पञ्चतन्त्रम् ०३ग

(पञ्चतन्त्रम् 03ग इत्यस्मात् पुनर्निर्दिष्टम्)

पूर्वपुटम्

तद् विधाता मां दत्त-भुक्त-धनं करोतु। न कार्यं मे गुप्तधनेन। ततः सोमिलको दत्तभुक्तधनः संजातः। अतोऽहं ब्रवीमि-अर्थस्योपार्जनं कृत्वा इति।

गृह-मध्य-निखातेन धनेन धनिनो यदि।
भवामः किं न तेनैव धनेन धनिनो वयं॥पञ्च_२.१५१॥

तद् भद्र! हिरण्यकैवं ज्ञात्वा धन-विषये संतापो न कार्यः। अथ विद्यमानम् अपि धनं भोज्य-बन्ध्यतया तद्-अविद्यमानं मन्तव्यम्। उक्तं च-

उपार्जितानाम् अर्थानां त्याग एव हि रक्षणम्।
तडागोदर-संस्थानां परीवाह इवांभसाम्॥पञ्च_२.१५२॥

तथा च-
दातव्यं भोक्तव्यं धनविषयेे सञ्चयो न कर्तव्यः।
पश्येह मधुकरीणां सञ्चितमर्थं हरन्त्यन्ये॥पञ्च_२.१५३॥

अन्यच् च-
दानं भोगो नाशस् तिस्रो गतयो भवंति वित्तस्य।
यो न ददाति न भुंक्ते तस्य तृतीया गतिर् भवति॥पञ्च_२.१५४॥
एवं ज्ञात्वा विवेकिना न स्थित्य्-अर्थं वित्तोपार्जनं कर्तव्यं यतो दुःखाय तत्। उक्तं च-
धनादिकेषु विद्यंते येत्र मूर्खाः सुखाशयाः।
तप्त-ग्रीष्मेण सेवंते शैत्यार्थं ते हुताशनम्॥पञ्च_२.१५५॥

सर्पाः पिबंति पवनं न च दुर्बलास् ते
शुष्कैस् तृणैर् वन-गजा बलिनो भवंति।
कंदैः फलैर् मुनि-वरा गमयंति कालं
संतोष एव पुरुषस्य परं निधानम्॥पञ्च_२.१५६॥

संतोषामृत-तृप्तानां यत् सुखं शांत-चेतसाम्।
कुतस् तद्-धन-लुब्धानाम् इतश् चेतश् च धावताम्॥पञ्च_२.१५७॥

पीयूषम् इव संतोषं पिबतां निर्वृतिः परा।
दुःखं निरंतरं पुंसाम् असंतोषवतां पुनः॥पञ्च_२.१५८॥
निरोधाच् चेतसोऽक्षाणि निरुद्धान्य् अखिलान्य् अपि।
आच्छादिते रवौ मेघैः सञ्छन्नाः स्युर् गभस्तयः॥पञ्च_२.१५९॥
वाञ्छा-विच्छेदनं प्राहुः स्वास्थ्यं शांता महर्षयः।
वाञ्छा निवर्तते नार्थैः पिपासेवाग्नि-सेवनैः॥पञ्च_२.१६०॥
अनिंद्यम् अपि निंदंति स्तुवंत्य् अस्तुत्यम् उच्चकैः।
स्वापतेय-कृते मर्त्याः किं किं नाम न कुर्वते॥पञ्च_२.१६१॥

धर्मार्थं यस्य वित्तेहा तस्यापि न शुभावहा।
प्रक्षालनाद् हि पंकस्य दूराद् अस्पर्शनं वरम्॥पञ्च_२.१६२॥

दानेन तुल्यो निधिर् अस्ति नान्यो
लोभाच् च नान्योऽस्ति परः पृथिव्याम्।
विभूषणं शील-समं न चान्यत्
संतोष-तुल्यं धनम् अस्ति नान्यत्॥पञ्च_२.१६३॥

दारिद्र्यस्य परा मूर्तिर् यन् मान-द्रविणाल्पता।
जरद्-गव-धनः शर्वस् तथापि परमेश्वरः॥पञ्च_२.१६४॥
एवं ज्ञात्वा भद्र त्वया संतोषः कार्य इति। मंथरकवचनम् आकर्ण्य वायस आह-भद्र मंथरको यद् एवं वदति तत् त्वया चित्ते कर्तव्यम्। अथवा साध्व् इदम् उच्यते-

सुलभाः पुरुषा राजन् सततं प्रिय-वादिनः।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः॥पञ्च_२.१६६॥
अप्रियाण्य् अपि पथ्यानि ये वदंति नृणाम् इह।
त एव सुहृदः प्रोक्ता अन्ये स्युर् नाम-धारकाः॥पञ्च_२.१६७॥

अथैवं जल्पतां तेषां चित्रांगो नाम हरिणो लुब्धक-त्रासितस् तस्मिन्न् एव सरसि प्रविष्टः। अथायांतं स-संभ्रमम् अवलोक्य लघुपतनको वृक्षम् आरूढः। हिरण्यकः शरस्तंबं प्रविष्टः। मंथरकः सलिलाशयम् आस्थितः। अथ लघुपतनको मृगं सम्यक् परिज्ञाय मंथरकम् उवाच-एह्य् एहि सखे मंथरक! मृगोऽयं तृषार्तोऽत्र समायातः सरसि प्रविष्टः। तस्य शब्दोऽयं न मानुष-संभव इति।

तच् छ्रुत्वा मंथरको देश-कालोचितम् आह-भो लघुपतनक! यथायं मृगो दृश्यते प्रभूतम् उच्छ्वासम् उद्वहन्न् उद्भ्रांत-दृष्ट्या पृष्ठतोऽवलोकयति तन् न तृषार्त एष नूनं लुब्धक-त्रासितः। तज् ज्ञायताम् अस्य पृष्ठे लुब्धका आगच्छंति न वेति। उक्तं च-

भय-त्रस्तो नरः श्वासं प्रभूतं कुरुते मुहुः।
दिशोऽवलोकयत्य् एव न स्वास्थ्यं व्रजति क्वचित्॥पञ्च_२.१६८॥

तच् छ्रुत्वा चित्रांग आह-भो मंथरक! ज्ञातं त्वया सम्यङ् मे त्रास-कारणम्। अहं लुब्धक-शर-प्रहाराद् उद्धावितः कृच्छ्रेणात्र समायातः। मम यूथं तैर् लुब्धकैर् व्यापादितं भविष्यति। तच् छरणागतस्य मे दर्शय किंचिद् अगम्यं स्थानं लुब्धकानाम्।

तद् आकर्ण्य मंथरक आह-भोश् चित्रांग! श्रूयतां नीति-शास्त्रम्।

द्वाव् उपायाव् इह प्रोक्तौ विमुक्तौ शत्रु-दर्शने।
हस्तयोश् चालनाद् एको द्वितीयः पाद-वेगजः॥पञ्च_२.१६९॥

तद् गम्यतां शीघ्रं घनं वनं यावद् अद्यापि नागच्छंति ते दुरात्मानो लुब्धकाः।

अत्रांतरे लघुपतनकः सत्वरम् अभ्युपेत्योवाच-भो मंथरक! गतास् ते लुब्धकाः स्व-गृहोन्मुखाः प्रचुर-मांस-पिंड-धारिणः। तच् चित्रांग! त्वं विश्रब्धो जलाद् बहिर् भव।
ततस् ते चत्वारोऽपि मित्र-भावम् आश्रितास् तस्मिन् सरसि मध्याह्न-समये वृक्ष-च्छायाधस्तात् सुभाषित-गोष्ठी-सुखम् अनुभवंतः सुखेन कालं नयंति। अथवा युक्तम् एतद् उच्यते-
सुभाषित-रसास्वाद-बद्ध-रोमाञ्च-कञ्चुकं।
विनापि संगमं स्त्रीणां कवीनां सुखम् एधते॥पञ्च_२.१७०॥
सुभाषित-मय-द्रव्य-संग्रहं न करोति यः।
स तु प्रस्ताव-यज्ञेषु कां प्रदास्यति दक्षिणाम्॥पञ्च_२.१७१॥

तथा च-
सकृद् उक्तं न गृह्णाति स्वयं वा न करोति यः।
यस्य संपुटिका नास्ति कुतस् तस्य सुभाषितम्॥पञ्च_२.१७२॥
अथैकस्मिंन् अहनि गोष्ठी-समये मृगो नायातः। अथ ते व्याकुलीभूताः परस्परं जल्पितुम् आरब्धाः। अहो किम् अद्य सुहृन् न समायातः। किं सिंहादिभिः क्वचिद् व्यापादित उत लुब्धकैर् अथ वाऽनले प्रपतितो गर्ते-विषमे वा नव-तृण-लौल्याद् इति। अथवा साध्व् इदम् उच्यते-
स्व-गृहोद्यान-गतेपि स्निग्धैः पापं विशंक्यते मोहात्।
किम् उ दृष्ट-बह्व्-अपाय-प्रतिभय-कांतार-मध्यस्थे॥पञ्च_२.१७३॥

अथ मंथरको वायसम् आह-भो लघुपतनकाहं हिरण्यकश् च तावद् द्वाव् अप्य् अशक्तौ तस्यान्वेषणं कर्तुं मंदगतित्वात्। तद् गत्वा त्वम् अरण्यं शोधय यदि कुत्रचित् तं जीवंतं पश्यसीति।

तद् आकर्ण्य लघुपतनको नातिदूरे यावद् गच्छति तावत् पल्वल-तीरे चित्रांगः कूट-पाश-नियंत्रितस् तिष्ठति। तं दृष्ट्वा शोक-व्याकुलित-मनास् तम् अवोचत्। भद्र किम् इदम्? चित्रांगोऽपि वायसम् अवलोक्य विशेषेण दुःखित-मना बभूव। अथवा युक्तम् एतत्-

अपि मंदत्वम् आपन्नो नष्टो वापीष्ट-दर्शनात्।
प्रायेण प्राणिनां भूयो दुःखावेगोऽधिको भवेत्॥पञ्च_२.१७४॥

ततश् च वाष्पावसाने चित्रांगो लघुपतनकम् आह-भो मित्र संजातोऽयं तावन् मम मृत्युः। तद् युक्तं संपन्नं यद् भवता सह मे दर्शनं सञ्जातम्। उक्तं च-

प्राणात्यये समुत्पन्ने यदि स्यान् मित्र-दर्शनं।
तद् द्वाभ्यां सुखदं पश्चाज् जीवतोऽपि मृतस्य च॥पञ्च_२.१७५॥

तत् क्षंतव्यं यन् मया प्रणयात् सुभाषित-गोष्ठीष्व् अभिहितं। तथा हिरण्यक-मंथरकौ मम वाक्याद् वाच्यौ।

अज्ञानाज् ज्ञानतो वापि दुरुक्तं यद् उदाहृतम्।
मया तत् क्षम्यताम् अद्य द्वाभ्याम् अपि प्रसादतः॥पञ्च_२.१७६॥

तच् छ्रुत्वा लघुपतनक आह-भद्र न भेतव्यम् अस्मद्-विधैर् मित्रैर् विद्यमानैः। यावद् अहं द्रुततरं हिरण्यकं गृहीत्वाऽऽगच्छामि। अपरं ये सत्-पुरुषा भवंति ते व्यसने न व्याकुलत्वम् उपयांति। उक्तं च-

संपदि यस्य न हर्षो विपदि विषादो रणे न भीरुत्वं। तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलं॥पञ्च_२.१७७॥
एवम् उक्त्वा लघुपतनकश् चित्रांगम् आश्वास्य यत्र हिरण्यक-मंथरकौ तिष्ठतस् तत्र गत्वा सर्वं चित्रांग-पाश-पतनं कथितवान्। हिरण्यकं च चित्रांग-पाश-मोक्षणं प्रति कृत-निश्चयं पृष्ठम् आरोप्य भूयोऽपि सत्वरं चित्रांग-समीपे गतः। सोऽपि मूषकम् अवलोक्य किंचिज् जीविताशया संश्लिष्ट आह-

आपन्-नाशाय विबुधैः कर्तव्याः सुहृदोऽमलाः।
न तरत्य् आपदं कश्चिद् योऽत्र मित्र-विवर्जितः॥पञ्च_२.१७८॥

हिरण्यक आह-भद्र त्वं तावन् नीति-शास्त्रज्ञो दक्ष इति। तत् कथम् अत्र कूट-पाशे पतितः?

स आह-भो न कालोऽयं विवादस्य। तन् न यावत् स पापात्मा लुब्धकः समभ्येति तावद् द्रुततरं कर्तयेमं मत्-पाद-पाशं।

तद् आकर्ण्य विहस्याह हिरण्यकः-किं मय्य् अपि समायाते लुब्धकाद् बिभेषि ततः शास्त्रं प्रति महती मे विरक्तिः संपन्ना यद् भवद्-विधा अपि नीति-शास्त्र-विद एताम् अवस्थां प्राप्नुवंति। तेन त्वां पृच्छामि।

स आह-भद्र, कर्मणा बुद्धिर् अपि हन्यते। उक्तं च-

कृतांत-पाश-बद्धानां दैवोपहत-चेतसां।
बुद्धयः कुब्ज-गामिन्यो भवंति महताम् अपि॥पञ्च_२.१७९॥
विधात्रा रचिता या सा ललाटेक्षर-मालिका।
न तां मार्जयितुं शक्ताः स्व-शक्त्याऽप्य् अतिपंडिताः॥पञ्च_२.१८०॥

एवं तयोः प्रवदतोः सुहृद्-व्यसन-संतप्त-हृदयो मंथरकः शनैः शनैस् तं प्रदेशम् आजगाम। तं दृष्ट्वा लघुपतनको हिरण्यकम् आह-अहो न शोभनम् आपतितम्।
हिरण्यक आह-किं स लुब्धकः समायाति?

स आह-आस्तां तावल् लुब्धक-वार्ता। एष मंथरकः समागच्छति। तद् अनीतिर् अनुष्ठितानेन यतो वयम् अप्य् अस्य कारणान् नूनं व्यापादनं यास्यामो यदि स पापात्मा लुब्धकः समागमिष्यति। तद् अहं तावत् खम् उत्पतिष्यामि। त्वं पुनर् बिलं प्रविष्यात्मानं रक्षयिष्यसि। चित्रांगोऽपि वेगेन दिग्-अंतरं यास्यति। एष पुनर् जलचरः स्थले कथं भविष्यतीति व्याकुलोऽस्मि। अत्रांतरे प्राप्तोऽयं मंथरकः।

हिरण्यक आह-भद्र, न युक्तम् अनुष्ठितं भवता यद् अत्र समायातः। तद् भूयोऽपि द्रुततरं गम्यतां यावद् असौ लुब्धको न समायाति।

मंथरक आह-भद्र, किं करोमि? न शक्नोमि तत्र-स्थो मित्र-व्यसनाग्निदाहं सोढुम्। तेनाहम् अत्रागतः। अथवा साध्व् इदम् उच्यते-

दयित-जन-विप्रयोगो वित्त-वियोगश् च सह्याः स्युः।
यदि सुमहौषध-कल्पो वयस्य-जन-संगमो न स्यात्॥पञ्च_२.१८१॥

वरं प्राण-परित्यागो न वियोगो भवादृशैः।
प्राणा जन्मांतरे भूयो न भवंति भवद्-विधाः॥पञ्च_२.१८२॥

एवं तस्य प्रवदत आकर्ण-पूरित-शरासनो लुब्धकोऽप्य् उपागतः। तं दृष्ट्वा मूषकेण तस्य स्नायु-पाशस् तत्-क्षणात् खंडितः। अत्रांतरे चित्रांगः सत्वरं पृष्ठम् अवलोकयन् प्रधावितः। लघुपतनको वृक्षम् आरूढः। हिरण्यकश् च समीप-वर्ति बिलं प्रविष्टः। अथासौ लुब्धको मृग-गमनाद् विषण्ण-वदनो व्यर्थ-श्रमस् तं मंथरकं मंदं मंदं स्थल-मध्ये गच्छंतं दृष्टवान्। अचिंतयच् च-यद्य् अपि कुरंगो धात्रापहृतस् तथाप्य् अयं कूर्म आहारार्थं संपादितः। तद् अद्यास्यामिषेण मे कुटुंबस्याहार-निर्वृत्तिर् भविष्यति।

एवं विचिंत्य तं दर्भैः सञ्छाद्य धनुषि समारोप्य स्कंधे कृत्वा गृहं प्रति प्रस्थितः। अत्रांतरे तं नीयमानम् अवलोक्य हिरण्यको दुःखाकुलः पर्यदेवयत्-कष्टं भोः कष्टम् आपतितम्।

एकस्य दुःखस्य न यावद् अंतं
गच्छाम्य् अहं पारम् इवार्णवस्य।
तावद् द्वितीयं समुपस्थितं मे छिद्रेष्व् अनर्था बहुली-भवंति॥पञ्च_२.१८३॥

तावद् अस्खलितं यावत् सुखं याति समे पथि।
स्खलिते च समुत्पन्ने विषमे च पदे पदे॥पञ्च_२.१८४॥
यन् नम्रं सरलं चापि यच् चापत्सु न सीदति।
धनुर् मित्रं कलत्रं च दुर्लभं शुद्ध-वंशजम्॥पञ्च_२.१८५॥
न मातरि न दारेषु न सोदर्ये न चात्मजे।
विश्रंभस् तादृशः पुंसां यादृङ् मित्रे निरंतरे॥पञ्च_२.१८६॥

यदि तावत् कृतांतेन मे धन-नाशो विहितस् तन्-मार्ग-श्रांतस्य मे विश्राम-भूतं मित्रं कस्माद् अपहृतं। अपरम् अपि मित्रं परं मंथरक-समं न स्यात्। उक्तं च-

असंपत्तौ परो लाभो गुह्यस्य कथनं तथा।
आपद्-विमोक्षणं चैव मित्रस्यैतत् फल-त्रयम्॥पञ्च_२.१८७॥

तद् अस्य पश्चान् नान्यः सुहृन् मे। तत् किं ममोपर्य् अनवरतं व्यसन-शरैर् वर्षति हंत विधिः। यत आदौ तावद् वित्त-नाशस् ततः परिवार-भ्रंशस् ततो देश-त्यागस् ततो मित्र-वियोग इति। अथवा स्वरूपम् एतत् सर्वेषाम् एव जंतूनां जीवित-धर्मस्य। उक्तं च-

कायः संनिहितापायः संपदः पदम् आपदाम्।
समागमाः सापगमाः सर्वम् उत्पादि भंगुरम्॥पञ्च_२.१८८॥

तथा च-
क्षते प्रहारा निपतंत्य् अभीक्ष्णं
धन-क्षये वर्धति जाठराग्निः।
आपत्सु वैराणि समुद्भवंति
च्छिद्रेष्व् अनर्था बहुली-भवंति॥पञ्च_२.१८९॥
अहो साधूक्तं केनापि।

प्राप्ते भये परित्राणं प्रीति-विश्रंभ-भाजनं।
केन रत्नम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयं॥पञ्च_२.१९०॥

अत्रांतरे आक्रंद-परौ चित्रांग-लघुपतनकौ तत्रैव समायातौ। अथ हिरण्यक आह-अहो किं वृथा-प्रलपितेन। तद् यावद् एष मंथरको दृष्टि-गोचरान् न नीयते तावद् अस्य मोक्षोपायश् चिंत्यताम् इति। उक्तं च-

व्यसनं प्राप्य यो मोहात् केवलं परिदेवयेत्।
क्रंदनं वर्धयत्य् एव तस्यांतं नाधिगच्छति॥पञ्च_२.१९१॥
केवलं व्यसनस्योक्तं भेषजं नय-पंडितैः।
तस्योच्छेद-समारंभो विषाद-परिवर्जनं॥पञ्च_२.१९२॥

अन्यच् च-
अतीत-लाभस्य सुरक्षणार्थं
भविष्य-लाभस्य च संगमार्थम्।
आपत्-प्रपन्नस्य च मोक्षणार्थं
यन् मंत्र्यतेऽसौ परमो हि मंत्रः॥पञ्च_२.१९३॥

तच् छ्रुत्वा वायस आह-भो यद्य् एवं तत् क्रियतां मद्-वचः। एष चित्रांगोऽस्य मार्गे गत्वा किंचित् पल्वलम् आसाद्य तस्य तीरे निश्चेतनो भूत्वा पततु। अहम् अप्य् अस्य शिरसि समारुह्य मंदैश् चञ्चु-प्रहारैः शिर उल्लेखिष्यामि येनासौ लुब्धकोऽमुं मृतं मत्वा मम चञ्चु-प्रहार-प्रत्ययेन मंथरकं भूमौ क्षिप्त्वा मृगार्थे धावति। अत्रांतरे त्वया दर्भ-मय-बंधन-वेष्टनानि खंडनीयानि येनासौ मंथरको द्रुततरं पल्वलं प्रविशति।

चित्रांगः प्राह-भो भद्रोऽयं दृष्टो मंत्रस् त्वया। नूनं मंथरको मुक्तो मंतव्यः। उक्तं च-

सिद्धिं वा यदि वाऽसिद्धिं चित्तोत्साहो निवेदयेत्।
प्रथमं सर्व-जंतूनां प्राज्ञो वेत्ति न चेतरः॥पञ्च_२.१९४॥

तत् तद् एवं क्रियताम्। तथानुष्ठिते स लुब्धकस् तथैव मार्गासन्न-पल्वल-तीरस्थं चित्रांगं वायस-सनाथम् अद्राक्षीत्। तं दृष्ट्वा हर्षित-मना व्यचिंतयत्। नूनं पाश-वेदनया वराकोऽयं मृगो गत्वायुः-शेष-जीवितः पाशं त्रोटयित्वा कथम् अप्य् एतद् वनांतरं प्रविष्टो यावन् मृतः। तद् वश्योऽयं मे कच्छपः सुयंत्रितत्वात्। तद् एनम् अपि तावद् गृह्णामीत्य् अवधार्य कच्छपं भू-तले प्रक्षिप्य मृगम् उपाद्रवत्।

अत्रांतरे हिरण्यकेन वज्रोपम-दंष्ट्रा-प्रहारेण तद् दर्भ-वेष्टनं तत्-क्षणात् खंडशः कृतं। मंथरकोऽपि तृण-मध्यान् निष्क्रम्य पल्वलं प्रविष्टः। चित्रांगोऽप्य् अप्राप्तस्यापि तस्य तल उत्थाय वायसेन सह द्रुतं प्रनष्टः। अत्रांतरे विलक्षो विषाद-परो निवृत्तो लुब्धको यावत् पश्यति तावत् कच्छपोऽपि गतः। ततश् च तत्रोपविश्येमं श्लोकम् अपठत्-

प्राप्तो बंधनम् अप्य् अयं गुरु-मृगस् तावत् त्वया मे हृतः
संप्राप्तः कमठः स चापि नियतं नष्टस् तवादेशतः।
क्षुत्-क्षामोऽत्र वने भ्रमामि शिशुकैस् त्यक्तः समं भार्यया
यच् चान्यन् न कृतं कृतांत कुरुते तच् चापि सह्यं मया॥पञ्च_२.१९५॥

एवं बहु-विधं विलप्य स्व-गृहं गतः। अथ तस्मिन् दूरी-भूते सर्वेपि ते काक-कूर्म-मृगाखवः परमानंद-भाजो मिलित्वा परस्परम् आलिंग्य पुनर् जातान् इवात्मनो मन्यमानस् तद् एव सरः प्राप्य महा-सुखेन सुभाषित-गोष्ठी-विनोदं कुर्वंतः कालं नयंति स्म। एवं ज्ञात्वा विवेकिना मित्र-संग्रहः कार्यः। तथा मित्रेण सह व्याजेन वर्तितव्यम्। उक्तं च-

यो मित्राणि करोत्य् अत्र न कौटिल्येन वर्तते।
तैः समं न पराभूतिं संप्राप्नोति कथञ्चन॥पञ्च_२.१९६॥

इति श्री-विष्णु-शर्म-विरचिते पञ्चतंत्रे मित्र-संप्राप्तिर् नाम द्वितीयं तंत्रं समाप्तम्।|२||

संबंधित कड़ियाँ

सम्पाद्यताम्
  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँ

सम्पाद्यताम्
"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०३ग&oldid=112793" इत्यस्माद् प्रतिप्राप्तम्