पञ्चतन्त्रम् ०३क

(पञ्चतन्त्रम् 03क इत्यस्मात् पुनर्निर्दिष्टम्)

पूर्व पुटम्
नोपकारं विना प्रीतिः कथञ्चित् कस्यचिद् भवेत्।
उपयाचितदानेन यतो देवा अभीष्टदाः ॥ पञ्च_२.५१॥
तावत्प्रीतिर्भवेल्लोके यावद् दानं प्रदीयते।
वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम्॥ पञ्च_२.५२॥
पश्य दानस्य माहात्म्यं सद्यः प्रत्ययकारकम्।
यत्प्रभावादपि द्वेषो मित्रतां याति तत्क्षणात् ॥ पञ्च_२.५३॥

पुत्राद् अपि प्रियतरं खलु तेन दानं
मन्ये पशोर् अपि विवेक-विवर्जितस्य।
दत्ते खले तु निखिलं खलु येन दुग्धं
नित्यं ददाति महिषी ससुतापि पश्य॥पञ्च_२.५४॥

किं बहुना-
प्रीतिं निरंतरां कृत्वा दुर्भेद्यां नख-मांसवत्।
मूषको वायसश् चैव गतौ कृत्रिम-मित्रताम्॥पञ्च_२.५५॥

एवं स मूषकस् तद्-उपकार-रञ्जितस् तथा विश्वस्तो यथा तस्य पक्ष-मध्ये प्रविष्टस् तेन सह सर्वदैव गोष्ठीं करोति। अथान्यस्मिंन् अहनि वायसो ऽश्रु-पूर्ण-नयनः समभ्येत्य सगद्गदं तम् उवाच-भद्र हिरण्यक, विरक्तिः सञ्जाता मे सांप्रतं देशस्यास्योपरि तद् अन्यत्र यास्यामि।

हिरण्यक आह-भद्र किं विरक्तेः कारणम्।

स आह-भद्र, श्रूयतां। अत्र देशे महत्यानावृष्ट्या दुर्भिक्षं सञ्जातम्। दुर्भिक्षत्वाज् जनो बुभुक्षा-पीडितः कोऽपि बलि-मात्रम् अपि न प्रयच्छति। अपरं गृहे गृहे बुभुक्षित-जनैर् विहंगानां बंधनाय पाशाः प्रगुणीकृताः संति। अहम् अप्य् आयुः-शेषतया पाशेन बद्ध उद्धरितोऽस्मि। एतद् विरक्तेः कारणम् æ| तेनाहं विदेशं चलित इति बाष्प-मोक्षं करोमि।

हिरण्यक आह-अथ भवान् क्व प्रस्थितः?

स आह-अस्ति दक्षिणा-पथे वन-गहन-मध्ये महासरः। तत्र त्वत्तोऽधिकः परम-सुहृत् कूर्मो मंथरको नाम। स च मे मत्स्य-मांस-खंडानि दास्यति। तद्-भक्षणात् तेन सह सुभाषित-गोष्ठी-सुखम् अनुभवन् सुखेन कालं नेष्यामि। नाहम् अत्र विहंगानां पाश-बंधनेन क्षयं द्रष्टुम् इच्छामि। उक्तं च-
अनावृष्टि-हते देशे सस्ये च प्रलयं गते।
धन्यास् तात न पश्यंति देश-भंगं कुल-क्षयम्॥पञ्च_२.५६॥
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम्।
को विदेशः सविद्यानां कः परः प्रिय-वादिनाम्॥पञ्च_२.५७॥
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्व-देशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते॥पञ्च_२.५८॥

हिरण्यक आह-यद्य् एवं तद् अहम् अपि त्वया सह गमिष्यामि। ममापि महद् दुःखं वर्तते।

वायस आह-भोः! तव किं दुःखम्? तत् कथय।

हिरण्यक आह-भोः! बहु वक्तव्यम् अस्त्य् अत्र विषये। तत्रैव गत्वा सर्वं सविस्तरं कथयिष्यामि।

वायस आह-अहं तावद् आकाश-गतिः। तत् कथं भवतो मया सह गमनम्?

स आह-यदि मे प्राणान् रक्षसि तदा स्व-पृष्ठम् आरोप्य मां तत्र प्रापयिष्यसि। नान्यथा मम गतिर् अस्ति।

तच् छ्रुत्वा सानंदं वायस आह-यद्य् एवं तद् धन्योऽहं यद् भवतापि सह तत्र कालं नयामि। अहं संपातादिकान् अष्टाव् उड्डीन-गति-विशेषान् वेद्मि। तत् समारोह मम पृष्ठं, येन सुखेन त्वां तत्-सरः प्रापयामि।

हिरण्यक आह-उड्डीनानां नामानि श्रोतुम् इच्छामि।

स आह-
संपातं विप्रपातं च महापातं निपातनम्।
वक्रं तिर्यक् तथा चोर्ध्वम् अष्टमं लघुसंज्ञकम्॥पञ्च_२.५९॥

तच् छ्रुत्वा हिरण्यकस् तत्-क्षणाद् एव तद् उपरि समारूढः। सोऽपि शनैः शनैस् तम् आदाय संपातोड्डीन-प्रस्थितः क्रमेण तत्-सरः प्राप्तः। ततो लघुपतनकं मूषकाधिष्ठितं विलोक्य दूरतोऽपि देश-काल-विद-सामान्य-काकोऽयम् इति ज्ञात्वा सत्वरं मंथरको जले प्रविष्टः। लघुपतनकोऽपि तीरस्थ-तरु-कोटरे हिरण्यकं मुक्त्वा शाखाग्रम् आरुह्य तार-स्वरेण प्रोवाच-भो मंथरक! आगच्छागच्छ। तव मित्रम् अहं लघुपतनको नाम वायसश् चिरात् सोत्कंठः समायातः। तद् आगत्यालिंगय माम्। उक्तं च-

किं चंदनैः स-कर्पूरैस् तुहिनैः किं च शीतलैः।
सर्वे ते मित्र-गात्रस्य कलां नार्हंति षोडशीम्॥पञ्च_२.६०॥

तथा च-
केनामृतम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयम्।
आपदां च परित्राणं शोक-संताप-भेषजम्॥पञ्च_२.६१॥

तच् छ्रुत्वा निपुणतरं परिज्ञाय सत्वरं सलिलान् निष्क्रम्य पुलकित-तनुर् आनंदाश्रु-पूरित-नयनो मंथरकः प्रोवाच-एह्य् एहि मित्र, आलिंगय माम्। चिर-कालान् मया त्वं न सम्यक् परिज्ञातः। तेनाहं सलिलांतः-प्रविष्टः। उक्तं च-

यस्य न ज्ञायते वीर्यं न कुलं न विचेष्टितम्।
न तेन संगतिं कुर्याद् इत्य् उवाच बृहस्पतिः॥पञ्च_२.६२॥

एवम् उक्ते लघुपतनको वृक्षाद् अवतीर्य तम् आलिंगितवान्। अथवा साध्व् इदम् उक्तम्-
अमृतस्य प्रवाहैः किं काय-क्षालन-संभवैः।
चिरान् मित्र-परिष्वंगो योऽसौ मूल्य-विवर्जितः॥पञ्च_२.६३॥

एवं द्वाव् अपि तौ विहितालिंगितौ परस्परं पुलकित-शरीरी वृक्षाद् अधः समुपविष्टौ प्रोचतुर् आत्म-चरित्र-वृत्तांतम्। हिरण्यकोऽपि मंथरकस्य प्रणामं कृत्वा वायसाभ्याशे समुपविष्टः। अथ तं समालोक्य मंथरको लघुपतनकम् आह-भोः कोऽयं मूषकः। कस्मात्त्वया भक्ष्यभूतोऽपि पृष्ठमारोप्यानीतः। तन्नात्र स्वल्पकारणेन भाव्यम्। तच्छ्रुत्वा लघुपतनक आह - भोः हिरण्यको नाम मूषकोऽयम्। मम सुहृद्-द्वितीयम् इव जीवितम्। तत् किं बहुना-

पर्जन्यस्य यथा धारा यथा च दिवि तारकाः।
सिकता-रेणवो यद्वत् संख्यया परिवर्जिता॥पञ्च_२.६४॥
गुणाः संख्या-परित्यक्तास् तद्वद् अस्य महात्मनः।
परं निर्वेदम् आपन्नः संप्राप्तोऽयं तवांतिकम्॥पञ्च_२.६५॥

मंथरक आह-किम् अस्य वैराग्य-कारणम्?

वायस आह-पृष्टो मया, परम् अनेनाभिहितं, यद् बहु वक्तव्यम् इति। तत् तत्रैव गतः कथयिष्यामि। ममापि न निवेदितम्। तद् भद्र हिरण्यक! इदानीं निवेद्यताम् उभयोर् अप्य् आवयोस् तद् आत्मनो वैराग्य-कारणम्।

सोऽब्रवीत्-

लघुपतनक वायस - मूषकोपरि टिप्पणीः

कथा १ हिरण्यक-ताम्रचूड-कथा सम्पाद्यताम्


अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तस्य नातिदूरे मठायतनं भगवतः श्री-महादेवस्य। तत्र च ताम्रचूडो नाम परिव्राजकः प्रतिवसति स्म। स च नगरे भिक्षाटनं कृत्वा प्राण-यात्रां समाचरति। भिक्षा-शेषं च तत्रैव भिक्षा-पात्रे निधाय तद्-भिक्षा-पात्रं नागदंतेवलंब्य पश्चाद् रात्रौ स्वपिति। प्रत्यूषे च तद्-अन्नं कर्मकराणां दत्त्वा सम्यक् तत्रैव देवतायतने संमार्जनोपलेपन-मंडनादिकं समाज्ञापयति। अंयस्मिंन् अहनि मम बांधवैर् निवेदितम्-स्वामिन्, मठायतने सिद्धम् अन्नं मूषक-भयात् तत्रैव भिक्षा-पात्रे निहितं नागदंतेऽवलंबितं तिष्ठति सदैव। तद् वयं भक्षयितुं न शक्नुमः। स्वामिनः पुनर् आगम्य किम् अपि नास्ति। तत् किं वृथाटनेनान्यत्र। अद्य तत्र गत्वा यथेच्छं भुञ्जामहे तव प्रसादात्।

तद् आकर्ण्याहं सकल-यूथ-परिवृतस् तत्-क्षणाद् एव तत्र गतः। उत्पत्य च तस्मिन् भिक्षा-पात्रे समारूढः। तत्र भक्ष्य-विशेषाणि सेवकेभ्यो दत्त्वा पश्चात् स्वयम् एव भक्षयामि। सर्वेषां तृप्तौ जातायां भूयः स्व-गृहं गच्छामि। एवं नित्यम् एव तद् अन्नं भक्षयामि। परिव्राजकोऽपि यथा-शक्ति रक्षति। परं यदैव निद्रांतरितो भवति, तदाहं तत्रारुह्यात्म-कृत्यं करोमि। अथ कदाचित् तेन मम रक्षणार्थं महान् यत्नः कृतः। जर्जर-वंशः समानीतः। तेन सुप्तोऽपि मम भयाद् भिक्षा-पात्रं ताडयति। अहम् अप्य् अभक्षितेप्य् अन्ने प्रहार-भयाद् अपसर्पामि। एवं तेन सह सकलां रात्रिं विग्रह-परस्य कालो व्रजति।

अथान्यस्मिन्न् अहनि तस्य मठे बृहत्स्फिङ्-नामा परिव्राजकस् तस्य सुहृत् तीर्थ-यात्रा-प्रसंगेन पांथः प्राघुणिकः समायातः। तं दृष्ट्वा प्रत्युत्थान-विधिना संभाव्य प्रतिपत्ति-पूर्वकम् अभ्यागत-क्रियया नियोजितः। ततश् च रात्राव् एकत्र कुश-संस्तरे द्वाव् अपि प्रसुप्तौ धर्म-कथां कथयितुम् आरब्धौ।

अथ बृहत्स्फिक्-कथा-गोष्ठीषु स ताम्रचूडो मूषक-त्रासार्थं व्याक्षिप्त-मना जर्जर-वंशेन भिक्षा-पात्रं ताडयंस् तस्य शून्यं प्रतिवचनं प्रयच्छति। तन्मयो न किञ्चिद् उदाहरति। अथासाव् अभ्यागतः परं कोपम् उपागतस् तम् उवाच-भोस् ताम्रचूड! परिज्ञातः न त्वं सम्यक् सुहृत्। तेन मया सह साह्लादं न जल्पसि। तद्-रात्राव् अपि त्वदीयं मठं त्यक्त्वान्यत्र मठे यास्यामि। उक्तं च-
एह्य् आगच्छ समाविशासनम् इदं कस्माच् चिराद् दृश्यसे का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात्।
एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्य् आदरात् तेषां युक्तम् अशंकितेन मनसा हर्म्याणि गंतुं सदा॥पञ्च_२.६६॥

गृही यत्रागतं दृष्ट्वा दिशो वीक्षेत वाप्य् अधः।
तत्र ये सदने यांति ते शृंगरहिता वृषाः॥पञ्च_२.६७॥

साभ्युत्थान-क्रिया यत्र नालापा मधुराक्षराः।
गुण-दोष-कथा नैव तत्र हर्म्यं न गम्यते॥पञ्च_२.६८॥

तद् एक-मठ-प्राप्त्यापि त्वं गर्वितः। त्यक्तः सुहृत्-स्नेहः। नैतद् वेत्सि यत् त्वया मठाश्रय-व्याजेन नरकोपार्जनं कृतम्। उक्तं च-

नरकाय मतिस् ते चेत् पौरोहित्यं समाचार।
वर्षं यावत् किम् अन्येन मठ-चिंतां दिन-त्रयम्॥पञ्च_२.६९॥

तन्-मुखं, शोचितव्यस् त्वं गर्वं गतः। तद् अहं त्वदीयं मठं परित्यज्य यास्यामि।

अथ तच् छ्रुत्वा भय-त्रस्त-मनास् ताम्रचूडस् तम् उवाच-भो भगवन्! मैवं वद। न त्वत्-समो अन्यो मम सुहृत् कश्चिद् अस्ति। परं तच् छ्रूयतां गोष्ठी-शैथिल्य-कारणम्। एष दुरात्मा मूषकः प्रोन्नत-स्थाने धृतम् अपि भिक्षा-पात्रम् उत्प्लुत्यारोहति, भिक्षा-शेषं च तत्रस्थं भक्षयति। तद्-अभावाद् एव मठे मार्जन-क्रियापि न भवति। तन् मूषकत्रासार्थमेतेन वंशेन भिक्षापात्रं मुहुर् मुहुस् ताडयामि। नान्यत् कारणम् इति। अपरम् एतत् कुतूहलं पश्यास्य दुरात्मनो यन् मार्जार-मर्कटादयोऽपि तिरस्कृता अस्योत्पतनेन।

बृहत्स्फिग् आह-अथ ज्ञायते तस्य बिलं कस्मिंश्चित् प्रदेशे।

ताम्रचूड आह-भगवन् न वेद्मि सम्यक्।

स आह-नूनं निधानस्योपरि तस्य बिलम्। निधानोष्मणा प्रकूर्दते। उक्तं च-

ऊष्मापि वित्तजो वृद्धिं तेजो नयति देहिनाम्।
किं पुनस् तस्य संभोगस् त्याग-धर्म-समन्वितः॥पञ्च_२.७०॥

तथा च-
नाकस्माच् छांडिली मातर् विक्रीणाति तिलैस् तिलान्।
लुञ्चितान् इतरैर् येन हेतुर् अत्र भविष्यति॥पञ्च_२.७१॥

ताम्रचूड आह-कथम् एतत्?

स आह-

कथा २ तिलचूर्ण-विक्रय-कथा सम्पाद्यताम्


यदाहं कस्मिंश्चित् स्थाने प्रावृट्-काले व्रत-ग्रहण-निमित्तं कञ्चिद् ब्राह्मणं वासार्थं प्रार्थितवान्। ततश् च तद्-वचनात् तेनापि शुश्रूषितः सुखेन देवार्चन-परस् तिष्ठामि। अथान्यस्मिन्न् अहनि प्रत्यूषे प्रबुद्धोऽहं ब्राह्मण-ब्राह्मणी-संवादे दत्तावधानः शृणोमि। तत्र ब्राह्मण आह-ब्राह्मणि, प्रभाते दक्षिणायन-संक्रांतिर् अनंत-दान-फलदा भविष्यति। तद् अहं प्रतिग्रहार्थं ग्रामांतरं यास्यामि। त्वया ब्राह्मणस्यैकस्य भगवतः सूर्यस्योद्देशेन किञ्चिद् भोजनं दातव्यम् इति।

अथ तच् छ्रुत्वा ब्राह्मणी परुषतर-वचनैस् तं भर्त्सयमाना प्राह-कुतस् ते दारिद्र्योपहतस्य भोजन-प्राप्तिः। तत् किं लज्जस एवं ब्रुवाणः। अपि च न मया तव हस्त-लग्नया क्वचिद् अपि लब्धं सुखम्। न मिष्ठान्नस्यास्वादनम्। न च हस्त-पाद-कंठादि-भूषणम्।

तच् छ्रुत्वा भय-त्रस्तोऽपि विप्रो मंदं मंदं प्राह-ब्राह्मणि! नैतद् युज्यते वक्तुम्। उक्तं च-

ग्रासाद् अपि तद् अर्धं च कस्मान् नो दीयतेर्थिषु।
इच्छानुरूपो विभवः कदा कस्य भविष्यति॥पञ्च_२.७२॥
ईश्वरा भूरि-दानेन यल् लभंते फलं किल।
दरिद्रस् तच् च काकिण्या प्राप्नुयाद् इति न श्रुतिः॥पञ्च_२.७३॥
दाता लघुर् अपि सेव्यो भवति न कृपणो महान् अपि समृद्ध्या।
कूपो अंतः-स्वादु-जलः प्रीत्यै लोकस्य न समुद्रः॥पञ्च_२.७४॥

तथा च-
अकृत-त्याग-महिम्ना मिथ्या किं राज-राज-शब्देन।
गोप्तारं न निधीनां महयंति महेश्वरं विबुधाः॥पञ्च_२.७५॥

अपि च-
सदा दान-परिक्षीणः शस्त एव करीश्वरः।
अदानः पीन-गात्रोऽपि निंद्य एव हि गर्दभः॥पञ्च_२.७६॥
सुशीलोऽपि सुवृत्तोऽपि यात्य् अदानाद् अधो घटः।
पुनः कुब्जापि काणापि दानाद् उपरि कर्कटी॥पञ्च_२.७७॥

यच्छन् जलम् अपि जलदो वल्लभताम् एति सकल-लोकस्य।
नित्यं प्रसारित-करो मित्रोऽपि न वीक्षितुं शक्यः॥पञ्च_२.७८॥

एवं ज्ञात्वा दरिद्र्याभिभूतैर् अपि स्वल्पात् स्वल्पतरं काले पात्रे च देयम्। उक्तं च-
सत्-पात्रं महती श्रद्धा देशे काले यथोचिते।
यद् दीयते विवेक-ज्ञैस् तद् अनंताय कल्पते॥पञ्च_२.७९॥

तथा च-
अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत्।
अतितृष्णाभिभूतस्य शिखा भवति मस्तके॥पञ्च_२.८०॥

ब्राह्मण्य् आह-कथम् एतत्?

स आह-

कथा ३ शवर-शूकर-कथा सम्पाद्यताम्


अस्ति कस्मिंश्चिद् वनोद्देशे कश्चित् पुलिंदः। स च पापर्द्धिं कर्तुं वनं प्रति प्रस्थितः। अथ तेन प्रसर्पता महान् अञ्जन-पर्वत-शिखराकारः क्रोडः समासादितः। तं दृष्ट्वा कर्णांताकृष्ट-निशित-सायकेन समाहतः। तेनापि कोपाविष्टेन चेतसा बालेंदु-द्युतिना दंष्ट्राग्रेण पाटितोदरः पुलिंदो गतासुर् भूतलेऽपतत्।

अथ लुब्धकं व्यापाद्य शूकरोऽपि शर-प्रहार-वेदनया पञ्चत्वं गतः। एतस्मिंन् अंतरे कश्चिद् आसन्न-मृत्युः शृगाल इतस्ततो निराहारतया पीडितः परिभ्रमंस्तं प्रदेशम् आजगाम। यावद् वराह-पुलिंदौ द्वावपि पश्यति तावत् प्रहृष्टो व्यचिंतयत्-भोः! सानुकूलो मे विधिः। तेनैतद् अपि अचिंतितं भोजनम् उपस्थितम्। अथवा साधु इदम् उक्तम्-

अकृतेप्मेयुद्यमे पुंसाम् अन्य-जन्म-कृतं फलम्।
शुभाशुभं समभ्येति विधिना संनियोजितम्॥पञ्च_२.८१॥

तथा च-
यस्मिन् देशे च काले च वयसा यादृशेन च।
कृतं शुभाशुभं कर्म तत् तथा तेन भुज्यते॥पञ्च_२.८२॥

तद् अहं तथा भक्षयामि यथा बहूनि अहनि मे प्राण-यात्रा भवति। तत् तावद् एनं स्नायु-पाशं धनुष्कोटि-गतं भक्षयामि। उक्तं च-

शनैः शनैश्च भोक्तव्यं स्वयं वित्तम् उपार्जितम्।
रसायनम् इव प्राज्ञैर् हेलया न कदाचन॥पञ्च_२.८३॥

इत्येवं मनसा निश्चित्य चाप-घटित-कोटिं मुख-मध्ये प्रक्षिप्य स्नायुं भक्षितुं प्रवृत्तः। ततश्च त्रुटिते पाशे तालु-देशं विदार्य चाप-कोटिर्मस्तक-मध्येन निष्क्रांता। सोऽपि तद्वद् एनया तत्-क्षणान् मृतः। अतोऽहं ब्रवीमि-अतितृष्णा न कर्तव्या इति।

---

स पुनर् अप्य् आह-ब्राह्मणि, न श्रुतं भवत्या।

आयुः कर्म च वित्तं च विद्या निधनम् एव च।
पञ्चैतानि हि सृज्यंते गर्भस्थस्यैव देहिनः॥पञ्च_२.८४॥

अथैवं सा तेन प्रबोधिता ब्राह्मण्य् आह-यद्य् एवं तद् अस्ति मे गृहे स्तोकस् तिल-राशिः। ततस् तिलान् लुञ्चित्वा तिल-चूर्णेन ब्राह्मणं भोजयिष्यामि इति।

ततस् तद्-वचनं श्रुत्वा ब्राह्मणो ग्रामं गतः। सापि तिलानुष्णोदकेन सम्मर्द्य कुटित्वा सूर्यातपे दत्तवती। अत्रांतरे तस्या गृह-कर्म-व्यग्रायास् तिलानां मध्ये कश्चित् सारमेयो मूत्रोत्सर्गं चकार। तं दृष्ट्वा सा चिंतितवती-अहो नैपुण्यं पश्य पराङ्मुखीभूतस्य विधेः। यद् एते तिला अभोज्याः कृताः। तद् अहम् एतान् समादाय कस्यचित् गृहं गत्वा लुञ्चितैर् अलुञ्चितान् आनयामि। सर्वोऽपि जनोऽनेन विधिना प्रदास्यति इति।

अथ यस्मिन् गृहेऽहं भिक्षार्थं प्रविष्टस् तत्र गृहे सापि तिलान् आदाय प्रविष्टा विक्रयं कर्तुम्। आह च-गृह्णातु कश्चिद् अलुञ्चितैर् लुञ्चितांस् तिलान्।

अथ तद्-गृह-गृहिणी-गृहं प्रविष्टा यावद् अलुञ्चितैर् लुञ्चितान् गृह्णाति तावद् अस्याः पुत्रेण कामंदकी-शास्त्रं दृष्ट्वा व्याहृतम्-मातः! अग्राह्याः खल्व् इमे तिलाः। नास्या अलुञ्चितैर् लुञ्चिता ग्राह्याः। कारणं किञ्चिद् भविष्यति। तेनैषाऽलुञ्चितैर् लुञ्चितान् प्रयच्छति।

तच् छ्रुत्वा तया परित्यक्तास् ते तिलाः। अतोऽहं ब्रवीमि-नाकस्माच् छांडिली-मातः इति।

---

एतद् उक्त्वा स भूयोऽपि प्राह-अथ ज्ञायते तस्य क्रमण-मार्गः।

ताम्रचूड आह-भगवन्, ज्ञायते। यत एकाकी न समागच्छति, किंत्व् असंख्य-यूथ-परिवृतः पश्यतो मे परिभ्रमन्न् इतस् ततः सर्व-जनेन सहागच्छति याति च।

अभ्यागत आह-अस्ति किञ्चित् खनित्रकम्।

स आह-बाढम् अस्ति। एषा सर्व-लोह-मयी स्व-हस्तिका।

अभ्यागत आह-तर्हि प्रत्यूषे त्वया मया सह स्थातव्यम्। येन द्वाव् अपि जन-चरण-मलिनायां भूमौ तत्-पदानुसारेण गच्छावः। मयापि तद्-वचनम् आकर्ण्य चिंतितम्-अहो विनष्टोऽस्मि, यतोऽस्य साभिप्राय-वचांसि श्रूयंते। नूनं, यथा निधानं ज्ञातं तथा दुर्गम् अप्य् अस्माकं ज्ञास्यति। एतद् अभिप्रायाद् एव ज्ञायते। उक्तं च-

सकृद् अपि दृष्ट्वा पुरुषं विबुधा जानंति सारतां तस्य।
हस्त-तुलयाऽपि निपुणाः पल-प्रमाणं विजानंति॥पञ्च_२.८५॥

वाञ्छैव सूचयति पूर्वतरं भविष्यं
पुंसां यद् अन्य-तनुजं त्वशुभं शुभं वा।
विज्ञायते शिशुर् अजात-कलाप-चिह्नः
प्रत्युद्गतैर् अपसरन् सरलः कलापी॥पञ्च_२.८६॥

ततोऽहं भय-त्रस्त-मनाः सपरिवारो दुर्ग-मार्गं परित्यज्यान्य-मार्गेण गंतुं प्रवृत्तः। सपरिजनो यावद् अग्रतो गच्छामि तावत् संमुखो बृहत्कायो मार्जारः समायाति। स च मूषक-वृंदम् अवलोक्य तन्-मध्ये सहसोत्पपात। अथ ते मूषका मां कुमार्ग-गामिनम् अवलोक्य गर्हयंतो हत-शेषा रुधिर-प्लावित-वसुंधरास् तम् एव दुर्गं प्रविष्टाः। अथवा साध्व् इदम् उच्यते-

छित्त्वा पाशम् अपास्य कूट-रचनां भंक्त्वा बलाद् वागुरां
पर्यंताग्नि-शिखा-कलाप-जटिलान् निर्गत्य दूरं वनात्।
व्याधानां शर-गोचराद् अपि जवेनोत्पत्य धावन् मृगः
कूपांतः-पतितः करोतु विधुरे किं वा विधौ पौरुषम्॥पञ्च_२.८७॥

अथाहम् एको अन्यत्र गतः। शेषा मूढतया तत्रैव दुर्गे प्रविष्टाः। अत्रांतरे स दुष्ट-परिव्राजको रुधिर-बिंदु-चर्चितां भूमिम् अवलोक्य तेनैव दुर्ग-मार्गेणागत्योपस्थितः।

यद् उत्साही सदा मर्त्यः पराभवति यज् जनान्।
यद् उद्धतं वदेद् वाक्यं तत् सर्वं वित्तजं बलम्॥पञ्च_२.८८॥

अथाहं तच्छ्रुत्वा कोपाविष्टो भिक्षा-पात्रम् उद्दिश्य विशेषाद् उत्कूर्दितो प्राप्त एव भूमौ निपतितः। तच् छ्रूत्वासौ मे शत्रुर् विहस्य ताम्रचूडम् उवाच-भोः! पश्य पश्य कौतूहलम्। आह च-

अर्थेन बलवान् सर्वोऽप्य् अर्थ-युक्तः स पंडितः।
पश्यैनं मूषकं व्यर्थं सजातेः समतां मतम्॥पञ्च_२.८९॥

तत् स्वपिहि त्वं गतशंकः। यद् अस्योत्पतन-कारणं तद् आवयोर् हस्त-गतं जातम्। अथवा साध्विदं उच्यते-

दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः।
तथार्थेन विहीनोऽत्र पुरुषो नाम-धारकः॥पञ्च_२.९०॥

तच् छ्रुत्वाहं मनसा विचिंतितवान्-यतो अंगुलि-मात्रम् अपि कूर्दन-शक्तिर् नास्ति, तद् धिग् अर्थ-हीनस्य पुरुषस्य जीवितम्। उक्तं च-

अर्थेन च विहीनस्य पुरुषस्याल्प-मेधसः।
व्युच्छिद्यंते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा॥पञ्च_२.९१॥
यथा काक-यवाः प्रोक्ता यथारण्य-भवास् तिलाः।
नाम-मात्रा न सिद्धौ हि धन-हीनास् तथा नराः॥पञ्च_२.९२॥
संतोऽपि न हि राजंते दरिद्रस्येतरे गुणाः।
आदित्य इव भूतानां श्रीर् गुणानां प्रकाशिनी॥पञ्च_२.९३॥
न तथा बाध्यते लोके प्रकृत्या निर्धनो जनः।
यथा द्रव्याणि संप्राप्य तैर् विहीनो सुखे स्थितः॥पञ्च_२.९४॥
शुष्कस्य कीट-खातस्य वह्नि-दग्धस्य सर्वतः।
तरोर् अप्य् ऊषरस्थस्य वरं जन्म न चार्थिनः॥पञ्च_२.९५॥
शंकनीया हि सर्वत्र निष्प्रतापा दरिद्रता।
उपकर्तुम् अपि हि प्राप्तं निःस्वं संत्यज्य गच्छति॥पञ्च_२.९६॥
उन्नम्योन्नम्य तत्रैव दरिद्राणां मनोरथाः।
पतंति हृदये व्यर्था विधवास्त्रीस्तना इव॥पञ्च_२.९७॥
व्यक्तेऽपि वासरे नित्यं दौर्गत्य-तमसावृतः।
अग्रतोऽपि स्थितो यत्नान् न केनापीह दृश्यते॥पञ्च_२.९८॥

एवं विलप्याहं भग्नोत्साहस् तन्-निधानं गंडोपधानीकृतं दृष्ट्वा स्वं दुर्गं प्रभाते गतः। ततश् च मद्-भृत्याः प्रभाते गच्छंतो मिथो जल्पंति-अहो, असमर्थोऽयम् उदर-पूरणेस्माकम्। केवलम् अस्य पृष्ठ-लग्नानां विडालादि-विपत्तयः तत् किम् अनेनाराधितेन? उक्तं च-
यत्-सकाशान् न लाभाः स्यात् केवलाः स्युर् विपत्तयः।
स स्वामी दूरतस् त्याज्यो विशेषाद् अनुजीविभिः॥पञ्च_२.९९॥

एवं तेषां वचांसि श्रुत्वा स्व-दुर्गं प्रविष्टोऽहम्। यावन् न कश्चिन् मम संमुखेभ्येति तावन् मया चिंतितम्-धिग् इयं दरिद्रता। अथवा साध्व् इदम् उच्यते-
मृतो दरिद्रः पुरुषो मृतं मैथुनम् अप्रजम्।
मृतम् अश्रोत्रियं श्राद्धं मृतो यज्ञस् त्व् अदक्षिणम्॥पञ्च_२.१००॥

संबंधित कड़ियाँ सम्पाद्यताम्

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँ सम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०३क&oldid=224299" इत्यस्माद् प्रतिप्राप्तम्