पूर्वपुटम्
यस्यास्ति सर्वत्र गतिः स कस्मात्
स्व-देश-रागेण हि याति नाशम्।
तातस्य कूपोऽयम् इति ब्रुवाणाः
क्षार-जलं कापुरुषाः पिबंति॥पञ्च_१.३५१॥

अथ तत् समाकर्ण्य प्रोच्चैर् विहस्य यद्-भविष्यः प्रोवाच-अहो, न भवद्भ्या मंत्रितं सम्यग् एतद् इति, यतः किं वाङ्-मात्रेणापि तेषां पितृ-पैतामहिकम् एतत् सरस् त्यक्तुं युज्यते। यद्य् आयुः-क्षयोऽस्ति तद् अन्यत्र गतानाम् अपि मृत्युर् भविष्यत्य् एव। उक्तं च-
अरक्षितं तिष्ठति दैव-रक्षितं
सुरक्षितं दैव-हतं विनश्यति।
जीवत्य् अनाथोऽपि वने विसर्जितः
कृत-प्रयत्नोऽपि गृहे न जीवति॥पञ्च_१.३५२॥

तद् अहं न यास्यामि भवद्भ्यां च यत् प्रतिभाति तत् कर्तव्यम्।

अथ तस्य तं निश्चयं ज्ञात्वानागत-विधाता प्रत्युत्पन्न-मतिश् च निष्क्रान्तौ सह परिजनेन। अथ प्रभाते तैर् मत्स्य-जीविभिर् जालैस् तज् जलाशयम् आलोड्य यद्-भविष्येण सह तत्-सरो निर्मत्स्यतां नीतम्। अतोऽहं ब्रवीमि-अनागत-विधाता चेति।

तच् छ्रुत्वा टिट्टिभ आह-भद्रे, किं मां यद्भविष्य-सदृशं संभावयसि। तत् पश्य मे बुद्धि-प्रभावं यावद् एनं दुष्ट-समुद्रं स्व-चञ्च्वा शोषयामि।

टिट्टिभ्य् आह-अहो कस् ते समुद्रेण सह विग्रहः। तन् न युक्तम् अस्योपरि कोपं कर्तुम्। उक्तं च-
पुंसाम् असमर्थानाम् उपद्रवायात्मनो भवेत् कोपः।
पिठरं ज्वलद्-अतिमात्रं निज-पार्श्वान् एव दहतितराम्॥पञ्च_१.३५३॥

तथा च-
अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः।
गच्छन्न् अभिमुखो वह्नौ नाशं याति पतंगवत्॥पञ्च_१.३५४॥

टिट्टिभ आह-प्रिये, मा मैवं वद। येषाम् उत्साह-शक्तिर् भवति ते स्वल्पा अपि गुरून् विक्रमंते। उक्तं च-
विशेषात् परिपूर्णस्य याति शत्रोर् अमर्षणः।
आभिमुख्यं शशांकस्य यथाऽद्यापि विधुंतुदः॥पञ्च_१.३५५॥

तथा च-
प्रमाणाद् अधिकस्यापि गंड-श्याम-मद-च्युतेः। पदं मूर्ध्नि समाधत्ते केसरी मत्त-दंतिनः॥पञ्च_१.३५६॥

तथा च-
बालस्यापि रवेः पादाः पतंत्य् उपरि भूभृताम्।
तेजसा सह जातानां वयः कुत्रोपयुज्यते॥पञ्च_१.३५७॥

हस्तौ स्थूलतरः स चांकुश-वशः किं हस्ति-मात्रो अंकुशो
दीपे प्रज्वलिते प्रणश्यति तमः किं दीप-मात्रं तमः।
वज्रेणापि हताः पतंति गिरयः किं वज्र-मात्रो गिरिस्
तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः॥पञ्च_१.३५८॥

तद् अनया चञ्च्वास्य सकलं तोयं शुष्क-स्थलतां नयामि।

टिट्टिभ्य् आह-भोः कांत! यत्र जाह्नवी नव-नदी-शतानि गृहीत्वा नित्यम् एव प्रविशति, तथा सिंधुश् च। तत् कथं त्वम् अष्टादश-नदी-शतैः पूर्यमाणं तं विप्रुष-वाहिन्या चञ्च्वा शोषयिष्यसि? तत् किम् अश्रद्धो येनोक्तेन।

टिट्टिभ आह-प्रिये!

अनिर्वेदः श्रियो मूलं चञ्चुर् मे लोह-संनिभा।
अहो-रात्राणि दीर्घाणि समुद्रः किं न शुष्यति॥पञ्च_१.३५९॥
दुरधिगमः पर-भागो यावत् पुरुषेण पौरुषं न कृतम्।
जयति तुलाम् अधिरूढो भास्वान् अपि जलद-पटलानि॥पञ्च_१.३६०॥

टिट्टिभ्य् आह-यदि त्वयाऽवश्यं समुद्रेण सह विग्रहानुष्ठानं कार्यम्, तद् अन्यान् अपि विहंगमान् आहूय सुहृज्-जन-सहित एव समाचर। उक्तं च-

बहूनाम् अप्य् असाराणां समवायो हि दुर्जयः।
तृणैर् आवेष्ट्यते रज्जुर् यया नागो पि बद्ध्यते॥पञ्च_१.३६१॥

तथा च-
चटकाकाष्ठ-कूटेन मक्षिका-दर्दुरैस् तथा।
महाजन-विरोधेन कुञ्जरः प्रलयं गतः॥पञ्च_१.३६२॥
टिट्टिभ आह-कथम् एतत्?

सा प्राह-

कथा १५ कुञ्जर-चटक-दंपती-कथासम्पाद्यताम्



कस्मिंश्चिद् वनोद्देशे चटक-दंपती तमाल-तरु-कृत-निलयौ प्रतिवसतः स्म। अथ तयोर् गच्छता कालेन संततिर् अभवत्। अन्यस्मिन्न् अहनि प्रमत्तो वन-गजः कश्चित् तं तमाल-वृक्षं घर्मार्तश् छायार्थी समाश्रितः। ततो मदोत्कर्षात् तां तस्य शाखां चटकाश्रितां पुष्कराग्रेणाकृष्य बभञ्ज। तस्या भंगेन चटकांडानि सर्वाणि विशीर्णानि। आयुः-शेषतया च चटकौ कथम् अपि प्राणैर् न वियुक्तौ।

अथ चटका साण्डभंगाभिभूता प्रलापान् कुर्वाणा न किञ्चित् सुखम् आससाद। अत्रांतरे तस्यास् तान् प्रलापान् श्रुत्वा काष्ठकूटो नाम पक्षी तस्याः परम-सुहृत्-तद्-दुःख-दुःखितोऽभ्येत्य ताम् उवाच-भगवति! किं वृथा प्रलापेन। उक्तं च-

नष्टं मृतम् अतिक्रांतं नानुशोचंति पंडिताः।
पंडितानां च मूर्खाणां विशेषोऽयं यतः स्मृतः॥पञ्च_१.३६३॥

तथा च-
अशोच्यानीह भूतानि यो मूढस् तानि शोचति।
तद्-दुःखाल् लभते दुःखं द्वाव् अनर्थौ निषेवते॥पञ्च_१.३६४॥

अन्यच् च-
श्लेष्माश्रु बांधवैर् मुक्तं प्रेतो भुंक्ते यतोऽवशः।
तस्मान् न रोदितव्यं हि क्रियाः कार्याश् च शक्तितः॥पञ्च_१.३६५॥

चटका प्राह-अस्त्व् एतत्। परं दुष्ट-गजेन मदान् मम संतान-क्षयः कृतः। तद् यदि मम त्वं सुहृत्-सत्यस् तद् अस्य गजापसदस्य कोऽपि वधोपायश् चिंत्यताम्। यस्यानुष्ठानेन मे संतति-नाश-दुःखम् अपसरति। उक्तं च-

आपदि येनोपकृतं येन च हसितं दशासु विषमासु।
अपकृत्य तयोर् उभयोः पुनर् अपि जातं नरं मन्ये॥पञ्च_१.३६६॥

काष्ठ-कूट आह-भगवति, सत्यम् अभिहितं भवत्या। उक्तं च-

स सुहृद्-व्यसने यः स्याद् अन्य-जात्य्-उद्भवोऽपि सन्।
वृद्धौ सर्वोऽपि मित्रं स्यात् सर्वेषाम् एव देहिनाम्॥पञ्च_१.३६७॥
स सुहृद्-व्यसने यः स्यात् स पुत्रो यस् तु भक्तिमान्।
स भृत्यो यो विधेयज्ञः सा भार्या यत्र निर्वृतिः॥पञ्च_१.३६८॥

तत् पश्य मे बुद्धि-प्रभावम्। परं ममापि सुहृद्-भूता वीणारवा नाम मक्षिकास्ति। तत् ताम् आहूयागच्छामि, येन स दुरात्मा दुष्ट-गजो बध्यते।

अथासौ चटकया सह मक्षिकाम् आसाद्य प्रोवाच-भद्रे, ममेष्टेयं चटका केनचिद् दुष्ट-गजेन पराभूताऽण्ड-स्फोटनेन। तत् तस्य वधोपायम् अनुतिष्ठतो मे साहाय्यं कर्तुम् अर्हसि।

मक्षिकाप्य् आह-भद्र! किम् उच्यतेऽत्र विषये। उक्तं च-

पुनः प्रत्युपकाराय मित्राणां क्रियते प्रियम्।
यत् पुनर् मित्र-मित्रस्य कार्यं मित्रैर् न किं कृतम्॥पञ्च_१.३६९॥

सत्यम् एतत्। परं ममापि भेको मेघनादो नाम मित्रं तिष्ठति। तम् अप्य् आहूय यथोचितं कुर्मः। उक्तं च-

हितैः साधु-समाचारैः शास्त्रज्ञैर् मति-शालिभिः।
कथञ्चिन् न विकल्पन्ते विद्वद्भिश् चिंतिता नयाः॥पञ्च_१.३७०॥

अथ ते त्रयोऽपि गत्वा मेघनादस्याग्रे समस्तं वृत्तांतं निवेद्य तस्थुः। अथ स प्रोवाच-कियन् मात्रोऽसौ वराको गजो महाजनस्य कुपितस्याग्रे। तन् मदीयो मंत्रः कर्तव्यः। मक्षिके, त्वं गत्वा मध्याह्न-समये तस्य मदोद्धतस्य गजस्य कर्णे वीणा-रव-सदृशं शब्दं कुरु। येन श्रवण-सुख-लालसो निमीलित-नयनो भवति। ततश् च काष्ठ-कूट-चञ्च्वा स्फोटित-नयनो अंधीभूतस् तृषार्तो मम गर्त-तटाश्रितस्य सपरिकरस्य शब्दं श्रुत्वा जलाशयं मत्वा समभ्येति। ततो गर्तम् आसाद्य पतिष्यति पञ्चत्वं यास्यति चेति। एवं समवायः कर्तव्यो यथा वैर-साधनं भवति।

अथ तथानुष्ठिते स मत्त-गजो मक्षिका-गेय-सुखान् निमीलित-नेत्रः काष्ठ-कूट-हृत-चक्षुर् मध्याह्न-समये भ्राम्यन् मंडूक-शब्दानुसारी गच्छन् महतीं गर्तम् आसाद्य पतितो मृतश् च। अतोऽहं ब्रवीमि-चटका काष्ठ-कूटेन इति।

टिट्टिभ आह-भद्रे, एवं भवतु। सुहृद्-वर्गं-समुदायेन सह समुद्रं शोषयिष्यामि। इति निश्चित्य बक-सारस-मयूरादीन् समाहूय प्रोवाच-भोः पराभूतोऽहं समुद्रेणाण्डकापहरेण। तच् चिंत्यताम् अस्य शोषणोपायः।

ते संमंत्र्य प्रोचुः-अशक्ता वयं समुद्र-शोषणे। तत् कि वृथा प्रयासेन। उक्तं च-

अबलः प्रोन्नतं शत्रुं यो याति मद-मोहितः।
युद्धार्थं स निवर्तेत शीर्ण-दंतो यथा गजः॥पञ्च_१.३७१॥

तद् अस्माक स्वामी वैनतेयोऽस्ति। तस्मै सर्वम् एतत्-परिभव-स्थानं निवेद्यताम्, येन स्वजाति-परिभव-कुपितो वैरानृण्यं गच्छति। अथवाऽत्रावलेपं करिष्यति तथापि नास्ति वो दुःखम्। उक्तं च-

सुहृदि निरंतर-चित्ते गुणवति भृत्येऽनुवर्तिनि कलत्रे।
स्वामिनि शक्ति-समेते निवेद्य दुःखं सुखी भवति॥पञ्च_१.३७२॥

तद् यामो वैनतेय-सकाशं यतोऽसाव् अस्माकं स्वामी।

तथानुष्ठिते सर्वे ते पक्षिणो विषण्ण-वदना बाष्प-पूरित-दृशो वैनतेय-सकाशम् आसाद्य करुण-स्वरेण फूत्कर्तुम् आरब्धाः-अहो! अब्रह्मण्यम् अब्रह्मण्यम्! अधुना सदाचारस्य टिट्टिभस्य भवति नाथे सति समुद्रेणाण्डान्य् अपहृतानि तत्-प्रनष्टम् अधुना पक्षि-कुलम्। अन्येपि स्वेच्छया समुद्रेण व्यापादिष्यन्ते। उक्तं च-

क्व कस्य कर्म संवीक्ष्य करोत्य् अन्योऽपि गर्हितम्।
गतानुगतिको लोको न लोकः पारमार्थिकः॥पञ्च_१.३७३॥
चाटु-तस्कर-दुर्वृतैस् तथा साहसिकादिभिः।
पीड्यमानाः प्रजा रक्ष्याः कटूच्छद्मादिभिस् तथा॥पञ्च_१.३७४॥
प्रजानां धर्म-षड्-भागो राज्ञो भवति रक्षितुः।
अधर्माद् अपि षड्-भागो जायते यो न रक्षति॥पञ्च_१.३७५॥
प्रजा-पीडन-संतापात् समुद्भूतो हुताशनः।
राज्ञः श्रियं कुलं प्राणान् नादग्ध्वा विनिवर्तते॥पञ्च_१.३७६॥
राजा बंधुर् अबंधूना राजा चक्षुर् अचक्षुषाम्।
राजा पिता च माता च सर्वेषां न्याय-वर्तिनाम्॥पञ्च_१.३७७॥
फलार्थी पार्थिवो लोकान् पालयेद् यत्नमास्थितः।
दान-मानादि-तोयेन मालाकारोंऽकुरान् इव॥पञ्च_१.३७८॥
यथा बीजांकुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः।
फल-प्रदो भवेत् काले तद्वल् लोकः सुरक्षितः॥पञ्च_१.३७९॥
हिरण्य-धान्य-रत्नानि यानानि विविधानि च।
तथान्यद् अपि यत् किञ्चित् प्रजाभ्यः स्यान् नृपस्य तत्॥पञ्च_१.३८०॥

अथैव गरुडः समाकर्ण्य तद्-दुःख-दुःखितः कोपाविष्टश् च व्यचिंतयत्-अहो! सत्यम् उक्तम् एतैः पक्षिभिः। तद् अद्य गत्वा तं समुद्रं शोषयामः।

एवं चिंतयतस् तस्य विष्णु-दूतः समागत्याह-भो गरुत्मन्! भगवता नारायणेनाहं तव पार्श्वे प्रेषितः। देव-कार्याय भगवान् अमरावत्यां यास्यतीति। तत् सत्वरम् आगम्यताम्।

तच् छ्रुत्वा गरुडः साभिमानं प्राह-भो दूत! किं मया कुभृत्येन भगवान् करिष्यति। तद् गत्वा तं वद यद् अन्यो भृत्यो वाहनायास्मत्-स्थाने क्रियताम्। मदीयो नमस्कारो वाच्यो भगवतः। उक्तं च-

यो न वेत्ति गुणान् यस्य न तं सेवेत पंडितः।
न हि तस्मात् फलं किञ्चित् सुकृष्टाद् ऊषराद् इव॥पञ्च_१.३८१॥

दूत आह-भो वैनतेय! कदाचिद् अपि भगवंतं प्रति त्वया नैतद् अभिहितम् ईदृक्। तत् कथय, किं ते भगवतापमान-स्थानं कृतम्?

गरुड आह-भगवद्-आश्रय-भूतेन समुद्रेणास्मत् टिट्टिभाण्डान्य् अपहृतानि। तद् यदि निग्रहं न करोति तद् अहं भगवतो न भृत्य इत्य् एष निश्चयस् त्वया वाच्यः। तद् द्रुततरं गत्वा भवता भगवतः समीपे वक्तव्यम्।

अथ दूत-मुखेन प्रणय-कुपितं वैनतेयं विज्ञाय भगवांश्चिन्तयामास – अहो, स्थाने कोपो वैनतेयस्य। तत्स्वयमेव गत्वा सम्मान-पुरःसरं तम् आनयामि। उक्तं च-

भक्तं शक्तं कुलीनं च न भृत्यम् अवमानयेत्।
पुत्रवल् लालयेन् नित्यं य इच्छेच् छ्रियम् आत्मनः॥पञ्च_१.३८२॥

अन्यच् च-
राजा तुष्टोऽपि भृत्यानाम् अर्थ-मात्रं प्रयच्छति।
ते तु संमानितास् तस्य प्राणैर् अप्य् उपकुर्वते॥पञ्च_१.३८३॥

इत्य् एव संप्रधार्य रुक्म-पुरे वैनतेय-सकाशं सत्वरम् अगमत्। वैनतेयोऽपि गृहागतं भगवंतम् अवलोक्य त्रपाऽधोमुखः प्रणम्योवाच-भगवन्! त्वद्-आश्रयोन्मत्तेन समुद्रेण मम भृत्यस्याण्डान्य् अपहृत्य ममापमानो विहितः। परं भगवल्-लज्जया मया विलंबितम्। नो चेद् एनम् अहं स्थलांतरम् अद्यैव नयामि। यतः स्वामि-भयाच् छ्रवणोऽपि प्रहारो न दीयते। उक्तं च-

येन स्याल् लघुता वाथ पीडा चित्ते प्रभोः क्वचित्।
प्राण-त्यागेपि तत् कर्म न कुर्यात् कुल-सेवकः॥पञ्च_१.३८४॥

तच् छ्रुत्वा भगवान् आह-भो वैनतेय! सत्यम् अभिहितं भवता। उक्तं च-

भृत्यापराधजो दंडः स्वामिनो जायते यतः।
तेन लज्जाऽपि तस्योत्था न भृत्यस्य तथा पुनः॥पञ्च_१.३८५॥

तद् आगच्छ येनाण्डानि समुद्राद् आदाय टिट्टिभं सम्भावयावः। अमरावतीं च गच्छावः।

तथानुष्ठिते समुद्रो भगवता निर्भर्त्स्याग्नेयं शरं सन्धायाभिहितः-भो दुरात्मन्! दीयंता टिट्टिभांडानि। नो चेत् स्थलतां त्वां नयामि।

ततः समुद्रेण स-भयेन टिट्टिभांडानि तानि प्रदत्तानि। टिट्टिभेनापि भार्यायै समर्पितानि। अतोऽहं ब्रवीमि-शत्रोर् बलम् अविज्ञाय इति। तस्मात् पुरुषेणोद्यमो न त्याज्यः।

टिट्टिभ अण्ड - समुद्रोपरि टिप्पणी

तद् आकर्ण्य सञ्जीवकस् तम् एव भूयोऽपि पप्रच्छ-भो मित्र! कथं ज्ञेयो मयासौ दुष्ट-बुद्धिर् इति। इयन्तं कालं यावद् उत्तरोत्तर-स्नेहेन प्रसादेन चाहं दृष्टः। न कदाचित् तद्-विकृतिर् दृष्टा। तत् कथ्यतां येनाहम् आत्म-रक्षार्थं तद्-वधायोद्यमं करोमि।

दमनक आह-भद्र, किम् अत्र ज्ञेयम्? एष ते प्रत्ययः। यदि रक्त-नेत्रस् त्रिशिखां भ्रूकुटिं दधानः सृक्कणी परिलेलिहन् त्वां दृष्ट्वा भवति, तद् दुष्ट-बुद्धिः। अन्यथा सुप्रसादश् चेति। तद् आज्ञापय माम्। स्वाश्रयं प्रति गच्छामि। त्वया च यथायं मंत्र-भेदो न भवति तथा कार्यम्। यदि निशामुखं प्राप्य गन्तुं शक्नोषि तद्-देश-त्यागः कार्यः। यतः-

त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत्॥पञ्च_१.३८६॥
आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि।
आत्मानं सतत रक्षेद् दारैर् अपि धनैर् अपि॥पञ्च_१.३८७॥

बलवताभिभूतस्य विदेश-गमनं तद्-अनुप्रवेशो वा नीतिः। तद्-देश-त्यागः कार्यः। अथवाऽत्मा सामादिभिर् उपायैर् अभिरक्षणीयः। उक्तं च-

अपि पुत्र-कलत्रैर् वा प्राणान् रक्षेत पंडितः।
विद्यमानैर् यतस् तैः स्यात् सर्वं भूयोऽपि देहिनाम्॥पञ्च_१.३८८॥

तथा च-
येन केनाप्य् उपायेन शुभेनाप्य् अशुभेन वा।
उद्धरेद् दीनम् आत्मानं समर्थो धर्ममाचरेत्॥पञ्च_१.३८९॥
यो मायां कुरुते मूढः प्राण-त्यागे धनादिषु।
तस्य प्राणाः प्रणश्यंति तैर् नष्टैर् नष्टम् एव तत्॥पञ्च_१.३९०॥

एवम् अभिधाय दमनकः करटक-सकाशम् अगमत्। करटकोऽपि तम् आयांतं दृष्ट्वा प्रोवाच-भद्र! कि कृतं तत्र भवता?

दमनक आह-मया तावन् नीति-बीज-निर्वापणं कृतम्। परतो दैव-विहितायत्तम्। उक्तं च-
पराङ्मुखेऽपि दैवेत्र कृत्यं कार्यं विपश्चिता।
आत्म-दोष-विनाशाय स्व-चित्त-स्तंभनाय च॥पञ्च_१.३९१॥

तथा च-
उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर्
दैवेन देयम् इति कापुरुषा वदंति।
दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः॥पञ्च_१.३९२॥

करटक आह-तत् कथय कीदृक् त्वया नीति-बीजं निर्वापितम्।

सो ब्रवीत्-मयाऽन्योन्यं ताभ्यां मिथ्या-प्रजल्पेन भेदस् तथा विहितो यथा भूयोऽपि मंत्रयंताव् एक-स्थान-स्थितौ न द्रक्ष्यसि।

करटक आह-अहो, न युक्तं भवता विहितं यत् परस्परं तौ स्नेहार्द्र-हृदयौ सुखाश्रयौ कोप-सागरे प्रक्षिप्तौ। उक्तं च-

अविरुद्धं सुखस्थं यो दुःख-मार्गे नियोजयेत्।
जन्म-जन्मांतरे दुःखी स नरः स्याद् असंशयम्॥पञ्च_१.३९३॥

अपरं त्वं यद् भेद-मात्रेणापि हृष्टस् तद् अप्य् अयुक्तम्, यतः सर्वतोऽपि जनो विरूप-करणे समर्थो भवति नोपकर्तुम्। उक्तं च-

घातयितुम् एव नीचः पर-कार्यं वेत्ति न प्रसादयितुम्।
पातयितुम् अस्ति शक्तिर् वायोर् वृक्षं न चोन्नमितुम्॥पञ्च_१.३९४॥

दमनक आह-अनभिज्ञो भवान् नीति-शास्त्रस्य, तेनैतद् ब्रवीषि। उक्तं च यतः-

जात-मात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत्।
महा-बलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते॥पञ्च_१.३९५॥

तच्-छत्रु-भूतोऽयम् अस्माकं मंत्रि-पदाहरणात्। उक्तं च-

पितृ-पैतामहं स्थानं यो यस्यात्र जिगीषते।
स तस्य सहजः शत्रुर् उच्छेद्योऽपि प्रिये स्थितः॥पञ्च_१.३९६॥

तन् मया स उदासीनतया समानीतोऽभय-प्रदानेन यावत् तावद् अहम् अपि तेन साचिव्यात् प्रच्यावितः। अथवा साध्व् इदम् उच्यते-

दद्यात् साधुर् यदि निज-पदे दुर्जनाय प्रवेशं
तन्-नाशाय प्रभवति ततो वाञ्छमानः स्वयं सः।
तस्माद् देयो विपुल-मतिभिर् नावकाशोऽधमानां
जाराऽपि स्याद् गृह-पतिर् इति श्रूयते वाक्यतोऽत्र॥पञ्च_१.३९७॥

तेन मया तस्योपरि वधोपाय एव विरच्यते। देश-त्यागाय वा भविष्यति। तच् च त्वां मुक्त्वान्यो न ज्ञास्यति। तद् उक्तम् एतत् ते स्वार्थायानुष्ठितम्। उक्तं च-

निस्त्रिंशं हृदयं कृत्वा वाणीम् इक्षु-रसोपमाम्।
विकल्पोऽत्र न कर्तव्यो हन्यात् तत्रापकारिणम्॥पञ्च_१.३९८॥

अपरं मृतोऽप्य् अस्माकं भोज्यो भविष्यति। तद् एकं तावद् वैर-साधनम्। अपरं साचिव्यं च भविष्यति तृप्तिश् चेति। तद्-गुण-त्रयेऽस्मिन्न् उपस्थिते कस्मान् मां दूषयसि त्वं जाड्य-भावात्। उक्तं च-

परस्य पीडनं कुर्वन् स्वार्थ-सिद्धिं च पंडितः।
मूढ-बुद्धिर् न भक्षेत वने चतुरको यथा॥पञ्च_१.३९९॥

करटक आह-कथम् एतत्?

स आह-

कथा १६ वज्र-दंष्ट्र-नाम-सिंह-कथासम्पाद्यताम्


अस्ति कस्मिंश्चिद् वनोद्देशे वज्र-दंष्ट्रो नाम सिंहः। तस्य चतुरक-क्रव्यमुख-नामानौ शृगाल-वृकौ भृत्य-भूतौ सदैवानुगतौ तत्रैव वने प्रतिवसतः। अथाऩ्य-दिने सिंंहेन कदाचिद् आसन्न-प्रसवा प्रसव-वेदनया स्व-यूथाद् भ्रष्टोष्ट्र्य् उपविष्टा कस्मिंश्चिद् वन-गहने समासादिता। अथ तां व्यापाद्य यावद् उदरं स्फोटयति, तावज् जीवन् लघु-दासेरक-शिशुर् निष्क्रांतः। सिंंहोऽपि दासेरक्याः पिशितेन सपरिवारः परां तृप्तिम् उपागतः। परं स्नेहाद् बाल-दासेकं त्यक्तं गृहम् आनीयेदम् उवाच-भद्र, न तेस्ति मृत्योर् भयं मत्तो नान्यस्माद् अपि। ततः स्वेच्छयात्र वने भ्राम्यताम् इति। यतस् ते शंकु-सदृशौ कर्णौ। ततः शंकुकर्णो नाम भविष्यति।

एवम् अनुष्ठिते चत्वारोऽपि न एक-स्थाने विहारिणः परस्परम् अनेक-प्रकार-गोष्ठी-सुखम् अनुभवंतस् तिष्ठंति। शंकुकर्णोऽपि यौवन-पदवीम् आरूढः क्षणम् अपि न तं सिंहं मुञ्चति।

अथ कदाचिद् वज्र-दंष्ट्रस्य केनचिद् वन्येन मत्त-गजेन सह युढम् अभवत्। तेन मद-वीर्यात् स दंत-प्रहारैस् तथा क्षत-शरीरो विहितो यथा प्रचलितुं न शक्नोति। तदा क्षुत्-क्षाम-कंठस् तान् प्रोवाच-भोः! अन्विष्यतां किञ्चित् सत्त्वं येनाहम् एवं स्थितोऽपि तं व्यापाद्यात्मनो युष्माकं च क्षुत्-प्रणाशं करोमि।

तच् छ्रुत्वा ते त्रयोऽपि वने संध्या-कालं यावद् भ्रांताः, परं न किञ्चित् सत्त्वम् आसादितम्। अथ चतुरकश् चिंतयामास-यदि शंकुकर्णोऽयं व्यापाद्येत ततः सर्वेषां कतिचिद् दिनानि तृप्तिर् भवति। परं नैनं स्वामी मित्रत्वाद् आश्रय-समाश्रितत्वाच् च विनाशयिष्यति। अथवा बुद्धि-प्रभावेण स्वामिनं प्रतिबोध्य तथा करिष्ये यथा व्यापादयिष्यति। उक्तं च-

अवध्यं वाथवागम्यम् अकृत्यं नास्ति किंचन।
लोके बुद्धिमताम् अत्र तस्मात् तां योजयाम्य् अहम्॥पञ्च_१.४००॥

संबंधित कड़ियाँसम्पाद्यताम्

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०२ज&oldid=112787" इत्यस्माद् प्रतिप्राप्तम्