकाभिश्च सुव्रत ।। 25.37 ।।
अलंकुर्यात् प्रयत्नेन यथा दिव्या भवन्तयमी ।
संकल्पित्दिनात् पूर्वदिवसे तु प्रकेतनम् ।। 25.38 ।।
समाप्य सकलं कर्म सर्वमङ्गलसंयतम् ।
कारयेद्वापिकां खात्वा(?) तस्या: पश्चिमत: प्रपाम् ।। 25.39 ।।
चतु:स्तम्भयुतामष्टस्तम्भैर्युक्त्तामथापवि वा ।
विधाय स[विधानां तं [ (वितानां तु?) समीकृत्य च भूतलम् ।। 25.40 ।।
विलिप्य गोमयेनाथा सुधाचूर्णैर्विचित्र्य च ।
तन्मध्ये पञ्चभारेण शालीनां चतुरश्रकम् ।। 25.41 ।।
विधायोपरि विस्तीर्य क्षौमं भारद्वयं पुन: ।
तण्डुलानां विनिक्षप्य भारयुग्मं तदूर्ध्वत:(?) ।। 25.42 ।।
वस्त्रोपरि तिलान् भारातीतान् निक्षिप्य देशिक: ।
तत्कृते चतुरश्रेऽथ कुम्भं गन्धाम्बुपूरितम् ।। 25.43 ।।
तन्तुवेष्ठितसर्वाङ्गं क्षौमयुग्माभिष्टितम् ।
निक्षिप्य कुशकूर्चान्तं नवरत्नसुसंयुतम् ।। 25.44 ।।
तन्मध्ये पृथिवीं देवीमावाह्मार्ध्यादिना यजेत् ।
परितश्चाष्टकलशानिन्द्रादीस्तेषु पूजयेत् ।। 25.45 ।।
सुदर्शनं च करके सर्वविध्रप्रशान्तये ।
निवेदयेत् पायसं च मनुना पार्थिवेन तु ।। 25.46 ।।
दत्वा च क्षेत्रपालाय तत्प्राच्यां पायसेन तु ।
बलिदानं च परित: शक्रादीनां तथा बलिम् ।। 25.47 ।।
दत्वा पूर्वादिशार्वान्तं भूमिर्भूग्नेतिसूक्त्तत:(कम्?) ।
अधीयानोऽपि चिनुयात् पुष्पाणि सुशुभान्यपि ।। 25.48 ।।
शङ्खकाहलतूर्यादिनृत्तगीतसमन्वितम् ।
वापि(पि?)काया नूतनानि गृह्णीयात् कुसुमान्यपि ।। 25.49 ।।
वैष्णवाश्चापि गृह्मन्तु तूण्यीं पुष्पाणि सर्वश: ।
सौवर्णे ?पात्रनिचये स्थापयित्वा पिधाय च ।। 25.50 ।।
पुष्पाणि च समाहृत्य कुम्भस्य स्थापयेत्पुर: ।
देवयाश्चोद्वासनं कृत्वा क्षामयित्वा च देशिक: ।। 25.51 ।।
गजस्कन्धाधिढैश्च वाहयेद् द्विजसत्तम ।
छत्रच्छायासु चानीतै: पठदिभ: स्वस्तिसूक्तकम् ।। 25.52 ।।
अधीयानैश्च पुरतो विप्रैर्वेदचतुष्टयम् ।
शङ्खकाहलचिह्लानां(?) संनादस(न?)पुर:सरम् ।। 25.53 ।।
तूर्यघोषैश्च पुरतो बलिरीकृतदिङ्मुखम् ।
पताकाभिर्वित्राभिश्छादितातपसंचयम् ।। 25.54 ।।
धाम प्रदक्षिणं कृत्वा गीतनृत्तान्वितं पुर: ।
देवागारं प्रविश्यैव ध्रुवबेरपुरोभुवि ।। 25.55 ।।
स्थापयित्वा च देवाय दर्शयेत् कुसुमान्यपि ।
निर्गमय्य बहि: पुष्पं मण्डपं संनिवेश्य च ।। 25.56 ।।
स्त्रातै: शुक्लाम्बरधरै: सोष्णीषैर्वैष्णवैरपि ।
धृतोर्ध्वपुण्ड्रैर्विप्राद्यैर्मालाकर्मणि कोविदै: ।। 25.57 ।।
कारयेद्विविधा मालस्तत्तद्ब्रेरप्रमाणत: ।
अधिवासस्त्रजं कुर्यादाद्यामानामिलम्बिताम् ।। 25.58 ।।
मूलबेरस्य कुसुमै: कुर्यात् पञ्चशतैर्द्विज ।
अष्टोत्तरशतै: कुर्यात् कौतुकस्यौत्सवस्य च ।। 25.59 ।।
तदर्धेन स्त्रजं कुर्या?द्देव्यो: श्रीभूमिसंज्ञयो: ।
कर्मार्चाप्रभृतीनां तु पञ्चविंशतिभि: स्त्रजम् ।। 25.60 ।।
आनामिलम्बितां कुर्याद्यथाहारविभूषणम् ।
कुम्भमण्डलकुण्डानामधिवासस्त्रजं द्विज ।। 25.61 ।।
पञ्चाशदिभ: पृथक् कुर्यात् कुसुमैर्द्विजपुंगव ।
अधिवासस्त्रज: कुर्यादेवं द्विजवरोत्तम ।। 25.62 ।।
तद्दिनस्त्रवप्रमाणानि प्रोच्यन्ते शृणु तान्यपि ।
बेराणां तु ध्रुवादीनां प्रत्येकं पञ्चमालिका: ।। 25.63 ।।
उत्तमा मध्यमा चैव तथैवाधमसंज्ञिका ।
किरीटवनमाख्ये पञ्चेव स्युर्द्विजोत्तम ।। 25.64 ।।
उत्तमां मूलबेरस्य कुर्यादष्टसहस्त्रकै: ।
कुसुमैर्जानुपर्यन्तां मध्यमामष्टभि: शतै: ।। 25.65 ।।
उरुमध्यावलम्बां तु शृणु चापि कनीयसीम् ।
षङ्भि: शतैश्च पुष्पाणां नाभिलम्बां प्रकल्पयेत् ।। 25.66 ।।
किरीटमालां कुवींत पुष्पैरष्ठोत्तरै: शतै: ।
चतु:सहस्त्रै: कुवींत वनामालां द्विजोत्तम ।। 25.67 ।।
आपादलकम्बिनीं श्लक्ष्णां वृत्ताग्रां द्विजसत्तम ।
पीठस्य चापि कुसुमैरष्टौत्तरशतै: स्त्रजम् ।। 25.68 ।।
कल्याणैतुके कुर्यादुत्तमां पञ्चभि:शतै: ।
चतु:शतैर्मध्यमां च त्रिशतैरधमां स्त्रजम् ।। 25.69 ।।
पञ्चाशदिभश्च कुसुमै: किरीटस्त्रजमादरात् ।
विदध्याद्वनमालां च कुसुमै: पञ्चभि: शतै: ।। 25.70 ।।
पीठस्यापि प्रकुवींत स्त्रजमष्टशतैर्द्विज ।
उक्ते उत्तममध्याख्ये स्त्रजावधमसंज्ञितान् ।। 25.71 ।।
त्रिद्व्रयेकशतसंख्याकै: कुसुमै: क्रमशो मुने ।
प्रमाणं पूर्ववत्प्रोक्तमेतासां कुसुमस्त्रजाम् ।। 25.72 ।।
बेराणं कर्मपूर्वाणां पुष्पैरष्टशतैर्द्विज ।
तदर्धैरथवा कुर्यात् तदर्धैरपि वा मुने ।। 25.73 ।।
तिस्रो द्वे वा तथैका वा यथासंभवमेव वा ।
कुम्भमण्डलकुण्डान्तर्वर्तिन: पुरुषस्य च ।। 25.74 ।।
शतद्वयेन पुष्पाणामुत्तमा स्यातु मालिका ।
अध्यर्धशतपुष्पैस्तु मध्यमा परिकीर्तिता ।। 25.75 ।।
कुम्भवत् करकस्यापि प्रमाणं परिकीर्तितम् ।
तत्स्थानपरिवाराणामेकैकं कुसुमं भवेत् ।। 25.75 ।।
कुम्भवत् करकस्यापि प्रमाणं परिकीर्तितम् ।
तत्स्थानपरिवाराणामेकैकं कुसुमं भवेत् ।। 25.76 ।।
पह्मनाभ्यन्त(र)नेमीनां श्रितानां चाक्रमण्डलम् ।
तत्प्रमाणस्थितं कार्यं शतं द्वित्रिचतुर्गुणै: ।। 25.77 ।।
पुष्पै: कार्या: स्त्रजो बाह्मे तत्प्रमाणाश्च मालिका: ।
चतु:सहस्त्रै: पुष्पाणां मालिका द्विजपुंगव ।। 25.78 ।।
प्रभाया: कौतुकानां स्युर्मालास्तत्प्रमाणका: ।
उत्सवार्चाभायास्तु सहस्त्रद्वयसंख्यकै: ।। 25.79 ।।
पुष्पैर्माला?? विधातव्या सेनापक्षीशयोरपि ।
चण्डादीनां च सर्वेषामिन्द्रादीनां च कारयेत् ।। 25.80 ।।
प्रत्येकं मालिका: कार्या: पुष्यैस्त्रिंशतमै(न्मिते?)र्मुने ।
अन्येषां परतन्तस्त्रायां बिम्बानामपि काश्यप ।। 25.81 ।।
अष्टोत्तरशतैरेबमलंकुर्याद्विचक्षण: ।
आनाभिलम्बिता: कार्या हाराकरा द्विजोत्तम ।। 25.82 ।।
अनेन बर्त्मना कार्या: पुष्पाणां संभवे सति ।
असंपत्तौ तु पुष्पाणामर्धै: पादैरथापि वा ।। 25.83 ।।
यथासंभवमेव स्यात् क्रियामेतां न लोपयेत् ।
मालागणं विधायेत्थमभ्युक्ष्य हिमवारिणा ।। 25.84 ।।
स्वर्णपात्रेषु विन्यस्य सितै: सूत्रैर्नवाम्बरै: ।
पिधाय चक्रमुद्रां च कृत्वास्त्रेणाभिपूज्य च ।। 25.85 ।।
चक्रब्जपूर्वभागे तु पञ्चभि: शालिभारकै: ।
[भूपुरं(?)] कल्पयित्वैव तदूर्ध्वे नववाससा ।। 25.86 ।।
आस्तृये तण्डुलान् न्यस्य भारद्वयमितानपि ।
तदूर्घ्वे वाससास्तीर्णे तिलभारान् विनिक्षिपेत् ।। 25.87 ।।
चतुरक्षं विधायाथ तिलैस्तस्योपरि न्यसेत् ।
पुष्पपात्राणि सर्वाणि संवेष्ट्य च नवाम्बरै: ।। 25.88 ।।
गुरु: स्त्रात: शुचि: स्रग्वी नवसूत्राम्बरद्वश्य: ।
चदनेन विलिप्ताङ्गो हिमवार्याप्लुतेन च ।। 25.89 ।।
हारकेपूरकटककुण्डताद्यैरलंकृत: ।
सोत्तरीय: सितोष्णरष: स्वर्णयज्ञोपवीतिमा(तवा?)न् ।। 25.90 ।।
सपवित्र: साङ्गलीयो रत्नमुद्राविभूषित: ।
श्वेतमृत्स्त्राविरचितैरूतैर्ध्वपुण्ड्रैरलंकृत: ।। 25.91 ।।
केशवाद्याख्यसंयुक्तैर्देशिकेर्द्विजसत्तमै: ।
यजमानेन सहित: ऋत्विग्भिर्भूषितैर्वरै: ।। 25.92 ।।
धामान्त: संप्रविश्यैव देवं विज्ञापयेत्तत: ।
प्रणम्य दण्डवद् भूमौ कृताञ्चलिपुट: स्थित: ।। 25.93 ।।
भगवन् आर्तिहरण भक्तानां पुरुषोत्तम ।
कह्लाकुसुमैर्देव त्वद्धितैरर्चयाम्यहम् ।। 25.94 ।।
[दयामपि(?)]च सर्वेश तदनुज्ञातुमर्हसि ।
विडम्बनानि मे देव क्षान्ता पूजां जुषस्य मे ।। 25.95 ।।
इति विज्ञाप्य लक्ष्मीशं सविशेषं सभाज्य च ।
निवेद्य च इति: कृत्स्त्रं पुण्याहं वाचयेत्तत: ।। 25.96 ।।
निष्कैस्तु दशभि: कुर्यात् कौतुकं ध्रुवविग्रहे ।
त्रिभिर्निष्कै: सुवर्णस्य बिम्बे कल्याणसंज्ञिते ।। 25.97 ।।
कौतुकं दक्षिणकरे बध्वा देवयोर्गुरोरपि ।
प्रत्येकं निष्कमानेन कौतुकानि विधाय वै ।। 25.98 ।।
करेषु बध्वा च पुनस्तथा देवं प्रणम्य च ।
आरोप्य शिबिकां नीत्वा सर्वाभरणभूषितम् ।। 25.99 ।।
देवं मण्डपमासद्य पूर्ववद्वस्त्रभूषितम् ।
स्वनुकलप्तं सुधाचूर्णविचित्रिततलं तथा ।। 25.100 ।।
वितानध्वजमुक्तास्त्रग्भूषितोर्ध्वप्रदेशकम् ।
कह्लारमालासंवीतस्थूणागणविराजितम् ।। 25.101 ।।
प्रलम्बिताभि: सर्वत्र कह्लारस्त्रग्भिरुज्जवलम् ।
कह्लापुष्पराचितविमानवरशोभितम् ।। 25.102 ।।
चतुर्षु द्वारदेशेषु विनिवेशिततोरणम् ।
प्रतितोरणसंक्लृप्तत्स्त्रक्चन्दनमालिकम् ।। 25.103 ।।
तस्मिन् यानादवारोप्य सिंहपादाष्टकोज्जले ।
कह्लारुष्परचितकल्पद्रुमविभूषिते ।। 25.104 ।।
लम्बमानाभिरभित: कह्लारस्त्रग्भिरुज्जवले ।
विष्टरे विनिवेश्याथ देवं चात्र सभाजयेत् ।। 25.105 ।।
आगत्य देशिकवर: पूर्वमेवात्र मण्डपे ।
मण्डलं कारयेद्विद्वान् ऋत्विग्भि: सहितो मुने ।। 25.106 ।।
चक्राब्जं स्वस्तिकं वाथ भद्रकं वा द्विजोत्तम ।
मण्डलस्य बहि: कुर्यादैशान्ये धान्यसंचये(यम्?) ।। 25.107 ।।
?सथावयेच्च महाकुम्भं सूत्रवेष्टितमुत्तमम् ।
क्षौमयुग्मेन संवीतं सूक्ष्मेन सदशेन च ।। 25.108 ।।
नवरत्नानि तन्मध्ये निक्षिप्य शुचिवारिणा ।
पूरयेच्चन्दनादीनां गन्धानां चापि संचयम् ।। 25.109 ।।
तत्तोये विन्यसेद्विद्वान् कुश(शान् ?) कूर्चं च विन्यसेत् ।
करकं चापि संवेष्ट्य पूरयित्वा सरत्नकम् ।। 25.110 ।।
कूर्च च विन्यसेन्मन्त्री कुम्भं दक्षिणतो न्यसेत् ।
एवं विधायाष्टकुम्भान् मण्डलस्याष्टदिक्ष्वपि ।। 25.111 ।।
स्थापयित्वाग्रिकुण्डं च कुर्यादुत्तरतो द्विज ।
परितो द्वारपार्श्वेषु कुम्भानवे विधाय च ।। 25.112 ।।
कुम्भानष्टौ च विन्यस्य सर्वान् कुग्भांश्चतुर्दिशि ।
संवेष्ट्य वस्त्रयुग्मेन वेष्टियित्वा सरत्नकान् ।। 25.113 ।।
सकूर्चान् मध्यनिक्षिप्तसौवर्णाष्टमहायुधान् ।
कृत्वा सर्वेषु कुम्भेषु महाश्वतथासमुदभवान् ।। 25.114 ।।
पल्लवानपि विन्यस्य कलशान् स्थापयेत्तत: ।
अष्टोत्तरशतं वाथ तथैकाशीतिमेव वा ।। 25.115 ।।
धान्यराशिषु विन्यस्य शास्त्रोक्तेनैव वर्त्मना ।
सकूर्चान् सापिधानांश्च पूरितान् गन्धवारिभि: ।। 25.116 ।।
छादयित्वैव वासोभि: शयनं कल्पयेत् पुन: ।
चतुरश्रे तु भूभागे गोमयाम्भोविलेपिते ।। 25.117 ।।
चूर्णै: सुधामयै: सूक्ष्मैर्पिचित्रिततलोदरे ।
दशभारेण शालीनां चतुरश्रं प्रकल्प्य च ।। 25.118 ।।
तस्योपिरिष्टादास्तीर्य सुशुभं सवनं नवम् ।
तस्यो?परि च विन्यस्य शालितुल्यप्रमाणकान् ।। 25.119 ।।
तण्डुलांश्च तदूर्ध्वं(र्ध्वे ?) तु तस्य(?) विस्तारयेत् पटम् ।
तिलानपि च तन्मध्ये निक्षिपेत् पूर्वसंमितान् ।। 25.120 ।।
क्षौमेणाच्छाद्य तान् पश्चादुपरिष्टात् कृतान(न्य ?)पि ।
विचित्राणि सुसूत्राणि वासांस्यास्तीर्य चो?परि ।। 25.121 ।।
मूर्धोषधानं विन्यस्य पादयोरपि पार्श्वयो: ।
पाणिपादविनिक्षेपयोग्यानि मृदुतूलकै: ।। 25.122 ।।
कल्पितान्पुपधानानि विन्यस्य च तदूर्ध्वत: ।
प्रच्छाद्य सूक्ष्मवसनौर्दिक्ष्वष्टष्टकुम्भकान् ।। 25.123 ।।
स्थापयित्वा च पूर्वोक्तविधानेन गुरूत्तम: ।
परित: स्थापयित्वा च मङ्गल्कुरपालिका: ।। 25.124 ।।
धूपयेत् परितो धूपैश्चन्दनैश्चगारूत्तमै: ।
मुद्‌ग्रान् माषांस्तिलांश्चैव गोधूमान् सकुलुत्थकान् ।। 25.125 ।।
निष्पावान् राजमाषांश्च सर्षपान् यवसंयुतान् ।
व्रीहीनपि च वियस्य प्रत्येकं शिवसंमितान् ।। 25.126 ।।
फलानि कदलीनां च पनसानां च काश्यप ।
चूतानां नालिकेराणां लिकुचानां च सत्तम ।। 25.127 ।।
निधाय मातुलुङ्गानां क्रमुकाणां फलान्यपि ।
ताम्बूलदलपूगं च हरिद्रा: सरसा अपि ।। 25.128 ।।
मङ्गलान्यष्ट परित: श्रीवत्सं वनमालिकाम् ।
मत्स्ययुग्मं पूर्णकुम्भं स्वस्तिकं दर्पणं तथा ।। 25.129 ।।
शङ्गं चक्रं च निष्केण स्वर्णस्य च पृथक् पृथक् ।
कारयित्वा च संस्थाप्य देवं विज्ञाप्य देशिक: ।। 25.130 ।।
आसीनो देवपुरत: कृत्वाङ्गन्यासर्पकम् ।
अर्ध्यादीनां च पात्राणां स्थापनं च विधाय च ।। 25.131 ।।
कलशानर्चयित्वा च कुम्भसंनिहितं हरिम् ।
आराध्य मण्डलस्थं च कुण्डेऽग्रिं विनिवेकश्य च ।। 25.132 ।।
देवं संपूज्य विधिवन्मन्त्रासनपूरस्क्रियाम् ।
समर्य्य स्त्रानवेद्यां(दिं ?)च देवमध्यास्य पूजनम् ।। 25.1़33 ।।
विधाय च क्रमाद्देवं स्त्रापयेत् कलशोदकै: ।
सहस्त्रधारापयसप्यभिषिच्य विधाय च ।। 25.1़34 ।।
नीराजनक्रियां चैवमलंकारासनं नयेत् ।
भूषयित्वा च या(मा ?)त्रान्तं संपूज्य च यथाविधि ।। 25.135 ।।
भोज्यविष्टरगं देवं सभाज्यार्ध्यादिना तत: ।
मधुपर्कं निवेद्याय ताम्बूलं विनिवेद्य च ।। 25.136 ।।
सवत्सं धेनुयुगलं स्त्रग्भिश्च समलंकृतम् ।
हेमसंकल्पितखुरं शृङ्गवेष्टितमर्चितम् ।। 25.137 ।।
आचार्याय प्रदायाथ दत्वा धान्याष्टकं तत: ।
कुम्भमण्डलीबम्बेषु पञ्चवर्णान्नसंचयम् ।। 25.138 ।।
निवेद्य लेह्मपेयानि विनिवेद्य महाहवि: ।
अपूपसहितं पश्चात् ताम्बूलं मुखवासनम् ।। 25.139 ।।
विनिवेद्य च सर्वेषां बेराणां च विशेषत: ।
देवयोश्च सर्वेभोगाढ्ये विधाय च सभाजनम् ।। 25.140 ।।
तिलान् वस्त्रं सुवर्णं च रत्नं तण्डुलानपि ।
ताम्बूलं घृतपात्रं च दत्वाचार्याय दक्षिणाम् ।। 25.141 ।।
तत: कुण्डसमीपं च गत्वावाह्म च पावके ।
देवं समिद्घृतचरुहोमं च सुविधाय च ।। 25.142 ।।
कह्लारकुसुमैराज्यसंपृक्तैर्जुयात्तत: ।
अष्टोत्तरसहस्त्रैश्च शान्तिहोमं विधाय च ।। 25.143 ।।
भस्मना तिलकं कृत्वा देवमुद्वास्य चाग्रिगम् ।
गत्वा सकशं देवस्य हवनं च समर्प्य च ।। 25.144 ।।
बलिं च दत्वा परित: कुमुदादिगणस्य च ।
संप्रार्थ्य देवदेवेशमानीय कुसुमस्रज: ।। 25.1़35 ।।
शङ्खकाहलतूर्यादिनादयुक्तं पृथक् पृथक् ।
कुम्भे च मण्डले चैव कुण्डे चैकेकश: स्त्रज: ।। 25.146 ।।
अधिवासाय विविहता विनिवेश्यौत्सवेऽपि च ।
बिम्बे देवयोश्च धामान्तर्गत्वा मूलादिकेष्वपि ।। 25.147 ।।
बिम्बेषु विनिवेश्याथ पुनर्गत्वा च मण्डपम् ।
देवं क्षमापयित्वा च शयने चाधिरोपयेत् ।। 25.148 ।।
तत्रस्थस्य च देवस्य देवीभ्यो सहितस्य च ।
धान्यपात्रादिसकलान् दर्शयित्वा पृथग्विधान् ।। 25.1़49 ।।
यथापुरं संनिवेश्य शयने चापि शाययेत् ।
श्रीभूमिसहितं देवं प्राङ्मूर्धानं द्विजोत्तम ।। 25.150 ।।
कम्बलै: सितरक्ताद्यैर्देवार्हैरवकुण्ठ्य च ।
दिक्ष्वष्टासु स्थापयित्वा हेतीश्चक्रादिका: पृथक् ।। 25.151 ।।
यजमानेन सहितो जाग्रदेवं नयेन्निशम् ।
स्तोत्रेश्च वेदघोषैश्च गीतैर्नृत्तैश्च देशिक: ।। 25.152 ।।
प्रभाते गुरुरुत्थाय स्त्रात्वा नित्यविधिं द्विज ।
समापय्य ततो गत्वा देवपार्श्वं च देशिक: ।। 25.153 ।।
प्रणम्य देवमुत्थाप्य विष्टरे चोपवेश्य च ।
कुम्भाते गुरुरुत्थाय स्त्रात्वा देवपार्श्वं च देशिक: ।। 25.154 ।।
अर्ध्यादिमुधपर्कान्तं देवं च स्त्रानवेदिकाम् ।
अधिरोप्य तत: कुम्भै: स्त्रापयित्वाधमोत्तमै: ।। 25.155 ।।
अलंकृत्या यथापूर्वं विष्टरे विनिवेद्य च ।
अर्चयित्वा यथापूर्वं हवीषि विनिवेद्य च ।। 25.156 ।।
महा?हवश्च दशाभिस्तण्डुलानां कृतं तथा ।
भारै: सर्वफलोपेतै: सर्वव्यञ्जनसंयुतै: ।। 25.157 ।।
प्लतैर्धृतेन गव्येन गालितेन शुभेन च ।
अपूपपृथुकाद्यैश्च खाद्यवर्गै: सुसंस्कृतै: ।। 25.158 ।।
निवेदयित्वा बिम्बानां ध्रुवादीनां च सत्तम ।
अग्रौ च हुत्वा विधिवत् समिष: सप्त देशिक: ।। 25.1़59 ।।
पूर्णामपि विधायाथ देवाय विनिवेद्य च ।
समये शोभने प्राप्ते यजमानशुभावहे ।। 25.160 ।।
अर्चयित्वा यथाकुम्भं कुण्डमण्डगं हरिम् ।
[बहिर्म](वह्लिम?)ध्ये स्थितं देवं बिम्बस्थमपि तं प्रभुम् ।। 25.161 ।।
अर्चयित्वा विधानेन द्वारतोरणापूर्वकम् ।
कुम्भस्य कल्पिता माला: सकला विनिवेश्य च ।। 15.162 ।।
मण्डलस्य च कुम्भस्य माला: सर्वा द्विजोत्तम ।
कल्याणैतुकं चैव परिभूष्य विधाय च ।। 25.163 ।।
बलिपीठावसानं च भूषयित्वा समन्तत: ।
प्रासादं चापि तत्संस्थं देववृन्दं च देशिक: ।। 25.164 ।।
पवित्रैरिव मालाभि: परिभूष्य समन्तत: ।
कुसुदादिगणं सर्वमिन्द्रादीनापि सर्वत: ।। 25.165 ।।
तर्पयित्वा बहुविधैर्बलिभिर्वास्तुदेवता: ।
धान्यपात्राणि सर्वाणि मड्गलानि तथाष्ट च ।। 25.166 ।।
फलानि च समस्तानि ताम्बूलीपूगिकाश्च ता: ।
देवाय दर्शयित्वा तत्सकलं देशिक: स्वयम् ।। 25.167 ।।
शयनादि समस्तं च गृह्णीयात् स्वयमेव तत् ।
कुम्भमण्डलकुण्डादिसंस्थितं देवतागणम् ।। 25.168 ।।
उद्वास्य पुष्पयागोक्तविधिना कुम्भपूर्वकम् ।
वाहने देवदेवेशं रथादावधिरोप्य तम् ।। 25.169 ।।
ग्रामं वा धाम वा सर्वं परिभ्राम्य प्रदिक्षणम् ।
गर्भगेहान्तरं नीत्वा देवं कुम्भस्थवारिणा ।। 25.170 ।।
प्रोक्षयित्वा ततस्तत्र देवं सम्यङ्निवेष्य च ।
संप्रार्य्य देवदेवेश यजमानेन संयुत: ।। 25.171 ।।
गृहाण देवदेवेश कह्लारकुसुमै: कृताम् ।
त्वद्दत्तैर्भोगनिचयै:संपूर्णां सर्वकामदाम् ।। 25.172 ।।
इति विज्ञाप्य देवेशं प्रणिपत्य क्षमापयेत् ।
तस्मिन् काले च गुरवे यजमानस्तु दक्षिणाम् ।। 25.173 ।।
[दद्यान्निष्कशतं स्वर्णकतं](?) यद्वा तदर्धकम् ।
पशून् गृहाणि ग्रामांश्च वस्त्राणि विविधान्यपि ।। 25.174 ।।
अन्येभ्यश्चापि ऋत्विग्भय: सहकारिजनाय च ।
तत्तकार्यानुरूपेण प्रदद्याद्दक्षिणामपि ।। 25.175 ।।
गायकेभ्यो नर्तकेभ्यो वेदविद्भ्यश्र सर्वत: ।
वादकेभ्यश्च तूर्याणामुपकारिभ्य एव च ।। 25.176 ।।
संप्रीणनार्थं निष्काणि वस्त्राणि विविधान्यपि ।
प्रदपयेद्यथाशक्ति वित्तशाठ्यं न कारयेत् ।। 25.177 ।।
प्रभातायां रज्न्यां च पूजाया अवसानके ।
जपनीय च माल्यानि वैष्णपेभ्य: प्रदापयेत् ।। 25.178 ।।
ये धारयन्ति शिरसा देवभुक्तोज्ज्ञितानि तु ।
माल्यानि तानि ते सर्वे दुष्कृतं सप्तजन्मजम् ।। 25.179 ।।
अवधूय प्रपद्यन्ते विष्णुलोक पुनर्नरा: ।
य: कारयति विप्रेन्द्र पूजोमेतां मधुद्विष: ।। 25.180 ।।
अकिंचनोऽपि लभते पृथ्वीराज्यमकण्टकम् ।
भुक्त्वा च विविधान् भोगानिह लोके सुदुर्लभान् ।। 25.181 ।।
गजाश्वरथनागा(?) ढ्यान् पुत्रपौत्रसमन्वितान् ।
यशसा भुवनं सर्वं धवलीकृत्य मानव: ।। 25.182 ।।
पितॄनपि समुत्तार्य दश पूर्वान् दशावरान् ।
देहान्ते परमं धाम प्राप्रोत्यपुनरागतिम् ।। 25.183 ।।
आचार्यमपि तं देवभुक्तोच्छिष्टस्त्रगादिभि: ।
अलंकृत्य गजाश्वादियानमारोप्य चाग्रत: ।। 25.1़84 ।।
भेरीकाहलशङ्खादिवाद्यधोषपुर:सरम् ।
वेदविदिभर्द्विजश्रेष्ठै: सेव्यमानं समन्तत: ।। 25.185 ।।
छत्रचामरसंयुक्तं कृत्वा ग्रामप्रदक्षिणम् ।
प्रवेशयेत् स्वकं गंहं सर्वङ्गलसंयुतम् ।। 25.186 ।।

इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
कह्लारकुसुमारोपणं (णविधि:?) नाम पञ्चविंशोऽध्याय: ।।

-----------*------------