प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते ।
स्त्रीपुंसयोगनामैतद्विवादपदं उच्यते । । १२.१ । ।

स्त्रीपुंसयोस्तु संबन्धाद्वरणं प्राग्विधीयते ।
वरणाद्ग्रहणं पाणेः संस्कारोऽथ द्विलक्षणः । । १२.२ । ।

तयोरनियतं प्रोक्तं वरणं दोषदर्शनात् ।
पाणिग्रहणमन्त्राभ्यां नियतं दारलक्षणम् । । १२.३ । ।

ब्राह्मणक्षत्रियविशां शूद्राणां च परिग्रहे ।
स्वजात्या श्रेयसी भार्या स्वजात्यश्च पतिः स्त्रियाः । । १२.४ । ।

ब्राह्मणस्यानुलोम्येन स्त्रियोऽन्यास्तिस्र एव तु ।
शूद्रायाः प्रातिलोम्येन तथान्ये पतयस्त्रयः । । १२.५ । ।

द्वे भार्ये क्षत्रियस्यान्ये वैश्यस्यैका प्रकीर्तिता ।
वैश्याया द्वौ पती ज्ञेयावेकोऽन्यः क्षत्रियापतिः । । १२.६ । ।

आ सप्तमात्पञ्चमाद्वा बन्धुभ्यः पितृमातृताः ।
अविवाह्याः सगोत्राः स्युः समानप्रवरास्तथा । । १२.७ । ।

परीक्ष्यः पुरुषः पुंस्त्वे निजैरेवाङ्गलक्षणैः ।
पुमांश्चेदविकल्पेन स कन्यां लब्धुं अर्हति । । १२.८ । ।

सुबद्धजत्रुजान्वस्थिः सुबद्धांसशिरोधरः ।
स्थूलघाटस्तनूरुत्वगविलग्नगतिस्वरः । । १२.९ । ।

विट्चास्य प्लवते नाप्सु ह्लादि मूत्रं च फेनिलम् ।
पुमान्स्यांल्लक्षणैरेतैर्विपरीतैस्तु पण्डकः । । १२.१० । ।

चतुर्दशविधः शास्त्रे स तु दृष्टो मनीषिभिः ।
चिकित्स्यश्चाचिकित्स्यश्च तेषां उक्तो विधिः क्रमात् । । १२.११ । ।

निसर्गपण्डो वध्रिश्च पक्षपण्डस्तथैव च ।
अभिशापाद्गुरो रोगाद्देवक्रोधात्तथैव च । । १२.१२ । ।

ईर्ष्यापण्डश्च सेव्यश्च वातरेता मुखेभगः ।
आक्षिप्तो मोघबीजश्च शालीनोऽन्यपतिस्तथा । । १२.१३ । ।

तत्राद्यावप्रतीकरौ पक्षाख्यो मासं आचरेत् ।
अनुक्रमात्त्रयस्यास्य कालः संवत्सरः स्मृतः । । १२.१४ । ।

ईर्ष्यापण्डादयो येऽन्ये चत्वारः समुदाहृताः ।
संत्यक्तव्याः पतितवत्क्षतयोन्या अपि स्त्रियाः । । १२.१५ । ।

आक्षिप्तमोघबीजाभ्यां पत्यावप्रतिकर्मणि ।
पतिरन्यः स्मृतो नार्या वत्सरं संप्रतीक्ष्य तु । । १२.१६ । ।

शालीनस्यापि धृष्टस्त्री संयोगाद्भज्यते ध्वजः ।
तं हीनवेगं अन्यस्त्री बालाद्याभिरुपक्रमेत् । । १२.१७ । ।

अन्यस्यां यो मनुष्यः स्यादमनुष्यः स्वयोषिति ।
लभेत सान्यं भर्तारं एतत्कार्यं प्रजापतेः । । १२.१८ । ।

अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनः प्रजाः ।
क्षेत्रं बीजवते देयं नाबीजी क्षेत्रं अर्हति । । १२.१९ । ।

पिता दद्यात्स्वयं कन्यां भ्राता वानुमते पितुः ।
मातामहो मातुलश्च सकुल्या बान्धवास्तथा । । १२.२० । ।

माताभावे तु सर्वेषां प्रकृतौ यदि वर्तते ।
तस्यां अप्रकृतिस्थायां दद्युः कन्यां स्वजातयः । । १२.२१ । ।

यदा तु नैव कश्चित्स्यात्कन्या राजानं आव्रजेत् ।
अनुज्ञया तस्य वरं प्रतीत्य वरयेत्स्वयम् । । १२.२२ । ।

सवर्णं अनुरूपं च कुलरूपवयःश्रुतैः ।
सह धर्मं चरेत्तेन पुत्रांश्चोत्पादयेत्ततः । । १२.२३ । ।

प्रतिगृह्य च यः कन्यां नरो देशान्तरं व्रजेत् ।
त्रीनृतून्समतिक्रम्य कन्यान्यं वरयेद्वरम् । । १२.२४ । ।

कन्या नर्तुं उपेक्षेत बान्धवेभ्यो निवेदयेत् ।
ते चेन्न दद्युस्तां भर्त्रे ते स्युर्भ्रूणहभिः समाः । । १२.२५ । ।

यावन्तश्च र्तवस्तस्याः समतीता पतिं विना ।
तावत्यो भ्रूणहत्याः स्युस्तस्य यो न ददाति ताम् । । १२.२६ । ।

अतोऽप्रवृत्ते रजसि कन्यां दद्यात्पिता सकृत् ।
महदेनः स्पृशेदेनं अन्यथैष विधिः सताम् । । १२.२७ । ।

सकृदंशो निपतति सकृत्कन्या प्रदीयते ।
सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् । । १२.२८ । ।

ब्राह्मादिषु विवाहेषु पञ्चस्वेषु विधिः स्मृतः ।
गुणापेक्षं भवेद्दानं आसुरादिषु च त्रिषु । । १२.२९ । ।

कन्यायां प्राप्तशुल्कायां ज्यायांश्चेद्वर आव्रजेत् ।
धर्मार्थकामसंयुक्तं वाच्यं तत्रानृतं भवेत् । । १२.३० । ।

नादुष्टां दूषयेत्कन्यां नादुष्टं दूषयेद्वरम् ।
दोषे तु सति नागः स्यादन्योन्यं त्यजतोस्तयोः । । १२.३१ । ।

दत्त्वा न्यायेन यः कन्यां वराय न ददाति ताम् ।
अदुष्टश्चेद्वरो राज्ञा स दण्ड्यस्तत्र चोरवत् । । १२.३२ । ।

यस्तु दोषवतीं कन्यां अनाख्याय प्रयच्छति ।
तस्य कुर्यान्नृपो दण्डं पूर्वसाहसचोदितम् । । १२.३३ । ।

अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः ।
स शतं प्राप्नुयाद्दण्डं तस्या दोषं अदर्शयन् । । १२.३४ । ।

प्रतिगृह्य तु यः कन्यां अदुष्टां उत्सृजेद्वरः ।
विनेयः सोऽप्यकामोऽपि कन्यां तां एव चोद्वहेत् । । १२.३५ । ।

दीर्घकुत्सितरोगार्ता व्यङ्गा संसृष्टमैथुना ।
धृष्टान्यगतभावा च कन्यादोषाः प्रकीर्तिताः । । १२.३६ । ।

उन्मत्तः पतितः क्लीबो दुर्भगस्त्यक्तबान्धवः ।
कन्यादोषौ च यौ पूर्वौ एष दोषगणो वरे । । १२.३७ । ।

अष्टौ विवाहा वर्णानां संस्कारार्थं प्रकीर्तिताः ।
ब्राह्मस्तु प्रथमस्तेषां प्राजापत्यस्तथैव च । । १२.३८ । ।

आर्षश्चैवाथ दैवश्च गान्धर्वश्चासुरस्तथा ।
राक्षसोऽनन्तरस्तस्मात्पैशाचस्त्वष्टमः स्मृतः । । १२.३९ । ।

सत्कृत्याहूय कन्यां तु ब्राह्मे दद्याद्त्वलंकृताम् ।
सह धर्मं चरेत्युक्त्वा प्राजापत्यो विधीयते । । १२.४० । ।

वस्त्रगोमिथुने दत्त्वा विवाहस्त्वार्ष उच्यते ।
अन्तर्वेद्यां तु दैवः स्यादृत्विजे कर्म कुर्वते । । १२.४१ । ।

इच्छन्तीं इच्छते प्राहुर्गान्धर्वो नाम पञ्चमम् ।
विवाहस्त्वासुरो ज्ञेयः शुल्कसंव्यवहारतः । । १२.४२ । ।

प्रसह्य हरणादुक्तो विवाहो राक्षसस्तथा ।
सुप्तमत्तोपगमनात्पैशाचस्त्वष्टमोऽधमः । । १२.४३ । ।

एषां तु धर्म्यास्चत्वारो ब्राह्माद्याः समुदाहृताः ।
साधारणः स्याद्गान्धर्वस्त्रयोऽधर्म्यास्त्वतः परे । । १२.४४ । ।

परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम् ।
पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्विधा । । १२.४५ । ।

कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता ।
पुनर्भूः प्रथमा सोक्ता पुनः संस्कारं अर्हति । । १२.४६ । ।

कौमारं पतिं उत्सृज्य यान्यं पुरुषं आश्रिता ।
पुनः पत्युर्गृहं यायात्सा द्वितीया प्रकीर्तिता । । १२.४७ । ।

असत्सु देवरेषु स्त्री बान्धवैर्या प्रदीयते ।
सवर्णायासपिण्डाय सा तृतीया प्रकीर्तिता । । १२.४८ । ।

स्त्री प्रसूताप्रसूता वा पत्यावेव तु जीवति ।
कामात्समाश्रयेदन्यं प्रथमा स्वैरिणी तु सा । । १२.४९ । ।

मृते भर्तरि या प्राप्तान्देवरानप्यपास्य तु ।
उपगच्छेत्परं कामात्सा द्वितीया प्रकीर्तिता । । १२.५० । ।

प्राप्ता देशाद्धनक्रीता क्षुत्पिपासातुरा च या ।
तवाहं इत्युपगता सा तृतीया प्रकीर्तिता । । १२.५१ । ।

देशधर्मानपेक्ष्य स्त्री गुरुभिर्या प्रदीयते ।
उत्पन्नसाहसान्यस्मै सान्त्या वै स्वैरिणी स्मृता । । १२.५२ । ।

पुनर्भुवां एष विधिः स्वैरिणीनां च कीर्तितः ।
पूर्वा पूर्वाजघन्यासां श्रेयसी तूत्तरोत्तरा । । १२.५३ । ।

अपत्यं उत्पादयितुस्तासां या शुल्कतो हृता ।
अशुल्कोपनतायां तु क्षेत्रिकस्यैव तत्फलम् । । १२.५४ । ।

क्षेत्रिकस्य यदज्ञातं क्षेत्रे बीजं प्रदीयते ।
न तत्र बीजिनो भागः क्षेत्रिकस्यैव तद्भवेत् । । १२.५५ । ।

ओघवाताहृतं बीजं क्षेत्रे यस्य प्ररोहति ।
फलभुग्यस्य तत्क्षेत्रं न बीजी फलभाग्भवेत् । । १२.५६ । ।

महोक्षो जनयेद्वत्सान्यस्य गोषु व्रजे चरन् ।
तस्य ते यस्य ता गावो मोघं स्यन्दितं आर्षभम् । । १२.५७ । ।

क्षेत्रिकानुमतं बीजं यस्य क्षेत्रे प्रमुच्यते ।
तदपत्यं द्वयोरेव बीजिक्षेत्रिकयोर्मतम् । । १२.५८ । ।

नर्ते क्षेत्रं भवेत्सस्यं न च बीजं विनास्ति तत् ।
अतोऽपत्यं द्वयोरिष्टं पितुर्मातुश्च धर्मतः । । १२.५९ । ।

नाथवत्या परगृहे संयुक्तस्य स्त्रिया सह ।
दृष्टं संग्रहणं तज्ज्ञैर्नागतायाः स्वयं गृहे । । १२.६० । ।

प्रदुष्टत्यक्तदारस्य क्लीबस्य क्षमकस्य च ।
स्वेच्छयोपेयुषो दारान्न दोषः साहसो भवेत् । । १२.६१ । ।

परस्त्रिया सहाकालेऽदेशे वा भवतो मिथः ।
स्थानसंभाषणामोदास्त्रयः संग्रहणक्रमाः । । १२.६२ । ।

नदीनां संगमे तीर्थेष्वारामेषु वनेषु च ।
स्त्री पुमांश्च समेयातां ग्राह्यं संग्रहणं भवेत् । । १२.६३ । ।

दूतीप्रस्थापनैश्चैव लेखासंप्रेषणैरपि ।
अन्यैरपि व्यभिचारैः सर्वं संग्रहणं स्मृतम् । । १२.६४ । ।

स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्शयेत्तथा ।
परस्परस्यानुमते तच्च संग्रहणं भवेत् । । १२.६५ । ।

भक्षैर्वा यदि वा भोज्यैर्वस्त्रैर्माल्यैस्तथैव च ।
संप्रेष्यमानैर्गन्धैश्च सर्वं संग्रहणं स्मृतम् । । १२.६६ । ।

दर्पाद्वा यदि वा मोहाच्छ्लाघया वा स्वयं वदेत् ।
ममेयं भुक्तपूर्वेति सर्वं संग्रहणं स्मृतम् । । १२.६७ । ।

पाणौ यश्च निगृह्णीयद्वेण्यां वस्त्रान्तरेऽपि वा ।
तिष्ठ तिष्ठेति वा ब्रुयात्सर्वं संग्रहणं स्मृतम् । । १२.६८ । ।

स्वजात्यतिक्रमे पुंसां उक्तं उत्तमसाहसम् ।
विपर्यये मध्यमस्तु प्रातिलोमे प्रमापणम् । । १२.६९ । ।

कन्यायां असकामायां द्व्याङ्गुलस्यावकर्तनम् ।
उत्तमायां वधस्त्वेव सर्वस्वहरणं तथा । । १२.७० । ।

सकामायां तु कन्यायां सवर्णे नास्त्यतिक्रमः ।
किंत्वलंकृत्य सत्कृत्य स एवैनां समुद्वहेत् । । १२.७१ । ।

माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा । । १२.७२ । ।

दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या । । १२.७३ । ।

आसां अन्यतमां गत्वा गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनं दण्डो नान्यस्तत्र विधीयते । । १२.७४ । ।

पशुयोन्यां अतिक्रामन्विनेयः स दमं शतम् ।
मध्यमं साहसं गोषु तदेवान्त्यावसायिषु । । १२.७५ । ।

अगम्यागामिनः शास्ति दण्डो राज्ञा प्रचोदितः ।
प्रायश्चित्तविधावत्र प्रायश्चित्तं विशोधनम् । । १२.७६ । ।

स्वैरिण्यब्राह्मणी वेश्या दासी निष्कासिनी च या ।
गम्याः स्युरानुलोम्येन स्त्रियो न प्रतिलोमतः । । १२.७७ । ।

आस्वेव तु भुजिष्यासु दोषः स्यात्परदारवत् ।
गम्या अपि हि नोपेयास्ताश्चेदन्यपरिग्रहाः । । १२.७८ । ।

अनुत्पन्नप्रजायास्तु पतिः प्रेयाद्यदि स्त्रियाः ।
नियुक्ता गुरुभिर्गच्छेद्देवरं पुत्रकाम्यया । । १२.७९ । ।

स च तां प्रतिपद्येत तथैवा पुत्रजन्मतः ।
पुत्रे जाते निवर्तेत विप्लवः स्यादतोऽन्यथा । । १२.८० । ।

घृतेनाभ्यज्य गात्राणि तैलेनाविकृतेन वा ।
मुखान्मुखं परिहरन्गात्रैर्गात्राण्यसंस्पृशन् । । १२.८१ । ।

स्त्रियं पुत्रवतीं वन्ध्यां नीरजस्कां अनिच्छन्तीम् ।
न गच्छेद्गर्भिणीं निन्द्यां अनियुक्तां च बन्धुभिः । । १२.८२ । ।

अनियुक्ता तु या नारी देवराज्जनयेत्सुतम् ।
जारजातं अरिक्थीयं तं आहुर्धर्मवादिनः । । १२.८३ । ।

तथानियुक्तो भार्यायां यवीयाञ् ज्यायसो व्रजेत् ।
यवीयसो वा यो ज्यायानुभौ तौ गुरुतल्पगौ । । १२.८४ । ।

कुले तदवशेषे तु संतानार्थं न कामतः ।
नियुक्तो गुरुभिर्गच्छेद्भ्रातृभार्यां यवीयसः । । १२.८५ । ।

अविद्यमाने तु गुरौ राज्ञो वाच्यः कुलक्षयः ।
ततस्तद्वचनाद्गच्छेदनुशिष्य स्त्रिया सह । । १२.८६ । ।

पूर्वोक्तेनैव विधिना स्नातां पुंसवने शुचिः ।
सकृदा गर्भाधानाद्वा कृते गर्भे स्नुषैव सा । । १२.८७ । ।

अतोऽन्यथा वर्तमानः पुमान्स्त्री वापि कामतः ।
विनेयौ सुभृशं राज्ञा किल्बिषी स्यादनिग्रहात् । । १२.८८ । ।

ईर्ष्यासूयसमुत्थे तु संरम्भे रागहेतुके ।
दम्पती विवदेयातां न ज्ञातिषु न राजनि । । १२.८९ । ।

अन्योन्यं त्यजतोर्नागः स्यादन्योन्यविरुद्धयोः ।
स्त्रीपुंसयोर्निगूढाया व्यभिचारादृते स्त्रियाः । । १२.९० । ।

व्यभिचारे स्त्रिया मौण्ड्यं अधःशयनं एव च ।
कदन्नं वा कुवासश्च कर्म चावस्करोञ्झनम् । । १२.९१ । ।

स्त्रीधनभ्रष्टसर्वस्वां गर्भविस्रंसिनीं तथा ।
भर्तुश्च वधं इच्छन्तीं स्त्रियं निर्वासयेद्गृहात् । । १२.९२ । ।

अनर्थशीलां सततं तथैवाप्रियवादिनीम् ।
पूर्वाशिनीं च या भर्तुः स्त्रियं निर्वासयेद्बुधः । । १२.९३ । ।

वन्ध्यां स्त्रीजननीं निन्द्यां प्रतिकुलां च सर्वदा ।
कामतो नाभिनन्देत कुर्वन्नेवं स दोषभाक् । । १२.९४ । ।

अनुकूलां अवाग्दुष्टां दक्षां साध्वीं प्रजावतीम् ।
त्यजन्भार्यां अवस्थाप्यो राज्ञा दण्डेन भूयसा । । १२.९५ । ।

अज्ञातदोषेणोढा या निर्गता नान्यं आश्रिता ।
बन्धुभिः सा नियोक्तव्या निर्बन्धुः स्वयं आश्रयेत् । । १२.९६ । ।

नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते । । १२.९७ । ।

अष्टौ वर्षाण्युदीक्षेत ब्राह्मणी प्रोषितं पतिम् ।
अप्रसूता तु चत्वारि परतोऽन्यं समाश्रयेत् । । १२.९८ । ।

क्षत्रिया षट्समास्तिष्ठेदप्रसूता समात्रयम् ।
वैश्या प्रसूता चत्वारि द्वे समे त्वितरा वसेत् । । १२.९९ । ।

न शूद्रायाः स्मृतः कालो न च धर्मव्यतिक्रमः ।
विशेषतोऽप्रसूतायाः संवत्सरपरा स्थितिः । । १२.१०० । ।

अप्रवृत्तौ स्मृतः धर्म एष प्रोषितयोषिताम् ।
जीवति श्रूयमाणे तु स्यादेष द्विगुणो विधिः । । १२.१०१ । ।

प्रजाप्रवृत्तौ भूतानां सृष्टिरेषा प्रजापतेः ।
अतोऽन्यगमने स्त्रीणां एवं दोषो न विद्यते । । १२.१०२ । ।

आनुलोम्येन वर्णानां यज्जन्म स विधिः स्मृतः ।
प्रातिलोम्येन यज्जन्म स ज्ञेयो वर्णसंकरः । । १२.१०३ । ।

अनन्तरः स्मृतः पुत्रः पुत्र एकान्तरस्तथा ।
द्व्यन्तरश्चानुलोम्येन तथैव प्रतिलोमतः । । १२.१०४ । ।

उग्रः पारशवश्चैव निषादश्चानुलोमतः ।
उत्तमेभ्यस्त्रयस्त्रिभ्यः शूद्रापुत्राः प्रकीर्तिताः । । १२.१०५ । ।

ब्राह्मण्या अपि चाण्डाल सूतवैदेहका अपि ।
अपरेभ्यस्त्रयस्त्रिभ्या विज्ञेयः प्रतिलोमतः । । १२.१०६ । ।

अम्बष्ठो मागधश्चैव क्षत्ता च क्षत्रियासुताः ।
आनुलोम्येन तत्रैको द्वौ ज्ञेयौ प्रतिलोमतः । । १२.१०७ । ।

वैश्यापुत्रास्तु दौष्षन्त यवनायोगवा अपि ।
प्रातिलोम्येन यत्रैको द्वौ ज्ञेयौ चानुलोमजौ । । १२.१०८ । ।

सूताद्याः प्रतिलोमास्तु ये जातिप्रतिलोमजाः ।
ते संकराः श्वपाकाद्यास्तेषां त्रिः सप्तको गणः । । १२.१०९ । ।

सवर्णो ब्राह्मणीपुत्रः क्षत्रियायां अनन्तरः ।
अम्बष्ठोग्रौ तथा पुत्रावेवं क्षत्रियवैश्ययोः । । १२.११० । ।

एकान्तरस्तु दौष्षन्तो वैश्यायां ब्राह्मणात्सुतः ।
शूद्रायां क्षत्रियात्तद्वन्निषादो नाम जायते । । १२.१११ । ।

शूद्रा पारशवं सूते ब्राह्मणादुत्तरं सुतम् ।
आनुलोम्येन वर्णानां पुत्रा ह्येते प्रकीर्तिताः । । १२.११२ । ।

सूतश्च मागधश्चैव पुत्रावायोगवस्तथा ।
प्रातिलोम्येन वर्णानां तद्वदेतेऽप्यनन्तराः । । १२.११३ । ।

अनन्तरः स्मृतः सूतो ब्राह्मण्यां क्षत्रियात्सुतः ।
मागधायोगवौ तद्वद्द्वी पुत्रौ वैश्यशूद्रयोः । । १२.११४ । ।

ब्राह्मण्येकान्तरं वैश्यात्सूते वैदेहकं सुतम् ।
क्षत्तारं क्षत्रिया शूद्रात्पुत्रं एकान्तरं तथा । । १२.११५ । ।

द्व्यन्तरः प्रातिलोम्येन पापिष्ठः सति संकरे ।
चाण्डालो जायते शूद्राद्ब्राह्मणी यत्र मुह्यति । । १२.११६ । ।

राज्ञा परीक्ष्यं न यथा जायते वर्णसंकरः ।
तस्माद्राज्ञा विशेषेण त्रयी रक्ष्या तु संकरात् । । १२.११७ । ।