नारदस्मृतिः/व्यवहारपदानि/द्यूतसमाह्वयम्

अक्षवर्ध्रशलाकाद्यैर्देवनं जिह्मकारितम् ।
पणक्रीडा वयोभिश्च पदं द्यूतसमाह्वयम् । । १६.१ । ।

सभिकः कारयेद्द्यूतं देयं दद्याच्च तत्कृतम् ।
दशकं तु शतं वृद्धिस्तस्य स्याद्द्यूतकारिता । । १६.२ । ।

द्विरभ्यस्ताः पतन्त्यक्षा ग्लहे यस्याक्षदेविनः ।
जयं तस्यापरस्याहुः कितवस्य पराजयम् । । १६.३ । ।

कितवेष्वेव तिष्ठेयुः कितवाः संशयं प्रति ।
त एव तस्य द्रष्टारः स्युस्त एव च साक्षिणः । । १६.४ । ।

अशुद्धः कितवो नान्यदाश्रयेद्द्यूतमण्डलम् ।
प्रतिहन्यान्न सभिकं दापयेत्तत्स्वं इष्टतः । । १६.५ । ।

कूटाक्षदेविनः पापान्निर्भजेद्द्यूतमण्डलात् ।
कण्ठेऽक्षमालां आसज्य स ह्येषां विनयः स्मृतः । । १६.६ । ।