← अध्यायः ८ विश्वामित्रसंहिता
अध्यायः ९
[[लेखकः :|]]
अध्यायः १० →
विश्वामित्रसंहितायाः अध्यायाः

नवमोऽध्याय:
काश्यप:----
दीक्षाया लक्षणं ब्रूहि भगवन् मदनुग्रहान् (?) ।
त्सर्वं विस्तरेणैव ब्रूहि मे भक्तवत्सल ।। 9.1 ।।
विश्वामित्र:----
दीक्षां वक्ष्ये तु संक्षेपात् तच्छृणु दिजपुंगव ।
आदित्ये मीनमेषवृषनकेषुसंस्थिते ।। 9.2 ।।
पूर्वपक्षे शुभे ऋक्षे एकादयां तथा निशि ।
शुचौ देशे मनोज्ञे च कारयित्वा तु मण्डपम् ।। 9.3 ।।
गोमयेन समालिप्य वेष्ठयेद्दर्भमालया ।
वेदीं कुर्याच्च तन्मध्ये चतुर्हस्तप्रमाणत: ।। 9.4 ।।
तालोत्से[धापरा चान्ये विस्तारायामतत्समा]: ।। (?) ।
वेद्या: पश्चिमदिग्भागे कुण्डं कुर्याद्विधानत: ।। 9.5 ।।
क्रमेण ब्राह्मणादीनामेवंलक्षणकं मुने ।
चतुष्कोणं तालयुग्ममनुकूलं द्विजस्य तु ।। 9.6 ।।
वृत्तं कुर्यात् क्षत्रियस्य गोकर्णयुतसंयुतम् ।
चापाकारं च वैश्यस्य वितस्तिद्वयसंमितम् ।। 9.7 ।।
त्रिकोणं शूद्रयोने: स्यात् प्रादेशद्वयसंमितम् ।
विस्तारायामसदृशं तत्प्रमाणमितां तथा ।। 9.8 ।।
त्रिमेखलां च कुर्वीत पश्चिमे योनिभूषिताम् ।
दशम्यां संभरेत् सर्वान् समिदादीन् समाहित: ।। 9.9 ।।
मध्यंदिने शुचि: स्नात एकभुक्तेन वर्तंयेत् ।
एकादश्यां तिथौ स्?नात: शुद्धवासोयुगं दधत् ।। 9.10 ।।
श्वेतगन्धानुलिप्ताङ्ग: श्वेतमाल्यविभूषित: ।
भूषितश्च यथालब्धैर्भूषणै: समलंकृत: ।। 9.11 ।।
सायंकाले तु संप्राप्ते कुर्याच्चैवाधिवासनम् ।
चतुर्षु द्वारदेशेषु पार्श्वयो: कलाद्वयम् ।। 9.12 ।।
निधाय वेदविकामध्ये कुर्याच्चक्राब्जमण्डलम् ।
हेमादिनिर्मितं कुम्भं गालितोदकपूरितम् ।। 9.13 ।।
विन्यस्तरत्नकनकं सकूर्चं सूत्रवेष्टितम् ।
वासोयुगलसंवीतं चन्दनस्त्रगलंकृतम् ।। 9.14 ।।
अक्षतै: सुमनोभिश्च विकीर्णं च समन्तत: ।
यद्दव्यनिर्मित: कुम्भस्तद्द्रव्यात् कर्करी भवेत् ।। 9.15 ।।
शतकृत्वोऽस्त्रमन्त्रेण कर्करीं चाभिमन्त्रयेत् ।
वेदिकां परित: सिञ्चेत् धारयाच्छिन्नया गुरु: ।। 9.16 ।।
चक्रब्जस्येशदिग्भागे कुम्भस्थापनमावरेत् ।
व्रीहिन् निधाय सुशुभान् कुम्भं तस्योपिर न्यसेत् ।। 9.17 ।।
कुम्भस्यान्त: फलं तस्य फलनि परितो न्यसेत् ।
कलशं दक्षिणे पार्श्वे वामे च करकं न्यसेत् ।। 9.18 ।।
कुम्भे च हरिमावाह्म पूजयेन्मूलविद्यया ।
मण्डले च यजेद् देवमुपचारैश्च षोडशौ: ।। 9.9 ।।
सह सर्वै: परीवारै: शास्त्रचोदितवर्त्सना ।
पश्चिमे च हरिं देवं मण्डलादुक्त्वर्त्मना ।। 9.20 ।।
हरिं च लक्ष्मीभूमिभ्यां शयानं परिकल्प्य च ।
भोगैरर्ध्यादिभि: सर्वैर्नैवेद्यान्तै: सभर्चयेत् ।। 9.21 ।।
मथित्वाग्रिं च मूलेन कुण्डे तं विन्यसेद्ग्रुरु: ।
तत्र सिद्धं चरुं कृत्वा तण्डुलै: सुसितै: शुभै: ।। 9.22 ।।
चतुर्भागैकभागं तु मण्डलस्थाय विष्णवे ।
निवेद्य चैकं भागं तु कुम्भस्थाय निवेदयेत् ।। 9.23 ।।
जुहुयादग्रये भागं भागं भुञ्जीत तत्स्वयम् ।।
समिधोऽष्ठोत्तरशतं जुहुयान्मूलविद्यया ।। 9.24 ।।
सरुं पुरुषसूक्तेन तावत्संख्यं हुनेद्बुध: ।
पूर्णाहुतिं विधायान्ते स्रातं शिष्यं जितेन्द्रियम् ।। 9.25 ।।
वसानं चाहते शुभ्रे वाससी भूषणोत्तमै: ।
भूषितं चानुलिप्ताङ्गं शुद्धमाल्यविभूषितम् ।। 9.26 ।।
आहूय नववस्त्र्?ेण नेगे बध्रीत वाग्यत: ।
गुरु: स्वदक्षिणे भागे प्राङ्मुखं चोपवेश्य तम् ।। 9.27 ।।
अन्वारब्धस्तेन चैव घृतेन चरुणापि च ।
आहुतीर्द्वादश हुनेत् पृथक् पृथगनुक्रमात् ।। 9.28 ।।
हुत्वा तिलै: सकुसुमैस्त्रिधा मूध्न्?र्यस्य चालभेत् ।
हुतभस्म समादाय सितमष्टाक्षरेण तु ।। 9.29 ।।
ऊर्ध्यपुण्ड्रं च विन्यस्य बध्वा प्रतिसरं करे ।
दक्षिणे चास्मन्त्रेण प्राशयेत् पञ्चगव्यकम् ।। 9.30 ।।
प्रणवेन चरुं पश्चाद् भोजयेदात्मशुद्धये ।
दन्तकाष्ठेन दन्तांश्च शो धयित्वा क्षिपेच्च तत् ।। 9.31 ।।
तदग्रपतन्स्थानं सम्यगालोकयेद्ग्रुरु: ।
याम्यनैऋर्त[वायव्यं](व्ये?) यदग्रमशुभं हि तत् ।। 9.32 ।।
अन्यदिक्षु शुभं ब्रूयात् शन्तिहोमेन चाशुभम् ।
शमयेन्नारसिंहेन मनुनाष्टशताहुती: ।। 9.33 ।।
तिलानाचमयेच्छिष्यं देवस्यालोक्य पादयो: ।
गुरुश्च प्रणतो मूर्ध्रा देवं विज्ञापयेत् तत: ।। 9.34 ।।
संसारपाशबद्धानां पशूनां पाश[मोक्षणे](चने?) ।
त्वमेव शरणं देव गतिरन्या न विद्यते ।। 9.35 ।।
पाश[मोक्षण](चन?)हेतुर्यस्त्वत्समाराधनात्मक: ।
तेनेमान् जन्मपाशेन पाशितान् पशुजन्मन: ।। 9.36 ।।
विपाशयामि देवेश तदनुज्ञातुमर्हसि ।
इति विज्ञाप्य देवेश शिष्यं सूत्रेण वेष्टयेत् ।। 9.37 ।।
कृत्वा टृढं कृष्णवर्णौस्त्रिसूत्रैस्त्रिगुणीकृतम् ।
पुनस्तत् त्रिगुणीकृत्य तं पादादि शिरोऽवधि ।। 9.38 ।।
पञ्चविंशतिवारांस्तु वेष्टयेच्छिष्यदेहके ।
तत्संस्पृष्टोऽथ जुहुयात् सर्पिषाष्टोत्तरं शतम् ।। 9.39 ।।
पूर्णाहुतिं विधायाथ स्वप्रदर्शनसिद्धये ।
स्वप्राधिपतिमन्त्नेण तावत्संख्यं हुनेद्ग्रुरु: ।। 9.40 ।।
माषौदनबलिं द़द्यादूतेभ्यश्च समाहित: ।
शिष्यस्य नेत्रबन्धं च विस्त्रय च शरीरगम् ।। 9.41 ।।
आदाय मायासूत्रं तच्छरावे निक्षिपेदथ ।
पिघाय तत्कुम्भपार्श्वे स्थापयित्वा द्विजोत्तम ।। 9.42 ।।
दर्भान् संस्तीर्य तेष्यवेनं स्थापयेत् प्राविछरो यथा ।
कुम्भमण्डलगं देवं तदा नोद्वासयेद्ग्रुरु: ।। 9.43 ।।
प्रात: पूच्छेच्च शिष्यं तं स्वप्रस्य च शुभाशुभम् ।
शुभं चेद्दीक्षयेदेनमशुभं चेन्न दीक्षयेत् ।। 9.44 ।।
शान्तिहोमेन तच्छान्तिं कृत्वा स्त्रात्वा शुचिस्तत: ।
सशिष्य: प्रविशेत्तत्र मण्डपे यागसंभृते ।। 9.45 ।।
ध्वजं च तोरणं चैव पूजयित्वा विधानत: ।
कुम्भगण्डलसंस्थं तं देवमभ्यर्च्य भक्तित: ।। 9.46 ।।
पायसादि निवेद्यान्नं प्रणम्यैव प्रदक्षिणम् ।
नेत्रबन्धं च शिष्यस्य कृत्वा पार्श्वे निवेश्य च ।। 9.47 ।।
देशिको मूलमन्त्नेण समिदाज्यतिलान् पृथक् ।
अष्टोत्तरशतं हुत्वा पूर्णान्तमवधानत: ।। 9.48 ।।
आदाय मायासूत्रं तत् छित्वा वै तत्त्वसंख्यया ।
संहारक्रमयोगेन [सामेष: (?)]पञ्चविंशति: ।। 9.49 ।।
प्रकृत्यादीनि संस्मृत्य तत्त्वानि जुहुयाद्गुरु: ।
पृथगष्टशतं वारानष्टकृत्वोऽथवा हुनेत् ।। 9.50 ।।
गुरु: स्वहृदयाम्भोजकर्णिकायां सुसंस्थितम् ।
ध्यात्वा नारायणं देवं परमात्मानमच्युतम् ।। 9.51 ।।
शिष्यस्य जीवं संस्मृत्य तस्मिन्नेव प्रवेशयेत् ।
शोषणादि विधायाथ शिष्यदेहस्य देशिक: ।। 9.52 ।।
पुन: स्वहृदयाब्जं च सजीवं संक्रमय्य च ।
सृष्ठिक्रमेण तत्त्वानि प्रकृत्या विनियोजयेत् ।। 9.53 ।।
सृष्टिकाले च तत्त्वानां जुहुयाच्च यथाक्रमम् ।
स्पृष्टमा श्ष्यिशरीरं तु तन्मध्ये शिष्यसंयुतम् ।। 9.54 ।।
ध्यात्वा तत्र स्थितं देवं वस्त्रेणामूलविद्यया ।
नेत्रबन्धं च [विन्य](स्र?)स्य परिधायाम्बरान्तरम् ।। 9.55 ।।
पादौ प्रक्षालयित्वा तमाचमय्याथ चक्षुषी ।
वासोऽन्तरेण बध्वाथ स्वपार्श्चे संनिवेश्य च ।। 9.56 ।।
आसीनस्य प्राङ्युखस्य शोधयेदध्वपद्धतिम् ।
कालाध्वानं पदाध्वानं भुवनाध्वानमन्वत: ।। 9.57 ।।
तत्त्वाध्वानं च तदनु मन्त्राध्वानमनन्तरम् ।
वर्णाध्वानं च मतिमात् शोधयित्वा ?स्वविद्यया ।। 9.58 ।।
महाव्याहृतिभि: पूर्वमाज्यहोमं विधाय तु ।
हुत्वाशिष्टेनाज्येन शिष्यपादौ स्पृशेद्ग्रुरु: ।। 9.59 ।।
हुत्वा ततस्तिलैर्नाभिं स्पृशेत्तदविशेषत: ।
पह्महोमं विधायास्य हृदयं च समालभेत् ।। 9.60 ।।
तत्र हुत्वा च चरुणा संपृशेदस्य मस्तकम् ।
पृथगष्ठशतं होमो महाव्याहृतिभिर्भवेत् ।। 9.61 ।।
ततो गृहीत्वा शिष्यास्य करं दक्षिणमात्मन: ।
दक्षिणेन करेणैव कृत्वा चैव प्रदक्षिणम् ।। 9.62 ।।
कुम्भमण्डलगं देवं नारायणमनन्यधी: ।
स्थित्वैव तस्मिन् द्वार्भागे हेमरत्नादिकैस्तत: ।। 9.63 ।।
कुसुमै: केवलैर्वास्य पूरयेदञ्जलिं बुध: ।
प्रक्षेपयेन्मण्डले तं यत्र पुष्पाञ्जलिश्च स: ।। 9.64 ।।
भूभागे पतितस्तत्तन्मूर्तिलनास्य निर्दिशेत् ।
नाम्नोऽन्ते तस्य शिष्यस्य केशवादिपदं भवेत् ।। 9.65 ।।
यद्वा भागवतो वापि तथा भट्टारकोऽपि वा ।
विप्रस्य क्षत्रियस्यापि नाम्नोऽन्ते देवशब्दक: ।। 9.66 ।।
पालदासान्तमेवं स्यान्नाम वैश्यचतुर्थयो: ।
दिग्बन्धमो[क्षणं](चनं ?) कृत्वा मण्डलं दर्शयेतत्त: ।। 9.67 ।।
स्थापितै: कलशैरेतं नवभिस्त्र्यधिकैस्तु वा ।
स्नापयित्वा नवं वास: परिधाप्य पदद्वयम् ।। 9.68 ।।
क्षालयित्वा ततश्चैनमाचमय्य द्विजोत्तम ।
गुरु: शिष्येण सहितो देवं ध्यायेत् समाहित: ।। 9.69 ।।
शिष्यस्य दक्षिणे कर्णे प्रणवाद्यङ्गसंयुतम् ।
ऋष्?यादिसहितं मन्त्रं दद्यादष्टाक्षराहृयम् ।। 9.70 ।।
द्वादशार्णं च तदनु मूर्तिमन्त्रान् यथाक्रमम् ।
एकं यथा गुरुर्दद्यात् तन्मन्त्रस्य वशेन च (?) ।। 9.71 ।।
शूद्रणार्णं च तथा स्त्रीणामनुलोमभुवामपि ।
नम:स्वाहाडुंफडादिरहितं प्रणवेन च ।। 9.72 ।।
वर्जितं विष्णुनामैव चतुर्थ्यन्तं च पाठयेत् ।
गायत्रीं जपहोमं च आदद्याद् ब्राह्मणो मनुम् ।। 9.73 ।।
तत: शिष्य: स्वयं देवं कुम्भमण्डलगं हरिम् ।
आराधयेद्रुरुं पश्चात् प्रणतस्योत्थितस्य च ।। 9.74 ।।
कृताञ्कलिपुटस्यास्य शिप्यस्य शिरसि स्वयम् ।
चक्रब्जमण्डलं ध्यात्वा स्वहस्ते विष्णुहस्तकम् ।। 9.75 ।।
निक्षिप्य देशिक: पश्चादाचारानथ शिक्षयेत् ।
मन्त्रो नान्यस्य वक्तव्यो न प्रदर्श्याक्षमालिका ।। 9.75 ।।
मुद्रां न दर्शयेत् खस्य मन्त्रसिद्धिं वदेन्न च ।
गुरोर्नाम न वक्त्वयमस्यादेशं न लङ्घयेत् ।। 9.77 ।।
सदासन्नं च शैष्ट्यं च पादुकां नापि लङ्घयेत् ।
दूषणं न गुरोर्व्रूयात् नाचरेत्तस्य चाप्रियम् ।। 9.78 ।।
गुरुत्रकलत्रादौ गुरुवदभक्तिमावरेत् ।
मन्त्रं गुरुं देवतां च समबुद्धयाभिपूजयेत् ।। 9.79 ।।
नास्तिकान् न स्पूशेच्चैव नाभिभाषेत तै: समम् ।
गुरुदेवाग्रिपुरत: पादौ नैव प्रसारयेत् ।। 9.80 ।।
देवार्चनमकृत्वा तु न किंचिदपि भक्षयेत् ।
सन्ध्यासु तज्जपस्तोत्रप्रणामादीन् समाचरेत् ।। 9.81 ।।
वैष्णवांश्च यतीन् टृष्ट्वा प्रणमेद्दण्डवत् क्षितौ ।
गच्छँस्तिष्ठँस्तथासीनो [भुञ्जन्] (?) स्वप्नपरायण: ।। 9.82 ।।
देवं नारायणं ध्यायेत् तद्ग्रतेनान्तरात्मना ।
एवमादिसमा(दा ? )चारं शिष्यायोपदिशेद्ग्ररु: ।। 9.83 ।।
शान्तिहोमं तत: कृत्वा पूर्णाहुतिमथाचरेत् ।
अग्रेर्विसर्जनं कृत्वा कुम्भमण्डलगं हरिम् ।। 9.84 ।।
उद्वास्य प्रणतं शिष्यमाशीर्भिर्वर्धयेद्ग्रुरु: ।
शिष्यश्च दद्याद्ग्रुरवे गां भूभिं भूषणानि च ।। 9.85 ।।
गजमश्वं च शिबिकां दासीदासगणं बहु ।
वित्तशठ्यमकुर्वाण: स्वात्मानं च निवेदयेत् ।। 9.86 ।।
स्वशक्त्या भोजयेद्विप्रान् वैष्णवान् प्रतितर्प्य च ।
भुक्त्यावाशेषं तदनु तत्रैवासीत वाग्यत: ।। 9.87 ।।
आदित्यास्तमयात् पश्चात् स्वनुलिप्त: स्वलंकृत: ।
गुरोरनुज्ञया गेहं गच्छेद् बन्धुसमन्वित: ।। 9.88 ।।
दीक्षामेवं तु य: कुर्याच्चक्रमण्डलसंनिधौ ।
स सव ब्राह्मणो चिद्वान् स एवाश्रमिणां वर: ।। 9.89 ।।
स एतैर्नाभिर्वाच्य एकान्ती पाञ्जरात्रिक: ।
सूरिर्भागवतश्चैव सात्त्वत: पाञ्चकालिक: ।। 9.90 ।।
अन्याख्याभिर्न वाच्योऽयं यथैव प्राकृतो जन: ।
समयोऽथ समा(दा?)चार: स्वाध्यायद्रव्यसंग्रहौ ।। 9.91 ।।
शुद्धि: पूजा स्तुतिर्ध्यानं ?विधिरित्यष्टधा मत: ।
योऽनेन विधिना तिष्ठेत् स भागवत इष्यते ।। 9.92 ।।
ज्ञानादिषङ्गुणगणो भग इत्युच्यते द्विज ।
स यस्सिन्नस्ति भगवान् स एव भगवान् हरि: ।। 9.93 ।।
तदीये य: सुनिरत: स भागवतनामभाक् ।।

     इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां दीक्षाविधिर्नाम
नवमोऽध्याय: ।।
-------*-------