प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सेतुकेदारमर्यादा विकृष्टाकृष्टनिश्चयाः ।
क्षेत्राधिकारा यत्र स्युर्विवादः क्षेत्रजस्तु सः । । ११.१ । ।

क्षेत्रसीमाविरोधेषु सामन्तेभ्यो विनिश्चयः ।
नगरग्रामगणिनो ये च वृद्धतमा नराः । । ११.२ । ।

ग्रामसीमासु च बहिर्ये स्युस्तत्कृषिजीविनः ।
गोपशाकुनिकव्याधा ये चान्ये वनगोचराः । । ११.३ । ।

समुन्नयेयुस्ते सीमां लक्षणैरुपलक्षिताम् ।
तुषाङ्गारकपालैश्च कुम्भैरायतनैर्द्रुमैः । । ११.४ । ।

अभिज्ञातैश्च वल्मीक स्थलनिम्नोन्नतादिभिः ।
केदाराराममार्गैश्च पुराणैः सेतुभिस्तथा । । ११.५ । ।

निम्नगापहृतोत्सृष्ट नष्टचिह्नासु भूमिषु ।
तत्प्रदेशानुमानाच्च प्रमाणैर्भोगदर्शनैः । । ११.६ । ।

अथ चेदनृतं ब्रूयुः सामन्तास्तद्विनिश्चये ।
सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । । ११.७ । ।

गणवृद्धादयस्त्वन्ये दण्डं दाप्याः पृथक्पृथक् ।
विनेयाः प्रथमेन स्युः साहसेनानृते स्थिताः । । ११.८ । ।

नैकः समुन्नयेत्सीमां नरः प्रत्ययवानपि ।
गुरुत्वादस्य धर्मस्य क्रियैषा बहुषु स्थिता । । ११.९ । ।

एकश्चेदुन्नयेत्सीमां सोपवासः समाहितः ।
रक्तमाल्याम्बरधरः क्षितिं आरोप्य मूर्धनि । । ११.१० । ।

यदा च न स्युर्ज्ञातारः सीमाया न च लक्षणम् ।
तदा राजा द्वयोः सीमां उद्धरेदिष्टतः स्वयम् । । ११.११ । ।

एतेनैव गृहोद्यान निपानायतनादिषु ।
विवादविधिराख्यातस्तथा ग्रामान्तरेषु च । । ११.१२ । ।

अवस्करस्थलश्वभ्र भ्रमस्यन्दनिकादिभिः ।
चतुष्पथसुरस्थान रथ्यामार्गान्न रोधयेत् । । ११.१३ । ।

परक्षेत्रस्य मध्ये तु सेतुर्न प्रतिषिध्यते ।
महागुणोऽल्पबाधश्च वृद्धिरिष्टा क्षये सति । । ११.१४ । ।

सेतुस्तु द्विदिधो ज्ञेयः खेयो बन्ध्यस्तथैव च ।
तोयप्रवर्तनान्खेयो बन्ध्यः स्यात्तन्निवर्तनात् । । ११.१५ । ।

नान्तरेणोदकं सस्यं नश्येदभ्युदकेन तु ।
य एवानुदके दोषः स एवाभ्युदके स्मृतः । । ११.१६ । ।

पूर्वप्रवृत्तं उत्सन्नं अपृष्ट्वा स्वामिनं तु यः ।
सेतुं प्रवर्तयेत्कश्चिन्न स तत्फलभाग्भवेत् । । ११.१७ । ।

मृते तु स्वामिनि पुनस्तद्वंश्ये वापि मानवे ।
राजानं आमन्त्र्य ततः प्रकुर्यात्सेतुकर्म तत् । । ११.१८ । ।

अतोऽन्यथा क्लेशभाक्स्यान्मृगव्याधानुदर्शनात् ।
इषवस्तस्य नश्यन्ति यो विद्धं अनुविध्यति । । ११.१९ । ।

अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः ।
क्षेत्रं चेद्विकृषेत्कश्चिदश्नुवीत स तत्फलम् । । ११.२० । ।

विकृष्यमाणे क्षेत्रे चेत्क्षेत्रिकः पुनराव्रजेत् ।
खिलोपचारं तत्सर्वं दत्त्वा स्वक्षेत्रं आप्नुयात् । । ११.२१ । ।

तदष्टभागापचयाद्यावत्सप्त गताः समाः ।
संप्राप्ते त्वष्टमे वर्षे भुक्तं क्षेत्रं लभेत सः । । ११.२२ । ।

संवत्सरेणार्धखिलं खिलं तद्वत्सरैस्त्रिभिः ।
पञ्चवर्षावसन्नं तु स्यात्क्षेत्रं अटवीसमम् । । ११.२३ । ।

क्षेत्रं त्रिपुरुषं यत्स्याद्गृहं वा स्यात्क्रमागतम् ।
राजप्रसादादन्यत्र न तद्भोगः परं नयेत् । । ११.२४ । ।

उत्क्रम्य तु वृतिं यत्र सस्यघातो गवादिभिः ।
पालः शास्यो भवेत्तत्र न चेच्छक्त्या निवारयेत् । । ११.२५ । ।

समूलसस्यनाशे तु तत्स्वामी समं आप्नुयात् ।
वधेन पालो मुच्येत दण्डं स्वामिनि पातयेत् । । ११.२६ । ।

गौः प्रसूता दशाहात्च महोक्षाजाविकुञ्जराः ।
निवार्यास्तु प्रयत्नेन तेषां स्वामी न दण्डभाक् । । ११.२७ । ।

माषं गां दापयेद्दण्डं द्वौ माषौ महिषीं तथा ।
अजाविके सवत्से तु दण्डः स्यादर्धमाषकः । । ११.२८ । ।

अदण्ड्या हस्तिनोऽश्वाश्च प्रजापाला हि ते स्मृताः ।
अदण्ड्या गर्भिणी गौश्च सूतिका चाभिसारिणी । । ११.२९ । ।

प्रोक्तस्तु द्विर्निषण्णानां वसन्त्यां तु चतुर्गुणम् ।
प्रत्यक्षचारकाणां तु चौरदण्डः स्मृटस्तथा । । ११.३० । ।

या नष्टाः पालदोषेण गावः क्षेत्रं समाश्रिताः ।
न तत्र गोमिनो दण्डः पालस्तं दण्डं अर्हति । । ११.३१ । ।

राजग्राहगृहीतो वा वज्राशनिहतोऽपि वा ।
अथ सर्पेण दष्टो वा गिर्यग्रात्पतितोऽपि वा । । ११.३२ । ।

सिंहव्याघ्रहतो वापि व्याधिभिः चैव पातितः ।
न तत्र दोषः पालस्य न च दोषोऽस्ति गोमिनाम् । । ११.३३ । ।

गोभिस्तु भक्षितं धान्यं यो नरः प्रतिमार्गति ।
सामन्तस्य शदो देयो धान्यं यत्तत्र वापितम् ।

गवत्रं गोमिने देयं धान्यं तत्कर्षिकस्य तु । । ११.३४ । ।
ग्रामोपान्ते च यत्क्षेत्रं विवीतान्ते महापथे ।

अनावृते चेत्तन्नाशे न पालस्य व्यतिक्रमः । । ११.३५ । ।
पथि क्षेत्रे वृतिः कार्या यां उष्ट्रो नावलोकयेत् ।

न लङ्घयेत्पशुर्नाश्वो न भिद्याद्यां च सूकरः । । ११.३६ । ।
गृहं क्षेत्रं च विज्ञेयं वासहेतुः कुटुम्बिनाम् ।

तस्मात्तन्नाक्षिपेद्राजा तद्धि मूलं कुटुम्बिनाम् । । ११.३७ । ।
वृद्धे जनपदे राज्ञो धर्मः कोशश्च वर्धते ।

हीयते हीयमाने च वृद्धिहेतुं अतः श्रयेत् । । ११.३८ । ।