लेखक: विष्णु शर्मा

पञ्चतन्त्रम्

पञ्चमम् तंत्रम्

अपरीक्षित-कारकम्

क्षपणक-कथासम्पाद्यताम्


अथेदम् आरभ्यतेपरीक्षित-कारकम् नाम पञ्चमम् तंत्रम्। तस्यायम् आदिमः श्लोकः-

कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम्।
तन् नरेण न कर्तव्यम् नापितेनात्र यत् कृतम्॥पञ्च_५.१॥

तद् यथानुश्रूयते-अस्ति दाक्षिणात्ये जनपदे पाटलिपुत्रं नाम नगरम्। तत्र मणिभद्रो नाम श्रेष्ठी प्रतिवसति स्म। तस्य च धर्मार्थ-काम-मोक्ष-कर्माणि कुर्वतो विधि-वशाद् धन-क्षयः सञ्जातः। ततो विभव-क्षयाद् अपमान-परंपरया परं विषादं गतः। अथाऽन्यदा रात्रौ सुप्तश् चिंतितवान्-अहो धिग् इयं दरिद्रता। उक्तं च-

शीलं शौचं क्षांतिर् दाक्षिण्यं मधुरता कुले जन्म।
न विराजंति हि सर्वे वित्त-विहीनस्य पुरुषस्य॥पञ्च_५.२॥
मानो वा दर्पो वा विज्ञानं विभ्रमः सुबुद्धिर् वा।
सर्वं प्रणश्यति समं वित्त-विहीनो यदा पुरुषः॥पञ्च_५.३॥
प्रतिदिवसं याति लयं वसंत-वाताहतेव शिशिर-श्रीः।
बुद्धिर् बुद्धिमताम् अपि कुटुंब-भर-चिंतया सततम्॥पञ्च_५.४॥
नश्यति विपुलमतेर् अपि बुद्धिः पुरुषस्य मंद-विभवस्य।
घृत-लवण-तैल-तंडुल-वस्त्रेंधन-चिंतया सततम्॥पञ्च_५.५॥

गणनम् इव नष्ट-तारकं
शुष्कम् इव सरः श्मशानम् इव रौद्रम्।
प्रिय-दर्शनम् अपि रूक्षं
भवति गृहं धन-विहीनस्य॥पञ्च_५.६॥

न विभाव्यंते लघवो वित्त-विहीनाः पुरोऽपि निवसन्तः।
सततं जात-विनष्टाः पयसाम् इव बुद्बुदाः पयसि॥पञ्च_५.७॥
सुकुलं कुशलं सुजनं विहाय कुल-कुशल-शील-विकलेऽपि।
आढ्ये कल्प-तराव् इव नित्यं रज्यंति जन-निवहाः॥पञ्च_५.८॥
विफलम् इह पूर्व-सुकृतं विद्यावंतोऽपि कुल-समुद्भूताः।
यस्य यदा विभवः स्यात् तस्य तदा दासतां यांति॥पञ्च_५.९॥
लघुर् अयम् आह न लोकः कामं गर्जन्तम् अपि पतिं पयसाम्।
सर्वम् अलज्जाकरम् इह यद् यत् कुर्वन्ति परिपूर्णाः॥पञ्च_५.१०॥

एवं संप्रधार्य भूयोऽप्य् अचिंतयत्-तद् अहम् अनशनं कृत्वा प्राणान् उत्सृजामि। किम् अनेन व्यर्थ-जीवित-व्यसनेन? एवं निश्चयं कृत्वा सुप्तः। अथ तस्य स्वप्ने पद्मनिधिः क्षपणक-रूपो दर्शनं दत्त्वा प्रोवाच-भोः श्रेष्ठिन्! मा त्वं वैराग्यं गच्छ। अहं पद्मनिधिस् तव पूर्व-पुरुषोपार्जितः। तद् अनेनैव रूपेण प्रातस् त्वद्-गृहम् आगमिष्यामि। तत् त्वयाऽहं लगुड-प्रहारेण शिरसि ताडनीयः, येन कनक-मयो भूत्वाऽक्षयो भवामि।

महापद्मश्च पद्मश्च शङ्खो मकर कच्छपौ।
मुकुन्दकुन्दनीलाश्च खर्वश्च निधियो नव।।
अथ प्रातः प्रबुद्धः सन् स्वप्नं स्मरंश् चिंता-चक्रम् आरूढस् तिष्ठति-अहो सत्योऽयं स्वप्नः किं वा असत्यो भविष्यति, न ज्ञायते। अथवा नूनं मिथ्याऽनेन भाव्यम्। यतोऽहम् अहर्-निशं केवलं वित्तम् एव चिंतयामि। उक्तं च-

व्याधितेन स-शोकेन चिंता-ग्रस्तेन जंतुना।
कामार्तेनाथ मत्तेन दृष्टः स्वप्नो निरर्थकः॥पञ्च_५.११॥

एतस्मिन्न् अन्तरे तस्य भार्यया कश्चिन् नापितः पाद-प्रक्षालनायाहूतः अत्रांतरे च यथा-निर्दिष्टः क्षपणकः सहसा प्रादुर्बभूव। अथ स तम् आलोक्य प्रहृष्ट-मना यथासन्न-काष्ठ-दंडेन तं शिरस्य् अताडयत्। सोऽपि सुवर्ण-मयो भूत्वा तत्-क्षणात् भूमौ निपतितः। अथ तं स श्रेष्ठी निभृतं स्व-गृह-मध्ये कृत्वा नापितं संतोष्य प्रोवाच-तद् एतद् धनं वस्त्राणि च मया दत्तानि गृहाण। भद्र! पुनः कस्यचिन् नाख्येयोऽयं वृत्तांतः।

नापितोऽपि स्व-गृहं गत्वा व्यचिंतयत्-नूनम् एते सर्वेपि नग्नकाः शिरसि ताडिताः काञ्चन-मया भवंति। तद् अहम् अपि प्रातः प्रभूतान् आहूय लगुडैः शिरसि हन्मि, येन प्रभूतं हाटकं मे भवति। एवं चिंतयतो महता कष्टेन निशातिचक्राम।

अथ प्रभातेभ्युत्थाय ब्ढ़ल् लगुडम् एकं प्रगुणीकृत्य, क्षपणक-विहारं गत्वा जिनेंद्रस्य प्रदक्षिण-त्रयं विधाय, जानुभ्याम् अवनिं गत्वा वक्त्र-द्वार-न्यस्तोत्तरीयाञ्चलस् तार-स्वरेणेमं श्लोकम् अपठत्-

जयंति ते जिना येषां केवल-ज्ञान-शालिनाम्।
आ जन्मनः स्मरोत्पत्तौ मानसेनोषरायितम्॥पञ्च_५.१२॥

अन्यच् च-
सा जिह्वा या जिनं स्तौति तच्-चित्तं यज् जिने रतम्।
तौ एव तु करौ श्लाघ्यौ यौ तत्-पूजा-करौ करौ॥पञ्च_५.१३॥

तथा च-
ध्यान-व्याजम् उपेत्य चिंतयसि काम् उन्मील्य चक्षुः क्षणं
पश्यानंग-शरातुरं जनम् इमं त्रातापि नो रक्षसि।
मिथ्या-कारुणिकोऽसि निर्घृणतरस् त्वत्तः कुतो अन्यः पुमान्
सेर्ष्यं मार-वधूभिर् इत्य् अभिहितो बौद्धो जिनः पातु वः॥पञ्च_५.१४॥

एवं संस्तूय, ततः प्रधान-क्षपणकणम् आसाद्य क्षिति-निहित-जानु-चरणः-नमोऽस्तु वंदे इत्य् उच्चार्य, लब्ध-धर्म-वृद्ध्य्-आशीर्वादः सुख-मालिकानुग्रह-लब्ध-व्रतादेश उत्तरीय-निबद्ध-ग्रंथिः सप्रश्रयम् इदम् आह-भगवन् अद्य विहरण-क्रिया समस्त-मुनि-समेतेनास्मद्-गृहे कर्तव्या।
स आह - भोः श्रावक, धर्मज्ञोऽपि किमेवं वदसि, किं वयं ब्राह्मणसमानाः, यत आमन्त्रणं करोषि वयं सदैव तत्कालपरिचर्यया भ्रमन्तो भक्तिभाजं श्रावकमवलोक्य तस्य गृहे गच्छामः। तेन कृच्छ्रादभ्यर्थितास्तद्गृहे प्राणधारणमात्रामशनक्रियां कुर्मः। तद्गम्यताम्, नैवं भूयो ऽपि वाच्यम्।
तच् छ्रुत्वा नापित आह-भगवन्! वेद्म्य् अहं युष्मद्-धर्मम्। परं भवतो बहु-श्रावका आह्वयंति। सांप्रतं पुनः पुस्तकाच्छादन-योग्यानि कर्पटानि बहु-मूल्यानि प्रगुणीकृतानि। तथा पुस्तकानां लेखनार्थं लेखकानां च वित्तं सञ्चितम् आस्ते तत् सर्वथा कालोचितं कार्यम्।

ततो नापितोऽपि स्व-गृहं गतः। तत्र च गत्वा खदिर-मयं लगुडं सज्जीकृत्य कपाट-युगलं द्वारि समाधाय सार्ध-प्रहरैक-समये भूयोऽपि विहार-द्वारम् आश्रित्य सर्वान् क्रमेण निष्क्रामतो गुरुप्रार्थनया स्वगृहमनयत्। तेऽपि सर्वे कर्पटवित्तलोभेन भक्ति-युक्तान् अपि परिचित-श्रावकान् परित्यज्य प्रहृष्ट-मनसस् तस्य पृष्ठतो ययुः। अथवा साध्व् इदम् उच्यते-

एकाकी गृह-संत्यक्तः पाणि-पात्रो दिगंबरः।
सोऽपि संबाध्यते लोके तृष्णया पश्य कौतुकम्॥पञ्च_५.१५॥
जीर्यंते जीर्यतः केशा दंता जीर्यंति जीर्यतः।
चक्षुः श्रोत्रे च जीर्येते तृष्णैका तरुणायते॥पञ्च_५.१६॥

ततः परं गृह-मध्ये तान् प्रवेश्य द्वारं निभृतं पिधाय, लगुड-प्रहारैः शिरस्य् अताडयत्। तेपि ताड्यमाना एके मृताः, अन्ये भिन्न-मस्तका फूत्कर्तुम् उपचक्रमिरे। अत्रांतरे तम् आक्रंदम् आकर्ण्य कोटर-क्षपालेनाभिहितम्-भो भोः किम् अयं कोलाहलो नगर-मध्ये? तद् गम्यताम्।

ते स सर्वे तदादेशकारिणस् तत्-सहिता वेगात् तद्-गृहं गता यावत् पश्यंति तावद् रुधिर-प्लावित-देहाः पलायमाना नग्नका दृष्टाः पृष्टाश् च-भोः किम् एतत्? ते प्रोचुर् यथावस्थितं नापित-वृत्तम्।

तैर् अपि स नापितो बद्धो हत-शेषैः सह धर्माधिष्ठानं नीतः। तैर् नापितः पृष्टः-भोः! किम् एतत् भवता कुकृत्यम् अनुष्ठितम्?

स आह-किं करोमि? मया श्रेष्ठि-मणिभद्र-गृहे दृष्ट एवंविधो व्यतिकरः। सोऽपि सर्वं मणिप्रभ-वृत्तांतं यथा-दृष्टम् अकथयत्।

ततः श्रेष्ठिनम् आहूय ते भणितवंतः-भोः श्रेष्ठिन्! किं त्वया कश्चित् क्षपणको व्यापादितः?

ततः तेनापि सर्वः क्षपणक-वृत्तांतस् तेषां निवेदितः। अथ तैर् अभिहितम्-अहो शूलम् आरोप्यताम् असौ दुष्टात्मा कुपरिक्षितकारी नापितः। तथानुष्ठिते तैर् अभिहितम्-

कुक्कुटं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम्।
तन् नरेण न कर्तव्यं नापितेनात्र यत् कृतम्॥पञ्च_५.१६अ॥

अथवा साध्व् इदम् उच्यते-

अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम्।
पश्चाद् भवति संतापो ब्राह्मणी नकुलं यथा॥पञ्च_५.१७॥

मणिभद्र आह-कथम् एतत्?

ते धर्माधिकारिणः प्रोचुः-

कथा १ ब्राह्मणी-नकुल-कथासम्पाद्यताम्


कस्मिंश्चिद् अधिष्ठाने देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म। तस्य भार्या प्रसूता सुतम् अजनयत्। तस्मिंन् एव दिने नकुली नकुलं प्रसूय मृता। अथ सा सुत-वत्सला दारकवत्तम् अपि नकुलं स्तन्य-दानाभ्यंग-मर्दनादिभिः पुपोष, परं तस्य न विश्वसिति। अपत्य-स्नेहस्य सर्व-स्नेहातिरिक्ततया सततम् एवम् आशंकते यत् कदाचिद् एष स्व-जाति-दोष-वशाद् अस्य दारकस्य विरुद्धम् आचरिष्यति इति। उक्तं च-

कुपुत्रोऽपि भवेत् पुंसां हृदयानंद-कारकः।
दुर्विनीतः कुरूपोऽपि मूर्खोऽपि व्यसनी खलः॥पञ्च_५.१८॥
एवं च भाषते लोकश् चंदनं किल शीतलम्।
पुत्र-गात्रस्य संस्पर्शश् चंदनाद् अतिरिच्यते॥पञ्च_५.१९॥
सौहृदस्य न वाञ्छंति जनकस्य हितस्य च।
लोकाः प्रपालकस्यापि यथा पुत्रस्य बंधनम्॥पञ्च_५.२०॥

अथ सा कदाचिच्छय्यायां पुत्रं शाययित्वा जल-कुंभम् आदाय पतिम् उवाच-ब्राह्मण, जलार्थम् अहं तडागे यास्यामि। त्वया पुत्रोयं नकुलाद् रक्षणीयः।

अथ तस्यां गतायां, पृष्ठे ब्राह्मणोऽपि शून्यं गृहं मुक्त्वा भिक्षार्थं क्वचिन् निर्गतः। मातापि तं रुधिर-क्लिन्न-मुखम् आलोक्य शंकित-चित्ता नूनम् अनेन दुरात्मना दारको भक्षितः इति निश्चिंत्य कोपात् तस्योपरि तं जल-कुंभं चिक्षेप।

एवं सा नकुलं व्यापाद्य यावत् प्रलपंती गृहे आगच्छति, तावत् सुतस् तथैव सुप्तस् तिष्ठति। समीपे कृष्ण-सर्पं खंडशः कृतम् अवलोक्य पुत्र-वध-शोकेनात्म-शिरो वक्षः-स्थलं च ताडितुम् आरब्धा।

अत्रांतरे ब्राह्मणो गृहीत-निर्वापः समायातो यावत् पश्यति तावत् पुत्र-शोकोभितप्ता ब्राह्मणी प्रलपति-भो भो लोभात्मन्! लोभाभिभूतेन त्वया न कृतं मद्-वचः। तद् अनुभव सांप्रतं पुत्र-मृत्यु-दुःख-वृक्ष-फलम्। अथवा साध्व् इदम् उच्यते-

अतिलोभो न कर्तव्यः कर्तव्यस् तु प्रमाणतः।
अतिलोभज-दोषेण जंबुको निधनं गतः॥पञ्च_५.२१॥
ब्राह्मण आह-किम् एतत्?

सा प्राह-

ब्राह्मणी - नकुल - वत्सोपरि टिप्पणी


कथा २ लोभाविष्ट-चक्र-धर-कथासम्पाद्यताम्


कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मण-पुत्राः परस्परं मित्रतां गता वसंति स्म। ते चापि दारिद्र्योपहताः परस्परं मंत्रं चक्रुः-अहो धिग् इयं दरिद्रता! उक्तं च-

वरं वनं व्याघ्र-गजादि-सेवितं
जनेन हीनं बहु-कंटकावृतम्।
तृणानि शय्या परिधान-वल्कलः
न बंधु-मध्ये धन-हीन-जीवितम्॥पञ्च_५.२२॥

तथा च-
स्वामी द्वेष्टि सुसेवितोऽपि सहसा प्रोज्झंति सद्-बांधवाः
राजंते न गुणास् त्यजंति तनुजाः स्फारीभवंत्य् आपदः।
भार्या साधु सुवंशजापि भजते नो यांति मित्राणि च
न्यायारोपित-विक्रमाण्य् अपि नृणां येषां न हि स्याद् धनम्॥पञ्च_५.२३॥

शूरः सुरूपः सुभगश् च वाग्मी
शस्त्राणि शास्त्राणि विदांकरोतु।
अर्थं विना नैव यशश् च मानं
प्राप्नोति मर्त्योऽत्र मनुष्य-लोके॥पञ्च_५.२४॥

तानींद्रियाण्य् अविकलानि तद् एव नाम
सा बुद्धिर् अप्रतिहता वचनं तद् एव।
अर्थोष्मणा विरहितः पुरुषः स एव
बाह्यः क्षणेन भवतीति विचित्रम् एतत्॥पञ्च_५.२५॥

तद् गच्छामः कुत्रचिद् अर्थाय इति संमंत्र्य स्व-देशं पुरं च स्व-सुहृत्-सहितं गृहं च परित्यज्य प्रस्थिताः। अथवा साध्व् इदम् उच्यते-

सत्यं परित्यजति मुञ्चति बंधु-वर्गं
शीघ्रं विहाय जननीम् अपि जन्म-भूमिम्।
संत्यज्य गच्छति विदेशम् अभीष्ट-लोकं
चिंताकुलीकृत-मतिः पुरुषोऽत्र लोके॥पञ्च_५.२६॥

एवं क्रमेण गच्छंतोऽवंतीं प्राप्ताः। तत्र सिप्राजले कृत-स्नानाः महाकालं प्रणम्य यावन् निर्गच्छंति तावत् भैरवानंदो नाम योगी संमुखो बभूव। ततस् तं ब्राह्मणोचित-विधिना संभाव्य तेनैव सह तस्य मठं जग्मुः। अथ तेन पृष्टाः-कुतो भवंतः समायाताः? क्व यास्यथ? किं प्रयोजनम्?

ततस् तैर् अभिहितम्-वयं सिद्धि-यात्रिकाः। तत्र यास्यामो यत्र धनाप्तिर् मृत्युर् वा भविष्यतीत्य् एष निश्चयः। उक्तं च-

दुष्प्राप्याणि बहूनि च लभ्यंते वाञ्छितानि द्रविणानि।
अवसर-तुलिताभिर् अलं तनुभिः साहसिक-पुरुषाणाम्॥पञ्च_५.२७॥
तथा च-
पतति कदाचिन् नभसः खाते पातालतोऽपि जलम् एति।
दैवम् अचिंत्यं बलवद् बलवान् ननु पुरुषकारोऽपि॥पञ्च_५.२८॥
अभिमत-सिद्धिर् अशेषा भवति हि पुरुषस्य पुरुषकारेण।
दैवम् इति यदपि कथयसि पुरुष-गुणः सोऽप्य् अदृष्टाख्यः॥पञ्च_५.२९॥
भयम् अतुलं गुरु-लोकात् तृणम् इव तुलयंति साधु साहसिकाः।
प्राणान् अद्भुतम् एतच् चार्तिं चरितं ह्य् उदाराणाम्॥पञ्च_५.३०॥
क्लेशस्यांगम् अदत्त्वा सुखम् एव सुखानि नेह लभ्यंते।
मधुभिन् मथनायस् तैर् आश्लिष्यति बाहुभिर् लक्ष्मीम्॥पञ्च_५.३१॥
तस्य कथं न चला स्यात् पत्नी विष्णोर् नृसिंहकस्यापि
मासांश् चतुरो निद्रां यः सेवति जल-गतः सततम्॥पञ्च_५.३२॥
दुरधिगमः पर-भागो यावत् पुरुषेण साहसं न कृतम्।
जयति तुलाम् अधिरूढो भास्वान् इह जलद-पटलानि॥पञ्च_५.३३॥

तत् कथ्यताम् अस्माकं कश्चित् धनोपायो विवर-प्रवेश-शाकिनी-साधन-श्मशान-सेवन-महा-मांस-विक्रय-साधक-वर्ति-प्रभृतीनाम् एकतम इति। अद्भुत-शक्तिर् भवान् श्रूयते। वयम् अप्य् अतिसाहसिकाः। उक्तं च-

महांत एव महताम् अर्थं साधयितुं क्षमाः।
ऋते समुद्राद् अन्यः को बिभर्ति बडवानलम्॥पञ्च_५.३४॥

भैरवानंदोऽपि तेषां सिद्ध्य्-अर्थं बहूपायं सिद्ध-वर्ति-चतुष्टयं कृत्वार्पयत्। आह च-गम्यतां हिमालय-दिशि। तत्र संप्राप्तानां यत्र वर्तिः पतिष्यति, तत्र निधानम् असंदिग्धं प्राप्यस्व। तत्र स्थानं खनित्वा निधिं गृहीत्वा व्याघुट्यताम्।

तथानुष्ठिते तेषां गच्छताम् एकतमस्य हस्ताद् वर्तिः निपपात। अथासौ यावत् तं प्रदेशं खनति तावत् ताम्रमयी भूमिः। ततस् तेनाभिहितम्-अहो, गृह्यतां स्वेच्छया ताम्रम्।

अन्ये प्रोचुः-भो मूढ! किम् अनेन क्रियते यत् प्रभूतम् अपि दारिद्र्यं न नाशयति। तद् उत्तिष्ठ अग्रतो गच्छामः।

सो ब्रवीत्-यांतु भवंतः। नाहम् अग्र यास्यामि। एवम् अभिधाय ताम्रं यथेच्छया गृहीत्वा प्रथमो निवृत्तः।

ते त्रयोऽपि अग्रे प्रस्थिताः। अथ किञ्चिन्-मात्रं गतस्याग्रेसरस्य वर्तिर् निपपात। सोऽपि यावत् खनितुम् आरब्धस् तावद् रूप्य-मयी क्षितिः। ततः प्रहर्षितः प्राह, यत्-भो भो, गृह्यतां यथेच्छया रूप्यम्। नाग्रे गंतव्यम्।

ताव् ऊचतुः-भोः पृष्ठतस् ताम्रमयी भूमिः। अग्रतो रूप्य-मयी। तन् नूनम् अग्रे सुवर्ण-मयी भविष्यति। किं चानेन प्रभूतेनापि दारिद्र्य-नाशो न भवति। तद् आवाम् अग्रे यास्यावः।

एवम् उक्त्वा द्वाव् अप्य् अग्रे प्रस्थितौ। सोऽपि स्व-शक्त्या रूप्यम् आदाय निवृत्तः। अथ तयोर् अपि गच्छतोर् एकस्याग्रे वर्तिः पपात। सोऽपि प्रहृष्टो यावत् खनति, तावत् सुवर्ण-भूमिं दृष्ट्वा द्वितीयं प्राह-भो, गृह्यतां स्वेच्छया सुवर्णम्। सुवर्णाद् अन्यन् न किञ्चिद् उत्तमं भविष्यति।
स प्राह-मूढ! न किञ्चिद् वेत्सि। प्राक् ताम्रं, ततो रूप्यं, ततः सुवर्णम्। तन् नूनम् अतः परं रत्नानि भविष्यंति। येषाम् एकतमेनापि दारिद्र्य-नाशो भवति। तद् उत्तिष्ठ, अग्रे गच्छावः। किम् अनेन भार-भूतेनापि प्रभूतेन?

स आह-गच्छतु भवान्। अहम् अत्र स्थितस् त्वां प्रतिपालयिष्यामि। तथानुष्ठिते सोऽपि गच्छन्न् एकाकी, ग्रीष्मार्क-प्रताप-संतप्त-तनुः पिपासाकुलितः सिद्धि-मार्ग-च्युत इतश् चेतश् च बभ्राम।

अथ भ्राम्यन्, स्थलोपरि पुरुषम् एकं रुधिर-प्लावित-गात्रं भ्रमच्-चक्र-मस्तकम् अपश्यत्। ततो द्रुततरं गत्वा तम् अवोचत्-भोः! को भवान्? किम् एवं चक्रेण शिरसि तिष्ठसि? तत् कथय मे यदि कुत्रचिज् जलम् अस्ति।

एवं तस्य प्रवदतस् तच् चक्रं तत्-क्षणात् तस्य शिरसो ब्राह्मण-मस्तके चटितम्।

स आह-भद्र, किम् एतत्?

स आह-ममाप्य् एवम् एतच् छिरसि चटितम्?

स आह-तत् कथय, कदैतद् उत्तरिष्यति? महती मे वेदना वर्तते।

स आह-यदा त्वम् इव कश्चिद् अधृत-सिद्ध-वर्तिर् एवम् आगत्य त्वाम् आलापयिष्यति तदा तस्य मस्तकं चटिष्यति।

स आह-कियान् कालस् तवैवं स्थितस्य?

स आह-सांप्रतं को राजा धरणी-तले?

स आह-वीणा-वादन-पटुः वत्स-राजः।

स आह-अहं तावत्-काल-संख्यां न जानामि। परं यदा रामो राजाऽऽसीत् तदाहं दारिद्र्योपहतः सिद्ध-वर्तिम् आदायानेन पथा समायातः। ततो मयाऽन्यो नरो मस्तक-श्रुत-चक्रो दृष्टः, पृष्टश् च। ततश् चैतज् जातम्।

स आह-भद्र! कथं तदैवं स्थितस्य भोजन-जल-प्राप्तिर् आसीत्?

स आह-भद्र! धनदेन निधान-हरण-भयात् सिद्धानाम् एतच्-चक्र-पतन-रूपं भयं दर्शितम्। तेन कश्चिद् अपि नागच्छति। यदि कश्चिद् आयाति, स क्षुत्-पिपासा-निद्रा-रहितो जरा-मरण-वर्जितः केवलम् एवं वेदनाम् अनुभवति इति। तद् आज्ञापय मां स्व-गृहाय। इत्य् उक्त्वा गतः।

तस्मिंश् चिरयति स सुवर्ण-सिद्धिस् तस्यान्वेषण-परस् तत्-पद-पंक्त्या यावत् किञ्चिद् वनांतरम् आगच्छति तावद् रुधिर-प्लावित-शरीरस् तीक्ष्ण-चक्रेण मस्तके भ्रमता स-वेदनः क्वणन्न् उपविष्ठतीति ददर्श। ततः समीपवर्तिना भूत्वा सर्वार्थं पृष्टः-भद्र! किम् एतत्?

स आह-विधि-नियोगः।

स आह-कथं तत्? कथय कारणम् एतस्य।

सोऽपि तेन पृष्टः। सर्वं चक्र-वृत्तांतम् अकथयत्।

तच् छ्रुत्वासौ तं विगर्हयंन् इदम् आह-भोः! निषिद्धस् त्वं मयानेकशो न शृणोषि मे वाक्यम्। तत् किं क्रियते? विद्यावान् अपि कुलीनो ऽपि वस्तुतो बुद्धि-रहितोऽसि। अथवा साध्व् इदम् उच्यते-

वरं बुद्धिर् न सा विद्या विद्याया बुद्धिर् उत्तमा।
बुद्धि-हीनो विनश्यंति यथा ते सिंह-कारकाः॥पञ्च_५.३५॥

चक्रधर आह-कथम् एतत्?

सुवर्णसिद्धिर् आह-

कथा ३ सिंह-कारक-मूर्ख-ब्राह्मण-कथासम्पाद्यताम्


कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मण-पुत्राः परं मित्र-भावम् उपगता वसंति स्म। तेषां त्रयः शास्त्र-पारंगताः परंतु बुद्धि-रहिताः। एकस् तु बुद्धिमान् केवलं शास्त्र-पराङ्मुखः। अथ तैः कदाचिन् मित्रैर् मंत्रितम्-को गुणो विद्यायाः, येन देशांतरं गत्वा, भूपतीन् परितोष्यार्थोपार्जनं न क्रियते। तत् पूर्व-देशं गच्छावः।

तथानुष्ठिते किञ्चिन् मार्गं गत्वा तेषां ज्येष्ठतरः प्राह-अहो! अस्माकम् एकश् चतुर्थो मूढः। केवलं बुद्धिमान्। न च राज-प्रतिग्रहो बुद्ध्या लभ्यते, विद्यां विना। तन् नास्मै स्वोपार्जितं दास्यामः। तद् गच्छतु गृहम्।

ततो द्वितीयेनाभिहितम्-भोः सुबुद्धे! गच्छ त्वं स्व-गृहं, यतस् ते विद्या नास्ति।

ततस् तृतीयेनाभिहितम्-अहो, न युज्यते एवं कर्तुम्। यतो वयं बाल्यात् प्रभृत्य् एकत्र क्रीडिताः। तद् आगच्छतु महानुभावो स्मद्-उपार्जित-वित्तस्य सम-भागी भविष्यतीति। उक्तं च-

किं तया क्रियते लक्ष्म्या या वधूर् इव केवला।
या न वेश्येव सामान्या पथिकैर् उपभुज्यते॥पञ्च_५.३६॥

तथा च-
अयं निजः परो वेति गणना लघु-चेतसाम्।
उदार-चरितानां तु वसुधैव कुटुंबकम्॥पञ्च_५.३७॥

तद् आगच्छत्व् एषोऽपीति।

तथानुष्ठिते तैर् मार्गाश्रितैर् अटव्यां मृत-सिंहस्यास्थीनि दृष्टानि। ततश् चैकेनाभिहितं-अहो! अद्य विद्या-प्रत्ययः क्रियते। किञ्चिद् एतत् सत्त्वं मृतं तिष्ठति। तद् विद्या-प्रभावेण जीवन-सहितं कुर्मः। अहम् अस्थि-सञ्चयं करोमि।

ततश् च तेनौत्सुक्याद् अस्थि-सञ्चयः कृतः। द्वितीयेन चर्म-मांस-रुधिरं संयोजितम्। तृतीयोऽपि यावज् जीवनं सञ्चारयति, तावत् सुबुद्धिना निषिद्धः-भोः तिष्ठतु भवान्। एष सिंहो निष्पाद्यते। यद्य् एनं सजीवं करिष्यसि ततः सर्वान् अपि व्यापादयिष्यति।

इति तेनाभिहितः स आह-धिङ् मूर्ख! नाहं विद्याया विफलतां करोमि।

ततस् तेनाभिहितं-तर्हि प्रतीक्षस्व क्षणं यावद् अहं वृक्षम् आरोहामि।

तथानुष्ठिते, यावत् सजीवः कृतस् तावत् ते त्रयोऽपि सिंहेनोत्थाय व्यापादिताः। स च पुनर् वृक्षाद् अवतीर्य गृहं गतः। अतोऽहं ब्रवीमि-वरं बुद्धिर् न सा विद्या इति।

---

अतः परम् उक्तं स सुवर्णसिद्धिना-

अपि शास्त्रेषु कुशला लोकाचार-विवर्जिताः।
सर्वे ते हास्यतां यांति यथा ते मूर्ख-पंडिताः॥पञ्च_५.३८॥

चक्रधर आह-कथम् एतत्?

सो ब्रवीत्-

कथा ४ मूर्ख-पंडित-कथासम्पाद्यताम्


कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मणाः परस्परं मित्रत्वम् आपन्ना वसंति स्म। बाल-भावे तेषां मतिर् अजायत-भोः देशांतरं गत्वा विद्याया उपार्जनं क्रियते।

अथ्:अन्यस्मिन् दिवसे ते ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपार्जनार्थं कान्यकुब्जे गताः। तत्र च विद्या-मठे गत्वा पठन्ति। एवं द्वादशाब्दानि यावद् एकचित्ततया पठित्वा, विद्या-कुशलास् ते सर्वे सञ्जाताः।

ततस् तैश् चतुर्भिर् मिलित्वोक्तम्-वयं सर्व-विद्या-पारंगताः। तद्-उपाध्यायम् उत्कलापयित्वा स्व-देशं गच्छामः। तथैवानुष्ठीयताम् इत्य् उक्त्वा ब्राह्मणाः उपाध्यायम् उपकलापयित्वा अनुज्ञां लब्ध्वा पुस्तकानि नीत्वा प्रचलिताः। यावत् किञ्चिन्-मार्गं यांति, तावद् द्वौ पंथानौ समायातौ उपविष्टाः सर्वे।

तत्रैकः प्रोवाच-केन मार्गेण गच्छामः?

एतस्मिन् समये तस्मिन् पत्तने कश्चित् वणिक्-पुत्रो मृतः। तस्य दाहाय महाजनो गतोऽभूत्। ततश् चतुर्णां मध्याद् एकेन पुस्तकम् अवलोकितम्-महाजनो येन गतः स पंथः इति। तन् महा-जन-मार्गेण गच्छामः।

अथ ते पंडिता यावन् महाजनमेलापकेन सह यांति, तावद् रासभः कश्चित् तत्र श्मशाने दृष्टः। अथ द्वितीयेन पुस्तकम् उद्घाट्यावलोकितम्।

उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-संकटे।
राज-द्वारे श्मशाने च यस् तिष्ठति स बांधवः॥पञ्च_५.३९॥

तद् अहो! अयम् अस्मदीयो बांधवः। ततः कश्चित् तस्य ग्रीवायां लगति। कश्चित् पादौ प्रक्षालयति। अथ यावत् ते पंडिताः दिशाम् अवलोकनं कुर्वंति तावत् कश्चिद् उष्ट्रो दृष्टः। तैश् चोक्तम्-एतत् किम्?

तावत् तृतीयेन पुस्तकम् उद्घाट्योक्तम्-धर्मस्य त्वरिता गतिः। तन् नूनम् एष धर्मस् तावत्।

चतुर्थेनोक्तम्-इष्टं धर्मेण योजयेत्।

अथ तैश् च रासभ उष्ट्र-ग्रीवायां बद्धः। तत् तु केनचित् तत्-स्वामिनो रजकस्याग्रे कथितम्। यावद् रजकस् तेषां मूर्ख-पंडितानां प्रहार-करणाय समायातस् तावत् ते प्रणष्टाः।

ततो तावद् अग्रे किञ्चित् स्तोकं मार्गं यांति तावत् काचिन् नदी समासादिता। तस्य जल-मध्ये पलाश-पत्रम् आयातं दृष्ट्वा पंडितेनैकेनोक्तम्-आगमिष्यति यत् पत्रं तदस्मांस् तारयिष्यति। एतत् कथयित्वा तत्-पत्रस्योपरि पतितो यावन् नद्या नीयते तावत् तं नीयमानम् अलोक्याऽन्येन पंडितेन केशांतं गृहीत्वोक्तम्-

सर्व-नाशे समुत्पन्ने अर्धं त्यजति पंडितः।
अर्धेन कुरुते कार्यं सर्व-नाशो हि दुःसहः॥पञ्च_५.४०॥

अथ तैश् च पश्चात् गत्वा कश्चित् ग्राम आसादितः। तेपि ग्रामीणैर् निमंत्रितः पृथग् गृहेषु नीताः। तत एकस्य सूत्रिका घृतमंड-संयुता भोजने दत्ता। ततो विचिंत्य पंडितेनोक्तं यत् - दीर्घ-सूत्री विनश्यति इति। एवम् उक्त्वा भोजनं परित्यज्य गतः। तथा द्वितीयस्य मंडका दत्ताः। तेनाऽयुक्तं-अतिविस्तार-विस्तीर्णं तद् भवेन् न चिरायुषम्। स भोजनं त्यक्त्वा गतः।

अथ तृतीयस्य वाटिका भोजने दत्ता। तत्रापि तेन पंडितेनोक्तम्-छिद्रेष्व् अनर्था बहुलीभवंति। एवं ते त्रयोऽपि पंडिताः क्षुत्क्षाम-कंठाः लोके हास्यमानास् ततः स्थानात् स्व-देशं गताः।

अथ सुवर्ण-सिद्धिर् आह-यत् त्वं लोक-व्यवहारम् अजानन् मया वार्यमाणोऽपि न स्थितः तत ईदृशीम् अवस्थाम् उपगतः। अतोऽहं ब्रवीमि-अपि शास्त्रेषु कुशलाः इति।

तच् छ्रुत्वा चक्रधर आह-अहो अकारणम् एतत्। यतो हि-

सुबुद्धयो विनश्यंति दुष्ट-दैवेन नाशिताः।
स्वल्प-धीर् अपि तस्मिंस् तु कुले नंदति संततम्॥पञ्च_५.४१॥

उक्तं च-
अरक्षितं तिष्ठति दैव-रक्षितं सुरक्षितं दैव-हतं विनश्यति।
जीवत्य् अनाथोऽपि वने विसर्जितः कृत-प्रयत्नोऽपि गृहे न जीवति॥पञ्च_५.४२॥

तथा च-
शतबुद्धिः शिरस्थोऽयं लंबते च सहस्र-धीः।
एक-बुद्धिर् अहं भद्रे क्रीडामि विमले जले॥पञ्च_५.४३॥

सुवर्णसिद्धिर् आह-कथम् एतत्?

स आह-

कथा ५ मत्स्य-मंडूक-कथासम्पाद्यताम्


कस्मिंश्चिज् जलाशये शतबुद्धिः सहस्रबुद्धिश् च द्वौ मत्स्यौ निवसतः स्म। अथ तयोर् एकबुद्धिर् नाम मंडूको मित्रतां गतः। एवं ते त्रयो ऽपि जल-तीरे वेलायां सुभाषित-गोष्ठी-सुखम् अनुभूय, भूयोऽपि सलिलं प्रविशंति।

अथ कदाचित् तेषां गोष्ठी-गतानां जालहस्ता धीवराः प्रभूतैर्मत्स्यैर् व्यापादितैर् मस्तके विधृतैर् अस्तमनवेलायां तस्मिन् जलाशये समायाताः। ततः सलिलाशयं दृष्ट्वा मिथः प्रोचुः-अहो बहु-मत्स्योऽयं ह्रदो दृश्यते, स्वल्प-सलिलश् च। तत् प्रभातेऽत्रागमिष्यामः। एवम् उक्त्वा स्व-गृहं गताः।

मत्स्याश् च विषण्ण-वदना मिथो मंत्रं चक्रुः। ततो मंडूक आह-भोः शतबुद्धे! श्रुतं धीवरोक्तं भवता? तत् किम् अत्र युज्यते कर्तुम्? पलायनम् अवष्टंभो वा? यत् कर्तुं युक्तं भवति तद् आदिश्यताम् अद्य।

तच् छ्रुत्वा सहस्र-बुद्धिः प्रहस्य आह-भोः मित्र! मा भैषीः। तयोः वचन-श्रवण-मात्राद् एव भयं न कार्यम्। न भेतव्यम्। उक्तं च-

सर्पाणां च खलानां च सर्वेषां दुष्ट-चेतसाम्।
अभिप्राया न सिध्यंति तेनेदं वर्तते जगत्॥पञ्च_५.४४॥

तावत् तेषाम् आगमनम् अपि न संपत्स्यते। भविष्यति तर्हि त्वां बुद्धि-प्रभावेणात्म-सहितं रक्षयिष्यामि। यतोऽनेकां सलिल-चर्याम् अहं जानामि।

तद् आकर्ण्य शतबुद्धिर् आह-भोः युक्तम् उक्तं भवता। सहस्रबुद्धिर् एव भवान्। अथवा साध्व् इदम् उच्यते।

बुद्धेर् बुद्धिमतां लोके नास्त्य् अगम्यं हि किञ्चन।
बुद्ध्या यतो हता नंदाश् चाणक्येनासि-पाणयः॥पञ्च_५.४५॥

तथा-
न यत्रास्ति गतिर् वायो रश्मीनां च विवस्वतः।
तत्रापि प्रविशत्य् आशु बुद्धिर् बुद्धिमतां सदा॥पञ्च_५.४६॥

ततो वचन-श्रवण-मात्राद् अपि पितृ-पर्यायागतं जन्म-स्थानं त्यक्तुं न शक्यते। उक्तं च-

न तत् स्वर्गेपि सौख्यं स्याद् दिव्य-स्पर्शेन शोभने।
कुस्थानेऽपि भवेत् पुंसां जन्मनो यत्र संभवः॥पञ्च_५.४७॥

तन् न कदाचिद् अपि गंतव्यम्। अहं त्वां बुद्धि-प्रभावेण रक्षयिष्यामि। मंडूक आह-भद्रौ! मम तावद् एकैव बुद्धिः पलायन-परा। तद् अहम् अन्य-जलाशयम् अद्यैव सभार्यो यास्यामि।

एवम् उक्त्वा स मंडूको रात्राव् एवान्य-जलाशयं गतः। धीवरैर् अपि प्रभाते आगत्य, जघन्य-मध्यमोत्तम-जलचराः मत्स्य-कूर्म-मंडूक-कर्कटादयो गृहीताः। ताव् अपि शतबुद्धि-सहस्रबुद्धी सभार्यौ पलायमानौ चिरम् आत्मानं गति-विशेष-विज्ञानैः कुटिल-चारेण रक्षंतौ जाले निपतितौ, व्यापादितौ च।

अथापराह्न-समये प्रहृष्टास् ते धीवराः स्व-गृहं प्रति प्रस्थिताः। गुरुत्वाच् चैकेन शतबुद्धिः स्कंधे कृतः सहस्रबुद्धिः प्रलंबमानो नीयते। ततश् च वापीकंठोपगतेन मंडूकेन तौ तथा नीयमानौ दृष्ट्वा अभिहिता स्वपत्नी-प्रिये! पश्य पश्य-

शतबुद्धिः शिरःस्थोऽयं लंबते च सहस्रधीः।
एकबुद्धिर् अहं भद्रे क्रीडामि विमले जले॥पञ्च_५.४८॥

अतश् च वरं बुद्धिर् न सा विद्या यद् भवतोक्तं तत्रेयं मे मतिर् यत् न एकांतेन बुद्धिर् अपि प्रमाणम्।

सुवर्णसिद्धिः प्राह-यद्यप्य् एतद् अस्ति, तथापि मित्र-वचनं न लंघनीयम्। परं किं क्रियते? निवारितोऽपि मया न स्थितोऽसि, अतिलौल्यात् विद्याहंकाराच् च। अथवा साध्व् इदम् उच्यते-

साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः।
अपूर्वोऽयं मणिर् बद्धः संप्राप्तं गीत-लक्षणम्॥पञ्च_५.४९॥

चक्रधर आह-कथम् एतत्?

सो ब्रवीत्-

कथा ६ रासभ-शृगाल-कथासम्पाद्यताम्


कस्मिंश्चिद् अधिष्ठाने उद्धतो नाम गर्दभः प्रतिवसति स्म। स सदैव रजक-गृहे भारोद्वहनं कृत्वा रात्रौ स्वेच्छया पर्यटति। ततः प्रत्यूषे बंधन-भयात् स्वयम् एव रजक-गृहं आयाति। रजकोपि ततस् तं बंधनेन नियुनक्ति।

अथ तस्य रात्रौ क्षेत्राणि पर्यटतः कदाचिच् छृगालेन सह मैत्री सञ्जाता स च पीवरत्वाद् वृत्ति-भंगं कृत्वा कर्कटिका-क्षेत्रे शृगाल-सहितः प्रविशति। एवं तौ यदृच्छया चिर्भटिका-भक्षणं कृत्वा, प्रत्यहं प्रत्यूषे स्व-स्थानं व्रजतः।

अथ कदाचित् तेन मदोद्धतेन रासभेन क्षेत्र-मध्य-स्थितेन शृगालो अभिहितः-भोः भगिनी-सुत! पश्य पश्य। अतीव निर्मला रजनी। तद् अहं गीतं करिष्यामि। तत् कथय कतमेन रागेण करोमि।

स आह-माम! किम् अनेन वृथानर्थ-प्रचालनेन? यतश् चौरकर्म-प्रवृत्ताव् आवाम्। निभृतैश् च चौर-जारैर् अत्र स्थातव्यम्। उक्तं च-

कांसी विवर्जयेच् चौर्यं निद्रालुश् चेत् स पुंश्चलीम्।
जिह्वा-लौल्यं च रुजाक्रांतो जीवितं योऽत्र वाञ्छति॥पञ्च_५.५०॥


अग्रिम पृष्ठः

संबंधित कड़ियाँसम्पाद्यताम्

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०६&oldid=112802" इत्यस्माद् प्रतिप्राप्तम्