पञ्चतन्त्रम् ०५क

(पञ्चतन्त्रम् 05क इत्यस्मात् पुनर्निर्दिष्टम्)

कुलानाम् इति पांडवानाम् अपि महात्मनां नोत्पत्तिर् अधिगंतव्या यतः ते क्षेत्रजा इति। स्त्री-दुश्चरितं संधुक्ष्यमाणम् अनेक-दोषान् प्रकटयति स्त्रीणाम् इति। तथा च-

यदि स्यात् पावकः शीतः प्रोष्णो वा शश-लाञ्छनः।
स्त्रीणां तदा सतीत्वं स्याद् यदि स्याद् दुर्जनो हितः॥पञ्च_४.५१॥

यथापि शुद्धाम् अशुद्धां वापि जानामि लोक-वचनात्। उक्तं च-

यन् न वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम्।
तत् सर्वं वेत्ति लोकोऽयं यत् स्याद् ब्रह्मांड-मध्यगम्॥पञ्च_४.५२॥

एवं संप्रधार्य ताम् अवोचत-प्रिये, अहं प्रातर् ग्रामांतरं यास्यामि तत्र दिनानि कतिचिल् लगिष्यन्ति। तत् त्वया किञ्चित् पाथेयं मम योग्यं कार्यम्।

सापि तद् आकर्ण्य हर्षित-चित्तौत्सुक्येन सर्व-कार्याणि संत्यज्य सिद्धम् अन्नं घृत-शर्करा-प्रायम् अकरोत्। अथवा साध्व् इदम् उच्यते-

दुर्दिवसे घन-तिमिरे दुःख-चारासु नगर-वीथीषु।
पत्यौ विदेश-याते परम-सुखं जघन-चपलायाः॥पञ्च_४.५३॥

अथासौ प्रत्यूषे उत्थाय स्व-गृहान् निर्गतः। सापि तं प्रस्थितं विज्ञाय प्रहसित-वदनांग-सत्कारं कुर्वाणा कथञ्चित् तं दिवसम् अत्यवाहयत्। ततश् च पूर्व-परिचितं विट-गृहं गत्वा तम् अभ्यर्थोक्तवती यद्-ग्रामांतरं गतः स दुरात्मा मे पतिः। तद् अद्य त्वयास्मद्-गृहे प्रसुप्ते जने समागंतव्यम्।

तथानुष्ठिते स रथकारोऽप्य् अरण्ये दिनम् अतिवाह्य प्रदोषे स्व-गृहम् अपर-द्वारेण प्रविष्टः शय्या-तले निभृतो भूत्वा स्थितः। अत्रांतरे स देवदत्तः शयन आगत्योपविष्टः। तं दृष्ट्वा रथकारो रोषाविष्ट-चित्तो व्यचिंतयत्-किम् एनम् उत्थाय विनाशयाम्य् अथवा द्वाव् अप्य् एतौ सुप्तौ हेलया हन्मि। परं पश्यामि तावच् चेष्टितम् अस्याः शृणोमि चानेन सहालापान्। अत्रांतरे सा गृह-द्वारं निभृतं पिधाय शयन-तलम् आरूढा। तस्यास् तच्-छयनम् आरोहंत्या रथकार-शरीरे पादो लग्नः। ततो व्यचिंतयत्-नूनम् एतेन दुरात्मना रथकारेण मत्-परीक्षार्थं भाव्यम्। तत्-स्त्री-चरित-विज्ञानं किम् अपि करोमि। एवं तस्याश् चिंतयंत्याः स देवदत्तः स्पर्शोत्सुक्यो बभूव। ततश् च तयाकृताञ्जलि-पुटयाभिहितं-भो महानुभाव! न मे गात्रं त्वया स्प्रष्टव्यम्, यतोऽहं पतिव्रता महा-सती च। नो चेच् छापं दत्त्वा त्वां भस्मसात् करिष्यामि।

स आह-यद्य् एवं तर्हि किम् अर्थं त्वयाहूतः?

सा प्राह-भोः! शृणुष्वैकाग्र-मनाः। अहम् अद्य प्रत्यूषे देवता-दर्शनार्थं चंडिकायतनं गता। तत्राकस्मात् खे वाणी सञ्जाता-पुत्रि, किं करोमि। भक्तासि मे त्वम्। परं षण्मासाभ्यंतरे विधि-नियोगाद् विधवा भविष्यसि। ततो मयाभिहितं-भगवति! यया त्वम् आपदं वेत्सि तथा तत्-प्रतीकारम् अपि जानासि। तद् अस्ति कश्चिद् उपायो येन मे पतिः शत-संवत्सर-जीवी भवति। ततस् तयाभिहितं-वत्से, सन्न् अपि नास्ति यतस् तवायत्तः स प्रतीकारः। तच् छ्रुत्वा मयाभिहितं-देवि! यन् मत्-प्राणैर् भवति तद् आदेशय येन करोमि। ततो देव्याभिहितं-यद्य् अद्य दिने पर-पुरुषेण सहैकस्मिञ् छयने समारुह्यालिंगनं करोषि, तदा तव भर्तृ-सक्तोऽपमृत्युस् तस्य सञ्चरित, त्वद्-भर्ता पुनर् वर्ष-शतं जीवति। तेन मया त्वम् अभ्यर्थितः। तयो यत् किञ्चित् कर्तुमनास् तत् कुरुष्व, नहि देवता-वचनम् अन्यथा भविष्यतीति निश्चयः। ततो अन्तर्हास-विकास-मुखः स तद्-उचितम् आचचार।

सोऽपि रथकारो मूर्खस् तस्यास् तद्-वचनम् आकर्ण्य पुलकांकित-तनुः शय्या-तलान् निष्क्रम्य ताम् उवाच-साधु पतिव्रते! साधु कुल-नंदिनि! साधु! अहं दुर्जन-वचन-शंकित-हृदयस् त्वत्-परीक्षार्थं ग्रामांतर-व्याजं कृत्वात्र निभृतं खट्वा-तले लीनः स्थितः। तद् एहि, आलिंगय माम्। त्वं स्व-भर्तृ-भक्तानां मुख्या नारीणां, यद् एवं ब्रह्म-व्रतं पर-संगेपि पालितवती। मद्-आयुर्-वृद्धि-कृतेपमृत्यु-विनाशार्थं च त्वम् एवं कृतवती। ताम् एवम् उक्त्वा सस्नेहम् आलिंगितवान्। स्वस्कंधे ताम् आरोप्य तम् अपि देवदत्तम् उवाच-भोः महानुभाव! मत्-पुण्यैस् त्वम् इहागतः। त्वत्-प्रसादात् प्राप्ताम् अद्य मया वर्ष-शत-प्रमाणम् आयुः। ततस् त्वम् अपि मां समालिंगय स्कंधं मे समारोह। इति जल्पन्न् अनिच्छंतम् अपि देवदत्तं बलाद् आलिंग्य स्कंधे समारोपितवान्। ततश् च तूर्य-ध्वनिच्छंदेन नृत्यन् सकल-गृह-द्वारेषु बभ्राम।



अतोऽहं ब्रवीमि-प्रत्यक्षेपि कृते पापे (४९)। तन् मूढ! दृष्ट-विकारस् त्वम्, तत् कथं तत्र गृहं गच्छामि। अथवा यन् मां त्वं विश्वासयसि तत् ते दोषो नास्ति, यत् ईदृशी स्वभाव-दुष्टा युष्मज्-जातिर् या शिष्टसंगाद् अपि सौम्यत्वं न याति। अथवा स्वभावोऽयं दुष्टानाम्। उक्तं च-

सद्भिः संबोध्यमानोऽपि दुरात्मा पाप-पौरुषः।
घृष्यमाण इवांगारो निर्मलत्वं न गच्छति॥पञ्च_४.५४॥

तन् मूर्ख! स्त्रीलुब्ध! स्त्रीजितः! अन्येऽपि ये त्वद्-विधा भवंति ते स्वकार्यं विभवं मित्रं च परित्यजंति तत्कृते। उक्तं च-

या ममोद्विजते नित्यं साद्य माम् अवगूहते।
प्रियकारक भद्रं ते यन् ममास्ति हरस्व तत्॥पञ्च_४.५५॥

मकर आह-कथम् एतत्?

वानरोऽब्रवीत्-

कथा ११ कामातुर-कथासम्पाद्यताम्


अस्ति कस्मिंश्चिद् अधिष्ठाने कामातुरो नाम महाधनो वृद्ध-वणिक्। तेन मृत-भार्येण कामोपहत-चेतसा काचिन् निर्धन-वणिक्-सुता प्रभूतं वित्तं दत्त्वोद्वाहिता। अथ सा दुःखाभिभूता तं वृद्ध-वणिजं द्रष्टुम् अपि न शशाक। अथवा साध्व् इदम् उच्यते-

श्वेतं पदं शिरसि यत् तु शिरोरुहाणां
स्थानं परं परिभवस्य तद् एव पुंसाम्।
आरोपितास्थि-शकलं परिहृत्य यांति
चांडाल-कूपम् इव दूरतरं तरुण्यः॥पञ्च_४.५६॥

तथा च-
गात्रं संकुचितं गति-विगलिता दंताश् च नाशं गताः
दृष्टिर् भ्राम्यति रूपम् एव ह्रसते वक्त्रं च लालायते।
वाक्यं नैव करोति बांधव-जनः पत्नी न शुश्रूषते
हा कष्टं जरयाभिभूत-पुरुषः पुत्रैर् अवज्ञायते॥पञ्च_४.५७॥

अथ कदाचित् सा तेन सहैक-शयने पराङ्-मुखी यावत् तिष्ठति तावत् तस्य गृहे चौरः प्रविष्टः। सापि तं चौरम् अवलोक्य भय-व्याकुला वृद्धम् अपि पतिं गाढं समालिलिंग। सोऽपि विस्मयात् पुलकांकित-सर्व-गात्रश् चिंतयामास-अहो! किम् एषा माम् अद्यावगूहते। अहो चित्रम् एतत्! ततश् च यावन् निपुणतयावलोकयति तावत् चौरः प्रविष्टः कोणैक-देशे तिष्ठति। पुनर् अप्य् अचिंतयत्-नूनम् एषा चौरस्य भयान् माम् आलिंगति। तज् ज्ञात्वा चौरम् आह-या ममोद्विजते नित्यं साद्य (५५) इति। भूयोऽपि निर्गच्छंतम् अवादीत्-भो चोर! नित्यम् एव त्वया रात्राव् आगंतव्यं मदीयोऽयं विभवस् त्वदीय इति।

---

अतोऽहं ब्रवीमि- या ममोद्विजते इत्य् आदि। किं बहुना, तेन च स्त्री-लुब्धेन स्वं सर्वं चौरस्य समर्पितम्। त्वयापि तथानुष्ठितम्।

अथैव तेन सह वदतो मकरस्य जलचरेणैकेनागत्याभिहितम्-भो मकर! त्वदीया भार्यानशनोपविष्टा त्वयि चिरयति प्रणयाभिभवाद् विपन्ना। एवं तद्-वज्र-पात-सदृश-वचनम् आकर्ण्यातीव्र-व्याकुलित-हृदयः प्रलपितम् एवं चकार-अहो किम् इदं सञ्जातं मे मंद-भागस्य। उक्तं च-

न गृहं गृहम् इत्य् आहुर् गृहिणी गृहम् उच्यते।
गृहं तु गृहिणी-हीनं कांतारान् नातिरिच्यते॥पञ्च_४.५८॥

अन्यच् च-
वृक्ष-मूलेपि दयिता यत्र तिष्ठति तद् गृहम्।
प्रासादोऽपि तया हीनोऽरण्य-सदृशः स्मृतः॥पञ्च_४.५९॥
माता यस्य गृहे नास्ति भार्या च प्रिय-वादिनी।
अरण्यं तेन गंतव्यं यथारण्यं तथा गृहम्॥पञ्च_४.६०॥

तन् मित्र! क्षम्यताम्। मया तेपराधः कृतः। संप्रत्य् अहं तु स्त्री-वियोगाद् वैश्वानर-प्रवेशं करिष्यामि। तन् मूढ! आनंदेपि जाते त्वं विषादं गतः। तादृग्-भार्यायां मृतायाम् उत्सवः कर्तुं युज्यते। उक्तं च यतः-

या भार्या दुष्ट-चरित्रा सततं कलह-प्रिया।
भार्या-रूपेण सा ज्ञेया विदग्धैर् दारुणा जरा॥पञ्च_४.६१॥
तस्मात् सर्व-प्रयत्नेन नामापि परिवर्जयेत्।
स्त्रीणाम् इह हि सर्वासां य इच्छेत् सुखम् आत्मनः॥पञ्च_४.६२॥
यद्-अन्तस् तन् न जिह्वायां यज् जिह्वायां न तद्-बहिः।
यद्-बहिस् तन् न कुर्वंति विचित्र-चरिताः स्त्रियः॥पञ्च_४.६३॥
के नाम न विनश्यन्ति मिथ्या-ज्ञानान् नितंबिनीम्।
रम्यां ते उपसर्पन्ति दीपाभां शलभा यथा॥पञ्च_४.६४॥
अन्तर्-विष-मया ह्य् एता बहिश् चैव मनोरमाः।
गुञ्जा-फल-समाकारा योषितः केन निर्मिताः॥पञ्च_४.६५॥
ताडिता अपि दंडेन शस्त्रैर् अपि विखंडिताः।
न वशं योषितो यांति न दानैर् न च संस्तवैः॥पञ्च_४.६६॥
आस्तां तावत् किम् अन्येन दौरात्म्येनेह योषिताम्।
विधृतं स्वोदरेणापि घ्नंति पुत्रम् अपि स्वकम्॥पञ्च_४.६७॥
रूक्षायां स्नेह-सद्-भावं कठोरायां सुमार्दवम्।
नीरसायां रसं बालो बालिकायां विकल्पयेत्॥पञ्च_४.६८॥

मकर आह-भो मित्र! अस्त्व् एतत्। परं किं करोमि? ममानर्थ-द्वयम् एतत् सञ्जातम्। एकस् तावद् गृह-भंगः। अपरस् त्वद्-विधेन मित्रेण सह चित्त-विश्लेषः। अथवा भवत्य् एवं दैव-योगात्। उक्तं च यतः-

यादृशं मम पांडित्यं तादृशं द्विगुणं तव।
नाभूज् जारो न भर्ता च किं निरीक्षसि नग्निके॥पञ्च_४.६९॥

वानर आह-कथम् एतत्?

मकरो ऽब्रवीत्-

कथा १२ हालिक-दंपती-कथासम्पाद्यताम्


कस्मिंश्चिद् अधिष्ठाने हालिक-दंपती प्रतिवसतः स्म। सा च हालिक-भार्या पत्युर् वृद्ध-भावात् सदैवान्य-चित्ता न कथञ्चिद् गृहे स्थैर्यम् आलंबते। केवलं पर-पुरुषान् अन्वेषमाणा परिभ्रमति। अथ केनचित् पर-वित्तापहारकेण धूर्तेन सा लक्षिता विजने प्रोक्ता च-सुभगे! मृत-भार्योऽहम्। त्वद्-दर्शनेन स्मर-पीडितश् च। तद् दीयतां मे रति-दक्षिणा।

ततस् तयाभिहितम्-भोः सुभग! यद्य् एवं तद् अस्ति मे पत्युः प्रभूतं धनम्। स च वृद्धत्वात् प्रचलितुम् अप्य् असमर्थः। ततस् तद्-धनम् आदायाहम् आगच्छामि। येन त्वया सहान्यत्र गत्वा यथेच्छया रति-सुखम् अनुभविष्यामि।

सोऽब्रवीत्-रोचते मह्यम् अप्य् एतत्। तत् प्रत्यूषेऽत्र स्थाने शीघ्रम् एव समागन्तव्यम्, येन शुभतरं किञ्चिन् नगरं गत्वा त्वया सह जीव-लोकः सफलीक्रियते।

सापि तथेति प्रतिज्ञाय प्रहसित-वदना स्व-गृहं गत्वा रात्रौ प्रसुप्ते भर्तरि सर्वं वित्तम् आदाय प्रत्यूष-समये तत्-कथित-स्थानम् उपाद्रवत्। धूर्तोऽपि ताम् अग्रे विधाय दक्षिणां दिशम् आश्रित्य सत्वर-गतिः प्रस्थितः।

एवं तयोर् व्रजतोर् योजन-द्वय-मात्रेणाग्रतः काचिन् नदी समुपस्थिता। तां दृष्ट्वा धूर्तश् चिंतयामास-किम् अहम् अनया यौवन-प्रांते वर्तमानया करिष्यामि। किं च कदाप्य् अस्याः पृष्ठतः कोऽपि समेष्यति। तन् मे महान् अनर्थः स्यात्। तत् केवलम् अस्या वित्तम् आदाय गच्छामि।

इति निश्चित्य ताम् उवाच-प्रिये! सुदुस्तरेयं महानदा। तद् अहं द्रव्य-मात्रां पारे धृत्वा समागच्छामि। ततस् त्वाम् एकाकिनीं स्व-पृष्ठम् आरोप्य सुखेनोत्तारयिष्यामि।

सा प्राह-सुभग! एवं क्रियताम्। इत्य् उक्त्वाशेषं वित्तं तस्मै समर्पयामास।
अथ तेनाभिहितं-भद्रे! परिधानाच्छादन-वस्त्रम् अपि समर्पय। येन जल-मध्ये निःशंकं व्रजसि। तथानुष्ठिते धूर्तो वित्तं वस्त्र-युगलं चादाय यथाचिंतित-विषयं गतः।

सापि कंठ-निवेशित-हस्त-युगला सोद्वेगा नदी-पुलिन-देश उपविष्टा यावत् तिष्ठति तावद् एतस्मिन्न् अन्तरे काचिच् छृगालिका मांस-पिंड-गृहीत-वदना तत्राजगाम। आगत्य च यावत् पश्यति, तावन् नदीतीरे महान् मत्स्यः सलिलान् निष्क्रम्य बहिः स्थित आस्ते। एवं च दृष्ट्वा सा मांस-पिंडं समुत्सृज्य तं मत्स्यं प्रत्युपाद्रवत्। अत्रांतरं आकाशाद् अवतीर्य कोऽपि गृध्रस् तं मांस-पिंडम् आदाय पुनः खम् उत्पतात। मत्स्योऽपि शृगालिकां दृष्ट्वा नद्यां प्रविवेश। सा शृगालिका व्यर्थ-श्रमा गृध्रम् अवलोकयंती तया नग्निकया सस्मितम् अभिहिता-

गृध्रेणापहृतं मांसं मत्स्योऽपि सलिलं गतः।
मत्स्य-मांस-परिभ्रष्टे किं निरीक्ष्यसि जंबुके॥पञ्च_४.७०॥

तच्छ्रु्त्वा शृगालिका तामपि पतिधनजारपरिभ्रष्टां दृष्ट्वा सोपहासमाह - यादृशं मम पाण्डित्यमित्यादि(श्लोक ६९)

एवं तस्य कथयतः पुनरन्येन जलचरेणागत्य निवेदितम् - यदहो त्वदीयं गृहमप्यपरेण महामकरेण गृहीतम्। तच्छ्रुत्वासावतिदुःखितमनास्तं गृहान्निसारयितुमुपायं चिन्तयन्नुवाच - अहो पश्यतां मे दैवोपहतत्वम्।
मित्रं ह्य् अमित्रतां यातम् अपरं मे प्रिया मृता।
गृहम् अन्येन च व्याप्तं किम् अद्यापि भविष्यति॥पञ्च_४.७१॥

अथवा युक्तम् इदम् उच्यते-
क्षते प्रहारा निपतन्त्य् अभीक्ष्णम् अन्न-क्षये वर्धति जाठराग्निः।
आपत्सु वैराणि समुद्भवंति वामे विधौ सर्वम् इदं नराणाम्॥पञ्च_४.७२॥

तत् किं करोमि? किम् अनेन सह युद्धं करोमि? किं वा साम्नैव संबोध्य गृहान् निःसारयामि? किं वा भेदं दानं वा करोमि? अथवाऽमुम् एव वानर-मित्रं पृच्छामि? उक्तं च-

यः पृष्ट्वा कुरुते कार्यं प्रष्टव्यान् स्व-हितान् गुरून्।
न तस्य जायते विघ्नः कस्मिंश्चिद् अपि कर्मणि॥पञ्च_४.७३॥

एवं संप्रधार्य भूयोऽपि तम् एव जंबू-वृक्षम् आरूढं कपिम् अपृच्छत्-भो मित्र! पश्य मे मंद-भाग्यताम्। तत् संप्रति गृहम् अपि मे बलवत्तरेण मकरेण रुद्धम्। तद् अहं त्वां प्रष्टुम् अभ्यागतः। कथय किं करोमि? सामादीनाम् उपायानां मध्ये कस्यात्र विषयः?

स आह-भोः कृतघ्न पाप-चारिन्! मया निषिद्धोऽपि किं भूयो माम् अनुसरसि। नाहं तव मूर्खस्योपदेशम् अपि दास्यामि।

तच् छ्रुत्वा मकरः प्राह-भो मित्र! सापराधस्य मे पूर्व-स्नेहम् अनुस्मृत्य हितोपदेशं देहि।

वानर आह-नाहं ते कथयिष्यामि। यद् भार्या-वाक्येन भवताहं समुद्रे प्रक्षिप्तुं नीतः। तद् एवं न युक्तम्। यद्यपि भार्या सर्व-लोकाद् अपि वल्लभा भवति, तथापि न मित्राणि बांधवाश् च भार्या-वाक्येन समुद्रे प्रक्षिप्यंते। तन् मूर्ख! मूढत्वेन नाशस् तव मया प्राग् एव निवेदित आसीत्, यतः-

सतां वचनम् आदिष्टं मदेन न करोति यः।
स विनाशम् अवाप्नोति घंटोष्ट्र इव सत्वरम्॥पञ्च_४.७४॥

मकर आह-कथम् एतत्?

सो ऽब्रवीत्-

कथा १३ उज्ज्वलक-रथकार-कथासम्पाद्यताम्


कस्मिंश्चिद् अधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिवसति स्म। स चातीव दारिद्र्योपहतश् चिंतितवान्-अहो! धिग् इयं दरिद्रताऽस्मद्-गृहे। यतः सर्वोऽपि जनः स्व-कर्मणैव रतस् तिष्ठति। अस्मदीयः पुनर् व्यापारो नात्राधिष्ठानेऽर्हति। यतः सर्व-लोकानां चिरंतनाश् चतुर्भूमिका गृहाः संति। मम च नात्र। तत् किं मदीयेन रथकारत्वेन प्रयोजनम्? इति चिंतयित्वा देशान् निष्क्रांतः।

यावत् किञ्चिद् वनं गच्छति तावद् गह्वराकार-वन-गहन-मध्ये सूर्यास्तम् अनवेलायां स्व-यूथाद् भ्रष्टां प्रसव-वेदनया पीड्यमानाम् उष्ट्रीम् अपश्यत्। स च दासेरक-युक्ताम् उष्ट्रीं गृहीत्वा स्व-स्थानाभिमुखः प्रस्थितः। गृहम् आसाद्य रज्जुं गृहीत्वा ताम् उष्ट्रिकां बबंध। ततश् च तीक्ष्णं परशुम् आदाय तस्याः पल्लवानयनार्थं पर्वतैक-देशे गतः। तत्र च नूतनानि कोमलानि बहूनि पल्लवानि च्छित्त्वा शिरसि समारोप्य तस्याग्रे निचिक्षेप। तया च तानि शनैः शनैर् भक्षितानि। पश्चात् पल्लव-भक्षण-प्रभावाद् अहर्निशं पीवर-तनुर् उष्ट्री सञ्जाता। सोऽपि दासेरको महान् उष्ट्रः सञ्जातः। ततः स नित्यम् एव दुग्धं गृहीत्वा स्व-कुटुंबं परिपालयति।

अथ रथकारेण वल्लभत्वाद् दासेरक-ग्रीवायां महती घंटा प्रतिबद्धा। पश्चाद् रथकारो व्यचिंतयत्-अहो! किम् अन्यैर् दुष्कृत-कर्मभिः। यावन् ममैतस्माद् एवोष्ट्रापरिपालनाद् अस्य कुटुंबस्य भव्यं सञ्जातम्। तत् किम् अन्येन व्यापारेण?

एवं विचिंत्य गृहम् आगत्य प्रियाम् आह-भद्रे! समीचीनोऽयं व्यापारः। तव सम्मतिश् चेत् कुतोऽपि धनिकात् किञ्चिद् द्रव्यम् आदाय मया गुर्जर-देशे गंतव्यं कलभ-ग्रहणाय। तावत् त्वयैतौ यत्नेन रक्षणीयौ। यावद् अहम् अपराम् उष्ट्रीं नीत्वा समागच्छामि।

ततश् च गुर्जर-देशं गत्वोष्ट्रीं गृहीत्वा स्व-गृहम् आगतः। किं बहुना? तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश् च सम्मिलिताः। ततस् तेन महद् उष्ट्र-यूथं कृत्वा रक्षा-पुरुषो धृतः। तस्य प्रतिवर्षं वृत्त्या करभम् एकं प्रयच्छति। प्रतिवर्षम् अन्यच् चाहर्निशं दुग्ध-पानं तस्य निरूपितम्। एवं रथकारोऽपि नित्यम् एवोष्ट्री-करभ-व्यापारं कुर्वन् सुखेन तिष्ठति।

अथ ते दासेरका अधिष्ठानोपवनाहार्थं गच्छंति। कोमल-वल्लीर् यथेच्छया भक्षयित्वा महति सरसि पानीयं पीत्वा सायंतन-समये मंदं मंदं लीलया गृहम् आगच्छंति। स च पूर्व-दासेरको मदातिरेकात् पृष्ठ आगत्य मिलति। ततस् तैः कलभैर् अभिहितम्-अहो! मंद-मतिर् अयं दासेरको यथा यूथाद् भ्रष्टः पृष्ठे स्थित्वा घंटां वादयन्न् आगच्छति। यदि कस्यापि दुष्ट-सत्त्वस्य मुखे पतिष्यति, तन् नूनं मृत्युम् अवाप्स्यति।

अथ तस्य तद्-वनं गाहमानस्य कश्चित् सिंहो घंटा-रवम् आकर्ण्य समायातः। यावद् अवलोकयति, तावद् उष्ट्री-दासेरकाणां यूथं गच्छति। एकस् तु पुनः पृष्ठे क्रीडां कुर्वन् वल्लरीश् चरन् यावत् तिष्ठति, तावद् अन्ये दासेरकाः पानीयं पीत्वा स्व-गृहे गताः। सो ऽपि वनान् निष्क्रम्य यावद् दिशोऽवलोकयति, तावन् न कञ्चिन् मार्गं पश्यति वेत्ति च। यूथाद् भ्रष्टो मंदं मंदं बृहच्-छब्दं कुर्वन् यावत् कियद्-दूरं गच्छति, तावत् तच्-छब्दानुसारी सिंहोऽपि क्रमं कृत्वा निभृतोऽग्रे व्यवस्थितः। ततो यावद् उष्ट्रः समीपम् आगतः, तावत् सिंहेन लम्भयित्वा ग्रीवायां गृहीतो मारितश् च।

---

अतोऽहं ब्रवीमि-सतां वचनम् आदिष्टम् (७४) इति।

अथ तच् छ्रुत्वा मकरः प्राह-

उपदेश-प्रदातॄणां नराणां हितम् इच्छताम्।
परस्मिंन् इह लोके च व्यसनं नोपपद्यते॥पञ्च_४.७५॥

तत् सर्वथा कृतघ्नस्यापि मे कुरु प्रसादम् उपदेश-प्रदानेन। उक्तं च-

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः।
अपकारिषु यः साधुः स साधुः सद्भिर् उच्यते॥पञ्च_४.७६॥

तद् आकर्ण्य वानरः प्राह-भद्र! यद्य् एवं तर्हि तत्र गत्वा तेन सह युद्धं कुरु। उक्तं च-

हतस् त्वं प्राप्स्यसि स्वर्गं जीवन् गृहम् अथो यशः।
युध्यमानस्य ते भावि गुण-द्वयम् अनुत्तमम्॥पञ्च_४.७७॥
उत्तमं प्रणिपातेन शूरं भेदेन योजयेत्।
नीचम् अल्प-प्रदानेन सम-शक्तिं पराक्रमैः॥पञ्च_४.७८॥

मकर आह-कथम् एतत्?

सोऽब्रवीत्-

कथा १४ महाचतुरकाख्य-शृगाल-कथासम्पाद्यताम्


आसीत् कस्मिंश्चिद् देशे महा-चतुरको नाम शृगालः। तेन कदाचिद् अरण्ये स्वयं मृतो गजः समासादितः। तस्य समंतात् परिभ्रमति, परं कठिनां त्वचं भेत्तुं न शक्नोति। अथात्रावसर इतश् चेतश् च विचरन् कश्चित् सिंहस् तत्रैव प्रदेशे समाययौ।

अथ सिंहं समागतं दृष्ट्वा स क्षिति-तल-विन्यस्त-मौलि-मंडलः संयोजित-कर-युगलः स-विनयम् उवाच-स्वामिन्! त्वदीयोऽहं लागुडिकः स्थितस् त्वद्-अर्थे गजम् इमं रक्षामि। तद् एनं भक्षयतु स्वामी।

तं प्रणतं दृष्ट्वा सिंहः प्राह-भोः! नाहम् अन्येन हतं सत्त्वं कदाचिद् अपि भक्षयामि। तत् तवैव गजोऽयं मया प्रसादीकृतः।

तच् छ्रुत्वा शृगालः सानंदम् आह-युक्तम् इदं स्वामिनो निज-भृत्येषु। उक्तं च यतः-
अन्त्यावस्थोऽपि महान् स्वामि-गुणान् न जहाति शुद्धतया।
न श्वेत-भावम् उज्झति शंखः शिखि-भुक्त-मुक्तोऽपि॥पञ्च_४.७९॥

अथ सिंहे गते कश्चिद् व्याघ्रः समाययौ। तम् अपि दृष्ट्वाऽसौ व्यचिंतयत्-अहो! एकस् तावद् दुरात्मा प्रणिपातेनापवाहितः। तत् कथम् इदानीम् एनम् अपवाहयिष्यामि? नूनं शूरोऽयम्। न खलु भेदं विना साध्यो भविष्यति। उक्तं च यतः-

न यत्र शक्यते कर्तुं साम दानम् अथापि वा।
भेदस् तत्र प्रयोक्तव्यो यतः स वश-कारकः॥पञ्च_४.८०॥

किं च सर्व-गुण-सम्पन्नोऽपि भेदेन बध्यते। उक्तं च यतः-
अन्तःस्थेनाविरुद्धेन सुवृत्तेनातिचारुणा।
अन्तर्-भिन्नेन संप्राप्तं मौक्तिकेनापि बंधनम्॥पञ्च_४.८१॥

एवं संप्रधार्य तस्याभिमुखो भूत्वा गर्वाद् उन्नत-कंधरः स-संभ्रमम् उवाच-माम! कथम् अत्र भवान् मृत्यु-मुखे प्रविष्टः। येनैष गजः सिंहेन व्यापादितः। स च माम् एतद् रक्षणे नियुज्य नद्यां स्नानार्थं गतः। तेन च गच्छता मम समादिष्टम्-यदि कश्चिद् इह व्याघ्रः समायाति, त्वया सुगुप्तं माम् आवेदनीयम्। येन वनम् इदं मया निर्व्याघ्रं कर्तव्यम्। यतः पूर्वं व्याघ्रेणैकेन मया व्यापादितो गजः शून्ये भक्षयित्वोच्छिष्टतां नीतः। तद्-दिनाद् आरभ्य व्याघ्रान् प्रति प्रकुपितोऽस्मि।

तच् छ्रुत्वा व्याघ्रः संत्रस्तम् आह-भो भागिनेय! देहि मे प्राण-दक्षिणाम्। त्वया तस्यात्र चिरायायातस्यापि मदीया कापि वार्ता नाख्येया। एवम् अभिधाय सत्वरं पलायाञ्चक्रे।

अथ गते व्याघ्रे तत्र कश्चिद् द्वीपी समायातः। तम् अपि दृष्ट्वाऽसौ व्यचिंतयत्-दृढ-दंष्ट्रो ऽयं चित्रकः। तद् अस्य पार्श्वाद् अस्य गजस्य यथा चर्म-च्छेदो भवति तथा करोमि। एवं निश्चित्य तम् अप्य् उवाच-भो भगिनी-सुत! किम् इति चिराद् दृष्टोऽसि। कथं च बुभुक्षित इव लक्ष्यसे? तद् अतिथिर् असि मे। एष गजः सिंहेन हतस् तिष्ठति। अहं चास्य तद्-आदिष्टो रक्षा-पालः। परं तथापि यावत् सिंहो न समायाति, तावद् अस्य गजस्य मांसं भक्षयित्वा तृप्तिं कृत्वा द्रुततरं व्रज।

स आह-माम, तद् एवं तन् न कार्यं मे मांसाशनेन, यतो जीवन्नरो भद्र-शतानि पश्यति। उक्तं च-यच् छक्यं ग्रसितं यस्य ग्रस्तं परिणमेच् च यत् (२३) इत्यादि। तत् सर्वथा तद् एव भुज्यते यद् एव परिणमति। तद् अहम् इतोऽपयास्यामि।

शृगाल आह-भो अधीर! विश्रब्धो भूत्वा भक्षय त्वम्। तस्यागमनं दूरतोऽपि तवाहं निवेदयिष्यामि। तथानुष्ठिते द्वीपिना भिन्नां त्वचं विज्ञाय जंबूकेनाभिहितम्-भो भगिनी-सुत! गम्यताम्। एष सिंहः समायाति।

तच् छ्रुत्वा चित्रको दूरं प्रणष्टः। अथ यावद् असौ तद्-भेद-कृत-द्वारेण किञ्चिन् मांसं भक्षयति, तावद् अतिसंक्रुद्धो परः शृगालः समाययौ। अथ तम् आत्म-तुल्य-पराक्रमं दृष्ट्वा-उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् (७८) इति श्लोकं पठन् तद्-अभिमुख-कृत-प्रयाणः स्व-दंष्ट्राभिस् तं विदार्य दिशो भागं कृत्वा स्वयं सुखेन चिर-कालं हस्ति-मांसं बुभुजे।

एवं त्वम् अपि तं रिपुं स्व-जातीयं युद्धेन परिभूय दिशो-भागं कुरु। नो चेत् पश्चाद् बद्ध-मूलाद् अस्मात् त्वम् अपि विनाशम् अवाप्स्यसि। उक्तं च यतः-

संभाव्यं गोषु संपन्नं संभाव्यं ब्राह्मणे तपः।
संभाव्यं स्त्रीषु चापल्यं संभाव्यं जातितो भयम्॥पञ्च_४.८२॥

अन्यच् च-
सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः।
एको दोषो विदेशस्य स्वजातिर् यद् विरुध्यते॥पञ्च_४.८३॥

मकर आह-कथम् एतत्?

वानरो ऽब्रवीत्-

कथा १५ चित्रांग-नाम-सारमेय-कथासम्पाद्यताम्


अस्ति कस्मिंश्चिद् अधिष्ठाने चित्रांगो नाम सारमेयः। तत्र च चिर-कालं दुर्भिक्षं पतितम्। अन्नाभावात् सारमेयादयो निष्कुलतां गंतुम् आरब्धाः। अथ चित्रांगः क्षुत्क्षाम-कंठस् तद्-भयाद् देशांतरं गतः। तत्र च कस्मिंश्चित् पुरे कस्यचिद् गृह-मेधिनो गृहिण्याः प्रसादेन प्रतिदिनं गृहं प्रविश्य विविधान्नानि भक्षयन् परां तृप्तिं गच्छति। परं तद्-गृहाद् बहिर् निष्क्रांतो अन्यैर् मदोद्धत-सारमेयैः सर्व-दिक्षु परिवृत्य सर्वांगं दंष्ट्राभिर् विदार्यते। ततस् तेन विचिंतितवान्-अहो! वरं स्व-देशो यत्र दुर्भिक्षेपि सुखेन स्थीयते। न च को ऽपि युद्धं करोति। तद् एवं स्व-नगरं व्रजामि इत्य् अवधार्य स्व-स्थानं प्रति जगाम।

अथासौ देशांतरात् समायातः सर्वैर् अपि स्वजनैः पृष्टः-भोश् चित्रांग! कथयास्माकं देशांतर-वार्ताम्। कीदृग् देशः? किं चेष्टितं लोकस्य? क आहारः? कश् च व्यवहारस् तत्र इति।

स आह-किं कथ्यते विदेशस्य स्वरूप-विषयः? सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः (८३) इति पठति।

सोऽपि मकरस् तद्-उपदेशं श्रुत्वा कृत-मरण-निश्चयो वानरम् अनुज्ञाप्य स्वाश्रयं गतः। तत्र च तेन स्व-गृह-प्रविष्टेनाततायिना सह विग्रहं कृत्वा दृढ-सत्त्वावष्टंभनाच् च तं व्यापाद्य स्वाश्रयं च लब्ध्वा सुखेन चिर-कालम् अतिष्ठत्। साध्व् इदम् उच्यते-

अकृत्वा पौरुषं या श्रीः किं तयापि सुभोग्यया।
कुरंगोऽपि समश्नाति दैवाद् उपनतं तृणम्॥पञ्च_४.८४॥
कुरंग = जरद्गव
इति श्री-विष्णु-शर्म-विरचिते पञ्चतंत्रे लब्ध-प्रणाशम् नाम चतुर्थम् तंत्रम् समाप्तम्॥४।|

संबंधित कड़ियाँसम्पाद्यताम्

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०५क&oldid=112801" इत्यस्माद् पुनः प्राप्तिः