पञ्चतन्त्रम् ०४च
न च लघुष्व् अपि कर्तव्येषु धीमद्भिर् अनादरः कर्तव्यः। यतः-
शक्ष्यामि कर्तुम् इदम् अल्पम् अयत्न-साध्यम्
अनादरः क इति कृत्यम् उपेक्षमाणाः।
केचित् प्रमत्त-मनसः परिताप-दुःखम्
आपत्-प्रसंग-सुलभं पुरुषा प्रयांति॥पञ्च_३.२५१॥
तद् अद्य जितारेर् मद्-विभोर् यथा-पूर्वं निद्रा-लाभो भविष्यति। उच्यते चैतत्-
निःसर्पे बद्ध-सर्पे वा भवने सुष्यते सुखम्।
सदा दृष्ट-भुजंगे तु निद्रा दुःखेन लभ्यते॥पञ्च_३.२५२॥
तथा च-
विस्तीर्ण-व्यवसाय-साध्य-महतां स्निघ्दोपयुक्ताशिषां
कार्याणां नय-साहसोन्नति-मताम् इच्छापद्-आरोहिणाम्।
मानोत्सेक-पराक्रम-व्यसनिनः पारं न यावद्-गताः
सामर्षे हृदयेवकाश-विषया तावत् कथं निर्वृतिः॥पञ्च_३.२५३॥
तद् अवसित-कार्यारंभस्य विश्राम्यतीव मे हृदयम्। तद् इदम् अधुना निहत-कंटकं राज्यं प्रजा-पालन-तत्परो भूत्वा पुत्र-पौत्रादि-क्रमेणाचल-च्छत्रासन-श्रीः चिरं भुंक्ष्व। अपि च-
प्रजा न रञ्जयेद् यस् तु राजा रक्षादिभिर् गुणैः।
अजागल-स्तनस्येव तस्य राज्यं निरर्थकम्॥पञ्च_३.२५४॥
गुणेषु रागो व्यसनेष्व् अनादरो
रतिः सुभृत्येषु च यस्य भूपतेः।
चिरं स भुंक्ते चल-चामरांशुकां
सितातपत्राभरणां नृप-श्रियम्॥पञ्च_३.२५५॥
न च त्वया प्राप्त-राज्योऽहम् इति मत्वा श्री-मदेनात्मा व्यसयितव्यः। यत् कारणम्-चला हि राज्ञो विभूतयः वंशारोहणवद् राज्य-लक्ष्मी-दुरारोहा, क्षण-विनिपात-रता, प्रयत्न-शतैर् अपि धार्यमाणा दुर्धरा, प्रशस्ताराधिताप्य् अंते विप्रलंभिनी, वानर-जातिर् इव विद्रुतानेक-चित्ता, पद्म-पत्रम् इवाघटित-संश्लेषा, पवन-गतिर् इवातिचपला, अनार्य-संगतिर् इवास्थिरा, आशीविष इव दुरुपचारा, संध्याभ्र-लेखेव मुहूर्त-रागा, जल-बुद्बुदावलीव स्वभाव-भंगुरा, शरीर-प्रकृतिर् इव कृतघ्ना, स्वप्न-लब्ध-द्रव्य-राशिर् इव क्षण-दृष्ट-नष्टा। अपि च-
यदैव राज्ये क्रियतेभिषेकस्
तदैव बुद्धिर् व्यसनेषु योज्या।
घटा हि राज्ञाम् अभिषेक-काले
सहांभसैवापदम् उद्गिरंति॥पञ्च_३.२५६॥
न च कश्चिद् अनधिगमनीयो नामास्त्य् आपदाम्। उक्तं च-
रामस्य व्रजनं वने निवसनं पांडोः सुतानां वने
वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम्।
नाट्याचार्यकम् अर्जुनस्य पतनं सञ्चिंत्य लंकेश्वरे
सर्वे काल-वशाज् जनो त्र सहते कः कं परित्रायते॥पञ्च_३.२५७॥
क्व स दशरथः स्वर्गे भूत्वा महेंद्र-सुहृद् गतः
क्व स जलनिधेर् वेलां बद्ध्वा नृपः सगरस् तथा।
क्व स करतलाज् जातो वैन्यः क्व सूर्य-तनुर् मनुः
ननु बलवता कालेनैते प्रबोध्य निमीलिताः॥पञ्च_३.२५८॥
मांधाता क्व गतस् त्रिलोक-विजयी राजा क्व सत्यव्रतः
देवानां नृपतिर् गतः क्व नहुषः सच्-छास्त्रवान् केशवः।
मन्यन्ते सरथाः स-कुञ्जर-वराः शक्रासनाध्यासिनः
कालेनैव महात्मना त्व् अनुकृताः कालेन निर्वासिताः॥पञ्च_३.२५९॥
अपि च-
स च नृपतिस् ते सचिवास् ताः प्रमदास् तानि कानन-वनानि।
स च ते च ताश् च तानि च कृतांत-दृष्टानि नष्टानि॥पञ्च_३.२६०॥
एवं मत्त-करि-कर्ण-चञ्चलां राज्य-लक्ष्मीम् अवाप्य न्यायैक-निष्ठो भूत्वोपभुंक्ष्व।
इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे काकोलूकीयं नाम तृतीयम् तंत्रम् समाप्तम्॥३।|
संबंधित कड़ियाँ
सम्पाद्यताम्- पञ्चतन्त्रम्
- कथा-मुखम् १-७
- प्रथमम् तन्त्रम् - मित्रभेदः १-५०
- प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
- प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
- प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
- प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
- प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
- प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
- प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
- प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
- प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
- द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
- द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
- द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
- द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
- तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
- तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
- तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
- तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
- तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
- तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
- चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
- चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
- पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
- पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
- पंचतंत्र (hindi wikipedia)
- पंचतंत्र (हिन्दी में)]
- हितोपदेशम्