प्रमुखा विकल्पसूचिः उद्घाट्यताम्

देशजातिकुलादीनां आक्रोशन्यङ्गसंहितम् ।
यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते । । १५.१ । ।

निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् ।
गौरवानुक्रमादस्य दण्डोऽप्यत्र क्रमाद्गुरुः । । १५.२ । ।

साक्षेपं निष्ठुरं ज्ञेयं अश्लीलं न्यङ्गसंयुतम् ।
पातनीयैरुपक्रोशैस्तीव्रं आहुर्मनीषिणः । । १५.३ । ।

परगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः ।
भस्मादिभिश्चोपघातो दण्डपारुष्यं उच्यते । । १५.४ । ।

तस्यापि दृष्टं त्रैविध्यं मृदुमध्योत्तमं क्रमात् ।
अवगूरणनिःसङ्ग पातनक्षतदर्शनैः । । १५.५ । ।

हीनमध्योत्तमानां तु द्रव्याणां समतिक्रमात् ।
त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनम् । । १५.६ । ।

विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि ।
विशुद्धिर्दण्डभाक्त्वं च तत्र संबध्यते यथा । । १५.७ । ।

पारुष्ये सति संरम्भादुत्पन्ने क्षुब्धयोर्द्वयोः ।
स मन्यते यः क्षमते दण्डभाग्योऽतिवर्तते । । १५.८ । ।

पारुष्यदोषावृतयोर्युगपत्संप्रवृत्तयोः ।
विशेषश्चेन्न दृश्येत विनयः स्यात्समस्तयोः । । १५.९ । ।

पूर्वं आक्षारयेद्यस्तु नियतं स्यात्स दोषभाक् ।
पश्चाद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः । । १५.१० । ।

द्वयोरापन्नयोस्तुल्यं अनुबध्नाति यः पुनः ।
स तयोर्दण्डं आप्नोति पूर्वो वा यदि वेतरः । । १५.११ । ।

श्वपाकपण्डचण्डाल व्यङ्गेषु वधवृत्तिषु ।
हस्तिपव्रात्यदारेषु गुर्वाचार्याङ्गनासु च । । १५.१२ । ।

मर्यादातिक्रमे सद्यो घात एवानुशासनम् ।
न च तद्दण्डपारुष्ये दोषं आहुर्मनीषिणः । । १५.१३ । ।

यं एव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु ।
स एव विनयं कुर्यान्न तद्विनयभाङ्नृपः । । १५.१४ । ।

मला ह्येते मनुष्येषु धनं एषां मलात्मकम् ।
अपि तान्घातयेद्राजा नार्थदण्डेन दण्डयेत् । । १५.१५ । ।

शतं ब्राह्मणं आक्रुश्य क्षत्रियो दण्डं अर्हति ।
वैश्योऽध्यर्धं शतं द्वे वा शूद्रस्तु वधं अर्हति । । १५.१६ । ।

विप्रः पञ्चाशतं दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्ये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः । । १५.१७ । ।

समवर्णद्विजातीनां द्वादशैव व्यतिक्रमे ।
वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् । । १५.१८ । ।

काणं अप्यथवा खञ्जं अन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन्दाप्यो राज्ञा कार्षापणावरम् । । १५.१९ । ।

न किल्बिषेणापवदेच्छास्त्रतः कृतपावनम् ।
न राज्ञा धृतदण्डं च दण्डभाक्तद्व्यतिक्रमात् । । १५.२० । ।

लोकेऽस्मिन्द्वाववक्तव्यावदण्ड्यौ च प्रकीर्तितौ ।
ब्राह्मणश्चैव राजा च तौ हीदं बिभृतो जगत् । । १५.२१ । ।

पतितं पतितेत्युक्त्वा चौरं चौरेति वा पुनः ।
वचनात्तुल्यदोषः स्यान्मिथ्या द्विर्दोषतां व्रजेत् । । १५.२२ । ।

नामजातिग्रहं तेषां अभिद्रोहेण कुर्वतः ।
निखेयोऽयोमयः शङ्कुः शूद्रस्याष्टादशाङ्गुलः । । १५.२३ । ।

धर्मापदेशं दर्पेण द्विजानां अस्य कुर्वतः ।
तप्तं आसेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः । । १५.२४ । ।

येनाङ्गेनावरो वर्णो ब्राह्मणस्यापराध्नुयात् ।
तदङ्गं तस्य छेत्तव्यं एवं शुद्धिं अवाप्नुयात् । । १५.२५ । ।

सहासनं अभिप्रेप्सुरुत्कृष्टस्यावकृष्टजः ।
कट्यां कृटाङ्को निर्वास्यः स्फिग्देशं वास्य कर्तयेत् । । १५.२६ । ।

अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः ।
अवमूत्रयतः शिश्नं अवशर्धयतो गुदम् । । १५.२७ । ।

केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ।
पादयोर्नासिकायां च ग्रीवायां वृषणेषु च । । १५.२८ । ।

उपक्रुश्य तु राजानं वर्त्मनि स्वे व्यवस्थितम् ।
जिह्वाछेदाद्भवेच्छुद्धिः सर्वस्वहरणेन वा । । १५.२९ । ।

राजनि प्रहरेद्यस्तु कृतागस्यपि दुर्मतिः ।
शूले तं अग्नौ विपचेद्ब्रह्महत्याशताधिकम् । । १५.३० । ।

पुत्रापराधे न पिता न श्ववाञ् शुनि दण्डभाक् ।
न मर्कटे च तत्स्वामी तैरेव प्रहितो न चेत् । । १५.३१ । ।