पञ्चतन्त्रम् ०३ख

(पञ्चतन्त्रम् 03ख इत्यस्मात् पुनर्निर्दिष्टम्)

व्यथयंति परं चेतो मनोरथ-शतैर् जनाः।
नानुष्ठानैर् धनैर् हीनाः कुलजाः विधवा इव॥पञ्च_२.१०१॥
दौर्गत्यं देहिनां दुःखम् अपमान-करं परम्।
येन स्वैर् अपि मन्यन्ते जीवंतोऽपि मृता इव॥पञ्च_२.१०२॥
दैन्यस्य पात्रताम् एति पराभृतेः परं पदम्।
विपदाम् आश्रयः शश्वद् दौर्गत्य-कलुषी-कृतः॥पञ्च_२.१०३॥
लज्जंते बांधवास् तेन संबंधं गोपयंति च।
मित्राण्य् अमित्रतां यान्ति यस्य न स्युः कपर्दकाः॥पञ्च_२.१०४॥
मूर्तं लाघवम् एवैतद् अपायानाम् इदं गृहम्।
पर्यायो मरणस्यायं निर्धनत्वं शरीरिणाम्॥पञ्च_२.१०५॥
अजा-धूलिर् इव त्रस्तैर् मार्जनी-रेणुवज् जनैः।
दीप-खट्वोत्थ-च्छायेव त्यज्यते निर्धनो जनः॥पञ्च_२.१०६॥
शौचावशिष्टयाप्य् अस्ति किञ्चित् कार्यं क्वचिन् मृदा।
निर्धनेन जनेनैव न तु किञ्चित् प्रयोजनम्॥पञ्च_२.१०७॥
अधनो दातु-कामोऽपि संप्राप्तो धनिनां गृहम्।
मन्यते याचकोऽयं धिग् दारिद्र्यं खलु देहिनाम्॥पञ्च_२.१०८॥
स्व-वित्त-हरणं दृष्ट्वा यो हि रक्षत्य् असून् नरः।
पितरोऽपि न गृह्णन्ति तद्-दत्तं सलिलाञ्जलिम्॥पञ्च_२.१०९॥

तथा च-
गवार्थे ब्राह्मणार्थे च स्त्री-वित्त-हरणे तथा।
प्राणांस् त्यजति यो युद्धे तस्य लोकाः सनातनाः॥पञ्च_२.११०॥
एवं निश्चित्य रात्रौ तत्र गत्वा निद्रावशम् उपागतस्य पेटायां मया छिद्रं कृतं यावत्, तावत् प्रबुद्धो दुष्ट-तापसः। ततश् च जर्जर-वंश-प्रहारेण शिरसि ताडितः कथञ्चिद् आयुः-शेषतया निर्गतोऽहम्, न मृतश् च। उक्तं च-

प्राप्तव्यम् अर्थं लभते मनुष्यो
देवोऽपि तं लंघयितुं न शक्तः।
तस्मान् न शोचामि न विस्मयो मे
यद् अस्मदीयं न हि तत् परेषाम्॥पञ्च_२.१११॥

काक-कूर्मौ पृच्छतः-कथम् एतत्?

हिरण्यक आह-

कथा ४ सागरदत्त-कथासम्पाद्यताम्


अस्ति कस्मिंश्चिन् नगरे सागरदत्तो नाम वणिक्। तत्-सूनुना रूपक-शतेन विक्रीयमाणं पुस्तकं गृहीतम्। तस्मिंश् च लिखितम् अस्ति-

प्राप्तव्यम् अर्थं लभते मनुष्यो
देवोऽपि तं लंघयितुं न शक्तः।
तस्मान् न शोचामि न विस्मयो मे
यद् अस्मदीयं न हि तत् परेषाम्॥पञ्च_२.१११॥

तद् दृष्ट्वा सागरदत्तेन तनुजः पृष्टः-पुत्र, कियता मूल्येनैतत् पुस्तकं गृहीतम्?

सोऽब्रवीत्-रूपक-शतेन।

तच् छ्रुत्वा सागरदत्तोऽब्रवीत्-धिङ् मूर्ख! त्वं लिखितैक-श्लोकं रूपक-शतेन यद् गृह्णासि, एतया बुद्ध्या कथं द्रव्योपार्जनं करिष्यसि। तद् अद्य-प्रभृति त्वया मे गृहे न प्रवेष्टव्यम्।

एवं निर्भर्त्स्य गृहान् निःसारितः। स च तेन निर्वेदेन विप्रकृष्टं देशांतरं गत्वा किम् अपि नगरम् आसाद्यावस्थितः। अथ कतिपय-दिवसैस् तन्-नगर-निवासिना केनचिद् असौ पृष्टः-कुतो भवान् आगतः? किं नामधेयो वा? इति।

असाव् अब्रवीत्-प्राप्तव्यम् अर्थं लभते मनुष्य इति। अथान्येनापि पृष्टेनानेन तथैवोत्तरं दत्तम्। एवं च तस्य नगरस्य मध्ये प्राप्तव्यमर्थ इति तस्य प्रसिद्ध-नाम जातम्।

अथ राज-कन्या चंद्रवती नामाभिनव-रूप-यौवन-संपन्ना सखी-द्वितीयैकस्मिन् महोत्सव-दिवसे नगरं निरीक्षमाणास्ति। तत्रैव च कश्चिद् राज-पुत्रोऽतीव-रूप-सम्पन्नो मनोरमश् च कथम् अपि तस्या दृष्टि-गोचरे गतः। तद्-दर्शन-सम-कालम् एव कुसुम-बाणाहतया तया निज-सख्य्-अभिहिता-सखि! यथा किलानेन सह समागमो भवति तथाद्य त्वया यतितव्यम्।

एवं च श्रुत्वा सा सखी तत्-सकाशं गत्वा शीघ्रम् अब्रवीत्-यद् अहं चंद्रवत्या तवांतिकं प्रेषिता। भणितं च त्वां प्रति तया यन् मम त्वद्-दर्शनान् मनोभवेन पश्चिमावस्था कृता। तद् यदि शीघ्रम् एव मद्-अन्तिके न समेष्मसि तदा मे मरणं शरणम्।

इति श्रुत्वा तेनाभिहितं-यद्य् अवश्यं मया तत्रागन्तव्यं, तत् कथय केनोपायेन प्रवेष्टव्यम्?

अथ सख्याभिहितम्-रात्रौ सौधावलंबितया दृढ-वरत्रया त्वया तत्रारोढव्यम्।

सोऽब्रवीत्-यद्य् एवं निश्चयो भवत्यास् तद् अहम् एवं करिष्यामि।

इति निश्चित्य सखी चंद्रवती-सकाशं गता। अथागतायां रजन्यां स राज-पुत्रः स्व-चेतसा व्यचिंतयत्-अहो महद् अकृत्यम् एतत्। उक्तं च-

गुरोः सुतां मित्र-भार्यां स्वामि-सेवक-गेहिनीम्।
यो गच्छति पुमांल् लोके तम् आहुर् ब्रह्म-घातिनम्॥पञ्च_२.११२॥

अपरं च-
अयशः प्राप्यते येन येन चाधो-गतिर् भवेत्।
स्वार्थाच् च भ्रश्यते येन तत् कर्म न समाचरेत्॥पञ्च_२.११३॥

इति सम्यग् विचार्य तत्-सकाशं न जगाम। अथ प्राप्तव्यमर्थः पर्यटन् धवल-गृह-पार्श्वे रात्राव् अवलंबित-वरत्रां दृष्ट्वा कौतुकाविष्ट-हृदयस् ताम् आलंब्याधिरूढः। तया च राज-पुत्र्या स एवायम् इत्य् आश्वस्त-चित्तया स्नान-खादन-पानाच्छादनादिना सम्मान्य तेन सह शयन-तलम् आश्रितया तद्-अन्ग-संस्पर्श-सञ्जात-हर्ष-रोमाञ्चित-गात्रयोक्तं-युष्मद्-दर्शन-मात्रानुरक्तया मयात्मा प्रदत्तोऽयम्। त्वद्-वर्जम् अन्यो भर्ता मनस्य् अपि मे न भविष्यति इति। तत् कस्मान् मया सह न ब्रवीषि?

सोऽब्रवीत्- प्राप्तव्यम् अर्थं लभते मनुष्यः।

इत्य् उक्ते तयान्योऽयम् इति मत्वा धवल-गृहाद् उत्तार्य मुक्तः। स तु खंड-पाशकः प्राप्तः। तावद् असौ खंड-देव-कुले गत्वा सुप्तः। अथ तत्र कयाचित् स्वैरिण्या दत्त-संकेतको यावद् दंड-पाशकः प्राप्तः, तावद् असौ पूर्व-सुप्तस् तेन दृष्टो रहस्य-संरक्षणार्थम् अभिहितश् च-को भवान्?

सो ब्रवीत्-प्राप्तव्यम् अर्थं लभते मनुष्यः।

इति श्रुत्वा दंड-पाशकेनाभिहितम्-यच् छून्यं देव-गृहम् इदम्। तद् अत्र मदीय-स्थाने गत्वा स्वपिहि।

तथा प्रतिपद्य स मतिर् विपर्यासाद् अन्य-शयने सुप्तः। अथ तस्य रक्षकस्य कन्या विनयवती नाम रूप-यौवन-सम्पन्ना कस्यापि पुरुषस्यानुरक्ता संकेतं दत्त्वा तत्र शयने सुप्तासीत्। अथ सा तम् आयांतं दृष्ट्वा स एवायम् अस्मद्-वल्लभ इति रात्रौ घनतरांधकार-व्यामोहितोत्थाय भोजनाच्छादनादि-क्रियां कारयित्वा गांधर्व-विवाहेनात्मानं विवाहयित्वा तेन समं शयने स्थिता विकसित-वदन-कमला तम् आह-किम् अद्यापि मया सह विश्रब्धं भवान् न ब्रवीति।

सो ब्रवीत्-प्राप्तव्यम् अर्थं लभते मनुष्यः।

इति श्रुत्वा तया चिंतितम्-यत् कार्यम् असमीक्षितं क्रियते तस्येदृक्-फल-विपाको भवति इति। एवं विमृश्य स-विषादया तया निःसारितोऽसौ। स च यावद्-वीथी-मार्गेण गच्छति तावद् अन्य-विषय-वासी वर-कीर्तिर् नाम वरो महता वाद्य-शब्देनागच्छति। प्राप्तव्यमर्थोऽपि तैः समं गंतुम् आरब्धः।

अथ यावत् प्रत्यासन्ने लग्न-समये राज-मार्गासन्न-श्रेष्ठि-गृह-द्वारे रचित-मण्डप-वेदिकायां कृत-कौतुक-मङ्गल-वेशा वणिक्-सुतास्ति, तावन् मद-मत्तो हस्त्य्-आरोहकं हत्वा प्रणश्यज्-जन-कोलाहलेन लोकम् आकुलयंस् तम् एवोद्देशं प्राप्तः। तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः।

अथास्मिन्न् अवसरे भय-तरल-लोचनाम् एकाकिनीं कन्याम् अवलोक्य-मा भैषीः। अहं परित्रातेति सुधीरं स्थिरीकृत्य दक्षिण-पाणौ संगृह्य महा-साहसिकतया प्राप्तव्यमर्थः पुरुष-वाक्यैर् हस्तिनं निर्भर्त्सितवान्। ततः कथम् अपि दैव-योगाद् अपाये हस्तिनि स-सुहृद्-बांधवेनातिक्रांत-लग्न-समये वर-कीर्तिर् नागत्य तावत् तां कन्याम् अन्य-हस्त-गतां दृष्ट्वाभिहितम्-भोः श्वशुर, विरुद्धम् इदं त्वयानुष्ठितं यन् मह्यं प्रदाय कन्यान्यस्मै प्रदत्ता इति।

सो ब्रवीत्-भोः! अहम् अपि हस्ति-भय-पलायितो भवद्भिः सहायातो न जाने किम् इदं वृतम् इत्य् अभिधाय दुहितरं प्रष्टुम् आरब्धः-वत्से, न त्वया सुंदरं कृतम्। तत् कथ्यतां कोऽयं वृत्तांतः।

सो ब्रवीत्-यद् अहम् अनेन प्राण-संशयाद् रक्षिता, तद् एनं मुक्त्वा मम जीवंत्या नान्यः पाणिं ग्रहीष्यति इति।

अनेन वार्ता-व्यतिकरेण रजनी व्युष्टा। अथ प्रातस् तत्र सञ्जाते महा-जन-समवाये वार्ता-व्यतिकरं श्रुत्वा राज-दुहिता तम् उद्देशम् आगता। कर्ण-परंपरया श्रुत्वा दंडपाशक-सुतापि तत्रैवागता। अथ तं महाजन-अमवायं श्रुत्वा राजापि तत्र एवाजगाम।

प्राप्तव्यमर्थं प्राह-भोः विश्रब्धं कथय। कीदृशोऽसौ वृत्तांतः?
अथ सो ब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्यः इति।

राज-कन्या स्मृत्वा प्राह-देवोऽपि तं लंघयितुं न शक्त इति।

ततो दंडपाशक-सुताब्रवीत्-तस्मान् न शोचामि न विस्मयो मे इति।

तम् अखिललोक-वृत्तांतम् आकर्ण्य वणिक्-सुताब्रवीत्-यद् अस्मदीयं न हि तत् परेषाम् इति।

ततोऽभय-दानं दत्त्वा राजा पृथक् पृथग् वृत्तांतान् ज्ञात्वावगत-तत्त्वस् तस्मै प्राप्तव्यम् अर्थाय स्व-दुहितरं स-बहु-मानं ग्राम-सहस्रेण समं सर्वालंकार-परिवार-युतां दत्त्वा त्वं मे पुत्रोऽसीति नगर-विदितं तं यौवराज्येभिषिक्तवान्। दंड-पाशकेनापि स्व-दुहिता स्व-शक्त्या वस्त्र-दानादिना संभाव्य प्राप्तव्यमर्थाय प्रदत्ता।

अथ प्राप्तव्यमर्थेनापि स्वीय-पितृ-मातरौ समस्त-कुटुंबावृतौ तस्मिन् नगरे सम्मान-पुरःसरं समानीतौ। अथ सोऽपि स्व-गोत्रेण सह विविध-भोगानुपभुञ्जानः सुखेनावस्थितः। अतोऽहं ब्रवीमि-प्राप्तव्यम् अर्थं लभते मनुष्यः इति।

तद् एतत् सकलं सुख-दुःखम् अनुभूय परं विषादम् उपागतोऽनेन मित्रेण त्वत्-सकाशम् आनीतः। तद् एतन् मे वैराग्य-कारणम्। मन्थरक आह-भद्र, भवति सुहृद् अयम् असंदिग्धं यः क्षुत्-क्षामोऽपि शत्रु-भूतं त्वां भक्ष्य-स्थाने स्थितम् एवं पृष्ठम् आरोप्यानयति न मार्गेपि भक्षयति। उक्तं च यतः-

विकारं याति नो चित्तं वित्ते यस्य कदाचन।
मित्रं स्यात् सर्व-काले च कारयेन् मित्रम् उत्तमम्॥पञ्च_२.११४॥
विद्वद्भिः सुहृदाम् अत्र चिह्नैर् एतैर् असंशयम्।
परीक्षा-करणं प्रोक्तं होमाग्नेर् इव पंडितैः॥पञ्च_२.११५॥

तथा च-
आपत्-काले तु संप्राप्ते यन् मित्रं मित्रमेव तत्।
वृद्धि-काले तु संप्राप्ते दुर्जनोऽपि सुहृद् भवेत्॥पञ्च_२.११६॥

तन् ममाप्य् अद्यास्य विषये विश्वासः समुत्पन्नो यतो नीति-विरुद्धेयं मैत्री मांसाशिभिर् वायसैः सह जलचराणाम्। अथवा साध्व् इदम् उच्यते-

मित्रं कोऽपि न कस्यापि नितांतं न च वैर-कृत्।
दृश्यते मित्र-विध्वस्तात् कार्याद् वैरी परीक्षितः॥पञ्च_२.११७॥

तत् स्वागतं भवतः। स्व-गृह-वदास्यताम् अत्र सरस्-तीरे। यच् च वित्त-नाशो विदेश-वासश् च ते सञ्जातस् तत्र विषये संतापो न कर्तव्यः। उक्तं च-

अभ्रच्-छाया खल-प्रीतिः समुद्रांते च मेदिनी।
अल्पेनैव विनश्यंति यौवनानि धनानि च॥पञ्च_२.११८॥

अत एव विवेकिनो जितात्मानो धन-स्पर्ध़ां न कुर्वंति। उक्तं च-

सुसञ्चितैर् जीवनवत् सुरक्षितैर्
निजेपि देहे न वियोजितैः क्वचित्।
पुंसो यमान्तं व्रजतोऽपि निष्ठुरैर्
एतैर् धनैः पञ्चपदी न दीयते॥पञ्च_२.११९॥

अन्यच् च-
यथामिषं जले मत्स्यैर् भक्ष्यते श्वापदैर् भुवि।
आकाशे पक्षिभिश् चैव तथा सर्वत्र वित्तवान्॥पञ्च_२.१२०॥
द्धो निर्दोषम् अपि वित्ताढ्य दोषैर् योजयते नृपः।
निधनः प्राप्त-दोषोऽपि सर्वत्र निरुपद्रवः॥पञ्च_२.१२१॥
अर्थानाम् अर्जनं कार्यं वर्धनं रक्षणं तथा।
भक्ष्यमाणो निरादायः सुमेरुरपि हीयते॥पञ्च_२.१२२॥
अर्थार्थी यानि कष्टानि मूढोऽयं सहते जनः।
शतांशेनापि मोक्षार्थी तानि चेन् मोक्षम् आप्नुयात्॥पञ्च_२.१२३॥

को धीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतो
यं देशं श्रयते तम् एव कुरुते बाहु-प्रतापार्जितम्।
यद् दंष्ट्रानखलांगुल-प्रहरणैः सिंहो वनं गाहते
तस्मिन् एव हत-द्विपेंद्र-रुधिरैस् तृष्णां छिनत्त्य् आत्मनः॥पञ्च_२.१२४॥

अर्थ-हीनः परे देशे गतोऽपि यः प्रज्ञावान् भवति स कथञ्चिद् अपि न सीदति। उक्तं च-
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम्।
को विदेशः सुविद्यानां कः परः प्रिय-वादिनाम्॥पञ्च_२.१२५॥

तत् प्रज्ञा-निधिर् भवान् न प्राकृत-पुरुष-तुल्यः। अथवा-

उत्साह-संपन्नम् अदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्व् असक्तम्।
शूरं कृतज्ञं दृढ-सौहृदं च लक्ष्मीः स्वयं वाञ्छति वास-हेतोः॥पञ्च_२.१२६॥

अपरं प्राप्तोऽप्य् अर्थः कर्म-प्राप्त्या नश्यति। तद् एतावंति दिनानि त्वदीयम् आसीत्। मुहूर्तम् अप्य् अनात्मीयं भोक्तुं न लभ्यते। स्वयम् आगतम् अपि विधिनापह्रियते।

अर्थस्योपार्जनं कृत्वा नैवाभाग्यः समश्नुते।
अरण्यं महदासाद्य मूढः सोमिलको यथा॥पञ्च_२.१२७॥

हिरण्यक आह--कथम् एतत्?

स आह-

कथा ५ सोमिलक-कथासम्पाद्यताम्


अस्ति कस्मिंश्चिद् अधिष्ठाने सोमिलको नाम कौलिको वसति स्म। सोऽनेक-विध-पट्ट-रचनारञ्जितानि पार्थिवोचितानि सदैव वस्त्राण्य् उत्पादयति। परं तस्य चानेक-विध-पट्ट-रचन-निपुणस्यापि न भोजनाच्छादनाभ्यधिकं कथम् अप्य् अर्थ-मात्रं संपद्यते। अथान्ये तत्र सामान्य-कौलिकाः स्थूल-वस्त्र-संपादन-विज्ञानिनो महर्धि-संपन्नाः। तान् अवलोक्य स स्व-भार्याम् आह-प्रिये! पश्यैतान् स्थूल-पट्ट-कारकान् धन-कनक-समृद्धान्। तद् अधारणकं ममैतत् स्थानम्। तद् अन्यत्रोपार्जनाय गच्छामि।
सा प्राह-भोः प्रियतम! मिथ्या प्रलपितम् एतद् यद् अन्यत्र-गतानां धनं भवति, स्व-स्थाने न भवति। उक्तं च-
उत्पतंति यद् आकाशे निपतंति महीतले।
पक्षिणां तद् अपि प्राप्त्या नादत्तम् उपतिष्ठति॥पञ्च_२.१२८॥

तथा च-
न हि भवति यन् न भाव्यं
भवति च भाव्यं विनापि यत्नेन।
कर-तल-गतम् अपि नश्यति
यस्य तु भवितव्यता नास्ति॥पञ्च_२.१२९॥

यथा धेनु-सहस्रेषु वत्सो विंदति मातरं।
तथा पूर्व-कृतं कर्म कर्तारम् अनुगच्छति॥पञ्च_२.१३०॥
शेते सह शयानेन गच्छंतम् अनुगच्छति।
नराणां प्राक्तनं कर्म तिष्ठति तु सहात्मना॥पञ्च_२.१३१॥
यथा छाया-तपौ नित्यं सुसंबद्धौ परस्परं।
एवं कर्म च कर्ता च संश्लिष्टाव् इतरेतरम्॥पञ्च_२.१३२॥
कौलिक आह-प्रिये! न सम्यग् अभिहितं भवत्या। व्यवसायं विना न कर्म फलति। उक्तं च-
यथैकेन न हस्तेन तालिका संप्रपद्यते।
तथोद्यम-परित्यक्तं न फलं कर्मणः स्मृतम्॥पञ्च_२.१३३॥
पश्य कर्म-वशात् प्राप्तं भोज्यकालेपि भोजनम्।
हस्तोद्यमं विना वक्त्रे प्रविशेन् न कथञ्चन॥पञ्च_२.१३४॥

तथा च-
उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर्
दैवेन देयम् इति कापुरुषा वदंति।
दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः॥पञ्च_२.१३५॥

तथा च-
उद्यमेन हि सिध्यंति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य विशंति वदने मृगाः॥पञ्च_२.१३६॥
उद्यमेन विना राजन् न सिध्यंति मनोरथाः।
कातरा इति जल्पंति यद् भाव्यं तद् भविष्यति॥पञ्च_२.१३७॥
स्व-शक्त्या कुर्वतः कर्म न चेत् सिद्धिं प्रयच्छति।
नोपालभ्यः पुमांस् तत्र दैवांतरित-पौरुषः॥पञ्च_२.१३८॥

तन् मयावश्यं देशांतरं गंतव्यम्।

इति निश्चित्य वर्धमान-पुरं गत्वा तत्र वर्ष-त्रयं स्थित्वा सुवर्ण-शत-त्रयोपार्जनं कृत्वा भूयः स्व-गृहं प्रस्थितः। अथार्ध-पथे गच्छतस् तस्य कदाचिद् अटव्यां पर्यटतो भगवान् रविर् अस्तम् उपागतः। तत्र च व्याल-भयात् स्थूलतर-वट-स्कंध आरूह्य प्रसुप्तो यावत् तिष्ठति तावन् निशीथे द्वौ पुरुषौ रौद्राकारौ परस्परं जल्पंताव् अशृणोत्।

तत्रैक आह-भोः कर्तः त्वं किं सम्यङ् न वेत्सि यद् अस्य सोमिलकस्य भोजनाच्छादनाभ्यधिका समृद्धिर् नास्ति। तत् किं त्वयास्य सुवर्ण-शत-त्रयं दत्तम्।

स आह-भोः कर्मन् मयावश्यं दातव्यं व्यवसायिनां तत्र च तस्य परिणतिस् त्वद् आयत्तेति। अथ यावद् असौ कौलिकः प्रबुद्धः सुवर्ण-ग्रंथिम् अवलोकयति तावद् रिक्तं पश्यति।

ततः साक्षेपं चिंतयामास। अहो किम् एतत्? महता कष्टेनोपार्जितं वित्तं हेलया क्वापि गतम्। यद् व्यर्थ-श्रमोऽकिञ्चनः कथं स्व-पत्न्या मित्राणां च मुखं दर्शयिष्यामि। इति निश्चित्य तद् एव पत्तनं गतः। तत्र च वर्ष-मात्रेणापि सुवर्ण-शत-पञ्चकम् उपार्ज्य भूयोऽपि स्व-स्थानं प्रति प्रस्थितः। यावद् अर्ध-पथे भूयोऽटवी-गतस्य भगवान् भानुर् अस्तं जगामाथ सुवर्ण-नाश-भयात् सुश्रांतोऽपि न विश्राम्यति केवलं कृत-गृहोत्कंठः सत्वरं व्रजति।
अत्रांतरे द्वौ पुरुषौ तादृषौ दृष्टि-देशे समागच्छंतौ जल्पंतौ च शृणोति। तत्रैकः प्राह-भोः कर्तः! किं त्वयैतस्य सुवर्ण-शत-पञ्चकं दत्तम्? तत् किं न वेत्सि यद् भोजनाच्छादनाभ्यधिकम् अस्य किंचिन् नास्ति।

स आह-भोः कर्मन्! मयावश्यं देयं व्यवसायिनाम्। तस्य परिणामस् त्वद्-आयत्तः। तत् किं माम् उपालंभयसि?

तच् छ्रुत्वा सोमिलको यावद् ग्रंथिम् अवलोकयति तावत् सुवर्णं नास्ति। ततः परं दुःखम् आपन्नो व्यचिंतयत्-अहो किं मम धन-रहितस्य जीवितेन? तद् अत्र वट-वृक्ष आत्मानम् उद्बध्य प्राणांस् त्यजामि।

एवं निश्चित्य दर्भ-मयीं रज्जुं विधाय स्व-कंठे पाशं नियोज्य शाखायाम् आत्मानं निबध्य यावत् प्रक्षिपति तावद् एकः पुमान् आकाश-स्थ एवेदम् आह-भो भोः सोमिलक! मैवं साहसं कुरु। अहं ते वित्तापहारको न ते भोजनाच्छादनाभ्यधिकं वराटिकाम् अपि सहामि। तद् गच्छ स्व-गृहं प्रति। अन्यच् च भवदीय-साहसेनाहं तुष्टः। तथा मे न स्याद् व्यर्थं दर्शनम्। तत् प्रार्थ्यताम् अभीष्टो वरः कश्चित्।

सोमिलक आह-यद्य् एवं तद् देहि मे प्रभूतं धनम्।

स आह-भोः! किं करिष्यसि भोग-रहितेन धनेन यतस् तव भोजनाच्छादनाभ्यधिका प्राप्तिर् अपि नास्ति? उक्तं च-
किं तया क्रियते लक्ष्म्या या वधूर् इव केवला।
या न वेश्येव सामान्या पथिकैर् उपभुज्यते॥पञ्च_२.१३९॥

सोमिलक आह-यद्य् अपि भोगो नास्ति तथापि भवतु मे धनम्। उक्तं च-

कृपणोऽप्य् अकुलीनोऽपि सदा संश्रित-मानुषैः।
सेव्यते स नरो लोके यस्य स्याद् वित्त-सञ्चयः॥पञ्च_२.१४०॥

तथा च-
शिथिलौ च सुबद्धौ च पततः पततो न वा।
निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च॥पञ्च_२.१४१॥
पुरुष आह-किम् एतत्?

सो ब्रवीत्-

कथा ६ तीक्ष्ण-विषाण-शृगाल-कथासम्पाद्यताम्


कस्मिंश्चिद् अधिष्ठाने तीक्ष्णविषाणो नाम महा-वृषभो वसति। स च मदातिरेकात् परित्यक्त-निज-यूथः शृंगाभ्यां नदी-तटानि विदारयन् स्वेच्छया मरकत-सदृशानि शष्पाणि भक्षयन्न् अरण्य-चरो बभूव। अथ तत्रैव वने प्रलोभको नाम शृगालः प्रतिवसति स्म। स कदाचित् स्व-भार्यया सह नदी-तीरे सुखोपविष्टस् तिष्ठति। अत्रांतरे स तीक्ष्णविषाणो जलार्थं तद् एव पुलिनम् अवतीर्णः। ततश् च तस्य लंबमानौ वृषणाव् आलोक्य शृगाल्या शृगालोऽभिहितः-स्वामिन्! पश्यास्य वृषभस्य मांस-पिंडौ लंबमानौ यथा स्थितौ। ततः क्षणेन प्रहरेण वा पतिष्यतः। एवं ज्ञात्वा भवता पृष्ठ-यायिना भाव्यं।

शृगाल आह-प्रिये! न ज्ञायते कदाचिद् एतयोः पतनं भविष्यति वा न वा। तत् किं वृथा श्रमाय मां नियोजयसि? अत्र-स्थस् तावज् जलार्थम् आगतान् मूषकान् भक्षयिष्यामि समं त्वया। मार्गोऽयं यतस् तेषाम्। अथ यदा त्वां मुक्त्वास्य तीक्ष्णविषाणस्य वृषभस्य पृष्ठे गमिष्यामि तदागत्यान्यः कश्चिद् एतत् स्थानं समाश्रयिष्यति। नैतद् युज्यते कर्तुम्। उक्तं च-

यो ध्रुवाणि परित्यज्याध्रुवाणि निषेवते।
ध्रुवाणि तस्य नश्यंति अध्रुवं नष्टम् एव च॥पञ्च_२.१४२॥
शृगाल्य् आह-भोः कापुरुषस् त्वं यत् किंचित् प्राप्तं तेनापि संतोषं करोषि। उक्तं च-

सुपूरा स्यात् कुनदिका सुपूरो मूषिकाञ्जलिः।
सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति॥पञ्च_२.१४३॥

तस्मात् पुरुषेण सदैवोत्साहवता भाव्यम्। उक्तं च-
यत्रोत्साह-समारंभो यत्रालस्य-विनिग्रहः।
नय-विक्रम-संयोगस् तत्र श्रीर् अचला ध्रुवं॥पञ्च_२.१४४॥
तद् दैवम् इति सञ्चिंत्य त्यजेन् नोद्योगम् आत्मनः।
अनुयोगं विना तैलं तिलानां नोपजायते॥पञ्च_२.१४५॥
अन्यच् च-
यः स्तोकेनापि संतोषं कुरुते मन्दधीर् जनः।
तस्य भाग्य-विहीनस्य दत्ता श्रीर् अपि मार्ज्यते॥पञ्च_२.१४६॥

यच् च त्वं वदसि। एतौ पतिष्यतो न वेति। तद् अप्य् अयुक्तम्। उक्तं च-

कृत-निश्चयिनो वन्द्यास् तुंगिमा नोपभुज्यते।
चातकः को वराकोऽयं यस्येन्द्रो वारिवाहकः॥पञ्च_२.१४७॥

अपरं मूषक-मांसस्य निर्विण्णाहम्। एतौ च मांस-पिंडौ पतन-प्रायौ दृश्येते। तत् सर्वथा ना मयथा कर्तव्यम् इति। अथासौ तद् आकर्ण्य मूषक-प्राप्ति-स्थानं परित्यज्य तीक्ष्णविषाणस्य पृष्ठम् अन्वगच्छत्। अथ वा साध्व् इदम् उच्यते-

तावत् स्यात् सर्व-कृत्येषु पुरुषोऽत्र स्वयं प्रभुः।
स्त्री-वाक्यांकुश-विक्षुण्णो यावन् नो ध्रियते बलात्॥पञ्च_२.१४८॥
अकृत्यं मन्यते कृत्यं अगम्यं मन्यते सुगम्।
अभक्ष्यं मन्यते भक्ष्यं स्त्री-वाक्य-प्रेरितो नरः॥पञ्च_२.१४९॥

एवं स तस्य पृष्ठतः स-भार्यः परिभ्रमंश् चिर-कालम् अनयत्। न च तयोः पतनम् अभूत्। ततश् च निर्वेदात् पञ्चदशे वर्षे शृगालः स्वभार्याम् आह-शिथिलौ च सुबद्धौ च (१४१) इत्यादि।

तयोस् तत्-पश्चाद् अपि पातो न भविष्यति। तत् तद् एव स्व-स्थानं गच्छावः। अतोऽहं ब्रवीमि-शिथिलौ च सुबद्धौ च (१४१) इति।

---

पुरुष आह-यद्य् एवं तद् गच्छ भूयोऽपि वर्धमान-पुरम्। तत्र द्वौ वणिक्-पुत्रौ वसतः। एको गुप्त-धनः। द्वितीय उपभुक्त-धनः। ततस् तयोः स्वरूपं बुद्ध्वैकस्य वरः प्रार्थनीयः। यदि ते धनेन प्रयोजनम् अभक्षितेन ततस् त्वाम् अपि गुप्त-धनं करोमि। अथवा दत्त-भोग्येन धनेन ते प्रयोजनं तद् उपभुक्त-धनं करोमीति। एवम् उक्त्वाऽदर्शनं गतः।

सोमिलकोऽपि विस्मित-मना भूयोऽपि वर्धमान-पुरं गतः। अथ संध्या-समये श्रांतः कथम् अपि तत्-पुरं प्राप्तो गुप्तधन-गृहं पृच्छन् कृच्छ्राल् लब्ध्वास्तमित-सूर्ये प्रविष्टः। अथासौ भार्या-पुत्र-समेतेन गुप्तधनेन निर्भर्त्स्यमानो हठाद् गृहं प्रविश्योपविष्टः। ततश् च भोजन-वेलायां तस्यापि भक्ति-वर्जितं किंचिद् अशनं दत्तम्। ततश् च भुक्त्वा तत्रैव यावत् सुप्तो निशीथे पश्यति तावत् ताव् अपि द्वौ पुरुषौ परस्परं मन्त्रयतः। तत्रैक आह-भोः कर्तः! किं त्वयास्य गुप्तधनस्यान्योऽधिको व्ययो निर्मितो यत् सोमिलकस्यानेन भोजनं दत्तम्। तद् अयुक्तं त्वया कृतम्।

स आह-भोः कर्मन्! न ममात्र दोषः। मया पुरुषस्य लाभ-प्राप्तिर् दातव्या। तत्-परिणतिः पुनस् त्वद्-आयत्तेति। अथासौ यावद् उत्तिष्ठति तावद् गुप्तधनो विसूचिकया खिद्यमानो रुजाभिभूतः क्षणं तिष्ठति। ततो द्वितीयेह्नि तद्-दोषेण कृतोपवासः सञ्जातः।

सोमिलकोऽपि प्रभाते तद्-गृहान् निष्क्रम्य उपभुक्तधन-गृहं गतः। तेनापि चाभ्युत्थानादिना सत्-कृतो विहित-भोजनाच्छादन-सम्मानस् तस्यैव गृहे भव्य-शय्याम् आरुह्य सुष्वाप। ततश् च निशीथे यावत् पश्यति तावत् ताव् एव द्वौ पुरुषौ मिथो मन्त्रयतः। अत्र तयोर् एक आह-भोः कर्तः! अनेन सोमिलकस्योपकारं कुर्वता प्रभूतो व्ययः कृतः। तत् कथय कथम् अस्योद्धारक-विधिर् भविष्यति। अनेन सर्वम् एतद् व्यवहारक-गृहात् समानीतम्।

स आह-भोः कर्मन्! मम कृत्यम् एतत्। परिणतिस् त्वद्-आयत्तेति। अथ प्रभात-समये राज-पुरुषो राज-प्रसादजं वित्तम् आदाय समायात उपभुक्त-धनाय समर्पयामास।

तद् दृष्ट्वा सोमिलकश् चिंतयामास। सञ्चय-रहितोऽपि वरम् एष उपभुक्तधनो नासौ कदर्यो गुप्तधनः। उक्तं च-

अग्निहोत्र-फला वेदाः शील-वृत्त-फलं श्रुतम्।
रति-पुत्र-फला दारा दत्त-भुक्त-फलं धनम्॥पञ्च_२.१५०॥

अग्निहोत्र विषयक उपरोक्त श्लोकोपरि संक्षिप्त टिप्पणी

अग्रिम पुटम्

संबंधित कड़ियाँसम्पाद्यताम्

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०३ख&oldid=112792" इत्यस्माद् पुनः प्राप्तिः