मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः २ →
मोक्षोपायटीका/वैराग्यप्रकरणम्


ओं
स्वातन्त्र्याख्यगुणेरितेन सततं सङ्क्षोभ्यमाणान्निजाद्
इच्छामन्दरकेण सारभरिताद्रूपादलोलात्सदा ।
स्वान्तःस्थं स्वमयं स्वभिन्नसदृशं तत्त्वालिरत्नोच्चयम्
बोधाह्वः प्रतिभासयन् परसरिन्नाथो जयत्यद्भुतः ॥ *१ ॥




शुद्धं स्फाटिकदर्पणेन सदृशं नित्यं स्वशक्त्युत्थितैर्
अच्छत्वात्स्वमयीकृतं बहुविधैर्बाह्यान्तरैः स्वैर्मलैः ।
शक्त्यैतानपि सर्वदात्मनि लयीकुर्वाणमाद्यं शिवम्
बोधाह्वं प्रणतोऽस्मि देवमनघं षट्कोशदावानलम् ॥ *२ ॥




बोधाबोधविभेदभासनपरं बोधान्वितैर्बोधितम्
बोधाबोधविहीनमूर्तिममलं बोधैकसारं विभुम् ।
बोधाबोधविभेदगोपनकरं स्वस्मिंस्तु तस्याप्यनु
बोधं तं शरणं श्रयामि सततं सद्बोधसम्प्राप्तये ॥ *३ ॥




स्वच्छत्वाश्रयमातृभावभजनाद्वैडूर्यनामार्हताम्
आसाद्यान्ववतारनामकलनामेत्याच्छमेयास्पदाम् ।
तत्त्वं स्वं प्रकटं विधाय च ततः स्वं भावमेवागतो
यस्तस्मै सततं स्वभावगुरवे नैर्गुण्यधाम्ने नमः ॥ *४ ॥




अच्छाच्छस्वविमर्शनेऽपि कुशलो वैडूर्यनाम्नाश्रितो
यातोऽतोऽन्ववतारभावममलं तत्त्वोपदेशेच्छया ।
शिष्याणामुपदिश्य तत्त्वमथ यः स्वं रूपमेवागतस्
तस्मै श्रीनिधये प्रकाशगुरवे सद्बोधदात्रे नमः ॥ *५ ॥


देहाद्रिस्थमनोद्रुमोत्थकलनाशाखालिसन्ध्यन्तराद्
द्रष्टुं जाड्यहरं विमर्शविभवादुन्मेषरूपं रविम् ।
लग्ना ये सततं तदेकमयतां पश्यन्त आत्मन्यथो
संसारेऽपि च तत्प्रकाशवशतो भातेऽस्तु तेभ्यो नमः ॥ *६ ॥




अपूर्वं सामर्थ्यं किमपि हृदयागोचर इदम्
परिच्छेदातीतं जयति लघुमुख्यं भगवतः ।
विवृत्त्याख्ये कर्मण्यतिमहति वाक्पत्यविषये
यदाविष्टोऽमुष्मिन्नपि भजति मूकोऽप्यधिकृतिम् ॥ *७ ॥




स्वतःसिद्धाल्लब्धं परमगहनं यत्स्वजनकाद्
रहस्यं सङ्क्षेपान्निरतिशयमाभ्यन्तरमलम् ।
तदेतत्सर्वेषु प्रकटयितुमेवात्र विहितो
मयासावुद्योगो न निजधिषणाख्यापनधिया ॥ *८ ॥




स्वभावेनैवान्धाः कतिचिदपरे रोषतमसा
परेषां नापेक्षा भवति च निजालोकविभवात् ।
अतो व्याख्यादीपेऽप्रकट इव नात्रास्त्यधिकृतो
भवेद्वा कोऽपीति भ्रमत इह यत्नस्तु रचितः ॥ *९ ॥



अवतारकण्ठपुत्रः पौत्रो वैडूर्यकण्ठपादानाम् ।
भास्करकण्ठो रचयति विद्वत्कण्ठे विभूषणं व्याख्याम् ॥ *१० ॥


शक्त्यादीनामभावे मे प्रवृत्तस्य पदे पदे ।
स्खलितानि भविष्यन्ति सन्तु सन्तोऽवलम्बनम् ॥ *११ ॥


नुत्वा गणेशं विबुधेशवन्द्यं वाग्देवतां च प्रतिभास्वरूपाम् ।
गुरूंस्तथा कौलनरोत्तमादीन् करोमि टीकां श्रुतिपात्रपेयाम् ॥ *१२ ॥


गुरूणां चरणौ स्मृत्वा कृत्वा स्वात्मार्चनं स्वतः ।
मोक्षोपायाभिधे ग्रन्थे व्याख्यां कुर्वे समासतः ॥ *१३ ॥





इह खलु कश्चिन्महापुरुषः श्रीवाल्मीकिनिबद्धश्रीमहारामायणाख्यसागरादिकाण्डस्थश्रीरामज्ञानोत्पादकश्रीवसिष्ठोपदेशरत्नैः स्वयमासादितसम्यग्ज्ञानाख्यप्रकाशः अथान्यान् प्रति दयया प्रकटीकरणार्थं प्रोक्तसागरात्तान्युद्धर्तुकामस्तदुद्धृतिनिर्विघ्नसमाप्तिगमनाय परदेवतास्वरूपं परमात्मानं स्तौति
दिवि भूमौ तथाकाशे बहिरन्तश्च मे विभुः ।
योऽवभात्यवभासात्मा तस्मै विश्वात्मने नमः ॥ ंो_१,१.१ ॥
"तस्मै" प्रसिद्धाय । "विश्वात्मने" सर्वसारत्वेन स्थितत्वात्सर्वेषामात्मभूतायार्थात्परमात्मने "नमः" । अपरिमितायां तत्सत्तायां परिमितस्वसत्तान्यग्भावरूपः प्रह्वीभावः अस्तु । तत्सत्तायामेव स्वसत्तां लीनां भावयामीति यावत् । "तस्मै" कस्मै । "अवभासात्मा" बाह्यान्तरालोकगतनानाविधबाह्यान्तरपदार्थवृन्दविषयज्ञानसारभूतः । "यः "विश्वात्मा । "अवभाति" प्रत्यक्षमेव स्फुरति । यतः प्रत्यक्षं स्फुरन्तः नानाभासाः विचारविषयीकृताः सन्तः अनिर्वाच्यतास्वरूपायां परमात्मतायामेव विश्राम्यन्ति । ततः नानावभासावभासेन परमात्मैवावभातीति भावः । "यः" कथम्भूतः । "विभुः" व्यापकः । कुत्र । "मे" परिमितप्रमातृतासादनेन चिन्मात्ररूपापरिमितप्रमातृभावाच्च्युतस्यात एव परिच्छिन्नवाचकास्मच्छब्दवाच्यतां गतस्य परिमितप्रमातुः । "बहिः "बाह्ये । अहन्ताविषयतामनीते प्रदेशे इति यावत् । पुनः कुत्र । "अन्तश्च" अहन्ताविषयतां नीते प्रदेशे च । "बहिः" किंरूपे । "दिवि" समस्तसुराधारभूतस्वर्गलोकरूपे । तथा "भूमौ" समस्तनरादिनानाविधभूताधारभूतभूलोकरूपे । "तथा" तद्वत् । "आकाशे" शून्यमात्राधारभूताकाशलोकस्वरूपे । एतेन चतुर्दशभुवनानां ग्रहणं ज्ञेयम् । "अन्तश्च" किंरूपे । "दिवि" द्योतनमात्रस्वरूपस्वप्नावस्थारूपे । "भूमौ" स्थूलत्वसादृश्याज्जाग्रदवस्थारूपे । "तथा" तद्वत् । "आकाशे" शून्यमात्राधारत्वसादृश्यात्सुषुप्त्यवस्थास्वरूपे । अत्र च परमात्मनः व्यापकत्वं शक्तिप्राधान्येनोपादानतया स्थितत्वात्स्वप्राधान्येन साक्षितया स्थितत्वाच्चेति द्विविधं ज्ञेयम् । एवमभीष्टसमुचितदेवतानमस्कारलक्षणं मङ्गलं
कृत्वा उद्धरिष्यमाणस्यास्य ग्रन्थस्याधिकार्याद्यनुबन्धचतुष्टयं वक्तुकामः स एवोद्धृतिकारः अभिधेयसम्बन्धप्रयोजनान्यर्थात्सूचयनधिकारिनिरूपणं साक्षात्करोति ॥ ंोट्_१,१.१ ॥



अहं बद्धो विमुक्तः स्यामिति यस्यास्ति निश्चयः ।
नात्यन्ततज्ज्ञो नातज्ज्ञः सोऽस्मिञ्शास्त्रेऽधिकारवान् ॥ ंो_१,१.२ ॥
श्रीभगवत्कृपाकटाक्षपात्रीभूतस्य "यस्य" पुरुषस्य । अहम्परिमितप्रमातृरूपः "अहं बद्धः" स्वात्मभावेन निश्चितदेहोपयोगिभोगजालासक्तचित्तः । अस्मि कथमिति शेषः । प्रोक्तजालानासक्तचित्तः कथं "स्याम्" भवेयम् । "इति" एवम् ।" निश्चयः" मनसि सततमनुसन्धानम् । स्यात् । "सः" पुरुषः । "अस्मिन्न्" उद्धरिष्यमाणे मोक्षोपायाख्ये ग्रन्थे । "अधिकारवान्" स्यात् । तस्यैवेदं शास्त्रं विचारणीयमित्यर्थः । "सः" कथम्भूतः । नात्यन्तं तज्ज्ञः "नात्यन्ततज्ज्ञः" । मुक्तिकामत्वेन सम्यग्ज्ञानरहित ४ त्यर्थः । सम्यग्ज्ञानी हि मुक्तिमपि न काङ्क्षति । काङ्क्षामात्रस्यैव बन्धत्वात् । पुनः कथम्भूतः । "नातज्ज्ञः" । भोगाकाङ्क्षायाः मुक्तत्वात् । अतज्ज्ञो हि भोगाकाङ्क्षां त्यक्तुं न शक्नोति । अत्यन्ततज्ज्ञे कृतकृत्यत्वात्"अस्मिञ्शास्त्रे" अनधिकारः । अतज्ज्ञे तु अयोग्यतयेति विभागः । अत्र परमात्मतत्त्वैक्यमभिधेयम् । पदे पदे तस्यैवाभिधानात्स्वविषयज्ञानद्वारेण मोक्षाख्यपरमप्रयोजनसाधकत्वाच्च । सर्वशास्त्रेष्वभिधेयस्यैव परमप्रयोजनसाधकत्वदर्शनात् । तद्विषयं सम्यग्ज्ञानमवान्तरप्रयोजनम् । अन्यथा तत्काङ्क्षिणः अमूर्खस्यावान्तराधिकारित्वं न स्यात् । परमप्रयोजणं मुक्तिर् । अन्यथा तत्काङ्क्षिणः मुमुक्षोः परमाधिकारित्वं न स्यात् । शास्त्रावान्तरप्रयोजनयोः अभिधेयपरमप्रयोजनयोश्च साध्यसाधनभावः सम्बन्धः । अधिकारी तु स्वकण्ठेनैवोक्त इति सर्वं स्वस्थम् ॥ ंोट्_१,१.२ ॥



एवमधिकार्यादि निरूप्य शास्त्रोद्धारमारभते
वाल्मीकिरुवाच
इति । "वाल्मीकिः" वाल्मीकिनामा ऋषिः । "उवाच" उक्तवान् । श्रीरामं प्रति इति शेषः । किमुवाचेत्याशङ्कायामाह
कथोपायान् विचार्यादौ मोक्षोपायानिमानथ ।
यो विचारयति प्राज्ञो न स भूयोऽभिजायते ॥ ंोट्_१,१.३ ॥



कथारूपा उपायाः "कथोपायाः" । तान् । कथानामपि सम्यग्ज्ञानं प्रति प्रवर्तकत्वेनोपायत्वं ज्ञेयम् । "इमान्" वक्ष्यमाणान् । ननु श्रीवाल्मीकिः श्रीरामवृत्तान्तमयं श्रीमहारामायणं श्रीरामं प्रत्येव कथमुवाचान्यस्यैव ह्यन्यवृत्तान्तकथनमुचितमिति चेत् । सत्यम् । अद्यकल्पे भवः श्रीवाल्मीकिरद्यकल्पे भवं श्रीरामं प्रति पुरातनकल्पश्रीवाल्मीकिकृतं पुरातनश्रीरामवृत्तान्तमयं श्रीमहारामायणमुवाचेति केचिदत्र समादधते । किमस्माकं व्याख्यामात्रप्रवृत्तानामेतद्युक्तत्वायुक्तत्वचिन्तनेन । अस्ति चात्र किमपि निगूढं बीजम् "अपि पौरुषमादेयम्" इत्यादिवक्ष्यमाणश्लोकसूचितम् । तच्च प्रतिभावतां स्वयमेव गम्यम् । अन्येषां तत्कथनमयुक्तम् । इत्यलं रहस्योद्घाटनेन ॥ ंोट्_१,१.३ ॥



अस्मिन् रामायणे राम कथोपायान्महाफलान् ।
एतांस्तु प्रथमं कृत्वा पुराहमरिमर्दन ॥ ंो_१,१.४ ॥
शिष्यायास्मै विनीताय भरद्वाजाय धीमते ।
एकाग्रो दत्तवान् रम्यान्मणीनब्धिरिवार्थिने ॥ ंो_१,१.५ ॥
"रामे"त्यामन्त्रणम् । रामस्यैव प्रतिपाद्यत्वात् । "एतान्" त्वया "अस्मिन्" समय एव दृष्टान् । आदौ "कृत्वा" सम्पाद्य । "अस्मै" अग्रे स्थिताय । "एकाग्रः" एतस्य विनयेन एतस्मिंल्लग्नचित्तः । युगलकम् ॥ ंोट्_१,१.४५ ॥



तत एते कथोपाया भरद्वाजेन धीमता ।
कस्मिंश्चिन्मेरुगहने ब्रह्मणोऽग्र उदाहृताः ॥ ंो_१,१.६ ॥
"उदाहृताः" कथिताः ॥ ंोट्_१,१.६ ॥


अथास्य तुष्टो भगवान् ब्रह्मा लोकपितामहः ।
वरं पुत्र गृहाणेति समुवाच महाशयः ॥ ंो_१,१.७ ॥
स्पष्टम् ॥ ंोट्_१,१.७ ॥



भरद्वाजः कथयति
भगवन् भूतभव्येश वरोऽयं मेऽद्य रोचते ।
येनेयं जनता दुःकान्मुच्यते तदुदाहर ॥ ंो_१,१.८ ॥
"भूतभव्येशा"तीतानागतयोरीशातीतानागतज्ञेति यावत् । "उदाहर" कथय ॥ ंोट्_१,१.८ ॥ भरद्वाजवाक्यं श्रुत्वा श्रीब्रह्मा कथयति
गुरुं वाल्मीकिमत्राशु प्रार्थयस्व प्रयत्नतः ।
तेनेदं यत्समारब्धं रामायणमनिन्दितम् ॥ ंो_१,१.९ ॥
तस्मिञ्ज्ञाते नरो मोहात्समग्रात्सन्तरिष्यति ।
सेतुनेवाम्बुधेः पारमपारगुणशालिना ॥ ंो_१,१.१० ॥
युगलकम् । "पारम्" इति पूर्वार्धेनापि योज्यम् । "अम्बुधेर्" इति पञ्चमी ब्रह्मवाक्यमुपसंहरति ॥ ंोट्_१,१.९१० ॥



इत्युक्त्वा स भरद्वाजं परमेष्ठी ममाश्रमम् ।
अभ्यागमत्समं तेन भरद्वाजेन भूतकृत् ॥ ंो_१,१.११ ॥
परमे चिन्मात्राख्ये उत्तमे पदे तिष्ठति शुद्धमनोरूपत्वादिति "परमेष्ठी" ॥ ंोट्_१,१.११ ॥



तूर्णं सम्पूजितो देवः सोऽर्घ्यपाद्यादिना मया ।
अवोचन्मां महासत्त्वः सर्वभूतहिते रतः ॥ ंो_१,१.१२ ॥
[भगवद्गीता V २५ ]
स्पष्टम् ॥ ंोट्_१,१.१२ ॥
ब्रह्मा कथयति
रामस्वभावकथनादस्माद्वरमुने त्वया ।
नोद्योगः सम्परित्याज्य आ समाप्तेरनिन्दितात् ॥ ंो_१,१.१३ ॥
"आ समाप्तेः "समाप्तिपर्यन्तम् ॥ ंोट्_१,१.१३ ॥


ननु किमर्थमुद्योगं न त्यजामीत्य् । अत्राह
ज्ञातेनानेन लोकोऽयमस्मात्संसारसङ्कटात् ।
समुत्तरिष्यति क्षिप्रं पोतेनेवाथ सागरात् ॥ ंो_१,१.१४ ॥
"अथ"शब्दः पादपूरणार्थः ॥ ंोट्_१,१.१४ ॥


वक्तुं तवैतमेवार्थमहमागतवानयम् ।
कुरु लोकहितार्थं त्वं शास्त्रमित्युक्तवानजः ॥ ंो_१,१.१५ ॥
स्पष्टम् । ब्रह्मणो वाक्यमुपसंहरति "इत्युक्तवान्" इति ॥ ंोट्_१,१.१५ ॥



राम पुण्याश्रमात्तस्मात्क्षणादन्तर्धिमागतः ।
मुहूर्तादुद्यतः प्रोच्चैस्तरङ्ग इव वारिणः ॥ ंो_१,१.१६ ॥



"पुण्याश्रमात्" पवित्रात्मदाश्रमात् । "तस्मात्" तस्मिन् समये गृहीतात् । मुनयो
हि नवीनानि नवीनान्याश्रमाणि गृह्णन्ति । ब्रह्मा क "इव" । "तरङ्ग इव" । यथा "वारिणः" "उद्यतः" पूर्वमुत्थितः "तरङ्गः" । "मुहूर्तादन्तर्धिम्" आगच्छति तथेत्यर्थः ॥ ंोट्_१,१.१६ ॥



तस्मिन् प्रयाते भगवत्यहं विस्मयमागतः ।
पुनस्तत्र भरद्वाजमपृच्छं स्वच्छया धिया ॥ ंो_१,१.१७ ॥
"भरद्वाजं" कथम्भूतम् । उपलक्षितं कया । "स्वच्छया धिया" । अन्यथा पृच्छनमयुक्तमेव स्यादिति भावः ॥ ंोट्_१,१.१७ ॥

किमपृच्छ इत्य् । अत्राह
किमेतद्ब्रह्मणा प्रोक्तं भरद्वाज वदाशु मे ।
इत्युक्तेन पुनः प्रोक्तं भरद्वाजेन मेऽनघ ॥ ंो_१,१.१८ ॥
"अनघ" हे दोषरहित राम ॥ ंोट्_१,१.१८ ॥

भरद्वाजः कथयति
एतदुक्तं भगवता यथा रामायणं कुरु ।
सर्वलोकहितायाशु संसारार्णवपोतकम् ॥ ंो_१,१.१९ ॥
"एतत्"पदाकाङ्क्षां पूरयति "यथे"ति ॥ ंोट्_१,१.१९ ॥
ननु ततस्तव किमित्य् । अत्राह
मह्यं च भगवन् ब्रूहि कथं संसारसङ्कटे ।
रामो व्यवहृतोऽप्यस्मिन् भरतश्च महामनाः ॥ ंो_१,१.२० ॥
"व्यवहृतः" व्यवहारं कृतवान् । "अपि"शब्दः असम्भावनाद्योतकः "संसारसङ्कटे" इत्यनेन सम्बध्यते ॥ ंोट्_१,१.२० ॥



शत्रुघ्नो लक्ष्मणश्चापि सीता चापि यशस्विनी ।
रामानुयायिनस्ते वा मन्त्रिपुत्रा महाधियः ॥ ंो_१,१.२१ ॥
स्पष्टम् ॥ ंोट्_१,१.२१ ॥


निर्दुःखतां यथैते तु प्राप्तास्तद्ब्रूहि मे स्फुटम् ।
तथैवाहं तरिष्यामि ततो जनतया सह ॥ ंो_१,१.२२ ॥
"एते" रामादयः ॥ ंोट्_१,१.२२ ॥
श्रीवाल्मीकिः श्रीरामं प्रति कथयति
भरद्वाजेन राजेन्द्र यदेत्युक्तोऽस्मि सादरम् ।
तदा कर्तुं विभोराज्ञामहं वक्तुं प्रवृत्तवान् ॥ ंो_१,१.२३ ॥
"अस्मि" अहम् । "इति" पूर्वोक्तप्रकारेण । "उक्तः" कथितः । "विभोः" ब्रह्मणः ॥ ंोट्_१,१.२३ ॥



प्रवृत्तिमेव स्फुटयति
शृणु वत्स भरद्वाज यथापृष्टं वदामि ते ।
श्रुतेन येन सम्मोहमलं दूरे करिष्यसि ॥ ंो_१,१.२४ ॥
"अलम्" अतिशयेन । "शृण्व्" इति प्रतिज्ञां सम्पादयितुं प्रस्तावं करोति ॥ ंोट्_१,१.२४ ॥


तथा व्यवहर प्राज्ञ यथा व्यवहृतः सुखी ।
सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः ॥ ंो_१,१.२५ ॥
"सर्वासंसक्तया" समस्तफलासङ्गरहितया ॥ ंोट्_१,१.२५ ॥
न केवलं राम एव किं त्वन्येऽपीत्यभिप्रायेण कथयति
लक्ष्मणो भरतश्चैव शत्रुघ्नश्च महामनाः ।
कौसल्या च सुमित्रा च सीता दशरथस्तथा ॥ ंोट्_१,१.२६ ॥


स्पष्टम् ॥ ंोट्_१,१.२६ ॥


कृतास्थश्चाविरोधश्च बोधपारमुपागतः ।
वसिष्ठो वामदेवश्च मन्त्रिणोऽष्टौ तथेतरे ॥ ंो_१,१.२७ ॥
"कृतास्थ" इति नाम "अविरोध" इति च । "अष्टौ मन्त्रिणः" अष्टावमात्यास्। "तथेतरे" अन्येऽप्यष्टौ मन्त्रिणः । तेन षोडश मन्त्रिण इति परमार्थः ॥ ंोट्_१,१.२७ ॥
"इतर" इत्यस्यार्थं स्फुटं कथयति
घृष्टिर्विकुन्तो भामश्च सत्यवर्धन एव च ।
विभीषणः सुषेणश्च हनुमानिन्द्रजित्तथा ॥ ंो_१,१.२८ ॥
स्पष्टम् ॥ ंोट्_१,१.२८ ॥


एतेऽष्टाविंशतिः प्रोक्ताः समनीरागचेतसः ।
जीवन्मुक्ता महात्मानो यथाप्राप्तानुवर्तिनः ॥ ंो_१,१.२९ ॥
"यथाप्राप्तानुवर्तिनः" । न तु स्वप्रयत्ननिष्ठा इति यावत् ॥ ंोट्_१,१.२९ ॥


एभिर्यथा हृतं दत्तं गृहीतमुषितं स्मृतम् ।
तथा चेद्वर्तसे पुत्र मुक्त एवासि सङ्कटात् ॥ ंो_१,१.३० ॥
"एभिः" रामादिभिः ॥ ंोट्_१,१.३० ॥


भरद्वाजस्य प्रश्नावसरदानार्थं सर्गान्तश्लोकेन तावत्स्ववाक्यमुपसंहरति
अपारसंसारसमुद्रपाती
लब्ध्वा परां युक्तिमुदारसत्त्वः ।
न शोकमायाति न दैन्यमेति
गतज्वरस्तिष्ठति नित्यतृप्तः ॥ ंो_१,१.३१ ॥
"अपारः" यः "संसारसमुद्रः" । तत्र "पाती" पतनशीलः । "उदारसत्त्वः" उत्कृष्टधैर्ययुक्तः "पुरुषः" । "पराम्" उत्कृष्टाम् । "युक्तिं" दृश्यात्यन्ताभावज्ञानलक्षणां वक्ष्यमाणां युक्तिम् । प्राप्य । "शोकम्" अपेक्षालक्षणं शोकम् । "नायाति" । तथा "दैन्यम्" दीनत्वम् । अतृप्तिमिति यावत् । "नैति" । प्रत्युत "गतज्वरः" अपेक्षास्वरूपज्वररहितः । अत एव "नित्यतृप्तः" "तिष्ठती"ति शिवम् ॥ ंोट्_१,१.३१ ॥



इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे प्रथमः सर्गः ॥ १,१ ॥