← अध्यायः २ विश्वामित्रसंहिता
अध्यायः ३
[[लेखकः :|]]
अध्यायः ४ →
विश्वामित्रसंहितायाः अध्यायाः

तृतीयोऽध्याय:
काश्ययप:----
गुरुरेवं त्वया प्रोको प्रोक्तो मुने किंलक्षण: स्मृत: ।
[किं वा योनि:समाचार](किंयोनिर्वा किमाचार:)सत्च्छिष्यश्चापि
कीट्टश: ।। 3.1 ।।
विश्वामित्र:---
श्रूयतामभिधास्यामि गुरोर्लेक्षणमुत्तमम् ।
ब्राह्मण्यां ब्राह्मणाज्जातो यथावत् साङ्गवेदवित् ।। 3.2 ।।
कृतश्रम: शब्दशास्त्रे बहुश: प्रयतात्मवान्
न्यायशास्त्रे च निष्णातो वैशेषिकविचक्षण: ।। 3.3 ।।
मीमांसापारट्टश्वा च सांख्ये योगे च निष्ठित: ।
ज्योतिषामयने कल्पे शीक्षायां च विशारद: ।। 3.4 ।।
निरुक्ते छन्दसां शास्त्रे वास्तुशास्त्रे तथौव च ।
सर्वशास्त्रार्थतत्त्वज्ञ: प्रतिभानसमन्वित: ।। 3.5 ।।
वेदान्तविश्रन्तमना: कर्मणां च प्रयोगवित् ।
पञ्चरात्रार्थनिष्णात: पञ्चकालपरायण: ।। 3.6 ।।
सृष्टिसंहारतत्त्वज्ञो लोकानां करुणाकर: ।
स्थिरघीर्मधुराभाषी विनीत: सत्यसंगर: ।। 3.7 ।।
विमत्सर: प्रसन्नात्मा साधुर्वाग्मी जितेन्द्रिय: ।
[उपेन्द्रिय:](?) पण्डितश्च पुण्यापुण्यविवेकभाक् ।। 3.8 ।।
प्रासादप्रतिमादीनां गुणदोषविशेषवित् ।
नित्यस्त्रायी शुद्धवासा: शुद्धवेष: शुभाश्रय: ।। 3.9 ।।
दोषाभिप्वङ्गरहितो ज्ञानी नित्यं जितेन्द्रिय: ।
विष्णोराराधनपरो ?हुताग्रिर्मन्त्रवित्तम: ।। 3.10 ।।
सर्वसंशयसंछेत्ता शिप्याणां शान्?तमानस: ।
वैष्णवानागतान् टृष्ट्वा ह्मभ्युत्थानाभिवादनै: ।। 3.11 ।।
प्रतिग्रहीतार्चनाभिरर्घ्याद्याभि: कुतूहलात् ।
अनन्यचेता: सततं विष्णोर्भजनतत्पर: ।। 3.12 ।।
समयाचारनिरत: संविद्वाग्मी गुरो: प्रिय: ।
प्रेष्यवर्गाशनात् पश्चात् स्वयं भोक्ता सतां मत: ।। 3.13 ।।
पराङ्मुखो निषिद्धेषु परमास्तिक्यसंयुत: ।
धृतोर्ध्वपुण्ङ्ग: सततं शस्तया श्वेतमृत्स्रया ।। 3.14 ।।
शङ्खचकादिभिश्रिहै: स्वेषु स्थानेषु ला?ञ्छत: ।
अन्यूनानतिरिक्तैश्च सर्वाङैग: समनङ्कृत: ।। 3.15 ।।
आभिरूप्यगुणोपेते: प्रजारञ्जनतत्पर: ।
एवं लक्षणसंयुक्तो य: स आचार्य उच्यते ।। 3.16 ।।
शिष्याणां लक्षणं वच्मि तच्छृणुप्व साहित: ।
त्रिषु वर्णेषु संभूत: प्रशस्तकुलसंभव: ।। 17 ।।
अधतसाङ्गवेदश्च नित्यस्त्रायी जितेन्द्रिय: ।
श्रुतवृत्तोपसंपन्न: सत्यवाक् पाठतत्पर: ।। 3.18 ।।
आचर्यभक्तियुक्तश्च सुशील: शाठ्यवर्जित: ।
अलुब्ध: संविभागी च कृतज्ञ: सज्जनाटृत: ।। 3.19 ।।
खदारमात्रसंतुष्ट: शास्त्रश्रवणतत्पर: ।
संवत्सरै?स्त्रिभिर्वापि द्वाभ्यां वैकेन वा द्विज ।। 3.20 ।।
परीक्षित: प्रसन्नात्मा विष्णुभक्तिसमन्वित: ।
अपर्युषितभोक्ता च जिह्वाचापलवर्जित: ।। 3.21 ।।
संनिधौ च गुरोर्मौनी भूमावेवोपवेशक: ।
मातापित्रोष्च शुश्रूषु: श्रौतस्मार्तक्रियापर: ।। 3.22 ।।
गुरो: पत्नयां गुरो: पुत्रे गुरुवद्वृत्तिसंयुत: ।
मित्राणामनभिद्रेही द्वेष्यसंगविवर्जित: ।। 3.23 ।।
निषिद्धाचारविमुखो वृद्धानामभिवादक: ।
अग्रिकार्ये च निरतो गुरो र्वेश्मन्यतन्द्रित: ।। 3.24 ।।
आराधको वैष्णवानां वेद्यानां शुभलक्ष्ण: ।
धृतोर्ध्वपुण्ड्रतिकल: सदा द्वादशनामभि: ।। 3.25 ।।
प्रशस्तोज्जवलवेषश्च शङ्खचक्रादिलाञ्छित: ।
एवमादिगुणैयुंक्त: स्थिरधी: शिष्य उच्यते ।। 3.26 ।।
स्त्रिय: शूद्राश्चानुलोमा: कल्याणगुणसंयुता: ।
यदि तानपि शिष्यत्वे गृह्णीयात् कृपया गुरु: ।। 3.27 ।।
बाधिर्यादिभिराचार्यो दोषै: कैश्चिद्युतो यदि ।
न स त्याज्यो भवेदेष दीक्षितश्चक्रमण्डले ।। 3.28 ।।
तद्ग्रतं ज्ञानपौष्कल्यं दौषांश्च गुणतां नयेत् ।

इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
[गुरुशिष्यलक्षणं नाम] तृतीयोऽध्याय: ।।
 
-----*-----