पञ्चतन्त्रम् ०२च

(पञ्चतन्त्रम् 02च इत्यस्मात् पुनर्निर्दिष्टम्)

शशक आह-स्वामिन्! सत्यम् इदम्। स्व-भूमि-हेतोः परिभवाच् च युध्यंते क्षत्रियाः। परं स दुर्गाश्रयः दुर्गान् निष्क्रम्य वयं तेन विष्कंभिताः। ततो दुर्गस्थो दुःसध्यो भवति रिपुः। उक्तं च-

न गजानां सहस्रेण न च लक्षेण वाजिनाम्। यत् कृत्यं सिध्यति राज्ञां दुर्गेणैकेन विग्रहे॥पञ्च_१.२५१॥
शतम् एकोऽपि संधत्ते प्राकारस्थो धनुर्धरः। तस्माद् दुर्गं प्रशंसंति नीतिशास्त्रविचक्षणाः॥पञ्च_१.२५२॥
पुरा गुरोः समादेशाद् हिरण्यकशिपोर् भयात्। शक्रेण विहितं दुर्गं प्रभावाद् विश्वकर्मणः॥पञ्च_१.२५३॥
तेनापि च वरो दत्तो यस्य दुर्गं स भूपतिः। विजयी स्यात् ततो भूमौ दुर्गाणि स्युः सहस्रशः॥पञ्च_१.२५४॥
दंष्ट्राविरहितो नागो मदहीनो यथा गजः। सर्वेषां जायते वश्यो दुर्गहीनस् तथा नृपः॥पञ्च_१.२५५॥

तच् छ्रुत्वा भासुरक आह। भद्र दुर्गस्थम् अपि दर्शय तं चौर-सिंहं येन व्यापादयामि। उक्तं च-

जात-मात्रं न यः शत्रुं रोगं च प्रशमं नयेत्। महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते॥पञ्च_१.२५६॥
तथा च-
उत्तिष्ठमानस् तु परो नोपेक्ष्यः पथ्यम् इच्छता। समौ हि शिष्टैर् आम्नातौ वर्त्स्यंताव् आमयः स च॥पञ्च_१.२५७॥
अपि च-
उपेक्षितः क्षीण-बलोऽपि शत्रुः प्रमाद-दोषात् पुरुषैर् मदांधैः। साध्योऽपि भूत्वा प्रथमं ततोऽसाव्
असाध्यतां व्याधिर् इव प्रयाति॥पञ्च_१.२५८॥
तथा च-
आत्मनः शक्तिम् उद्वीक्ष्य मनोत्साहं च यो व्रजेत्। बहून् हंति स एकोऽपि क्षत्रियान् भार्गवो यथा॥पञ्च_१.२५९॥
शशक आह-अस्त्य् एतत्। तथापि बलवान् स मया दृष्टः। तन् न युज्यते स्वामिनस् तस्य तस्य सामर्थ्यम् अविदित्वा गंतुम्। उक्तं च-
अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः। गच्छन्न् अभिमुखो वह्नौ नाशं याति पतंगवत्॥पञ्च_१.२६०॥ यो बलात् प्रोन्नतं याति निहंतुं सबलोऽप्य् अरिम्। विमदः स निवर्तेत शीर्ण-दंतो गजो यथा॥पञ्च_१.२६१॥
भासुरक आह-भोः किं तवानेन व्यापारेण। दर्शय मे तं दुर्गस्थम् अपि।�

अथ शशक आह-यद्य् एवं तर्ह्य् आगच्छतु स्वामी। एवम् उक्त्वाग्रे व्यवस्थितः।

ततश् च तेनागच्छता यः कूपो दृष्टो भूत् तम् एव कूपम् आसाद्य भासुरकम् आह-स्वामिन् कस् ते प्रतापं सोढुं समर्थः? त्वां दृष्ट्वा दूरतोऽपि चौर-सिंहः प्रविष्टः स्वं दुर्गम्। तद् आगच्छ यथा दर्शयामीति। भासुरक आह-दर्शय मे दुर्गम्। तद् अनु दर्शितस् तेन कूपः। ततः सोऽपि मूर्खः सिंहः कूप-मध्य आत्म-प्रतिबिंबं जल-मध्य-गतं दृष्ट्वा सिंह-नादं मुमोच। ततः प्रतिशब्देन कूप-मध्याद् द्वि-गुणतरो नादः समुत्थितः।

अथ तेन तं शत्रुं मत्वात्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः। शशकोऽपि हृष्ट-मनाः सर्व-मृगान् आनंद्य तैः सह प्रशस्यमानो यथा-सुखं तत्र वने निवसति स्म। अतोऽहं ब्रवीमि-यस्य बुद्धिर् बलं तस्य इति।

---

तद् यदि भवान् कथयति तत् तत्रैव गत्वा तयोः स्व-बुद्धि-प्रभावेण मैत्री-भेदं करोमि।

करटक आह-भद्र! यद्य् एवं तर्हि गच्छ। शिवास् ते पंथानः संतु। यथाभिप्रेतम् अनुष्ठीयताम्।

अथ दमनकः सञ्जीवक-वियुक्तं पिंगलकम् अवलोक्य तत्रांतरे प्रणम्याग्रे समुपविष्टः। पिंगलकोऽपि तम् आह-भद्र, किं चिराद् दृष्टः?

दमनक आह-न कञ्चिद् देव-पादानाम् अस्माभिः प्रयोजनम्। तेनाहं नागच्छामि। तथापि राज-प्रयोजन-विनाशम् अवलोक्य संदह्यमान-हृदयो व्याकुलतया स्वयम् एवाभ्यागतो वक्तुम्। उक्तं च-

प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाशुभम्।
अपृष्टोऽपि हितं वक्ष्येद् यस्य नेच्छेत् पराभवम्॥पञ्च_१.२६२॥

अथ तस्य साभिप्रायं वचनम् आकर्ण्य पिंगलक आह-किं वक्तु-मना भवान्? तत् कथ्यतां यत् कथनीयम् अस्ति।

स प्राह-देव सञ्जीवको युष्मत्-पादानाम् उपरि द्रोह-बुद्धिर् इति। विश्वास-गतस्य मम विजने इदम् आह-भो दमनक! दृष्टा मयास्य पिंगलकस्य सारासारता। तद् अहम् एनं हत्वा सकल-मृगाधिपत्यं त्वत्-साचिव्य-पदवी-समन्वितं करिष्यामि। पिंगलकोऽपि तद्-वज्र-सार-प्रहार-सदृशं दारुणं वचः समाकर्ण्य मोहम् उपगतो न किञ्चिद् अप्य् उक्तवान्। दमनकोऽपि तस्य तम् आकारम् आलोक्य चिंतितवान्-अयं तावत् सञ्जीवक-निबद्ध-रागः। तन् नूनम् अनेन मंत्रिणा राजा विनाशम् अवाप्स्यति इति। उक्तं च-

एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच् छ्रयते मदः स च मदाद् दास्येन निर्विद्यते।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतंत्र-स्पृहा- स्वातंत्र्य-स्पृहया ततः स नृपतेः प्राणान् अभिद्रुह्यति॥पञ्च_१.२६३॥
तत् किम् अत्र युक्तम् इति। पिंगलको पि चेतनां समासाद्य कथम् अपि तम् आह-सञ्जीवकस् तावत् प्राण-समो भृत्यः। स कथं ममोपरि द्रोह-बुद्धिं करोति।

दमनक आह-देव, भृत्यो भृत्य इत्य् अनेकांतिकम् एतत्। उक्तं च-

न सोऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम्।
अशक्ता एव सर्वत्र नरेंद्रं पर्युपासते॥पञ्च_१.२६४॥

पिंगलक आह-भद्र, तथापि मम तस्योपरि चित्त-वृत्तिर् न विकृतिं याति। अथवा साध्व् इदम् उच्यते-

अनेक-दोष-दुष्टस्य कायः कस्य न वल्लभः।
कुर्वन्न् अपि व्यलीकानि यः प्रियः प्रिय एव सः॥पञ्च_१.२६५॥

दमनक आह-अत एवायं दोषः। उक्तं च-

यस्मिन्न् एवाधिकं चक्षुर् आरोपयति पार्थिवः।
अकुलीनः कुलीनो वा स श्रिया भाजनं नरः॥पञ्च_१.२६६॥

अपरं केन गण-विशेषेण स्वामी सञ्जीवकं निर्गुणकम् अपि निकटे धारयति। अथ देव, यद्य् एवं चिंतयसि महा-कायोऽयम्। अनेन रिपून् व्यापादयिष्यामि। तद् अस्मान् न सिध्यति, यतोऽयं शष्प-भोजी। देव-पादानां पुनः शत्रवो मांसाशिनः। तद्-रिपु-साधनम् अस्य साहाय्येन न भवति। तस्माद् एनं दूषयित्वा हन्यताम् इति।

पिंगलक आह-
उक्तो भवति यः पूर्वं गुणवान् इति संसदि।
तस्य दोषो न वक्तव्यः प्रतिज्ञा-भंग-भीरुणा॥पञ्च_१.२६७॥

अन्यच् च। मयास्य तव वचनेनाभय-प्रदानं दत्तम्। तत् कथं स्वयम् एव व्यापादयामि। सर्वथा सञ्जीवकोयं सुहृद् अस्माकम्। न तं प्रति कश्चिन् मन्युर् इति। उक्तं च-

इतः स दैत्यः प्राप्त-श्रीर् नेत एवार्हति क्षयम्।
विष-वृक्षोऽपि संवर्ध्य स्वयं छेत्तुम् असांप्रतम्॥पञ्च_१.२६८॥

आदौ न वा प्रणयिनां प्रणयो विधेयो
दत्तोऽथवा प्रतिदिनं परिपोषणीयः।
उत्क्षिप्य यत् क्षिपति तत् प्रकरोति लज्जां
भूमौ स्थितस्य पतनाद् भयम् एव नास्ति॥पञ्च_१.२६९॥

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः।
अपकारिषु यः साधुः स साधुः सद्भिर् उच्यते॥पञ्च_१.२७०॥

तद्-द्रोह-बुद्धेर् अपि मयास्य न विरुद्धम् आचरणीयम्।

दमनक आह-स्वामिन्! नैष राज-धर्मो यद् द्रोह-बुद्धिर् अपि क्षम्यते। उक्तं च-

तुल्यार्थं तुल्य-सामर्थ्यं मर्मज्ञं व्यवसायिनम्।
अर्ध-राज्य-हरं भृत्यं यो न हन्यात् स हन्यते॥पञ्च_१.२७१॥

अपरं त्वयास्य सखित्वात् सर्वोऽपि राज-धर्मः परित्यक्तः राज-धर्माभावात् सर्वोऽपि परिजनो विरक्तिं गतः। यः सञ्जीवकः शष्प-भोजी। भवान् मांसादः। तव प्रकृतयश् च यत् तवावध्यव्यसाय-बाह्यं कुतस् तासां मांसाशनम्। यद्-रहितास् त्वां त्यक्त्वा यास्यंति। ततोऽपि त्वं विनष्ट एव। अस्य संगत्या पुनस् ते न कदाचिद् आखेटके मतिर् भविष्यति। उक्तं च-
यादृशैः सेव्यते भृत्यैर् यादृशांश् चोपसेवते।
कदाचिन् नात्र संदेहस् तादृग् भवति पूरुषः॥पञ्च_१.२७२॥

तथा च-
संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्त-कारतया तद् एव नलिनी-पत्र-स्थितं राजते।
स्वातौ सागर-शुक्ति-कुक्षि-पतितं तज् जायते मौक्तिकं
प्रायेणाधम-मध्यमोत्तम-गुणः संवासतो जायते॥पञ्च_१.२७३॥

तथा च-
असतां संग-दोषेण सती याति मतिर् भ्रमम्।
एक-रात्रि-प्रवासेन काष्ठं मुञ्जे प्रलंबितम्॥पञ्च_१.२७४॥

अत एव संतो नीच-संगं वर्जयंति। उक्तं च-

न ह्य् अविज्ञात-शीलस्य प्रदातव्यः प्रतिश्रयः।
मत्-कुणस्य च दोषेण हता मंद-विसर्पिणी॥पञ्च_१.२७५॥

पिंगलक आह--कथम् एतत्?

सो ब्रवीत्-

कथा ९ मंद-विसर्पिणी-नाम-यूका-कथासम्पाद्यताम्


अस्ति कस्यचिन् महीपतेर् मनोरमं शयन-स्थानम्। तत्र श्वेततर-पट-युगल-मध्य-संस्थिता मंद-विसर्पिणी यूका प्रतिवसति स्म। सा च तस्य महीपते रक्तम् आस्वादयंती सुखेन कालं नयमाना तिष्ठति। अन्ये-द्युश् च तत्र शयने क्वचिद् भ्राम्यन्न् अग्निमुखो नाम मत्कुणः समायातः। अथ तं दृष्ट्वा सा विषण्ण-वदना प्रोवाच। भो ग्निमुख कुतस् त्वम् अत्रानुचित-स्थाने समायातः। तद् यावन् न कश्चिद् वेत्ति तावच् छीघ्रं गम्यताम् इति।
स आह-भगवति गृहागतस्यासाधोर् अपि नैतद् युज्यते वक्तुम्। उक्तं च-
एह्य् आगच्छ समाविशासनम् इदं कस्माच् चिराद् दृश्यसे का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात्।
एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्य् आदरात् तेषां युक्तम् अशंकितेन मनसा हर्म्याणि गंतुं सदा॥पञ्च_१.२७६॥

अपरं मयानेक-मानुषाणाम् अनेक-विधानि रुधिराण्य् आस्वादितान्य् आहार-दोषात् कटु-तिक्त-कषायाम्ल-रसास्वादानि न च कदाचिन् मधुर-रक्तं समास्वादितम्। तद् यदि त्वं प्रसादं करोषि तद् अस्य नृपतेर् विविध-व्यञ्जनान्न-पान-चोष्य-लेह्य-स्वाद्व्-आहार-वशाद् अस्य शरीरे यन् मिष्टं रक्तं संजातं तद्-आस्वादनेन सौख्यं संपादयामि जिह्वाया इति। उक्तं च-
रंकस्य नृपतेर् वापि जिह्वा-सौख्यं समं स्मृतम्। तन्-मात्रं च स्मृतं सारं तद्-अर्थं यतते जनः॥पञ्च_१.२७७॥
यद्य् एव न भवेल् लोके कर्म जिह्वा-प्रतुष्टिदम्। तन् न भृत्यो भवेत् कश्चित् कस्यचिद् वशगोऽथ वा॥पञ्च_१.२७८॥ यद् असत्यं वदेन् मर्त्यो यद् वाऽसेव्यं च सेवते। यद् गच्छति विदेशं च तत् सर्वम् उदरार्थतः॥पञ्च_१.२७९॥
तन् मया गृहागतेन बुभुक्षया पीड्यमानेनापि त्वत्-सकाशाद् भोजनम् अर्थनीयम्। तन् न त्वयैकाकिन्यास्य भूपते रक्त-भोजनं कर्तुं युज्यते।

तच् छ्रुत्वा मंदविसर्पिण्य् आह-भो मत्कुण! अस्य नृपतेर् निद्रा-वशं गतस्य रक्तम् आस्वादयामि।

पुनस् त्वम् अग्निमुखश् चपलश् च-तद् यदि मया सह रक्त-पानं करोषि तत् तिष्ठ। अभीष्टतर-रक्तम् आस्वादय।
सोऽब्रवीत्-भगवत्य् एवं करिष्यामि। यावत् त्वं नास्वादयसि प्रथमं नृप-रक्तं तावन् मम देव-गुरु-कृतः शपथः स्याद् यदि तद् आस्वादयामि।
एवं तयोः परस्परं वदतोः स राजा तच्-छयनम् आसाद्य प्रसुप्तः। अथासौ मत्कुणो जिह्वा-लौल्योत्कृष्टौत्सुक्याज् जाग्रतम् अपि तं मही-पतिम् अदशत्। अथ वा साध्व् इदम् उच्यते।
स्वभावो नोपदेशेन शक्यते कर्तुम् अन्यथा। सुतप्तम् अपि पानीयं पुनर् गच्छति शीतताम्॥पञ्च_१.२८०॥ यदि स्याच् छीतलो वह्निः शीतांशुर् दहनात्मकः। न स्वभावोऽत्र मर्त्यानां शक्यते कर्तुम् अन्यथा॥पञ्च_१.२८१॥
अथासौ महीपतिः सूच्य्-अग्र-विद्ध इव तच्-छयनं त्यक्त्वा तत्-क्षणाद् एवोत्थितः। अहो ज्ञायताम् अत्र प्रच्छादन-पटे मत्कुणो यूका वा नूनं तिष्ठति येनाहं दष्ट इति। अथ ये कञ्चुकिनस् तत्र स्थितास् ते सत्वरं प्रच्छादन-पटं गृहीत्वा सूक्ष्म-दृष्ट्या वीक्षां चक्रुः। अत्रांतरे स मत्कुणश् चापल्यात् खट्वांतं प्रविष्टः सा मंदविसर्पिण्य् अपि वस्त्र-संध्य्-अंतर्-गता तैर् दृष्टा व्यापादिता च। अतोऽहं ब्रवीमि-न ह्य् अविज्ञात-शीलस्य इति।

---

एवं ज्ञात्वा त्वयैष वध्यः। नो चेत् त्वां व्यापादयिष्यतीति। उक्तं च-

त्यक्ताश् चाभ्यंतरा येन बाह्याश् चाभ्यंतरीकृताः।
स एव मृत्युम् आप्नोति यथा राजा ककुद्-द्रुमः॥पञ्च_१.२८२॥

पिंगलक आह--कथम् एतत्?

सो ब्रवीत्-

कथा १० चंडरव-नाम-शृगाल-कथासम्पाद्यताम्


अस्ति कस्मिंश्चिद् वनोद्देशे चंडरवो नाम शृगालः प्रतिवसति स्म। स कदाचित् क्षुधाविष्टो जिह्वा-लौल्यान् नगर-मध्ये प्रविष्टः। अथ तं नगर-वासिनः सारमेया अवलोक्य सर्वतः शब्दायमानाः परिधाव्य तीक्ष्ण-दंष्ट्राग्रैर् भक्षितुम् आरब्धाः। सोऽपि तैर् भक्ष्यमाणः प्राण-भयात् प्रत्यासन्न-रजक-गृहं प्रविष्टः। तत्र नीली-रस-परिपूर्णं महा-भांडम् सज्जीकृतम् आसीत्। तत्र सारमेयैर् आक्रांतो भांड-मध्ये पतितः। अथ यावन् निष्क्रांतस् तावन् नीली-वर्णः सञ्जातः। तत्रापरे सारमेयास् तं शृगालम् अजानंतो यथाभीष्ट-दिशं जग्मुः। चंडरवोऽ पि दूरतरं प्रदेशम् आसाद्य काननाभिमुखं प्रतस्थे। न च नील-वर्णेन कदाचिन् निज-रंगस् त्यज्यते। उक्तं च-

वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च। एको ग्रहस् तु मीनानां नीलीमद्यपयोर् यथा॥पञ्च_१.२८३॥
अथ तं हर-गल-गरल-तमाल-सम-प्रभम् अपूर्वं सत्त्वम् अवलोक्य सर्वे सिंह-व्याघ्र-द्वीपि-वृक-प्रभृतयोऽरण्य-निवासिनो भय-व्याकुलित-चित्ताः समंतात् पलायन-क्रियां कुर्वंति। कथयंति च-न ज्ञायतेस्य कीदृग् विचेष्टितं पौरुषं च। तद् दूरतरं गच्छामः। उक्तं च-

न यस्य चेष्टितं विद्यान् न कुलं न पराक्रमम्।
न तस्य विश्वसेत् प्राज्ञो यदीच्छेच् छ्रियम् आत्मनः॥पञ्च_१.२८४॥
चंडरवोऽपि भय-व्याकुलितान् विज्ञायेदम् आह-भो भोः श्वापदाः! किं यूयं मां दृष्ट्वैव संत्रस्ता व्रजथ। तन् न भेतव्यम्। अहं ब्रह्मणाद्य स्वयम् एव सृष्ट्वाभिहितः-यच् छ्वापदानां कश्चिद् राजा नास्ति, तत् त्वं मयाद्य सर्व-श्वापद-प्रभुत्वेभिषिक्तः ककुद्-द्रुमाभिधः। ततो गत्वा क्षिति-तले तान् सर्वान् परिपालयेति। ततोऽहम् अत्रागतः। तन् मम च्छत्र-च्छायायां सर्वैर् अपि श्वापदैर् वर्तितव्यम्। अहं ककुद्द्रुमो नाम राजा त्रैलोक्येपि सञ्जातः।

तच् छ्रुत्वा सिंह-व्याघ्र-पुरः-सराः श्वापदाः स्वामिन् प्रभो समादिशेति वदंतस् तं परिवव्रुः। अथ तेन सिंहस्यामात्य-पदवी प्रदत्ता। व्याघ्रस्य शय्या-पालकत्वम्। द्वीपिनस् तांबूलाधिकारः। वृकस्य द्वार-पालकत्वम्। ये चात्मीयाः शृगालास् तैः सहालाप-मात्रम् अपि न करोति। शृगालाः सर्वेप्य् अर्धचंद्रं दत्त्वा निःसारिताः। एवं तस्य राज्य-क्रिययां वर्तमानस्य ते सिंहादयो मृगान् व्यापाद्य तत्-पुरतः प्रक्षिपंति। सो पि प्रभु-धर्मेण सर्वेषां तान् प्रविभज्य प्रयच्छति।

एवं गच्छति काले कदाचित् तेन समागतेन दूर-देशे शब्दायमानस्य शृगाल-वृंदस्य कोलाहलो श्रावि। तं शब्दं श्रुत्वा पुलकित-तनुर् आनंदाश्रु-पूर्ण-नयन उत्थाय तार-स्वरेण विरोतुम् आरब्धवान्। अथ ते सिंहादयस् तं तार-स्वरम् आकर्ण्य शृगालोऽयम् इति मत्वा लज्जायाधो-मुखाः क्षणं स्थित्वा प्रोचुः-भोः! वाहिता वयम् अनेन क्षुद्र-शृगालेन। तद् वध्यताम् इति।

सोऽपि तद् आकर्ण्य पलायितुम् इच्छंस् तत्र स्थान एव सिंहादिभिः खंडशः कृतो मृतश् च।

अतोऽहं ब्रवीमि-त्यक्ताश् चाभ्यंतरा येन इति।

---

तद् आकर्ण्य पिंगलक आह-भो दमनक! कः प्रत्ययोऽत्र विषये यत् स ममोपरि दुष्ट-बुद्धिः।

स आह-यद् अद्य ममाग्रे तेन निश्चयः कृतो यत् प्रभाते पिंगलकं वधिष्यामि। तद् अत्रैव प्रत्ययः। प्रभातेवसर-वेलायाम् आरक्त-मुख-नयनः स्फुरिताधरो दिशोऽवलोकयन्न् अनुचित-स्थानोपविष्टस् त्वां क्रूर-दृष्ट्या विलोकयिष्यति। एवं ज्ञात्वा यद् उचितं तत् कर्तव्यम्। इति कथयित्वा सञ्जीवक-सकाशं गतस् तं प्रणम्योपविष्टः। सञ्जीवकोऽपि सोद्वेगाकारं मंद-गत्या समायांतं तम् उद्वीक्ष्य सादरतरम् उवाच-भो मित्र! स्वागतम्। चिराद् दृष्टोऽसि। अपि शिवं भवतः। तत् कथय येनादेयम् अपि तुभ्यं गृहागताय प्रयच्छामि। उक्तं च-

ते धन्यास् ते विवेक-ज्ञास् ते सभ्या इह भूतले।
आगच्छंति गृहे येषां कार्यार्थं सुहृदो जनाः॥पञ्च_१.२८५॥

दमनक आह-भोः! कथं शिवं सेवक-जनस्य।

संपत्तयः परायत्ताः सदा चित्तम् अनिर्वृतम्।
स्व-जीवितेप्य् अविश्वासस् तेषां ये राज-सेवकाः॥पञ्च_१.२८६॥

तथा च-
सेवया धनम् इच्छद्भिः सेवकैः पश्य यत् कृतम्।
स्वातंत्र्यं यच् छरीरस्य मूढैस् तद् अपि हारितम्॥पञ्च_१.२८७॥
तावज् जन्माति-दुःखाय ततो दुर्गतता सदा।
तत्रापि सेवया वृत्तिर् अहो दुःख-परंपरा॥पञ्च_१.२८८॥
जीवंतो पि मृताः पञ्च श्रूयंते किल भारते।
दरिद्रो व्याधितो मूर्खः प्रवासी नित्य-सेवकः॥पञ्च_१.२८९॥
नाश्नाति स्वच्छयोत्सुक्याद् विनिद्रो न प्रबुध्यते।
न निःशंकं वचो ब्रूते सेवकोग्ढ़ेप्य् अत्र जीवति॥पञ्च_१.२९०॥
सेवा श्व-वृत्तिर् आख्याता यैस् तैर् मिथ्या प्रजल्पितम्।
स्वच्छंदं चरति स्वात्र सेवकः पर-शासनात्॥पञ्च_१.२९१॥
भू-शय्या ब्रह्मचर्यं च कृशत्वं लघु-भोजनम्।
सेवकस्य यतेर् यद्वद् विशेषः पाप-धर्मजः॥पञ्च_१.२९२॥
शीतातपादि-कष्टानि सहते यानि सेवकः।
धनाय तानि चाल्पानि यदि धर्मान् न मुच्यते॥पञ्च_१.२९३॥
मृदुनापि सुवृत्तेन सुश्लिष्टेनापि हारिणा।
मोदकेनापि किं तेन निष्पत्तिर् यस्य सेवया॥पञ्च_१.२९४॥

सञ्जीवक आह-अथ भवान् किं वक्तु-मनाः?

सो ब्रवीत्-मित्र, सचिवानां मंत्र-भेदं न युज्यते। उक्तं च-

यो मंत्रं स्वामिनो भिद्यात् साचिव्ये सन्-नियोजितः।
स हत्वा नृप-कार्यं तत् स्वयं च नरकं व्रजेत्॥पञ्च_१.२९५॥
येन यस्य कृतो भेदः सचिवेन महीपतेः।
तेनाशस्त्र-वधस् तस्य कृत इत्य् आह नारदः॥पञ्च_१.२९६॥

तथापि मया तव स्नेह-पाश-बद्धेन मंत्र-भेदः कृतः। यतस् त्वं मम वचनेनात्र राज-कुले विश्वस्तः प्रविष्टश् च। उक्तं च-

विश्रंभाद् यस्य यो मृत्युम् अवाप्नोति कथञ्चन।
तस्य हत्या तद्-उत्था सा प्राहेदं वचनं मनुः॥पञ्च_१.२९७॥

तत् तवोपरि पिंगलको यं दुष्ट-बुद्धिः कथितं चाद्यानेन मत्-पुरतश् चतुष्कर्णतया-यत् प्रभाते सञ्जीवकं हत्वा समस्त-मृग-परिवारं चिरात् तृप्तिं नेष्यामि।

ततः स मयोक्तः-स्वामिन्! न युक्तम् इदं यन् मित्र-द्रोहेण जीवनं क्रियते। उक्तं च-
अपि ब्रह्म-वधं कृत्वा प्रायश्चित्तेन शुध्यति।
तद्-अर्थेन विचीर्णेन न कथञ्चित् सुहृद्-द्रुहः॥पञ्च_१.२९८॥

ततस् तेनाहं समर्षेणोक्तः-भो दुष्ट-बुद्धे, सञ्जीवकस् तावच् छष्प-भोजी, वयं मांसाशिनः। तद् अस्माकं स्वाभाविकं वैरम् इति कथं रिपुर् उपेक्ष्यते? तस्मात् सामादिभिर् उपायैर् हन्यते। न च हते तस्मिन् दोषः स्यात्। उक्तं च-

दत्त्वापि कन्यकां वैरी निहंतव्यो विपश्चिता।
अन्योपायैर् अशक्यो यो हते दोषो न विद्यते॥पञ्च_१.२९९॥
कृत्याकृत्यं न मन्येत क्षत्रियो युधि संगतः।
प्रसुप्तो द्रोण-पुत्रेण धृष्टद्युम्नः पुरा हतः॥पञ्च_१.३००॥

संबंधित कड़ियाँसम्पाद्यताम्

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०२च&oldid=112785" इत्यस्माद् पुनः प्राप्तिः