सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम्।
आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः॥पञ्च_१.५१॥
यस्याश्रित्य विश्रामं क्षुधार्ता यांति सेवकाः।
सोऽर्कवन् नृपतिस् त्याज्यः सदा पुष्प-फलोऽपि सन्॥पञ्च_१.५२॥
राज-मातरि देव्यां च कुमारे मुख्य-मंत्रिणि।
पुरोहिते प्रतीहारे सदा वर्तेत राजवत्॥पञ्च_१.५३॥
जीवेति प्रब्रुवन् प्रोक्तः कृत्याकृत्य-विचक्षणः।
करोति निर्विकल्पं यः स भवेद् राज-वल्लभः॥पञ्च_१.५४॥
प्रभु-प्रसादजं वित्तं सुप्राप्तं यो निवेदयेत्।
वस्त्राद्यं च दधात्य् अंगे स भवेद् राज-वल्लभः॥पञ्च_१.५५॥
अंतः-पुर-चरैः सार्धं यो न मंत्रं समाचरेत्।
न कलत्रैर् नरेंद्रस्य स भवेद् राज-वल्लभः॥पञ्च_१.५६॥
द्यूतं यो यम-दूताभं हालां हालाहलोपमम्।
पश्येद् दारान् वृथाकारान् स भवेद् राज-वल्लभः॥पञ्च_१.५७॥
युद्ध-कालेग्रणीर् यः स्यात् सदा पृष्ठानुगः पुरे।
प्रभोर् द्वाराश्रितो हर्म्ये स भवेद् राज-वल्लभः॥पञ्च_१.५८॥
संमतोऽहं विभोर् नित्यम् इति मत्वा व्यतिक्रमेत्।
कृच्छ्रेष्व् अपि न मर्यादां स भवेद् राज-वल्लभः॥पञ्च_१.५९॥
द्वेषि-द्वेष-परो नित्यम् इष्टानाम् इष्ट-कर्म-कृत्।
यो नरो नर-नाथस्य स भवेद् राज-वल्लभः॥पञ्च_१.६०॥
प्रोक्तः प्रत्युत्तरं नाह विरुद्धं प्रभुना न यः।
न समीपे हसत्य् उच्चैः स भवेद् राज-वल्लभः॥पञ्च_१.६१॥
यो रणं शरणं तद्वन् मन्यते भय-वर्जितः।
प्रवासं स्व-पुरावासं स भवेद् राज-वल्लभः॥पञ्च_१.६२॥
न कुर्यान् नरनाथस्य योषिद्भिः सह संगतिम्।
न निंदां न विवादं च स भवेद् राज-वल्लभः॥पञ्च_१.६३॥

करटक आह- अथ भवांस् तत्र गत्वा किं तावत् प्रथमं वक्ष्यति तत् तावद् उच्यताम्।

दमनक आह-
उत्तराद् उत्तरं वाक्यं वदतां संप्रजायते।
सुवृष्टि-गुण-संपन्नाद् बीजाद् बीजम् इवापरम्॥पञ्च_१.६४॥

अपाय-संदर्शनजां विपत्तिम्
उपाय-संदर्शनजां च सिद्धिम्।
मेधाविनो नीति-गुण-प्रयुक्तां
पुरः स्फुरंतीम् इव वर्णयंति॥पञ्च_१.६५॥

एकेषां वाचि शुकवद् अन्येषां हृदि मूकवत्।
हृदि वाचि तथान्येषां वल्गु वल्गंतिउ सूक्तयः॥पञ्च_१.६६॥

न च अहम् अप्राप्त-कालं वक्ष्ये। आकर्णितं मया नीति-सारं पितुः पूर्वम् उत्संगं हि निषेवता।

अप्राप्त-कालं वचनं बृहस्पतिर् अपि ब्रुवन्।
लभते बह्व्-अवज्ञानम् अपमानं च पुष्कलम्॥पञ्च_१.६७॥

करटक आह-
दुराराध्या हि राजानः पर्वता इव सर्वदा।
व्यालाकीर्णाः सुविषमाः कठिना दुष्ट-सेविताः॥पञ्च_१.६८॥

तथा च-
भोगिनः कञ्चुकाविष्टाः कुटिलाः क्रूर-चेष्टिताः।
सुदुष्टा मंत्र-साध्याश् च राजानः पन्नगा इव॥पञ्च_१.६९॥
द्वि-जिह्वाः क्रूर-कर्माणो निष्ठाश् छिद्रानुसारिणः।
दूरतोऽपि हि पश्यंति राजानो भुजगा इव॥पञ्च_१.७०॥
स्वल्पम् अप्य् अपकुर्वंति येभीष्टा हि महीपतेः।
ते वह्नाव् इव दह्यंते पतंगाः पाप-चेतसः॥पञ्च_१.७१॥
दुरारोहं पदं राज्ञां सर्व-लोक-नमस्कृतम्।
स्वल्पेनाप्य् अपकारेण ब्राह्मण्यम् इव दुष्यति॥पञ्च_१.७२॥
दुराराध्याः श्रियो राज्ञां दुरापा दुष्परिग्रहाः।
तिष्ठंत्य् आप इवाधारे चिरम् आत्मनि संस्थिताः॥पञ्च_१.७३॥

दमनक आह- सत्यम् एतत् परम्। किंतु-

यस्य यस्य हि यो भावस् तेन तेन समाचरेत्।
अनुप्रविश्य मेधावी क्षिप्रम् आत्म-वशं नयेत्॥पञ्च_१.७४॥
भर्तुश् चित्तानुवर्तित्वं सुवृत्तं चानुजीविनाम्।
राक्षसाश् चापि गृह्यंते नित्यं छंदानुवर्तिभिः॥पञ्च_१.७५॥
सरुषि नृपे स्तुति-वचनं तद्-अभिमते प्रेम तद्-द्विषि द्वेषः।
तद्-दानस्य च शंसा अमंत्र-तंत्रं वशीकरणम्॥पञ्च_१.७६॥

करटक आह- यद्य् एवम् अभिमतं तर्हि शिवास् ते पंथानः संतु। यथाभिलषितम् अनुष्ठीयताम्। सोऽपि प्रणम्य पिंगलकाभिमुखं प्रतस्थे।

अथागच्छंतं दमनकम् आलोक्य पिंगलको द्वास्थम् अब्रवीत्- अपसार्यतां वेत्र-लता। अयम् अस्माकं चिरंतनो मंत्रिपुत्रो दमनको व्याहत-प्रवेशः। तत् प्रवेश्यतां द्वितीय-मंडल-भागी। इति।

स आह- यथावादीद् भवान् इति।

अथोपसृत्य दमनको निर्दिष्ट आसने पिंगलकं प्रणम्य प्राप्तानुज्ञ उपविष्टः। स तु तस्य नख-कुलिशालंकृतं दक्षिण-पाणिम् उपरि दत्त्वा मान-पुरः-सरम् उवाच- अपि शिवं भवतः। कस्माच् चिराद् दृष्टोऽसि?

दमनक आह- न किंचिद् देव-पादानाम् अस्माभिः प्रयोजनम्। परं भवतां प्राप्त-कालं वक्तव्यम् यत उत्तम-मध्यमाधमैः सर्वैर् अपि राज्ञां प्रयोजनम्। उक्तं च-

दंतस्य निष्कोषणकेन नित्यं
कर्णस्य कंडूयनकेन वापि।
तृणेन कार्यं भवतीश्वराणां
किमङ्ग वाग्घस्तवता नरेण॥पञ्च_१.७७॥

तथा वयं देव-पादानाम् अन्वयागता भृत्या आपत्स्व् अपि पृष्ठ-गामिनो यद्यपि स्वम् अधिकारं न लभामहे तथापि देव-पादानाम् एतद् युक्तं न भवति। उक्तं च-

स्थानेष्व् एव नियोक्तव्या भृत्या आभरणानि च।
न हि चूडामणिः पादे प्रभवामीति बध्यते॥पञ्च_१.७८॥

यतः-
अनभिज्ञो गुणानां यो न भृत्यैर् अनुगम्यते।
धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः॥पञ्च_१.७९॥

उक्तं च-
असमैः समीयमानः समैश् च
परिहीयमाण-सत्-कारः।
धुरि यो न युज्यमानस् त्रिभिर्
अर्थ-पतिं त्यजति भृत्यः॥पञ्च_१.८०॥

यच् चाविवेकितया राज्ञा भृत्यानुत्तम-पद-योग्यान् हीनाधम-स्थाने नियोजयति, न ते तत्रैव स भूपतेर् दोषो न तेषाम्। उक्तं च-

कनक-भूषण-संग्रहणोचितो
यदि मणिस् त्रपुणि प्रतिबध्यते।
न स विरौति न चापि स शोभते
भवति योजयितुर् वचनीयता॥पञ्च_१.८१॥

यच् च स्वाम्य् एवं वदति चिराद् दृश्यते। तद् अपि श्रूयताम्-

सव्य-दक्षिणयोर् यत्र विशेषो नास्ति हस्तयोः।
कस् तत्र क्षणम् अप्यार्यो विद्यमान-गतिर् भवेत्॥पञ्च_१.८२॥
काचे मणिर् मणौ काचो येषां बुद्धिर् विकल्पते।
न तेषां संनिधौ भृत्यो नाम-मात्रोऽपि तिष्ठति॥पञ्च_१.८३॥

परीक्षका यत्र न संति देशे
नार्घंति रत्नानि समुद्रजानि।
आभीर-देशे किल चंद्रकांतं
त्रिभिर् वराटैर् विपणंति गोपाः॥पञ्च_१.८४॥

लोहिताख्यस्य च मणेः पद्मरागस्य चांतरम्।
यत्र नास्ति कथं तत्र क्रियते रत्न-विक्रयः॥पञ्च_१.८५॥
निर्विशेषं यदा स्वामी समं भृत्येषु वर्तते।
तत्रोद्यम-समर्थानाम् उत्साहः परिहीयते॥पञ्च_१.८६॥
न विना पार्थिवो भृत्यैर् न भृत्याः पार्थिवं विना।
तेषां च व्यवहारो यं परस्पर-निबंधनः॥पञ्च_१.८७॥
भृत्यैर् विना स्वयं राजा लोकानुग्रह-कारिभिः।
मयूखैर् इव दीप्तांशुस् तेजस्व्य् अपि न शोभते॥पञ्च_१.८८॥
अरैः संधार्यते नाभिर् नाभौ चाराः प्रतिष्ठिताः।
स्वामि-सेवकयोर् एवं वृत्ति-चक्रं प्रवर्तते॥पञ्च_१.८९॥
शिरसा विधृता नित्यं स्नेहेन परिपालिताः।
केशा अपि विरज्यंते निःस्नेहाः किं न सेवकाः॥पञ्च_१.९०॥
राजा तुष्टो हि भृत्यानाम् अर्थ-मात्रं प्रयच्छति।
ते तु संमान-मात्रेण प्राणैर् अप्य् उपकुर्वते॥पञ्च_१.९१॥
एवं ज्ञात्वा नरेंद्रेण भृत्याः कार्या विचक्षणाः।
कुलीनाः शौर्य-संयुक्ताः शक्ता भक्ताः क्रमागताः॥पञ्च_१.९२॥
यः कृत्वा सुकृतं राज्ञो दुष्करं हितम् उत्तमम्।
लज्जया वक्ति नो किञ्चित् तेन राजा सहायवान्॥पञ्च_१.९३॥
यस्मिन् कृत्यं समावेश्य निर्विशंकेन चेतसा।
आस्यते सेवकः स स्यात् कलत्रम् इव चापरम्॥पञ्च_१.९४॥
यो नाहूतः समभ्येति द्वारि तिष्ठति सर्वदा।
पृष्ठः सत्यं मितं ब्रूते स भृत्योऽर्हो महीभुजाम्॥पञ्च_१.९५॥
अनादिष्टोऽपि भूपस्य दृष्ट्वा हानिकरं च यः।
यतते तस्य नाशाय स भृत्योऽर्हो महीभुजाम्॥पञ्च_१.९६॥
ताडितोऽपि दुरुक्तोऽपि दंडितोऽपि महीभुजा।
यो न चिंतयते पापं स भृत्योऽर्हो महीभुजाम्॥पञ्च_१.९७॥
न गर्वं कुरुते माने नापमाने च तप्यते।
स्वाकारं रक्षयेद् यस् तु स भृत्योऽर्हो महीभुजाम्॥पञ्च_१.९८॥
न क्षुधा पीड्यते यस् तु निद्रया न कदाचन।
न च शीतातपाद्यैश् च स भृत्योऽर्हो महीभुजाम्॥पञ्च_१.९९॥
श्रुत्वा सांग्रामिकीं वार्तां भविष्यां स्वामिनं प्रति।
प्रसन्नास्यो भवेद् यस् तु स भृत्योऽर्हो महीभुजाम्॥पञ्च_१.१००॥

सम्बद्धानुबन्धाःसम्पाद्यताम्

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाह्यानुबन्धाःसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०२क&oldid=61015" इत्यस्माद् प्रतिप्राप्तम्