← अध्यायः २३ विश्वामित्रसंहिता
अध्यायः २४
[[लेखकः :|]]
अध्यायः २५ →
विश्वामित्रसंहितायाः अध्यायाः

चतुर्विंशोऽध्याय:
काश्यप:---
भगवन् वैष्णवे यागे क्रियमाणेऽपि नित्यश: ।
राजराष्ट्रादिदोषेण विघ्रश्चेज्जायते गुरो ।। 24.1 ।।
तद्दोषप्रविघाताय किं कार्यं मानवैर्भुवि ।
मय्यनुग्रहबुद्धिश्चेत्तन्मे वक्तुं त्वमर्हसि ।। 24.2 ।।
विश्वामित्र:----
आराधने भमवत: क्रियमाणे द्विजोत्तमै: ।
मन्त्रलोपे क्रियालोपे शान्त्यर्थं श्रूयतां विधि: ।। 24.3 ।।
सांवत्सरिकदोषौघप्रायश्चित्तं वदाम्यहम् ।
पवित्रारोणं नाम सर्वपापप्रणाशनम् ।। 24.4 ।।
वर्षे वर्षे तु कर्तव्यमाराधनमिदं परम् ।
श्रावणे मासि वा कार्यं यद्वा भाद्रपदेऽपि वा ।। 24.5 ।।
[ऐष्वा(षा ?)दिमासा: सर्वत्र पवित्रारोपणं न च(?)] ।
निर्मितान् विप्रकन्याभिस्तन्तून् कार्पासजानपि ।। 24.6 ।।
कौशेयानथवा क्रीतान् समान् दोषविवर्जितान् ।
मुद्रमाषादिभिश्चूर्णै: संमिश्रं क्षालयेज्जलै: ।। 24.7 ।।
शुचिभिश्च प्रसन्नैश्च शुद्धेषु फलकादिषु ।
निधाय शोषयेद्विद्वानातपे शोधि(षि ?)तांस्तत: ।। 24.8 ।।
परीक्ष्य तृणरोमाणि निरस्य च समाहित: ।
त्रिगुणीकृत्य च पुनस्त्रिगुणानपि कारयेत् ।। 24.9 ।।
चतुर्गुणीकृत्य च तान् मातुलुङ्गफलोपमान् ।
विधाय स्थापयेत् पूर्वं मृत्पात्रेषु नवेषु च ।। 24.10 ।।
गोमयालेपिते शुद्धे भूतले सुसमे शुभे ।
प्रमाणानुगुणं शङ्कुद्वयं जज्ञद्रुमोदभवम् ।। 24.11 ।।
निघाय शङ्कोरारोप्य तद्वत्कुर्यात्प्रवर्त(वित्र?)कम् ।
स्त्रातै: शुक्लाम्बरधरैर्वेदविदिभ: समाहितै: ।। 24.12 ।।
धृतोर्ध्वपुण्ड्रै: कुशलैर्वैष्णवैरविकत्थनै: ।
उदङ्‌मुखै: प्राङ्मुखैर्वा कारयेत्तु पवित्रकम् ।। 24.13 ।।
सूत्रैरष्ठोत्तरशतं(?) द्वात्रिंशद्गुन्थिसंयुतम् ।
मूलबेरादिकानां स्यादधिवासार्थमीदृशाम् ।। 24.1़4 ।।
मण्डले पह्मामानं स्यात् कुम्भे तत्कुम्भामानकम् ।
मेखलामानकं कुण्डे पवित्रमघिवासकम् ।। 24.15 ।।
चक्रब्जमण्डलस्थेषु पह्मनाभ्यरनेमिषु ।
तत्स्नानि च कुवींत पवित्राणि वहिर्वृते(तौ?) ।। 24.16 ।।
तत्समानं पवित्रं स्याद् ग्रन्न्थितन्तुविधिं शृणु ।
तन्तूंश्चतु:शतं विद्धि ग्रन्थय: सप्तविंशति: ।। 24.17 ।।
पादोना तन्तुसंख्या स्याद् दिगुणा ग्रन्थयो द्विज ।
तन्तुसंख्या शतयुगं ग्रन्थयस्त्रिगुणात्म(त्मि?)का: ।। 24.18 ।।
बाह्मवृत्ते(ह्मवृतौ?) तत्स्ताश्च चतु:शतमितास्तथा ।
ग्रन्थय: पञ्चगुणिता: कुमृभस्याष्टोत्तरं शतम् ।। 24.19 ।।
तन्तवो ग्रन्थयश्च स्युश्चतुर्शिंशतिसंख्यका: ।
करके तन्व: कार्या एकाशीतिप्रमाणका: ।। 24.20 ।।
सप्तविंशतिसंख्याका ग्रन्थय: करकेऽपि च ।
कौतुकानां पवित्राणि दश तानि क्रमाच्छृणु ।। 24.21 ।।
प्रमाणगन्धालंकारवित्रत्रयमुत्तमम् ।
मध्यमं चाधममिति त्रीणि पश्चात् किरीटकम् ।। 24.22 ।।
श्रीवत्सं कौस्तुभं चैव वनमाला त्रयं तथा ।
इत्थं दशपवित्राणि तन्तुग्रन्थिक्रमं शृणु ।। 24.23 ।।
नाभ्यन्तं प्रथमं सूत्रमष्टोत्तरशतं विदु: ।
द्वात्रिंशत् स्याद् ग्रन्थिसंख्या गन्धाख्यं हृदयावधि ।। 24.24 ।।
अशीतितन्तवस्तस्य ग्रन्थय: पञ्चविंशति: ।
अलंकारपवित्रं तु जङ्घामध्योक्तमायतम्(?) ।। 24.25 ।।
तन्तवोऽष्टोत्तरशतं द्वात्रिंशद् ग्रन्थयो मता: ।
उत्तमाख्यापवित्रस्य सूत्रसंख्या चतु:शतम् ।। 24.26 ।।
ग्रन्थयोष्टोत्तरशतं जानुमध्यान्तमायतम्(?) ।
मध्यमस्य च तन्तूनां शतानि त्रीणि काश्यप ।। 24.27 ।।
अशीतिग्रन्थयो ज्ञेया ऊमध्यं तदायति:(?) ।
अधमस्य शते द्वे तु तन्तव: परिकीर्तिता: ।। 24.28 ।।
ग्रन्थयस्तस्य षष्टि: स्युर्नाभिमध्यं तदायति:(?) ।
किरीटाख्यपवित्रस्य तन्तव: स्युश्चतु:शतम् ।। 24.29 ।।
किरीटमेव मानं स्याद् द्वात्रिंशद्ग्रन्योऽस्य च ।
श्रीवत्साख्यपवित्रस्य तन्तव: स्युश्चतु:शतम् ।। 24.30 ।।
ग्रन्थय: सप्तविंशत् (?) स्यादभा(स्युर्हा ?)रान्तं तत्प्रकल्पनम् ।
कौस्तुभस्य शते द्वे तु तन्मूनां परिकीर्तिते ।। 24.31 ।।
द्वात्रिंशद् ग्रन्थय: कार्या: स्तनमध्यं तदायति:(?) ।
वनमालाह्वयस्य स्युस्तन्वोऽष्टसहस्त्रकम् ।। 24.32 ।।
प्रमाणं चरणायामं ग्रन्थिसंख्या न विद्यते ।
पीठस्य च पवित्रं स्यात् पञ्चविंशतिसूत्रकम् ।। 24.33 ।।
दशभिर्ग्रन्थिभिर्युक्तं तदायामसमन्वितम् ।
उर्ध्यापात्रे धूपदीपपात्रे घटाक्षमालयो: ।। 24.34 ।।
सर्वेष्वष्टोत्तरशतं सूत्राणि ग्रन्थयोऽपि च ।
यथाशोभं प्रकल्प्या: स्युरायामो द्वादशाङ्गुल: ।। 24.35 ।।
विष्वक्सनेनस्य तार्क्ष्यस्य दिक्पालानां च काश्यप ।
दिग्देवतानां च तथा दुर्गाविघ्रेशयोरपि ।। 24.36 ।।
ब्रह्मशंकरयोश्चापि तन्तवोऽष्टोत्तरं शतम् ।
द्वात्रिंशद् ग्रन्थय: प्रोक्ता हस्तायामो(?) द्विजोत्तम ।। 24.37 ।।
चण्डादीनां च सर्वेषां सप्तविंशतिसूत्रकम् ।
हस्तमानं प्रकर्तव्यं यशाशोभमपि द्विज ।। 24.28 ।।
द्वारतोरणकुम्भानां तद्वदेव पवित्रकम् ।
कर्णिकायामसट्टशं बलिठपवित्रकम् ।। 24.39 ।।
आचार्याणां यतीनां च नाभ्यन्तपरिलम्बितम् ।
अष्टोत्तरशतै: सूत्रैर्बहुभिर्ग्रन्थिभिर्युतम् ।। 24.40 ।।
ऋत्विजां पूजकानां च वैष्णवानां तथैव च ।
सूत्रैरेकोत्तराशीतिमितैर्नाभ्यन्तलम्बितम् ।। 24.41 ।।
राज्ञामष्टोत्तरशतै रचितं तन्तुभिर्द्विज ।
निर्मिंतं तूलगर्भैश्च ग्रन्थिभि: शोभितं यथा ।। 24.42 ।।
नाभ्यन्तलम्बितं कार्यमन्येषामनुजीविनाम् ।
एकशीतिप्रमाणैश्च सूत्रै: कार्यं द्विजोत्तम ।। 24.43 ।।
वैश्यदीनां च कुर्वीत चतुर्विंशतिन्तुभि: ।
विभवे सति सर्वेषां पवित्राणां तु विस्तृति:(?) ।। 24.44 ।।
मणिमुक्ताप्रवालाद्यैलोहै: स्वर्णादिभिस्तथा ।
तदभावे च तूलैर्वाग्रन्थिमध्यं प्रपूर्य च ।। 24.45 ।।
सूत्रैर्ग्रन्थयन्तरालानि यथाशोभं तु र ञ्जयेत् ।
विभवे सति संकोचो नैव कार्यो विजानता ।। 24.46 ।।
पवित्रेषु कृतेष्वेवं शास्त्रचोदितवर्त्मना ।
निक्षिप्य हेमभाण्डेषु महत्सु बहुषु द्विज ।। 24.47 ।।
अथवा मृण्मयेष्वेव शुभेषु शंचिषु द्विज ।
वस्त्रखण्डैश्च वक्त्राणि सूत्रैर्बध्वा ट्टढैरपि ।। 24.48 ।।
पूर्वपक्षे दशम्यां च सायाह्ने मूर्तिपै: सह ।
सहैव यजमानेन प्रविश्य सदनं हरे: ।। 24.49 ।।
आराधयित्वा देवेशं भक्त्या विज्ञापयेत् स्वयम् ।
प्रणत: प्राञ्जलिर्मूत्वा गाथामेतामुदीरयेत् ।। 24.50 ।।
भगवन् नृहरे तस्मिन् नित्यपूजाविधौ तव ।
न्यूनातिरेकजनितदुरितोत्सारणक्षमम् ।। 24.51 ।।
सर्वासां संपदां चैव समुत्पादनहेतुकम् ।
पवित्रारोह(प?)णं नाम समाराधनमुत्तमम् ।। 24.52 ।।
चिकीर्षाभि जगन्नाथ विधिना चोदितेन तत् ।
कारयित्वा त्वविघ्रेन जुषस्व दयया मयि ।। 24.53 ।।
इत्थं विज्ञापनं कृत्वा प्रणम्यालयमध्यत: ।
निर्गत्य मण्टपवरं स्वनुलिप्तं खलंकृतम् ।। 24.54 ।।
वितानध्वमालाभिर्दर्भमालापरिष्कृतमम् ।
द्वारपर्श्वेषु(र्श्वसु?)विन्यस्तपूर्णकुम्भयुगं द्विज ।। 24.55 ।।
चक्राब्जमण्डलं तत्र कारयित्वा विधानत: ।
मण्डलस्य समीपे तु दर्भानास्तीर्य देशिक: ।। 24.56 ।।
आसीन: प्राङ्मुखस्तिष्ठन् संकल्प्योवसेत्तत: ।
जाग्रदेव नयेत्तत्र रात्रिं जपपरस्तदा ।। 24.57 ।।
एकादश्यां निशादौ तु कारयेदधिवासनम् ।
प्रतिष्ठोक्तेन विधिना विधायाङ्कुररोपणम् ।। 14.58 ।।
बन्धनं कौतुकस्यैव कृत्वा कल्याणकौतुकम् (के?) ।
तोराणाद्यर्चनं कृत्वा मण्टपं दिग्विदिक्षु च ।। 24.59 ।।
ऋगादिवेदांश्चतुरो द्विजाग्र्यैर्वेवित्तमै: ।
शखामेकायनीं चापि वि?द्वदिभरभिघोष्य च ।। 24.60 ।।
भेरीपटहकांस्यादि घोषयित्वा समन्तत: ।
कारयित्वा च गीतादीन् सर्वमङ्गलसंयुतम् ।। 24.61 ।।
शीलीनां दशभिर्भारै: कृत्वा माहेन्द्रमण्डलम् ।
पवित्रभाण्डमखिलं तत्र संस्थाप्य देशिक: ।। 24.62 ।।
पुण्याहधोषणं कृत्वा दहनाप्यायनादिकै: ।
विशोध्य धूपयित्वा तु कालागरुसमुदभवै: ।। 24.63 ।।
कलशैश्चन्दनाद्यैश्च घनसारैश्च सर्वत: ।
सर्वतो गन्धपुष्पैश्च सुशुभैरभिषिच्य च ।। 24.64 ।।
क्षौमैरमिनवैस्तानि पात्रण्यावेष्टय काश्यप ।
चक्रमुद्रां दर्शयित्वा सभाज्यास्त्रेण मण्टपम् ।। 24.65 ।।
संवेष्ट्ये सूत्रैरीशानीं दिशामारभ्य सर्वत: ।
उपरिष्टान्मण्टपस्य ध्यात्वास्त्रेशं सुदर्शनम् ।। 24.66 ।।
भूतले सगदं पह्मं पाञ्चजन्यं दिशास्वपि ।
छिदान्वेषणदक्षाणां भूतानां शान्तये पुन: ।। 24.67 ।।
बलिं माषौदनेनैव विकीर्य च समन्तत: ।
स्त्रापयित्वौत्सवं बिम्बमुपवीतावसानकम् ।। 24.68 ।।
सभाज्य मण्टपे चैव समानीय द्विजोत्तम ।
निवेद्य च हविस्तत्र समाप्याराधनं हरे: ।। 24.69 ।।
कर्करीसहिते कुम्भे हविरन्तं सभाज्य च ।
हव्यवाहगतं देवं तर्पयित्वा हुतेन च ।। 24.70 ।।
पवित्रभूषणं सर्वं चतु:स्थानस्थितस्य च ।
पृथक् पृथक् पात्रगतं पुरतो विनिवेश्य च ।। 24.71 ।।
जपन्निदं विष्णुरितिमन्त्रं मङ्गलसंयुतम् ।
आसाद्य मूलबिम्बं तु पवित्रं मूलमन्त्रत: ।। 24.72 ।।
तस्मिन् विन्यस्य सर्वत्र क्रमादर्चासु देशिक: ।
पवित्रभूषणन्यासं विधाय तदन्तरम् ।। 24.73 ।।
सूत्रैश्च पञ्चवर्णाद्यै:(ढ्यै:?)प्रासादं चापि वेष्टयेत् ।
तां रात्रिं सकलां नीत्वा जाग्रदेव जपादिकै: ।। 24.74 ।।
प्रभाते मण्डपाग्रस्थं नीत्वा स्त्रानार्थवेदिकाम् ।
स्त्रापयित्वा च विधिना भूषयित्वा तत: परम् ।। 24.75 ।।
नीत्वा च मण्डलं तत्र पूजयेद्दीपपाश्चिमम् ।
कुम्भादीनपि चाभ्यर्च्य तिवेद्यान्नं चतुर्विधम् ।। 24.76 ।।
हुत्वा च पायसादीनि पुंसूक्तेन पृथक् पृथक् ।
बहुभि: सतिलैर्लार्धूपैरगरुभिस्तत: ।। 24.77 ।।
समिदिभराज्यैहुयात् पृथगष्टशताहुती: ।
सांवत्सरोक्ते सुभगे मुहूर्ते देशिकोत्तम: ।। 24.78 ।।
मण्डलं भूषयेत्पूर्वं पवित्रैर्मूषाणोत्तमै: ।
मण्डलाङ्गानि च तथा पह्मादीनि यथातथम् ।। 24.79 ।।
कुम्भादीनपि चाभ्यर्च्य निवेद्यान्नं चतुर्विण्धम् ।
कुम्भस्थे(म्भे च ?) करके देवे कुण्डे वा तोरणादिषु ।। 24.80 ।।
तत्कुम्भेषु च सर्वेषु भूषणानि यथाक्रमम् (?) ।
मण्डलस्यं जगन्नाथं परीत्याथ प्रदक्षिणम् ।। 24.81 ।।
सर्वमङ्गलसंयुक्तं मन्दिरान्त: प्रवेश्य च ।
स्त्रपनादिनिवेद्यान्ते विधाय च सभाजनम् ।। 24.82 ।।
मूलार्चादीनि सर्वाणि बिम्बान्यपि पवित्रकै: ।
अलंकृत्याथ निर्गत्य चण्डादीनामपि द्विज ।। 24.83 ।।
परिवारगणानां च पवित्राणि निधाय च ।
ब्रह्मादीनापि तथा सेनानीतार्क्ष्ययोरपि ।। 24.84 ।।
बलिपीठावसानानां सर्वेषामपि काश्यप ।
विष्णुगायत्रिया यद्वा तथेदं विष्णुरित्यपि ।। 24.85 ।।
अष्टाक्षरेण वा यद्वा द्वादक्षरविद्यया ।
पवित्राणि प्रदायाथ देशिको मूर्तिपैर्युत: ।। 24.86 ।।
प्रविश्य विष्णो: सदनं यजमान: समाहित: ।
अञ्जलौ रत्ननिचयं हैमं वा पुष्पसंचयम् ।। 24.87 ।।
निवेश्य स्तोत्रपठनं कुर्वन्नंव पदाब्जयो: ।
विकीर्य तानि रत्नानि हैमानि कुसुमान्यपि ।। 24.88 ।।
मनुजानामपि तथा पवित्राणि कृतानि च ।
वस्त्राण्यनि च विज्ञाप्य देवं गृह्णीत देशिक: ।। 24.89 ।।
ऋत्विग्भ्य: पूजकेभ्यश्च वेदविद्भ्यश्च दापयेत् ।
विहितानि पवित्राणि ट्टष्ट्वा देवमुखाम्बुजम् ।। 24.90 ।।
विज्ञापयेदिमापं गाथां सर्वदेवक्षमापिणीम् ।
देवदेव जगन्नाथ यदाम्भोधे मया कृतम् ।। 24.91 ।।
गृहाणाराधनमिदं सर्वभोगप्रपूरणम् ।
स्वातन्?त्र्येण मया नैतद्विहितं जगतां निधे ।। 24.92 ।।
किं तु त्वत्प्रेरिमति: किमु बान्यत् क्षमस्व मे ।
इत्थं विज्ञाप्य देवेशं प्रणिपत्य क्षमापयेत् ।। 24.93 ।।
यजमानश्च गुरवे तस्मिन् काले पशून् भुव: ।
गृहं च धनधान्याढ्यं दद्यात् प्रीतेन चेसा ।। 24.94 ।।
अन्येभ्य: सहकारिभ्यस्तत्तत्कर्मानुरूपत: ।
देया च दक्षिणा तेषां मन:प्रीतिर्यथा भवेत् ।। 24. 95 ।।
अपराह्णे च देवेशां नीत्वा धाम प्रदक्षिणम् ।
सर्वमङ्गलसंयुक्तं मन्दिरान्त: प्रवेशयेत् ।। 24.96 ।।
सप्त त्रीन् पञ्च दिवसान् समतीत्यावरोहणम् ।
पौरुषं सूक्तमुच्चार्य तथा साम रथन्तरम् ।। 24.97 ।।
त्रिसुपर्णं मूलमथ पवित्राण्यवरोपयेत् ।
गुरवे तानि देयानि प्रीणनार्थं मधुद्विष: ।। 24.98 ।।
कुम्भस्थं मण्डलस्थं च वहिस्थं च हरिं पुन: ।
विसृज्य देवस्य तत: स्त्रपनं चापि कारयेत् ।। 24.99 ।।
अनेन विधिना विप्र पवित्रारोह(प?)णं हरे: ।
कुर्वत् फलान्यनन्तानि प्राप्रोत्येव न संशय: ।। 24.100 ।।
अनेन विधिना विप्र कङ्लारकुसुमान्यपि ।
तथा ?दमन्या: पत्राणि देवस्यारोपयेद् द्विज ।। 24.101 ।।
सांवत्सरिकभोगानां पूरणार्थं श्रिय: पते: ।।

इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
प?वित्रारोपणविधिर्नाम चतुर्विशोऽध्याय: ।।

--------*--------