प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सहसा क्रियते कर्म यत्किंचिद्बलदर्पितैः ।
तत्साहसं इति प्रोक्तं सहो बलं इहोच्यते । । १४.१ । ।

तत्पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा ।
उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् । । १४.२ । ।

फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।
भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम् । । १४.३ । ।

वासःपश्वन्नपानानां गृहोपकरणस्य च ।
एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् । । १४.४ । ।

व्यापादो विषशस्त्राद्यैः परदारप्रधर्षणम् ।
प्राणोपरोधि यच्चान्यदुक्तं उत्तमसाहसम् । । १४.५ । ।

तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः ।
मध्यमस्य तु शास्त्रज्ञैर्ज्ञेयः पञ्चशतावरः । । १४.६ । ।

वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने ।
तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसे । । १४.७ । ।

अविशेषेण सर्वेषां एष दण्डविधिः स्मृतः ।
वधादृते ब्राह्मणस्य न वधं ब्राह्मणोऽर्हति । । १४.८ । ।

शिरसो मुण्डनं दण्डस्तस्य निर्वासनं पुरात् ।
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च । । १४.९ । ।

स्यातां संव्यवहार्यौ तौ धृतदण्डौ तु पूर्वयोः ।
धृतदण्डोऽप्यसंभोज्यो ज्ञेय उत्तमसाहसे । । १४.१० । ।

तस्यैव भेदः स्तेयं स्याद्विशेषस्तत्र चोच्यते ।
अतिसाहसं आक्रम्य स्तेयं आहुश्छलेन तु । । १४.११ । ।

तदपि त्रिविधं प्रोक्तं द्रव्यापेक्षं मनीषिभिः ।
क्षुद्रमध्योत्तमानां तु द्रव्याणां अपकर्षणात् । । १४.१२ । ।

मृद्भाण्डासनखट्वास्थि दारुचर्मतृणादि यत् ।
शमीधान्यमुद्गादीनि क्षुद्रद्रव्यं उदाहृतम् । । १४.१३ । ।

वासः कौशेयवर्जं च गोवर्जं पशवस्तथा ।
हिरण्यवर्जं लोहं च मध्यं व्रीहियवा अपि । । १४.१४ । ।

हिरण्यरत्नकौशेय स्त्रीपुंगोगजवाजिनः ।
देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयं उत्तमम् । । १४.१५ । ।

उपायैर्विविधैरेषां छलयित्वापकर्षणम् ।
सुप्तप्रमत्तमत्तेभ्यः स्तेयं आहुर्मनीषिणः । । १४.१६ । ।

सहोढग्रहणात्स्तेयं होढेऽसत्युपभोगतः ।
शङ्का त्वसज्जनैकार्थ्यादनायव्ययतस्तथा । । १४.१७ । ।

भक्तावकाशदातारः स्तेनानां ये प्रसर्पताम् ।
शक्ताश्च य उपेक्षन्ते तेऽपि तद्दोषभागिनः । । १४.१८ । ।

उत्क्रोशतां जनानां च ह्रियमाणे धनेऽपि च ।
श्रुत्वा ये नाभिधावन्ति तेऽपि तद्दोषभागिनः । । १४.१९ । ।

साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः ।
स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् । । १४.२० । ।

गवादिषु प्रणष्टेषु द्रव्येष्वपहृतेषु वा ।
पदेनान्वेषणं कुर्युरा मूलात्तद्विदो जनाः । । १४.२१ । ।

ग्रामे व्रजे विवीते वा यत्र संनिपतेत्पदम् ।
वोढव्यं तद्भवेत्तेन न चेत्सोऽन्यत्र तन्नयेत् । । १४.२२ । ।

पदे प्रमूढे भग्ने वा विषमत्वाज्जनान्तिके ।
यस्त्वासन्नतरो ग्रामो व्रजो वा तत्र पातयेत् । । १४.२३ । ।

समेऽध्वनि द्वयोर्यत्र तेन प्रायोऽशुचिर्जनः ।
पूर्वापदानैर्दृष्टो वा संसृष्टो वा दुरात्मभिः । । १४.२४ । ।

ग्रामेष्वन्वेषणं कुर्युश्चण्डालवधकादयः ।
रात्रिसंचारिणो ये च बहिः कुर्युर्बहिश्चराः । । १४.२५ । ।

स्तेनेष्वलभ्यमानेषु राजा दद्यात्स्वकाद्धनात् ।
उपेक्षमाणो ह्येनस्वी धर्मादर्थाच्च हीयते । । १४.२६ । ।