प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋणं देयं अदेयं च येन यत्र यथा च यत् ।
दानग्रहणधर्माच्च ऋणादानं इति स्मृतम् । । १.०१ । ।

पितर्युपरते पुत्रा ऋणं दद्युर्यथांशतः ।
विभक्ता ह्यविभक्ता वा यस्तां उद्वहते धुरम् । । १.०२ । ।

पितृव्येणाविभक्तेन भ्रात्रा वा यदृणं कृतम् ।
मात्रा वा यत्कुटुम्बार्थे दद्युस्तद्रिक्थिनोऽखिलम् । । १.०३ । ।

क्रमादव्याहतं प्राप्तं पुत्रैर्यन्नर्णं उद्धृतम् ।
दद्युः पैतामहं पौत्रास्तच्चतुर्थान्निवर्तते । । १.०४ । ।

इच्छन्ति पितरः पुत्रान्स्वार्थहेतोर्यतस्ततः ।
उत्तमर्णाधमर्णेभ्यो मां अयं मोचयिष्यति । । १.०५ । ।

अतः पुत्रेण जातेन स्वार्थं उत्सृज्य यत्नतः ।
पिता मोक्षितव्य ऋणाद्यथा न नरकं पतेत् । । १.०६ । ।

तपस्वी चाग्निहोत्री च ऋणवान्म्रियते यदि ।
तपश्चैवाग्निहोत्रं च सर्वं तद्धनिनां धनम् । । १.०७ । ।

न पुत्रर्णं पिता दद्याद्दद्यात्पुत्रस्तु पैतृकम् ।
कामक्रोधसुराद्यूत प्रातिभाव्यकृतं विना । । १.०८ । ।

पितुरेव नियोगाद्यत्कुटुम्बभरणाय च ।
कृतं वा यदृणं कृच्छ्रे दद्यात्पुत्रस्य तत्पिता । । १.०९ । ।

शिष्यान्तेवासिदासस्त्री वैयावृत्त्यकरैश्च यत् ।
कुटुम्बहेतोरुत्क्षिप्तं वोढव्यं तत्कुटुम्बिना । । १.१० । ।

नार्वाग्विंशतिमाद्वर्षात्पितरि प्रोषिते सुतः ।
ऋणं दद्यात्पितृव्ये वा ज्येष्ठे भ्रातर्यथापि वा । । १.११ । ।

दाप्यः परर्णं एकोऽपि जीवत्स्वधिकृतैः कृतम् ।
प्रेतेषु तु न तत्पुत्रः परर्णं दातुं अर्हति । । १.१२ । ।

न स्त्री पतिकृतं दद्यादृणं पुत्रकृतं तथा ।
अभ्युपेतादृते यद्वा सह पत्या कृतं भवेत् । । १.१३ । ।

दद्यादपुत्रा विधवा नियुक्ता या मुमूर्षुणा ।
यो वा तद्रिक्थं आदद्याद्यतो रिक्थं ऋणं ततः । । १.१४ । ।

न च भार्याकृतं ऋणं कथंचित्पत्युराभवेत् ।
आपत्कृतादृते पुंसां कुटुम्बार्थो हि विस्तरः । । १.१५ । ।

अन्यत्र रजकव्याध गोपशौण्डिकयोषिताम् ।
तेषां तत्प्रत्यया वृत्तिः कुटुम्बं च तदाश्रयम् । । १.१६ । ।

पुत्रिणी तु समुत्सृज्य पुत्रं स्त्री यान्यं आश्रयेत् ।
ऋक्थं तस्या हरेत्सर्वं निःस्वायाः पुत्र एव तु । । १.१७ । ।

या तु सप्रधनैव स्त्री सापत्या चान्यं आश्रयेत् ।
सोऽस्या दद्यादृणं भर्तुरुत्सृजेद्वा तथैव ताम् । । १.१८ । ।

अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम् ।
ऋणं वोढुः स भजते तदेवास्य धनं स्मृतम् । । १.१९ । ।

धनस्त्रीहारिपुत्राणां ऋणभाग्यो धनं हरेत् ।
पुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः । । १.२० । ।

उत्तमा स्वैरिणी या स्यादुत्तमा च पुनर्भुवाम् ।
ऋणं तयोः पतिकृतं दद्याद्यस्तां उपाश्नुते । । १.२१ । ।

स्त्रीकृतान्यप्रमाणानि कार्याण्याहुरनापदि ।
विशेषतो गृहक्षेत्र दानाधमनविक्रयाः । । १.२२ । ।

एतान्यपि प्रमाणानि भर्ता यद्यनुमन्यते ।
पुत्रः पत्युरभावे वा राजा वा पतिपुत्रयोः । । १.२३ । ।

भर्त्रा प्रीतेन यद्दत्तं स्त्रियै तस्मिन्मृतेऽपि तत् ।
सा यथाकामं अश्नीयाद्दद्याद्वा स्थावरादृते । । १.२४ । ।

तथा दासकृतं कार्यं अकृतं परिचक्षते ।
अन्यत्र स्वामिसंदेशान्न दासः प्रभुरात्मनः । । १.२५ । ।

पुत्रेण च कृतं कार्यं यत्स्यात्पितुरनिच्छतः ।
तदप्यकृतं एवाहुर्दासः पुत्रश्च तौ समौ । । १.२६ । ।

अप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपि हि न र्णभाक् ।
स्वातन्त्र्यं तु स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम् । । १.२७ । ।

त्रयः स्वतन्त्रा लोकेऽस्मिन्राजाचार्यस्तथैव च ।
प्रति प्रति च वर्णानां सर्वेषां स्वगृहे गृही । । १.२८ । ।

अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः ।
अस्वतन्त्रः स्मृतः शिष्य आचार्ये तु स्वतन्त्रता । । १.२९ । ।

अस्वतन्त्राः स्त्रियः पुत्रा दासाश्च सपरिग्रहाः ।
स्वतन्त्रस्तत्र तु गृही यस्य यत्स्यात्क्रमागतम् । । १.३० । ।

गर्भस्थैः सदृशो ज्ञेय आ वर्षादष्टमाच्छिषुः ।
बाल आ षोडशाज्ज्ञेयः पोगण्डश्चापि शब्द्यते । । १.३१ । ।

परतो व्यवहारज्ञः स्वतन्त्रः पितरौ विना ।
जीवतोरस्वतन्त्रः स्याज्जरयापि समन्वितः । । १.३२ । ।

तयोरपि पिता श्रेयान्बीजप्राधान्यदर्शनात् ।
अभावे बीजिनो माता तदभावे तु पूर्वजः । । १.३३ । ।

स्वतन्त्राः सर्व एवैते परतन्त्रेषु सर्वदा ।
अनुशिष्टौ विसर्गे च विक्रये चेश्वरा मताः । । १.३४ । ।

यद्बालः कुरुते कार्यं अस्वतन्त्रस्तथैव च ।
अकृतं तदिति प्राहुः शास्त्रे शास्त्रविदो जनाः । । १.३५ । ।

स्वतन्त्रोऽपि हि यत्कार्यं कुर्यादप्रकृतिं गतः ।
तदप्यकृतं एवाहुरस्वतन्त्रः स हेतुतः । । १.३६ । ।

कामक्रोधाभियुक्तार्त भयव्यसनपीडिताः ।
रागद्वेषपरीताश्च ज्ञेयास्त्वप्रकृतिं गताः । । १.३७ । ।

कुले ज्येष्ठस्तथा श्रेष्ठः प्रकृतिस्थश्च यो भवेत् ।
तत्कृतं स्यात्कृतं कार्यं नास्वतन्त्रकृतं कृतम् । । १.३८ । ।

धनमूलाः क्रियाः सर्वा यत्नस्तत्साधने मतः ।
रक्षणं वर्धनं भोग इति तस्य विधिः क्रमात् । । १.३९ । ।

तत्पुनस्त्रिविधं ज्ञेयं शुक्लं शबलं एव च ।
कृष्णं च तस्य विज्ञेयः प्रभेदः सप्तधा पृथक् । । १.४० । ।

श्रुतशौर्यतपःकन्या शिष्ययाज्यान्वयागतम् ।
धनं सप्तविधं शुक्लं उदयोऽप्यस्य तद्विधः । । १.४१ । ।

कुसीदकृषिवाणिज्य शुल्कशिल्पानुवृत्तिभिः ।
कृतोपकारादाप्तं च शबलं समुदाहृतम् । । १.४२ । ।

पार्श्विकद्यूतदौत्यार्ति प्रतिरूपकसाहसैः ।
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् । । १.४३ । ।

तेन क्रयो विक्रयश्च दानं ग्रहणं एव च ।
विविधाश्च प्रवर्तन्ते क्रियाः संभोग एव च । । १.४४ । ।

यथाविधेन द्रव्येण यत्किंचित्कुरुते नरः ।
तथाविधं अवाप्नोति स फलं प्रेत्य चेह च । । १.४५ । ।

तत्पुनर्द्वादशविधं प्रतिवर्णाश्रयात्स्मृतम् ।
साधारणं स्यात्त्रिविधं शेषं नवविधं स्मृतम् । । १.४६ । ।

क्रमागतं प्रीतिदायः प्राप्तं च सह भार्यया ।
अविशेषेण वर्णानां सर्वेषां त्रिविधं धनम् । । १.४७ । ।

वैशेषिकं धनं ज्ञेयं ब्राह्मणस्य त्रिलक्षणम् ।
प्रतिग्रहेण यल्लब्धं याज्यतः शिष्यतस्तथा । । १.४८ । ।

त्रिविधं क्षत्रियस्यापि प्राहुर्वैशेषिकं धनम् ।
युद्धोपलब्धं कारश्च दण्डश्च व्यवहारतः । । १.४९ । ।

वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम् ।
कृषिगोरक्षवाणिज्यैः शूद्रस्यैभ्यस्त्वनुग्रहात् । । १.५० । ।

सर्वेषां एव वर्णानां एष धर्म्यो धनागमः ।
विपर्ययादधर्म्यः स्यान्न चेदापद्गरीयसी । । १.५१ । ।

आपत्स्वनन्तरा वृत्तिर्ब्राह्मणस्य विधीयते ।
वैश्यवृत्तिस्ततश्चोक्ता न जघन्या कथंचन । । १.५२ । ।

न कथंचन कुर्वीत ब्राह्मणः कर्म वार्षलम् ।
वृषलः कर्म न ब्राह्मं पतनीये हि ते तयोः । । १.५३ । ।

उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते ।
मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते । । १.५४ । ।

आपदं ब्राह्मणस्तीर्त्वा क्षत्रवृत्त्या हृतैर्धनैः ।
उत्सृजेत्क्षत्रवृत्तिं तां कृत्वा पावनं आत्मनः । । १.५५ । ।

तस्यां एव तु यो वृत्तौ ब्राह्मणो रमते रसात् ।
काण्डपृष्ठश्च्युतो मार्गात्सोऽपाङ्क्तेयः प्रकीर्तितः । । १.५६ । ।

वैश्यवृत्तावविक्रेयं ब्राह्मणस्य पयो दधि ।
घृतं मधु मधूच्छिष्टं लाक्षाक्षाररसासवाः । । १.५७ । ।

मांसौदनतिलक्षौम सोमपुष्पफलपलाः ।
मनुष्यविषशस्त्राम्बु लवणापूपवीरुधः । । १.५८ । ।

नीलीकौषेयचर्मास्थि कुतपैकशफा मृदः ।
उदश्वित्केशपिण्याक शाकाद्यौषधयस्तथा । । १.५९ । ।

ब्राह्मणस्य तु विक्रेयं शुष्कं दारु तृणानि च ।
गन्धद्रव्यैरकावेत्र तूलमूलतुशादृते । । १.६० । ।

स्वयं शीर्णं च विदलं फलानां बदरेङ्गुदे ।
रज्जुः कार्पासिकं सूत्रं तच्चेदविकृतं भवेत् । । १.६१ । ।

अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च ।
यद्यवश्यं तु विक्रेयास्तिला धान्येन तत्सामाः । । १.६२ । ।

अविक्रेयाणि विक्रीणन्ब्राह्मणः प्रच्युतः पथः ।
मार्गे पुनरवस्थाप्य राज्ञा दण्डेन भूयसा । । १.६३ । ।

प्रमाणानि प्रमाणस्थैः परिपाल्यानि यत्नतः ।
सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः । । १.६४ । ।

लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।
धनस्वीकरणे येन धनी धनं उपाश्नुते । । १.६५ । ।

लिखितं बलवन्नित्यं जीवन्तस्त्वेव साक्षिणः ।
कालातिहरणाद्भुक्तिरिति शास्त्रेषु निश्चयः । । १.६६ । ।

त्रिविधस्यास्य दृष्टस्य प्रमाणस्य यथाक्रमम् ।
पूर्वं पूर्वं गुरु ज्ञेयं भुक्तिरेभ्यो गरीयसी । । १.६७ । ।

विद्यमानेऽपि लिखिते जीवत्स्वपि हि साक्षिषु ।
विशेषतः स्थावराणां यन्न भुक्तं न तत्स्थिरम् । । १.६८ । ।

भुज्यमानान्परैरर्थान्यः स्वान्मौर्ख्यादुपेक्षते ।
समक्षं जीवतोऽप्यस्य तान्भुक्तिः कुरुते वशे । । १.६९ । ।

यत्किंचिद्दश वर्षाणि संनिधौ प्रेक्षते धनी ।
भुज्यमानं परैस्तूष्णीं न स तल्लब्धुं अर्हति । । १.७० । ।

उपेक्षां कुर्वतस्तस्य तूष्णीं भूतस्य तिष्ठतः ।
कालेऽतिपन्ने पूर्वोक्ते व्यवहारो न सिध्यति । । १.७१ । ।

अजडश्चेदपोगण्डो विषये चास्य भुज्यते ।
भुक्तं तद्व्यवहारेण भोक्ता तद्धनं अर्हति । । १.७२ । ।

आधिः सीमा बालधनं निक्षेपोपनिधी स्त्रियः ।
राजस्वं श्रोत्रियस्वं च नोपभोगेन जीर्यते । । १.७३ । ।

प्रत्यक्षपरिभोगाच्च स्वामिनो द्विदशाः समाः ।
आध्यादीन्यपि जीर्यन्ते स्त्रीनरेन्द्रधनादृते । । १.७४ । ।

स्त्रीधनं च नरेन्द्राणां न कदाचन जीर्यते ।
अनागमं भुज्यमानं वत्सराणां शतैरपि । । १.७५ । ।

निर्भोगो यत्र दृश्येत न दृश्येतागमः क्वचित् ।
आगमः कारणं तत्र न भोगस्तत्र कारणम् । । १.७६ । ।

अनागमं भुज्यते यन्न तद्भोगोऽतिवर्तते ।
प्रेते तु भोक्तरि धनं याति तद्वंश्यभोग्यताम् । । १.७७ । ।

आहर्तैवाभियुक्तः सन्नर्थानां उद्धरेत्पदम् ।
भुक्तिरेव विशुद्धिः स्यात्प्राप्तानां पितृतः क्रमात् । । १.७८ । ।

अन्वाहितं हृतं न्यस्तं बलावष्टब्धं याचितम् ।
अप्रत्यक्षं च यद्भुक्तं षडेतान्यागमं विना । । १.७९ । ।

तथारूढविवादस्य प्रेतस्य व्यवहारिणः ।
पुत्रेण सोऽर्थः संशोध्यो न तं भोगोऽतिवर्तते । । १.८० । ।

यद्विनागमं अप्यूर्ध्वं भुक्तं पूर्वैस्त्रिभिर्भवेत् ।
न तच्छक्यं अपाकर्तुं क्रमात्त्रिपुरुषागतम् । । १.८१ । ।

सन्तोऽपि न प्रमाणं स्युर्मृते धनिनि साक्षिणः ।
अन्यत्र श्रावितं यत्स्यात्स्वयं आसन्नमृत्युना । । १.८२ । ।

न हि प्रत्यर्थिनि प्रेते प्रमाणं साक्षिणां वचः ।
साक्षिमत्करणं तत्र प्रमाणं स्याद्विनिश्चये । । १.८३ । ।

श्रावितस्त्वातुरेणापि यस्त्वर्थो धर्मसंहितः ।
मृतेऽपि तत्र साक्षी स्यात्षट्सु चान्वाहितादिषु । । १.८४ । ।

क्रिय र्णादिषु सर्वेषु बलवत्युत्तरोत्तरा ।
प्रतिग्रहाधिक्रीतेषु पूर्वा पूर्वा गरीयसी । । १.८५ । ।

स्थानलाभनिमित्तं हि दानग्रहणं इष्यते ।
तत्कुसीदं इति प्रोक्तं तेन वृत्तिः कुसीदिनाम् । । १.८६ । ।

कायिका कालिका चैव कारिता च तथा स्मृता ।
चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्चतुर्विधा । । १.८७ । ।

कायाविरोधिनी शश्वत्पणपाद्या तु कायिका ।
प्रतिमासं स्रवति या वृद्धिः सा कालिका स्मृता । । १.८८ । ।

वृद्धिः सा कारिता नाम य र्णिकेन स्वयंकृता ।
वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृता । । १.८९ । ।

ऋणानां सार्वभौमोऽयं विधिर्वृद्धिकरः स्मृतः ।
देशाचारविधिस्त्वन्यो यत्र र्णं अवतिष्ठति । । १.९० । ।

द्विगुणं त्रिगुणं चैव तथान्यस्मिंश्चतुर्गुणम् ।
तथाष्टगुणं अन्यस्मिन्देशे देशेऽवतिष्ठते । । १.९१ । ।

हिरण्यधान्यवस्त्राणां वृद्धिर्द्वित्रिचतुर्गुणा ।
घृतस्याष्टगुणा वृद्धिः स्त्रीपशूनां च संततिः । । १.९२ । ।

सूत्रकर्पासकिण्वानां त्रपुषः सीसकस्य च ।
आयुधानां च सर्वेषां चर्मणस्ताम्रलोहयोः । । १.९३ । ।

अन्येषां चैव सर्वेषां इष्टकानां तथैव च ।
अक्षय्या वृद्धिरेतेषां मनुराह प्रजापतिः । । १.९४ । ।

तैलानां चैव सर्वेषां मद्यानां मधुसर्पिषाम् ।
वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य च । । १.९५ । ।

न वृद्धिः प्रीतिदत्तानां स्यादनाकारिता क्वचित् ।
अनाकारितं अप्यूर्ध्वं वत्सरार्धाद्विवर्धते । । १.९६ । ।

एष वृद्धिविधिः प्रोक्तः प्रतिवृद्धस्य धर्मतः ।
वृद्धिस्तु योक्ता धान्यानां वार्धुष्यं तदुदाहृतम् । । १.९७ । ।

आपदं निस्तरेद्वैश्यः कामं वार्धुषकर्मणा ।
आपत्स्वपि हि कष्टासु ब्राह्मणस्य न वार्धुषम् । । १.९८ । ।

ब्राह्मणस्य तु यद्देयं सान्वयस्य न चास्ति सः ।
स्वकुल्यस्यास्य निवपेत्तदभावेऽस्य बन्धुषु । । १.९९ । ।

यदा तु न स्वकुल्याः स्युर्न च संबन्धिबान्धवाः ।
तदा दद्यात्स्वजातिभ्यस्तेष्वसत्स्वप्सु निक्षिपेत् । । १.१०० । ।

गृहीत्वोपगतं दद्यादृणिकायोदयं धनी ।
अददद्याच्यमानस्तु शेषहानिं अवाप्नुयात् । । १.१०१ । ।

लेख्यं दद्यादृणे शुद्धे तदभावे प्रतिश्रवम् ।
धनिकर्णिकयोरेवं विशुद्धिः स्यात्परस्परम् । । १.१०२ । ।

विश्रम्भहेतू द्वावत्र प्रतिभूराधिरेव च ।
लिखितं साक्षिणश्च द्वे प्रमाणे व्यक्तिकारके । । १.१०३ । ।

उपस्थानाय दानाय प्रत्ययाय तथैव च ।
त्रिविधः प्रतिभूर्दृष्टस्त्रिष्वेवार्थेषु सूरिभिः । । १.१०४ । ।

ऋणिष्वप्रतिकुर्वत्सु प्रत्यये वा विवादिते ।
प्रतिभूस्तदृणं दद्यादनुपस्थापयंस्तथा । । १.१०५ । ।

बहवश्चेत्प्रतिभुवो दद्युस्तेऽर्थं यथाकृतम् ।
अर्थेऽविशेषिते ह्येषु धनिनश्छन्दतः क्रिया । । १.१०६ । ।

यं चार्थं प्रतिभूर्दद्याद्धनिकेनोपपीडितः ।
ऋणिकस्तं प्रतिभुवे द्विगुणं प्रतिपादयेत् । । १.१०७ । ।

अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः ।
कृतकालोपनेयश्च यावद्देयोद्यतस्तथा । । १.१०८ । ।

स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च ।
प्रतिदानं तथैवास्य लाभहानिर्विपर्यये । । १.१०९ । ।

प्रमादाद्धनिनस्तद्वदाधौ विकृतिं आगते ।
विनष्टे मूलनाशः स्याद्दैवराजकृतादृते । । १.११० । ।

रक्ष्यमाणोऽपि यत्राधिः कालेनेयादसारताम् ।
आधिरन्योऽधिकर्तव्यो देयं वा धनिने धनम् । । १.१११ । ।

अथ शक्तिविहीनः स्यादृणी कालविपर्ययात् ।
शक्यप्रेक्षं ऋणं दाप्यः काले काले यथोदयम् । । १.११२ । ।

शक्तो वा यदि दौरात्म्यान्न दद्याद्धनिने धनम् ।
राज्ञा दापयितव्यः स्याद्गृहीत्वांशं तु विंशकम् । । १.११३ । ।

नश्येदृणपरीमाणं कालेनेह र्णिकस्य चेत् ।
जातिसंज्ञाधिवासानां आगमो लेख्यतः स्मृतः । । १.११४ । ।

लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा ।
असाक्षिमत्साक्षिमच्च सिद्धिर्देशस्थितेस्तयोः । । १.११५ । ।

देशाचाराविरुद्धं यद्व्यक्ताधिकृतलक्षणम् ।
तत्प्रमाणं स्मृतं लेख्यं अविलुप्तक्रमाक्षरम् । । १.११६ । ।

मत्ताभियुक्तस्त्रीबाल बलात्कारकृतं च यत् ।
तदप्रमाणकरणं भीतोपधिकृतं तथा । । १.११७ । ।

मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः ।
तदप्यपार्थं लिखितं ऋते त्वाधेः स्थिराश्रयात् । । १.११८ । ।

आधिर्यो द्विविधः प्रोक्तो जङ्गमः स्थावरस्तथा ।
सिद्धिरत्रोभयस्यास्य भोगो यद्यस्ति नान्यथा । । १.११९ । ।

दर्शितं प्रतिकालं यच्छ्रावितं श्रावितं च यत् ।
लेख्यं सिध्यति सर्वत्र मृतेष्वपि हि साक्षिषु । । १.१२० । ।

अश्रुतार्थं अदृष्टार्थं व्यवहारार्थं एव च ।
न लेख्यं सिद्धिं आप्नोति जीवत्स्वपि हि साक्षिषु । । १.१२१ । ।

लेख्ये देशान्तरन्यस्ते दग्धे दुर्लिखिते हृते ।
सतस्तत्कालकरणं असतो दृष्टदर्शनम् । । १.१२२ । ।

यस्मिन्स्यात्संशयो लेख्ये भूताभूतकृते क्वचित् ।
तत्स्वहस्तक्रियाचिह्न प्राप्तियुक्तिभिरुद्धरेत् । । १.१२३ । ।

लेख्यं यच्चान्यनामाङ्कं हेत्वन्तरकृतं भवेत् ।
विप्रत्यये परीक्ष्यं तत्संबन्धागमहेतुभिः । । १.१२४ । ।

लेख्यं यच्चान्यनामाङ्कं हेत्वन्तरकृतं भवेत् ।
विप्रत्यये परीक्ष्यं तत्संबन्धागमहेतुभिः । । १.१२४*१ । ।

लिखितं लिखितेनैव साक्षिमत्साक्षिभिर्हरेत् ।
साक्षिभ्यो लिखितं श्रेयो लिखितेन तु साक्षिणः । । १.१२५ । ।

छिन्नभिन्नहृतोन्मृष्ट नष्टदुर्लिखितेषु च ।
कर्तव्यं अन्यल्लेख्यं स्यादेष लेख्यविधिः स्मृतः । । १.१२६ । ।

संदिग्धेषु तु कार्येषु द्वयोर्विवदमानयोः ।
दृष्टश्रुतानुभूतत्वात्साक्षिभ्यो व्यक्तिदर्शनम् । । १.१२७ । ।

समक्षदर्शनात्साक्षी विज्ञेयः श्रोत्रचक्षुषोः ।
श्रोत्रस्य यत्परो ब्रूते चक्षुषः कायकर्म यत् । । १.१२८ । ।

एकादशविधः साक्षी स तु दृष्टो मनीषिभिः ।
कृतः पञ्चविधस्तेषां षड्विधोऽकृत उच्यते । । १.१२९ । ।

लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च ।
गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः । । १.१३० । ।

अकृतः षड्विधश्चापि सूरिभिः परिकीर्तितः ।
ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् । । १.१३१ । ।

कार्येष्वभ्यन्तरो यः स्यादर्थिना प्रहितश्च यः ।
कुलं कुलविवादेषु भवेयुस्तेऽपि साक्षिणः । । १.१३२ । ।

कुलीना ऋजवः शुद्धा जन्मतः कर्मतोऽर्थतः ।
त्र्यवराः साक्षिणोऽनिन्द्याः शुचयः स्युः सुबुद्धयः । । १.१३३ । ।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाप्यनिन्दिताः ।
प्रतिवर्णं भवेयुस्ते सर्वे सर्वेषु वा पुनः । । १.१३४ । ।

श्रेणीषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः ।
बहिर्वासिषु बाह्याश्च स्त्रियः स्त्रिषु च साक्षिणः । । १.१३५ । ।

श्रेण्यादिषु तु वर्गेषु कश्चिच्चेद्द्वेष्यतां इयात् ।
तेभ्य एव न साक्षी स्याद्द्वेष्टारः सर्व एव ते । । १.१३६ । ।

असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः ।
वचनाद्दोषतो भेदात्स्वयमुक्तेर्मृतान्तरः । । १.१३७ । ।

श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात् ।
भेदाद्विप्रतिपत्तिः स्याद्विवादे यत्र साक्षिणः । । १.१३८ । ।

स्वयमुक्तेरनिर्दिष्टः स्वयं एवैत्य यो वदेत् ।
मृतान्तरोऽर्थिनि प्रेते मुमूर्षुश्रावितादृते । । १.१३९ । ।

श्रोत्रियास्तापसा वृद्धा ये च प्रव्रजिता नराः ।
असाक्षिणस्ते वचनान्नात्र हेतुरुदाहृतः । । १.१४० । ।

स्तेनाः साहसिकाश्चण्डाः कितवा वधकास्तथा ।
असाक्षिणस्ते दुष्टत्वात्तेषु सत्यं न विद्यते । । १.१४१ । ।

राज्ञा परिगृहीतेषु साक्षिष्वेकार्थनिश्चये ।
वचनं यत्र भिद्यते ते स्युर्भेदादसाक्षिणः । । १.१४२ । ।

अनिर्दिष्टस्तु साक्षित्वे स्वयं एवैत्य यो वदेत् ।
सूचीत्युक्तः स शास्त्रेषु न स साक्षित्वं अर्हति । । १.१४३ । ।

योऽर्थः श्रावयितव्यः स्यात्तस्मिन्नसति चार्थिनि ।
क्व तद्वदतु साक्षित्वं इत्यसाक्षी मृतान्तरः । । १.१४४ । ।

योऽर्थः श्रावयितव्यः स्यात्तस्मिन्नसति चार्थिनि ।
क्व तद्वदतु साक्षित्वं इत्यसाक्षी मृतान्तरः । । १.१४४*१ । ।

द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु ।
पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः । । १.१४५ । ।

आधर्यं पूर्वपक्षस्य यस्मिन्नर्थे वशाद्भवेत् ।
प्रष्टव्याः साक्षिणस्तत्र विवादे प्रतिवादिनः । । १.१४६ । ।

न परेण समुद्दिष्टं उपेयात्साक्षिणं रहः ।
भेदयेत्तं न चान्येन हीयेतैवं समाचरन् । । १.१४७ । ।

साक्ष्युद्दिष्टो यदि प्रेयाद्गच्छेद्वापि दिगन्तरम् ।
तच्छ्रोतारः प्रमाणं स्युः प्रमाणं ह्युत्तरक्रिया । । १.१४८ । ।

सुदीर्घेणापि कालेन लिखितं सिद्धिं आप्नुयात् ।
जानता चात्मना लेख्यं अजानानस्तु लेखयेत् । । १.१४९ । ।

सिद्धिरुक्ताष्टमाद्वर्षात्स्मारितस्येह साक्षिणः ।
आ पञ्चमात्तथा सिद्धिर्यदृच्छोपगतस्य तु । । १.१५० । ।

आ तृतीयात्तथा वर्षात्सिद्धिर्गूढस्य साक्षिणः ।
आ वै संवत्सरात्सिद्धिं वदन्त्युत्तरसाक्षिणः । । १.१५१ । ।

अथवा कालनियमो न दृष्टः साक्षिणं प्रति ।
स्मृत्यपेक्षं हि साक्षित्वं आहुः शास्त्रविदो जनाः । । १.१५२ । ।

यस्य नोपहता पुंसः स्मृतिः श्रोत्रं च नित्यशः ।
सुदीर्घेणापि कालेन स साक्षी साक्ष्यं अर्हति । । १.१५३ । ।

असाक्षिप्रत्ययास्त्वन्ये षड्विवादाः प्रकीर्तिताः ।
लक्षणान्येव साक्षित्वं एषां आहुर्मनीषिणः । । १.१५४ । ।

उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिस्तु घातकः ।
केशाकेशिगृहीतश्च युगपत्पारदारिकः । । १.१५५ । ।

कुद्दालपाणिर्विज्ञेयः सेतुभेत्ता समीपगः ।
तथा कुठारपाणिश्च वनछेत्ता प्रकीर्तितः । । १.१५६ । ।

अभ्यग्रचिह्नो विज्ञेयो दण्डपारुष्यकृन्नरः ।
असाक्षिप्रत्यया ह्येते पारुष्ये तु परीक्षणम् । । १.१५७ । ।

कश्चित्कृत्वात्मनश्चिह्नं द्वेषात्परं उपद्रवेत् ।
हेत्वर्थगतिसामर्थ्यैस्तत्र युक्तं परीक्षणम् । । १.१५८ । ।

नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः ।
न दृष्टदोषाः प्रष्टव्याश्न व्याध्यार्ता न दूषिताः । । १.१५९ । ।

दासनैकृतिकाश्रद्ध वृद्धस्त्रीबालचाक्रिकाः ।
मत्तोन्मत्तप्रमत्तार्त कितवग्रामयाजकाः । । १.१६० । ।

महापथिकसामुद्र वणिक्प्रव्रजितातुराः ।
लुब्धकश्रोत्रियाचार हीनक्लीबकुशीलवाः । । १.१६१ । ।

नास्तिकव्रात्यदाराग्नि त्यागिनोऽयाज्ययाजकाः ।
एकस्थालीसहायारि चरज्ञातिसनाभयः । । १.१६२ । ।

प्राग्दृष्टदोषशैलूष विषजीव्यहितुण्डिकाः ।
गरदाग्निदकीनाश शूद्रापुत्रोपपातिकाः । । १.१६३ । ।

क्लान्तसाहसिकश्रान्त निर्धनान्त्यावसायिनः ।
भिन्नवृत्तासमावृत्त जडतैलिकमूलिकाः । । १.१६४ । ।

भूताविष्टनृपद्विष्ट वर्षनक्षत्रसूचकाः ।
अघशंस्यात्मविक्रेतृ हीनाङ्गभगवृत्तयः । । १.१६५ । ।

कुनखी श्यावदन्श्वित्रि मित्रध्रुक्शठशौण्डिकाः ।
ऐन्द्रजालिकलुब्धोग्र श्रेणीगणविरोधिनः । । १.१६६ । ।

वधकृच्चित्रकृन्मङ्खः पतितः कूटकारकः ।
कुहकः प्रत्यवसितस्तस्करो राजपूरुषः । । १.१६७ । ।

मनुष्यविषशस्त्राम्बु लवणापूपवीरुधाम् ।
विक्रेता ब्राह्मणश्चैव द्विजो वार्धुषिकश्च यः । । १.१६८ । ।

च्युतः स्वधर्मात्कुलिकः स्तावको हीनसेवकः ।
पित्रा विवदमानश्च भेदकृच्चेत्यसाक्षिणः । । १.१६९ । ।

असाक्षिणो ये निर्दिष्टा दासनैकृतिकादयः ।
कार्यगौरवं आसाद्य भवेयुस्तेऽपि साक्षिणः । । १.१७० । ।

साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च ।
पारुष्ययोश्चाप्युभयोर्न परीक्षेत साक्षिणः । । १.१७१ । ।

तेषां अपि न बालः स्यान्नैको न स्त्री न कूटकृत् ।
न बान्धवो न चारातिर्ब्रूयुस्ते साक्ष्यं अन्यथा । । १.१७२ । ।

बालोऽज्ञानादसत्यात्स्त्री पापाभ्यासाच्च कूटकृत् ।
विब्रूयाद्बान्धवः स्नेहाद्वैरनिर्यातनादरिः । । १.१७३ । ।

अथवानुमतो यः स्याद्द्वयोर्विवदमानयोः ।
असाक्ष्येकोऽपि साक्षित्वे प्रष्टव्यः स्यात्स संसदि । । १.१७४ । ।

यस्त्वात्मदोषभिन्नत्वादस्वस्थ इव लक्ष्यते ।
स्थानात्स्थानान्तरं गच्छेदेकैकं चोपधावति । । १.१७५ । ।

कासतेऽनिभृतोऽकस्मादभीक्ष्णं निश्वसत्यपि ।
भूमिं लिखति पादाभ्यां बाहु वासो धुनोति च । । १.१७६ । ।

भिद्यते मुखवर्णोऽस्य ललाटं स्विद्यते तथा ।
शोषं आगच्छतश्चोष्ठावूर्ध्वं तिर्यक्च वीक्षते । । १.१७७ । ।

त्वरमाण इवाबद्धं अपृष्टो बहु भाषते ।
कूटसाक्षी स विज्ञेयस्तं पापं विनयेन्नृपः । । १.१७८ । ।

श्रावयित्वा च योऽन्येभ्यः साक्षित्वं तद्विनिह्नुते ।
स विनेयो भृशतरं कूटसाक्ष्यधिको हि सः । । १.१७९ । ।

आहूय साक्षिणः पृच्छेन्नियम्य शपथैर्भृशम् ।
समस्तान्विदिताचारान्विज्ञातार्थान्पृथक्पृथक् । । १.१८० । ।

सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः । । १.१८१ । ।

पुराणैर्धर्मवचनैः सत्यमाहात्म्यकीर्तनैः ।
अनृतस्यापवादैश्च भृशं उत्त्रास्य साक्षिणः । । १.१८२ । ।

नग्नो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः ।
दीनः शत्रुगृहं गच्छेद्यः साक्ष्यं अनृतं वदेत् । । १.१८३ । ।

नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः ।
अमित्रान्भूयशः पश्येद्यः साक्ष्यं अनृतं वदेत् । । १.१८४ । ।

यां रात्रिं अधिविन्ना स्त्री यां चैवाक्षपराजितः ।
यां च भाराभितप्ताङ्गो दुर्विवक्ता स तां वसेत् । । १.१८५ । ।

साक्षी साक्ष्यसमुद्देशे गोकर्णशिथिलं चरन् ।
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति । । १.१८६ । ।

तस्य वर्षशते पूर्णे पाशं एकं प्रमुच्यते ।
एवं स बन्धनात्तस्मान्मुच्यते नियुताः समाः । । १.१८७ । ।

यावतो बान्धवांस्यस्मिन्हन्ति साक्ष्येऽनृतं वदन् ।
तावतः संख्यया तस्मिन्शृणु सौम्यानुपूर्वशः । । १.१८८ । ।

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतं अश्वानृते हन्ति सहस्रं पुरुषानृते । । १.१८९ । ।

हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः । । १.१९० । ।

एकं एवाद्वितीयं तत्प्राहुः पावनं आत्मनः ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव । । १.१९१ । ।

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यं एव विशिष्यते । । १.१९२ । ।

वरं कूपशताद्वापि वरं वापीशतात्क्रतुः ।
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् । । १.१९३ । ।

भूर्धारयति सत्येन सत्येनोदेति भास्करः ।
सत्येन वायुः पवते सत्येनापः स्रवन्ति च । । १.१९४ । ।

सत्यं एव परं दानं सत्यं एव परं तपः ।
सत्यं एव परो धर्मो लोकानां इति नः श्रुतम् । । १.१९५ । ।

सत्यं देवाः समासेन मनुष्यास्त्वनृतं स्मृतम् ।
इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः । । १.१९६ । ।

सत्यं ब्रूह्यनृतं त्यक्त्वा सत्येन स्वर्गं एष्यसि ।
उक्त्वानृतं महाघोरं नरकं प्रतिपत्स्यते । । १.१९७ । ।

निरयेषु च ते शश्वज्जिह्वां उत्कृत्य दारुणाः ।
असिभिः शातयिष्यन्ति बलिनो यमकिंकराः । । १.१९८ । ।

शूलैर्भेत्स्यन्ति चाक्रुद्धाः क्रोशन्तं अपरायणम् ।
अवाक्शिरसं उत्क्षिप्य क्षेप्स्यन्त्यग्निह्रदेषु च । । १.१९९ । ।

अनुभूय च दुःखास्ताश्चिरं नरकवेदनाः ।
इह यास्यस्यभव्यासु गृध्रकाकादियोनिषु । । १.२०० । ।

ज्ञात्वैताननृते दोषाञ् ज्ञात्वा सत्ये च सद्गुणान् ।
सत्यं वदोद्धरात्मानं मात्मानं पातयिष्यसि । । १.२०१ । ।

न बान्धवा न सुहृदो न धनानि महान्त्यपि ।
अलं तारयितुं शक्तास्तमस्युग्रे निमज्जतः । । १.२०२ । ।

पितरस्त्ववलम्बन्ते त्वयि साक्षित्वं आगते ।
तारयिष्यति किंवास्मानात्मानं पातयिष्यति । । १.२०३ । ।

सत्यं आत्मा मनुष्यस्य सत्ये सर्वं प्रतिष्ठितम् ।
सर्वथैवात्मनात्मानं श्रेयसा योजयिष्यसि । । १.२०४ । ।

यां च रात्रिं अजनिष्ठा यां रात्रिं च मरिष्यसि ।
वृथा तदन्तरं ते स्यात्कुर्याश्चेत्सत्यं अन्यथा । । १.२०५ । ।

नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् ।
साक्षिधर्मे विशेषेण सत्यं एव वदेत्ततः । । १.२०६ । ।

यः परार्थे प्रहरति स्वां वाचं पुरुषाधमः ।
आत्मार्थे किं न कुर्यात्स पापो नरकनिर्भयः । । १.२०७ । ।

अर्था वै वाचि नियता वाङ्मूला वाग्विनिःसृताः ।
यो ह्येतां स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः । । १.२०८ । ।

साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो यतः ।
तत्साम्ये शुचयो ग्राह्यास्तत्साम्ये स्मृतिमत्तराः । । १.२०९ । ।

स्मृतिमत्साक्षिसाम्यं तु विवादे यत्र दृश्यते ।
सूक्ष्मत्वात्साक्षिधर्मस्य साक्ष्यं व्यावर्तते पुनः । । १.२१० । ।

निर्दिष्टेष्वर्थजातेषु साक्षी चेत्साक्ष्यं आगतः ।
न ब्रूयादक्षरसमं न तन्निगदितं भवेत् । । १.२११ । ।

देशकालवयोद्रव्य प्रमाणाकृतिजातिषु ।
यत्र विप्रतिपत्तिः स्यात्साक्ष्यं तदसदुच्यते । । १.२१२ । ।

ऊनं अभ्यधिकं चार्थं प्रब्रूयुर्यत्र साक्षिणः ।
तदप्यनुक्तं विज्ञेयं एष साक्ष्यविधिः स्मृतः । । १.२१३ । ।

प्रमादाद्धनिनो यत्र न स्याल्लेख्यं न साक्षिणः ।
अर्थं चापह्नुयाद्वादी तत्रोक्तस्त्रिविधो विधिः । । १.२१४ । ।

चोदना प्रतिकालं च युक्तिलेशस्तथैव च ।
तृतीयः शपथश्चोक्तस्तैरेवं साधयेत्क्रमात् । । १.२१५ । ।

अभीक्ष्णं चोद्यमानो यः प्रतिहन्यान्न तद्वचः ।
त्रिचतुःपञ्चकृत्वो वा परतोऽर्थं तं आवहेत् । । १.२१६ । ।

चोदनाप्रतिघाते तु युक्तिलेशैस्तं अन्वियात् ।
देशकालार्थसंबन्ध परिमाणक्रियादिभिः । । १.२१७ । ।

युक्तिष्वप्यसमर्थासु शपथैरेनं अर्दयेत् ।
अर्थकालबलापेक्षं अग्न्यम्बुसुकृतादिभिः । । १.२१८ । ।

दीप्ताग्निर्यं न दहति यं अन्तर्धारयन्त्यापः ।
स तरत्यभिशापं तं किल्बिषी स्याद्विपर्यये । । १.२१९ । ।

स्त्रीणां शीलाभियोगेषु स्तेयसाहसयोरपि ।
एष एव विधिर्दृष्टः सर्वार्थापह्नवेषु च । । १.२२० । ।

शपथा ह्यपि देवानां ऋषीणां अपि च स्मृताः ।
वसिष्ठः शपथं शेपे यातुधाने तु शङ्कितः । । १.२२१ । ।

सप्तर्षयस्तथेन्द्राय पुष्करार्थे समागताः ।
शेपुः शपथं अव्यग्राः परस्परविशुद्धये । । १.२२२ । ।

अयुक्तं साहसं कृत्वा प्रत्यापत्तिं भजेत यः ।
ब्रूयात्स्वयं वा सदसि तस्यार्धविनयः स्मृतः । । १.२२३ । ।

गूहमानस्तु दौरात्म्याद्यदि पापं स जीयते ।
सभ्याश्चात्र न तुष्यन्ति तीव्रो दण्डश्च पात्यते । । १.२२४ । ।