प्रमुखा विकल्पसूचिः उद्घाट्यताम्

द्विविधास्तस्करा ज्ञेयाः परद्रव्यापहारिणः ।
प्रकाशाश्चाप्रकाशाश्च तान्विद्यादात्मवान्नृपः । । १८.१ । ।

प्रकाशवञ्चकास्तत्र कूटमानतुलाश्रिताः ।
उत्कोटकाः साहसिकाः कितवाः पण्ययोषितः । । १८.२ । ।

प्रतिरूपकराश्चैव मङ्गलोद्देशवृत्तयः ।
इत्येवमादयो ज्ञेयाः प्रकाशलोकवञ्चकाः । । १८.३ । ।

अप्रकाशाश्च विज्ञेया बहिरभ्यन्तराश्रिताः ।
सुप्तान्प्रमत्तांश्च नरा मुष्णन्त्याक्रम्य चैव ते । । १८.४ । ।

देशग्रामगृहघ्नाश्च पथिघ्ना ग्रन्थिमोचकाः ।
इत्येवमादयो ज्ञेया अप्रकाशाश्च तस्कराः । । १८.५ । ।

तान्विदित्वा सुकुशलैश्चारैस्तत्कर्मकारिभिः ।
अनुसृत्य गृहीतव्या गूढप्रणिहितैर्नरैः । । १८.६ । ।

सभाप्रपापूपशाला वेशमद्यान्नविक्रयाः ।
चतुष्पथाश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च । । १८.७ । ।

शून्यागाराण्यरण्यानि देवतायतनानि च ।
चारैर्विनेयान्येतानि चौरग्रहणतत्परैः । । १८.८ । ।

तथैवान्ये प्रणिहिताः श्रद्धेयाश्चित्रवादिनः ।
चरा ह्युत्साहयेयुस्तांस्तस्करान्पूर्वतस्कराः । । १८.९ । ।

अन्नपानसमादानैः समाजोत्सवदर्शनैः ।
तथा चौर्यापदेशैश्च कुर्युस्तेषां समागमम् । । १८.१० । ।

ये तत्र नोपसर्पन्ति सृताः प्रणिहिता अपि ।
तेऽभिसार्य गृहीतव्याः सपुत्रपशुबान्धवाः । । १८.११ । ।

यांस्तत्र चौरान्गृह्णीयात्तान्विताड्य विडम्ब्य च ।
अवघुष्य च सर्वत्र वध्याश्चित्रवधेन ते । । १८.१२ । ।

न त्वहोढान्विताश्चौरा राज्ञा वध्या ह्यनागमाः ।
सहोढान्सोपकरणान्क्षिप्रं चौरान्प्रशासयेत् । । १८.१३ । ।

स्वदेशघातिनो ये स्युस्तथा पन्थावरोधिनः ।
तेषां सर्वस्वं आदाय भूयो निन्दां प्रकल्पयेत् । । १८.१४ । ।

अहोढान्विमृशेच्चौरान्गृहीतान्परिशङ्कया ।
भयोपधाभिश्चित्राभिर्ब्रूयुस्तथा यथाकृतम् । । १८.१५ । ।

देशं कालं दिशं जातिं नाम वा संप्रतिश्रयम् ।
कृत्यं कर्मकरा वा स्युः प्रष्टव्यास्ते विनिग्रहे । । १८.१६ । ।

वर्णस्वराकारभेदात्ससंदिग्धनिवेदनात् ।
अदेशकालदृष्टत्वाद्वासस्याप्यविशोधनात् । । १८.१७ । ।

असद्व्ययात्पूर्वचौर्यादसत्संसर्गकारणात् ।
लेशैरप्यवगन्तव्या न होढेनैव केवलम् । । १८.१८ । ।

दस्युवृत्ते यदि नरे शङ्का स्यात्तस्करेऽपि वा ।
यदि स्पृश्येत लेशेन कार्यः स्याच्छपथः ततः । । १८.१९ । ।

चौराणां भक्तदा ये स्युस्तथाग्न्युदकदायकाः ।
आवासदा देशिकदास्तथैवोत्तरदायकाः । । १८.२० । ।

क्रेतारश्चैव भाण्डानां प्रतिग्राहिण एव च ।
समदण्डाः स्मृता ह्येते ये च प्रच्छादयन्ति तान् । । १८.२१ । ।

राष्ट्रेषु राष्ट्राधिकृताः सामन्ताश्चैव चोदिताः ।
अभ्याघातेषु मध्यस्था यथा चौरास्तथैव ते । । १८.२२ । ।

गोचरे यस्य मुष्येत तेन चौराः प्रयत्नतः ।
मृग्या दाप्योऽन्यथा मोषं पदं यदि न निर्गतम् । । १८.२३ । ।

निर्गते तु पदे तस्मिन्नष्टेऽन्यत्र निपातिते ।
सामन्तान्मार्गपालांश्च दिक्पालांश्चैव दापयेत् । । १८.२४ । ।

गृहे वै मुषिते राजा चौरग्राहांस्तु दापयेत् ।
आरक्षकान्राष्ट्रिकांश्च यदि चौरो न लभ्यते । । १८.२५ । ।

यदि वा दाप्यमानानां तस्मिन्मोषे तु संशयः ।
मुषितः शपथं शाप्यो मोषे वैशोध्यकारणात् । । १८.२६ । ।

अचौरे दापिते मोषं चौर्यवैशोध्यकारणात् ।
चौरे लब्धे लभेयुस्ते द्विगुणं प्रतिपादिताः । । १८.२७ । ।

चौरहृतं प्रयत्नेन सरूपं प्रतिपादयेत् ।
तदभावे तु मूल्यं स्याद्दण्डं दाप्यश्च तत्समम् । । १८.२८ । ।

काष्ठकाण्डतृणादीनां मृन्मयानां तथैव च ।
वेणुवैणवभाण्डानां वेत्रस्नाय्वस्थिचर्मणाम् । । १८.२९ । ।

शाकहरितमूलानां हरणे फलपुष्पयोः ।
गोरसेक्षुविकाराणां तथा लवणतैलयोः । । १८.३० । ।

पक्वान्नानां कृतान्नानां मद्यानां आमिषस्य च ।
सर्वेषां अल्पमूल्यानां मूल्यात्पञ्चगुणो दमः । । १८.३१ । ।

तुलाधरिममेयानां गणिमानां च सर्वशः ।
एभ्यस्तूत्कृष्टमूल्यानां मूल्याद्दशगुणो दमः । । १८.३२ । ।

धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः ।
न्यूनं त्वेकादशगुणं दण्डं दाप्योऽब्रवीन्मनुः । । १८.३३ । ।

सुवर्णरजतादीनां उत्तमानां च वाससाम् ।
रत्नानां चैव मुख्यानां शतादभ्यधिकं वधः । । १८.३४ । ।

पुरुषं हरतः पात्यो दण्ड उत्तमसाहसः ।
सर्वस्वं स्त्रीं तु हरतः कन्यां तु हरतो वधः । । १८.३५ । ।

महापशून्स्तेनयतो दण्ड उत्तमसाहसः ।
मध्यमो मध्यमपशुं पूर्वः क्षुद्रपशुं हरन् । । १८.३६ । ।

चतुर्विंशावरः पूर्वः परः षण्णवतिर्भवेत् ।
शतानि पञ्च तु परो मध्यमो द्विशतावरः । । १८.३७ । ।

सहस्रं तूत्तमो ज्ञेयः परः पञ्चशतावरः ।
त्रिविधः साहसेष्वेव दण्डः प्रोक्तः स्वयंभुवा । । १८.३८ । ।

प्रथमे ग्रन्थिभेदानां अङ्गुल्यङ्गुष्ठयोर्वधः ।
द्वितीये चैव तच्छेषं दण्डः पूर्वश्च साहसः । । १८.३९ । ।

गोषु ब्राह्मणसंस्थासु स्थूरायाश्छेदनं भवेत् ।
दासीं तु हरतो नित्यं अर्धपादविकर्तनम् । । १८.४० । ।

येन येन विशेषेण स्तेनाङ्गेन विचेष्टते ।
तत्तदेवास्य छेत्तव्यं तन्मनोरनुशासनम् । । १८.४१ । ।

गरीयसि गरीयांसं अगरीयसि वा पुनः ।
स्तेने निपातयेद्दण्डं न यथा प्रथमे तथा । । १८.४२ । ।

दश स्थानानि दण्डस्य मनुः स्वायंभुवोऽब्रवीत् ।
त्रिषु वर्णेषु यानि स्युर्ब्राह्मणो रक्षितः सदा । । १८.४३ । ।

उपस्थं उदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च । । १८.४४ । ।

अपराधं परिज्ञाय देशकालौ च तत्त्वतः ।
सारानुबन्धावालोक्य दण्डानेतान्प्रकल्पयेत् । । १८.४५ । ।

न मित्रकारणाद्राज्ञा विपुलाद्वा धनागमात् ।
उत्स्रष्टव्यः साहसिकस्त्यक्तात्मा मनुरब्रवीत् । । १८.४६ । ।

यावानवध्यस्य वधे तावान्वध्यस्य मोक्षणे ।
भवत्यधर्मो नृपतेर्धर्मस्तु विनियच्छतः । । १८.४७ । ।

न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् ।
निर्वासं कारयेत्कामं इति धर्मो व्यवस्थितः । । १८.४८ । ।

सर्वस्वं वा हरेद्राजा चतुर्थं वावशेषयेत् ।
भृत्येभ्योऽनुस्मरन्धर्मं प्राजापत्यं इति स्थितिः । । १८.४९ । ।

ब्राह्मणस्यापराधे तु चतुःस्वङ्को विधीयते ।
गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने । । १८.५० । ।

गुरुतल्पे भगः कार्यः सुरापाने ध्वजः स्मृतः ।
स्तेये तु श्वपदं कृत्वा शिखिपित्तेन कूटयेत् । । १८.५१ । ।

विशिराः पुरुषः कार्यो ललाटे भ्रूणघातिनः ।
असंभाष्यश्च कर्तव्यस्तन्मनोरनुशासनम् । । १८.५२ । ।

राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता ।
आचक्षाणेन तत्स्तेयं एवं कर्तास्मि शाधि माम् । । १८.५३ । ।

अनेना भवति स्तेनः स्वकर्मप्रतिपादनात् ।
राजानं तत्स्पृशेदेन उत्सृजन्तं सकिल्बिषम् । । १८.५४ । ।

राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गं आयान्ति सन्तः सुकृतिनो यथा । । १८.५५ । ।

शासनाद्वा विमोक्षाद्वा स्तेनो मुच्यते किल्बिषात् ।
अशासनात्तु तद्राजा स्तेनस्याप्नोति किल्बिषम् । । १८.५६ । ।

गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः । । १८.५७ । ।

अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
द्विरष्टापाद्यं वैश्यस्य द्वात्रिंशत्क्षत्रियस्य तु । । १८.५८ । ।

ब्राह्मणस्य चतुःषष्टीत्येवं स्वायंभुवोऽब्रवीत् ।
तत्रापि च विशेषेण विद्वत्स्वभ्यधिकं भवेत् । । १८.५९ । ।

शारीरश्चार्थदण्डश्च दण्डस्तु द्विविधः स्मृतः ।
शारीरा दशधा प्रोक्ता अर्थदण्डास्त्वनेकधा । । १८.६० । ।

काकण्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च ।
शारीरस्त्ववरोधादिर्जीवितान्तस्तथैव च । । १८.६१ । ।

काकण्यादिस्तु यो दण्डः स तु माषापरः स्मृतः ।
माषावराद्यो यः प्रोक्तः कार्षापणपरस्तु सः । । १८.६२ । ।

कार्षापणापराद्यस्तु चतुःकार्षापणः परः ।
द्व्यवरोऽष्टापरश्चान्यस्त्र्यवरो द्वादशोत्तरः । । १८.६३ । ।

कार्षापणाद्या ये प्रोक्ताः सर्वे ते स्युश्चतुर्गुणाः ।
एवं अन्ये तु विज्ञेयाः प्राक्च ते पूर्वसाहसात् । । १८.६४ । ।

कार्षापणो दक्षिणस्यां दिशि रौप्यः प्रवर्तते ।
पणैर्निबद्धः पूर्वस्यां षोडशैव पणाः स तु । । १८.६५ । ।

माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य तु ।
काकणी तु चतुर्भागो माषस्य च पणस्य च । । १८.६६ । ।

पाञ्चनद्याः प्रदेशे तु संज्ञा या व्यावहारिकी ।
कार्षापणप्रमाणं तु निबद्धं इह वै तया । । १८.६७ । ।

कार्षापणोऽण्डिका ज्ञेयाश्चतस्रस्तास्तु धानकः ।
तद्द्वादश सुवर्णस्य दीनारश्चित्रकः स्मृतः । । १८.६८ । ।

वार्त्तां त्रयीं चाप्यथ दण्डनीतिं राजानुवर्तेत्संतताप्रमत्तः ।
हन्यादुपायैर्निपुणैर्गृहीतान्पुरे च राष्ट्रे निगृह्णीयात्पापान् । । १८.६९ । ।