मितं ददाति हि पिता मितं भ्राता मितं सुतः।
अमितस्य हि दातारं भर्तारं का न पूजयेत्॥पञ्च_३.१५१॥

पुनश् चाब्रवीत्-
शृणुष्वावहितः कांत यत् ते वक्ष्याम्य् अहं हितम्।
प्राणैर् अपि त्वया नित्यं संरक्ष्यः शरणागतः॥पञ्च_३.१५२॥
एष शाकुनिकः शेते तवावासं समाश्रितः।
शीतार्तश् च क्षुधार्तश् च पूजाम् अस्मै समाचर॥पञ्च_३.१५३॥

श्रूयते च-
यः सायम् अतिथिं प्राप्तं यथा-शक्ति न पूजयेत्।
तस्यासौ दुष्कृतं दत्त्वा सुकृतं चापकर्षति॥पञ्च_३.१५४॥
मा चास्मै त्वं कृथा द्वैषं बद्धानेनेति मत्-प्रिया।
स्व-कृतैर् एव बद्धाहं प्राक्तनैः कर्म-बंधनैः॥पञ्च_३.१५५॥
दारिद्र्य-रोग-दुःखानि बंधन-व्यसनानि च।
आत्मापराध-वृक्षस्य फलान्य् एतानि देहिनाम्॥पञ्च_३.१५६॥
तस्मात् त्वं द्वेषम् उत्सृज्य मद्-बंधन-समुद्भवम्।
धर्मे मनः समाधाय पूजयैनं यथा-विधि॥पञ्च_३.१५७॥
तस्यास् तद्-वचनं श्रुत्वा धर्म-युक्ति-समन्वितम्।
उपगम्य ततो धृष्टः कपोतः प्राह लुब्धकम्॥पञ्च_३.१५८॥
भद्र सुस्वागतं तेस्तु ब्रूहि किं करवाणि ते।
संतापश् च न कर्तव्यः स्व-गृहे वर्तते भवान्॥पञ्च_३.१५९॥
तस्य तद्-वचनं श्रुत्वा प्रत्युवाच विहंगमम्।
कपोत खलु शीतं मे हिम-त्राणं विधीयताम्॥पञ्च_३.१६०॥
स गत्वांगारकं नीत्वा पातयामास पावकम्।
ततः शुष्केषु पर्णेषु तम् आशु समदीपयत्॥पञ्च_३.१६१॥
सुसंदीप्तं ततः कृत्वा तम् आह शरणागतम्।
प्रतापयस्व विश्रब्धं स्व-गात्राण्य् अत्र निर्भयः॥पञ्च_३.१६२॥
उद्गतेन च जीवामो वयं सर्वे वनौकसः।
न चास्ति विभवः कश्चिन् नाशये येन ते क्षुधम्॥पञ्च_३.१६३॥
सहस्रं भरते कश्चिच् छतमन्यो दशापरः।
मम त्व् अकृत-पुण्यस्य क्षुद्रस्यात्मापि दुर्भरः॥पञ्च_३.१६४॥
एकस्याप्य् अतिथेर् अन्नं यः प्रदातुं न शक्तिमान्।
तस्यानेक-परिक्लेशे गृहे किं वसतः फलम्॥पञ्च_३.१६५॥
तत् तथा साधयाम्य् एतच् छरीरं दुःख-जीवितम्।
यथा भूयो न वक्ष्यामि नास्तीत्य् अर्थि-समागमे॥पञ्च_३.१६६॥
स निनिंदि किलात्मानं न तु तं लुब्धकं पुनः।
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय॥पञ्च_३.१६७॥
एवम् उक्त्वा स धर्मात्मा प्रहृष्टेनांतरात्मना।
तम् अग्निं संपरिक्रम्य प्रविवेश स्व-वेश्मवत्॥पञ्च_३.१६८॥
ततस् तं लुब्धको दृष्ट्वा कृपया पीडितो भृशम्।
कपोतम् अग्नौ पतितं वाक्यम् एतद् अभाषत॥पञ्च_३.१६९॥
यः करोति नरः पापं न तस्यात्मा ध्रुवं प्रियः।
आत्मना हि कृतं पापम् आत्मनैव हि भुज्यते॥पञ्च_३.१७०॥
सो हं पाप-मतिश् चैव पाप-कर्म-रतः सदा।
पतिष्यामि महा-घोरे नरके नात्र संशयः॥पञ्च_३.१७१॥
नूनं मम नृशंसस्य प्रत्यादर्शः सुदर्शितः।
प्रयच्छता स्व-मांसानि कपोतेन महात्मना॥पञ्च_३.१७२॥
अद्य-प्रभृति देहं स्वं सर्व-भोग-विवर्जितम्।
तोयं स्वल्पं यथा ग्रीष्मः शोषयिष्याम्य् अहं पुनः॥पञ्च_३.१७३॥
शीत-वातातप-सहः कृशांगो मलिनस् तथा।
उपवासैर् बहुविधैश् चरिष्ये धर्मम् उत्तमम्॥पञ्च_३.१७४॥
ततो यष्टिं शलाकां च जालकं पञ्जरं तथा।
बभञ्ज लुब्धको दीनां कापोतीं च मुमोच ताम्॥पञ्च_३.१७५॥
लुब्धकेन ततो मुक्ता दृष्ट्वाग्नौ पतितं पतिम्।
कपोती विललापार्ता शोक-संतप्त-मानसा॥पञ्च_३.१७६॥
न कार्यम् अद्य मे नाथ जीवितेन त्वया विना।
दीनायाः पति-हीनायाः किं नार्या जीविते फलम्॥पञ्च_३.१७७॥
मानो दर्पस् त्व् अहंकारः कुलं पूजा च बंधुषु।
दास-भृत्य-जनेष्व् आज्ञा वैधव्येन प्रणश्यति॥पञ्च_३.१७८॥
एवं विलप्य बहुशः कृपणं भृश-दुःखिता।
पतिव्रता सुसंदीप्तं तम् एवाग्निं विवेश सा॥पञ्च_३.१७९॥
ततो दिव्यांबर-धरा दिव्याभरण-भूषिता।
भर्तारं सा विमानस्थं ददर्श स्वं कपोतिका॥पञ्च_३.१८०॥
सोऽपि दिव्य-तनुर् भूत्वा यथार्थम् इदम् अब्रवीत्।
अहो माम् अनुगच्छंत्या कृतं साधु शुभे त्वया॥पञ्च_३.१८१॥
तिस्रः कोट्योऽर्ध-कोटी च यानि रोमाणि मानुषे।
तावत् कालं वसेत् स्वर्गे भर्तारं यानुगच्छति॥पञ्च_३.१८२॥
कपोत-देहः सूर्यास्ते प्रत्यहं सुखम् अन्वभूत्।
कपोत-देहवत्सासीत् प्राक् पुण्य-प्रभवं हितम्॥पञ्च_३.१८३॥
हर्षाविष्टस् ततो व्याधो विवेश च वनं धनम्।
प्राणि-हिंसां परित्यज्य बहु-निर्वेदवान् भृशम्॥पञ्च_३.१८४॥
तत्र दावानलं दृष्ट्वा विवेश विरताशयः।
निर्दग्ध-कल्मषो भूत्वा स्वर्ग-सौख्यम् अवाप्तवान्॥पञ्च_३.१८५॥

---

अतो हं ब्रवीमि-श्रूयते हि कपोतेन (१३४) इत्य् आदि।

तच् छ्रुत्वारिमर्दनो दीप्ताक्षं पृष्टवान्-एवम् अवस्थिते किं भवान् मन्यते?

सो ब्रवीत्-देव! न हंतव्य एवायम्। यतः-

या ममोद्विजते नित्यं सा ममाद्यावगूहते।
प्रियकारक भद्रं ते यन् ममाऽस्ति हरस्व तत्॥पञ्च_३.१८६॥

चोरेण चाप्य् उक्तम्-

हर्तव्यं ते न पश्यामि हर्तव्यं चेद् भविष्यति।
पुनर् अप्य् आगमिष्यामि यदीयं नावगूहते॥पञ्च_३.१८७॥

अरिमर्दनः पृष्टवान्-का च नावगूहते? कश् चायं चौरः? इति विस्तरतः श्रोतुम् इच्छामि।

दीप्ताक्षः कथयति-

कथा ८ कामातुर-वणिक्-कथासम्पाद्यताम्


अस्ति कस्मिंश्चिद् अधिष्ठाने कामातुरो नाम वृद्ध-वणिक्। तेन च कामोपहृत-चेतसा, मृत-भार्येण काचिन् निर्धन-वणिक्-सुता, प्रभूतं धनं दत्त्वोद्वाहिता। अथ सा दुःखाभिभूता तं वृद्ध-वणिजं द्रष्टुम् अपि न शशाक। युक्तं चैतत्-

श्वेतं पदं शिरसि यत् तु शिरोरुहाणां
स्थानं परं परिभवस्य तद् एव पुंसाम्।
आरोपितास्थि-शकलं परिहृत्य यांति
चांडाल-कूपम् इव दूरतरं तरुण्यः॥पञ्च_३.१८८॥

तथा च-
गात्रं संकुचितं गतिर् विगलिता दंताश् च नाशं गता
दृष्टिर् भ्राम्यति रूपम् अप्य् उपहतं वक्त्रं च लालायते।
वाक्यं नैव करोति बांधव-जनः पत्नी न शुश्रूषते
धिक् कष्टं जरयाभिभूत-पूरुषं पुत्रोऽप्य् अवज्ञायते॥पञ्च_३.१८९॥

अथ कदाचित् सा तेन सहैकशयने पराङ्मुखी यावत् तिष्ठति तावद् गृहे चौरः प्रविष्टः। सापि तं चौरं दृष्ट्वा भय-व्याकुलिता वृद्धम् अपि तं पतिं गाढं समालिलिंग। सोऽपि विस्मयात् पुलकाञ्चित-सर्व-गात्रश् चिंतयामास-अहो किम् एषा माम् अद्यावगूहते? यावन् निपुणतया पश्यति तावत् गृह-कोणैक-देशे चौरं दृष्ट्वा व्यचिंतयत्-नूनम् एषास्य भयान् माम् आलिंगति इति ज्ञात्वा तं चौरम् आह-या ममोद्विजते (१८६) इत्य् आदि।

तच् छ्रुत्वा चौरोऽप्य् आह-हर्तव्यं ते न पश्यामि (१८७) इत्य् आदि। तस्माच् चौरस्याप्य् उपकारः श्रेयश् चिंत्यते किं पुनः शरणागतस्य। अपि चायं तैर् विप्रकृतोऽस्माकम् एव पुष्टये भविष्यति तदीय-रंध्र-दर्शनाय चेति अनेन कारणेनायम् अवध्य इति।

एतद् आकर्ण्यारिमर्दनो अन्यं सचिवं वक्रनासं पप्रच्छ-भद्र! सांप्रतम् एवं स्थिते किं करणीयम् इति?

सो ब्रवीत्-देव! अवध्योऽयम्। यतः-

शत्रवोऽपि हितार्थैव विवदंतः परस्परम्।
चौरेण जीवितं दत्तं राक्षसेन तु गो-युगम्॥पञ्च_३.१९०॥

अरिमर्दनः प्राह-कथम् एतत्?

वक्रनासः कथयति-

कथा १० द्रोणाख्य-ब्राह्मण-कथासम्पाद्यताम्


अस्ति कस्मिंश्चिद् अधिष्ठाने दरिद्रो द्रोण-नामा ब्राह्मणः, प्रतिग्रह-धनः सततं विशिष्ट-वस्त्रानुलेपन-गंध-माल्यालंकार-तांबूलादि-भोग-परिवर्जितः, प्ररूढ-केश-श्मश्रु-नख-रोमोपचितः, शीतोष्ण-वात-वर्षादिभिः परिशोषित-शरीरः, तस्य च केनापि यजमानेनानुकंपया शिशु-गो-युगं दत्तम्। ब्राह्मणेन च बाल-भावाद् आरभ्य याचित-घृत-तैल-यवसादिभिः संवर्ध्य सुपुष्टं कृतम्। तच् च दृष्ट्वा सहसैव कश्चिच् चौरश् चिंतितवान्-अहम् अस्य ब्राह्मणस्य गो-युगम् इदम् अपहरिष्यामि। इति निश्चित्य निशायां बंधन-पाशं गृहीत्वा, यावत् प्रस्थितस् तावद् अर्ध-मार्गे प्रविरल-तीक्ष्ण-दंत-पंक्तिर् उन्नत-नासा-वंशः, प्रकट-रक्तांत-नयनः उपचित-स्नायु-संततनत-गात्रः शुष्क-कपोलः सुहुत-हुतवह-पिंगल-श्मश्रु-केश-शरीरः कश्चिद् दृष्टः। दृष्ट्वा च तं तीव्र-भय-त्रस्तो चौरोऽब्रवीत्-को भवान्? इति।

सो ब्रवीत्-अहं क्रूर-कर्मा चौरो दरिद्र-ब्राह्मणस्य गो-युगं हर्तुं प्रस्थितोऽस्मि।

अथ जात-प्रत्ययो राक्षसोऽब्रवीत्-भद्र! षष्ठाह्न-कालिकोऽहम्। अतस् तम् एव ब्राह्मणम् अद्य भक्षयिष्यामि।

अथ तौ तत्र गत्वैकांते कालम् अन्वेषयंतौ स्थितौ। प्रसुप्ते च ब्राह्मणे तद्-भक्षणार्थं प्रस्थितं राक्षसं दृष्ट्वा चौरोऽब्रवीत्-भद्र! नैष न्यायो यतो गो-युगे मयापहृते पश्चात् त्वम् एनं ब्राह्मणं भक्षय।

सोऽब्रवीत्-कदाचिद् अयं ब्राह्मणो गो-शब्देन बुध्येत तदानर्थकोऽयं ममारंभः स्यात्।

चौरोऽप्य् अब्रवीत्-तवापि यदि भक्षणायोपस्थितस्य एकोऽप्य् अंतरायः स्यात्। तदाहम् अपि न शक्नोमि गो-युगम् अपहर्तुम्। अतः प्रथमन् मयापहृते गो-युगे पश्चात् त्वया ब्राह्मणो भक्षितव्यः। इत्थं चाहम् अहमिकया तयोर् विवदतोः समुत्पन्ने द्वैधे प्रतिरव-वशाद् ब्राह्मणो जजागार।

अथ तं चौरोऽब्रवीत्-ब्राह्मण! त्वाम् एवायं राक्षसो भक्षयितुम् इच्छति इति।

राक्षसोऽप्य् आह-ब्राह्मण! चौरोऽयं गो-युगं तेऽपहर्तुम् इच्छति।

एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्ट-देवता-मन्त्र-ध्यानेनात्मानं राक्षसाद् उद्-गूर्ण-लगुडेन चौराद् गो-युगं ररक्ष।

द्रोण - गोयुगल - ब्रह्मराक्षस कथायाः विवेचनम् ---

अतोऽहं ब्रवीमि-शत्रवोऽपि हितायैव (१९०) इति।

अथ तस्य वचनम् अवधार्यारिमर्दनः पुनर् अपि प्राकारकर्णम् अपृच्छत्-कथय, किम् अत्र मन्यते भवान्?

सोऽब्रवीत्-देव! अवध्य एवायम्, यतो रक्षितेनानेन कदाचित् परस्पर-प्रीत्या कालः सुखेन गच्छति। उक्तं च-

परस्परस्य मर्माणि ये न रक्षंति जंतवः।
त एव निधनं यांति वल्मीकोदर-सर्पवत्॥पञ्च_३.१९१॥

अरिमर्दनोऽब्रवीत्-कथम् एतत्?

प्राकारकर्णः कथयति-

कथा १० वल्मीकोदर-गत-सर्प-कथासम्पाद्यताम्


अस्ति कस्मिंश्चिन् नगरे देवशक्तिर् नाम राजा। तस्य च पुत्रो जठर-वल्मीकाश्रयेणोरगेण प्रतिदिनं प्रत्यंगं क्षीयते। अनेकोपचारैः सद्-वैद्यैः सच्-छास्त्रोपदिष्टौषध-युक्त्यापि चिकित्स्यमानो न स्वास्थ्यम् एति। अथासौ राजपुत्रो निर्वेदाद् देशांतरं गतः।

कस्मिंश्चिन् नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति। अथ तत्र नगरे बलिर् नाम राजास्ते। तस्य च द्वे दुहितरौ यौवन-स्थे तिष्ठतः। ते च प्रतिदिवसम् आदित्योदये पितुः पादांतिकम् आगत्य नमस्कारं चक्रतुः। तत्र चैकाब्रवीत्-विजयस्व महाराज! यस्य प्रसादात् सर्वं सुखं लभ्यते।

द्वितीया तु-विहितं भुंक्ष्व महाराज! इति ब्रवीति।

तच् छ्रुत्वा प्रकुपितो राजाब्रवीत्-भो मन्त्रिणः! एनां दुष्ट-भाषिणीं कुमारिकां कस्यचिद् वैदेशिकस्य प्रयच्छत तेन निज-विहितम् इयम् एव भुंक्ते।

अथ तथेति प्रतिपद्याल्प-परिवारा सा कुमारिका मन्त्रिभिस् तस्य देव-कुलाश्रित-राज-पुत्रस्य प्रतिपादिता। सापि प्रहृष्ट-मनसा तं पतिं देववत् प्रतिपद्यादाय चान्य-विषयं गता।

ततः कस्मिंश्चिद् दूरतर-नगर-प्रदेशे तडाग-तटे राज-पुत्रम् आवास-रक्षायै निरूप्य स्वयं च घ्ड़्त-तैल-लवण-तंडुलादि-क्रय-निमित्तं स-परिवारा गता। कृत्वा च क्रय-विक्रयं यावद् आगच्छति तावत् स राज-पुत्रो वल्मीकोपरि कृत-मूर्धा प्रसुप्तः। तस्य च मुखाद् भुजगः फणां निष्कास्य वायुम् अश्नाति। तत्रैव च वल्मीकेपरः सर्पो निष्क्रम्य तथैवासीत्।

अथ तयोः परस्पर-दर्शनेन क्रोध-संरक्त-लोचनयोर् मध्याद् वल्मीकस्थेन सर्पेणोक्तम्-भो भो दुरात्मन्! कथं सुंदर-सर्वांगं राज-पुत्रम् इत्थं कदर्थयसि?

मुखस्थोऽहिर् अब्रवीत्-भो भोः! त्वयाऽपि दुरात्मनाऽस्य वल्मीकस्य मध्ये कथम् इदं दूषितं हाटक-पूर्णं कलश-युगलम् इत्य् एवं परस्परस्य मर्माण्य् उद्घाटितवंतौ।

पुनर् वल्मीकस्थो ऽहिर् अब्रवीत्-भो दुरात्मन्! भेषजम् इदं ते किं कोऽपि न जानाति यज् जीर्णोत्कालित-काञ्जिका-राजिका-पानेन भवान् विनाशम् उपयाति।

अथोदरस्थोऽहिर् अब्रवीत्-तवाप्य् एतद् भेषजं किं कश्चिद् अपि न वेत्ति यद् उष्ण-तैलेन महोष्णोदकेन वा तव विनाशः स्याद् इति। एवं च सा राज-कन्या विटपांतरिता तयोः परस्परालापान् मर्म-मयान् आकर्ण्य तथैवानुष्ठितवती।

विधाय व्यंगं नीरोगं भर्तारं निधिं च परमम् आसाद्य स्वदेशाभिमुखं प्रायात्। पितृ-मातृ-स्वजनैः प्रतिपूजिता विहितोपभोगं प्राप्य सुखेनावस्थिता। अतोऽहं ब्रवीमि-परस्परस्य मर्माणि इति।

---

तच् च श्रुत्वा स्वयम् अरिमर्दनोऽप्य् एवं समर्थितवान्। तथा चानुष्ठितम्। दृष्ट्वान्तर्-लीनं विहस्य रक्ताक्षः पुनर् अब्रवीत्-कष्टम्। विनाशितोऽयं भवद्भिर् अन्यायेन स्वामी। उक्तं च-

अपूज्या यत्र पूज्यंते पूज्यानां तु विमानना।
त्रीणि तत्र प्रवर्तंते दुर्भिक्षं मरणं भयम्॥पञ्च_३.१९२॥

तथा च-
प्रत्यक्षेपि कृते पापे मूर्खः साम्ना प्रशाम्यति।
रथ-कारः स्वकां भार्यां सजारां शिरसावहत्॥पञ्च_३.१९३॥

मन्त्रिणः प्राहुः-कथम् एतत्?

रक्ताक्षः कथयति-

कथा ११ वीरवर-रथकार-तत्-पत्नी-कथासम्पाद्यताम्


अस्ति कस्मिंश्चिद् अधिष्ठाने वीरवरो नाम रथकारः। तस्य भार्या कामदमनी। सा पुंश्चली जनापवाद-संयुक्ता। सो ऽपि तस्याः परीक्षणार्थं व्यचिंतयत्-अथ मयाऽस्याः परीक्षणं कर्तव्यम्। उक्तं च-

यदि स्यात् पावकः शीतः प्रोष्णो वा शश-लाञ्छनः।
स्त्रीणां तदा सतीत्वं स्याद् यदि स्याद् दुर्जनो हितः॥पञ्च_३.१९४॥

जानामि चैनां लोक-वचनाद् असतीम्। उक्तं च-

यच् च वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम्।
तत् सर्वं वेत्ति लोकोऽयं यत् स्याद् ब्रह्मांड-मध्यगम्॥पञ्च_३.१९५॥

एवं संप्रधार्य भार्याम् अवोचत्-प्रिये! प्रभातेऽहं ग्रामांतरं यास्यामि। तत्र कतिचिद् दिनानि लगिष्यंति। तत् त्वया किम् अपि पाथेयं मम योग्यं विधेयम्।

सापि तद्-वचनं श्रुत्वा हर्षित-चित्ता। औत्सुक्यात् सर्व-कार्याणि संत्यज्य सिद्धम् अन्नं घृत-शर्करा-प्रायम् अकरोत्। अथवा साध्व् इदम् उच्यते-

दुर्दिवसे घन-तिमिरे वर्षति जलदे महाटवी-प्रभृतौ।
पत्युर् विदेश-गमने परम-सुखं जघन-चपलायाः॥पञ्च_३.१९६॥

अथासौ प्रत्यूषे उत्थाय स्व-गृहान् निर्गतः सापि तं प्रस्थितं विज्ञाय प्रहसित-वदनांग-संस्कारं कुर्वाणा कथञ्चित् तं दिवसम् अत्यवाहयत्। अथ पूर्व-परिचित-विट-गृहे गत्वा तं प्रत्युक्तवती-स दुरात्मा मे पतिर् ग्रामांतरं गतः। तत् त्वयास्मद्-गृहे प्रसुप्ते जने समागंतव्यम्।

तथानुष्ठिते स रथकारोऽरण्ये दिनम् अतिवाह्य प्रदोषे स्व-गृहेऽपद्वारेण प्रविश्य शय्याधस्-तले निभृतो भूत्वा स्थितः। एतस्मिन्न् अन्तरे स देवदत्तः समागत्य तत्र शयने उपविष्टः। दृष्ट्वा रोषाविष्ट-चित्तो रथकारो व्यचिंतयत्-किम् एनम् उत्थाय हन्मि? अथवा हेलयैव प्रसुप्तौ द्वाव् अप्य् एतौ व्यापादयामि? परं पश्यामि तावद् अस्याश् चेष्टितम्। शृणोमि चानेन सहालापम्।

अत्रांतरे सा गृह-द्वारं निभृतं पिधाय शयन-तलम् आरूढा। तस्यास् तत्रारोहयंत्या रथकार-शरीरे पादो विलग्नः। ततः सा व्यचिंतयत्-नूनम् एतेन दुरात्मना रथकारेण मत्-परीक्षणार्थं भाव्यम्। ततः स्त्री-चरित्र-विज्ञानं किम् अपि करोमि।

एवं तस्याश् चिन्तयन्या स देवदत्तः स्पर्शोत्सुको बभूव। अथ तया कृताञ्जलि-पुटयाभिहितं-भोः महानुभाव! न मे शरीरं त्वया स्पर्शनीयं यतोऽहं पतिव्रता महासती च। नो चेच् छापं दत्त्वा त्वां भस्मसात्करिष्यामि।

स आह-यद्य् एवं तर्हि त्वया किम् अहम् आहूतः?

साब्रवीत्-भोः शृणुष्वैकाग्र-मनाः। अहम् अद्य प्रत्यूषे देवता-दर्शनार्थं चण्डिकायतनं गता तत्राकस्मात् खे वाणी सञ्जाता-पुत्रि किं करोमि? भक्तासि मे त्वं, परं षण्मासाभ्यंतरे विधि-नियोगाद् विधवा भविष्यसि।

ततो मयाभिहितं-भगवति! यथा त्वम् आपदं वेत्सि, तथा तत्-प्रतीकारम् अपि जानासि। तद् अस्ति कश्चिद् उपायो येन मे पतिः शत-संवत्सर-जीवी भवति?

ततस् तयाभिहितम्-वत्से, सन्न् अपि नास्ति, यतस् तवायत्तः स प्रतीकारः।

तच् छ्रुत्वा मयाभिहितम्-देवि! यदि तन् मम प्राणैर् भवति तद् आदेशय येन करोमि।

अथ देव्याभिहितम्-यद्य् अद्य पर-पुरुषेण सहैकस्मिन् शयने समारुह्यालिंगनं करोषि तत् तव भर्तृ-सक्तोऽपमृत्युस् तस्य सञ्चरति। भर्तापि तेन पुनर् वर्ष-शतं जीवति। तेन त्वं मयाभ्यर्थितः। तद् यत् किञ्चित् कर्तु-मनास् तत् कुरुष्व। न हि देवता-वचनम् अन्यथा भविष्यतीति निश्चयः। ततो अन्तर्हास-विकास-मुखः स तद्-उचितम् आचचार।

सोऽपि रथकारो मूर्खस् तस्यास् तद्-वचनम् आकर्ण्य पुलकाञ्चित-तनुः शय्याधस्तलान् निष्क्रम्य ताम् उवाच-साधु पतिव्रते! साधु कुल-नंदिनि! अहं दुर्जन-वचन-शंकित-हृदयस् त्वत्-परीक्षा-निमित्तं ग्रामांतर-व्याजं कृत्वा खट्वाधस्-तले निभृतं लीनः। तद् एहि, आलिंग माम्। त्वं स्व-भर्तृ-भक्तानां मुख्या नारीणां, यद् एवं ब्रह्म-व्रतं पर-संगेऽपि पालितवती। यद् आयुर् बुद्धि-कृतेऽपमृत्यु-विनाशार्थं च त्वम् एवं कृतवती। ताम् एवम् उक्त्वा सस्नेहम् आलिंगितवान्।

स्व-स्कंधे ताम् आरोप्य ताम् अपि देवदत्तम् उवाच-भो महानुभाव! मत्-पुण्यैस् त्वम् इहागतः। त्वत्-प्रसादान् मया प्राप्तं वर्ष-शत-प्रमाणम् आयुः। तत् त्वम् अपि माम् आलिंग्य मत्-स्कंधे समारोह इति जल्पन्न् अनिच्छंतम् अपि देवदत्तम् आलिंग्य बलात् स्वकीय-स्कंधे आरोपितवान्।

ततश् च नृत्यं कृत्वा-हे ब्रह्म-व्रत-धराणां धुरीण! त्वयापि मय्य् उपकृतम् इत्य् आद्य् उक्त्वा स्कंधाद् उत्तार्य यत्र यत्र स्वजन-गृह-द्वारादिषु बभ्राम तत्र तत्र तयोर् उभयोर् अपि तद्-गुण-वर्णनम् अकरोत्।

अतोऽहं ब्रवीमि-प्रत्यक्षेपि कृते पापे (१९३) इति।

तत् सर्वथा मूलोत्खाता वयं विनष्टाः स्मः। सुष्ठु खल्व् इदम् उच्यते-

मित्र-रूपा हि रिपवः संभाव्यन्ते विचक्षणैः।
ये हितं वाक्यम् उत्सृज्य विपरीतोपसेविनः॥पञ्च_३.१९७॥

तथा च-
सन्तोऽप्य् अर्था विनश्यंति देश-काल-विरोधिनः।
अप्राज्ञान् मन्त्रिणः प्राप्य तमः सूर्योदये यथा॥पञ्च_३.१९८॥

ततस् तद्-वचो नादृत्य सर्वे ते स्थिरजीविनम् उत्क्षिप्य स्व-दुर्गम् आनेतुम् आरब्धाः। अथानीयमानः स्थिरजीव्य् आह-देव! अद्याकिञ्चित्करेणैतद् अवस्थेन किं मयोपसंगृहीतेन? यत् कारणम् इच्छामि दीप्तं वह्निम् अनुप्रवेष्टुम्। तद् अर्हसि माम् अग्नि-प्रदानेन समुद्धर्तुम्।

अथ रक्ताक्षस्यांतर्गत-भावं ज्ञात्वाह-किम्-अर्थम् अग्नि-पतनम् इच्छसि?

सो ब्रवीत्-अहं तावद् युष्मद्-अर्थम् इमाम् आपदं मेघवर्णेन प्रापितः। तद् इच्छामि तेषां वैर-यातनार्थम् उलूकत्वम् इति।

तच् च श्रुत्वा राजनीति-कुशलो रक्ताक्षः प्राह-भद्र! कुटिलस् त्वं कृतक-वचन-चतुरश् च। तावद् उलूक-योनि-गतो ऽपि स्वकीयाम् एव वायस-योनिं बहु मन्यसे। श्रूयते चैतद् आख्यानकम्।

सूर्यं भर्तारम् उत्सृज्य पर्जन्यं मारुतं गिरिम्।
स्व-जातिं मूषिका प्राप्ता स्वजातिर् दुरतिक्रमा॥पञ्च_३.१९९॥

मन्त्रिणः प्रोचुः--कथम् एतत्?

रक्ताक्षः कथयति-

कथा ११ शालंकायन-रक्षित-मूषिका-कथासम्पाद्यताम्


अस्ति कस्मिंश्चिद् अधिष्ठाने शालंकायनो नाम तपोधनो जाह्नव्यां स्नानार्थं गतः। तस्य च सूर्योपस्थानं कुर्वतस् तत्र प्रदेशे मूषिका काचित् खरतर-नखाग्र-पुटेन श्येनेन गृहीता। दृष्ष्ट्वा स मुनिः करुणार्द्र-हृदयो मुञ्च मुञ्चेति कुर्वाणस् तस्योपरि पाषाण-खंडं प्राक्षिपत्। सोऽपि पाषाण-खंड-प्रहार-व्याकुलेंद्रियो भ्रष्ट-मूषिको भूमौ निपपात मूषिकापि भय-त्रस्ता कर्तव्यम् अजानंती रक्ष रक्षेति जल्पंती मुनि-चरणांतिकम् उपाविशत्। श्येनेनापि चेतनं लब्ध्वा मुनिर् उक्तो, यद्-भो मुने! न युक्तम् अनुष्ठितं भवता यद् अहं पाषाणेन ताडितः। किं त्वम् अधर्मान् न बिभेषि? तत् समर्पय माम् एनाम् मूषिकाम्। नो चेत् प्रभूतं पातकम् अवाप्स्यसि।

इति ब्रुवाणं श्येनं प्रोवाच सः-भो विहंगाधम! रक्षणीयाः प्राणिनां प्राणाः। दंडनीया दुष्टाः। संमाननीयाः साधवः। पूजनीया गुरवः। स्तुत्या देवाः। तत् किम् असंबद्धं प्रजल्पसि?

श्येन आह-मुने! न त्वं सूक्ष्म-धर्मं वेत्सि। इह हि सर्वेषां प्राणिनां विधिना सृष्टिं कुर्वताहारोऽपि विनिर्मितः। ततो यथा भवताम् अन्नं तथास्माकं मूषिकादयो विहिताः। तत् स्वाहार-कांक्षिणं मां किं दूषयसि? उक्तं च-

यद्य् अस्य विहितं भोज्यं न तत् तस्य प्रदुष्यति।
अभक्ष्ये बहु-दोषः स्यात् तस्मात् कार्यो न व्यत्ययः॥पञ्च_३.२००॥
अग्रिम पृष्ठम्

संबंधित कड़ियाँसम्पाद्यताम्

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०४ग&oldid=112797" इत्यस्माद् पुनः प्राप्तिः