मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः ३०
← सर्गः २९ | मोक्षोपायटीका/वैराग्यप्रकरणम् भास्करकण्ठः |
सर्गः ३१ → |
मोक्षोपायटीका/वैराग्यप्रकरणम् |
---|
एवं विरक्ततां प्रतिपाद्य वैराग्यकृतावस्थाकथनं प्रस्तौति
एवमभ्युत्थितानर्थसार्थसङ्कटकोटरम् ।
जगदालोक्य निर्मग्नं मनोमननकर्दमे ॥ १,२९.१ ॥
मनो मे भ्रमतीवेदं सम्भ्रमश्चोपजायते ।
गात्राणि परिकम्पन्ते पत्त्राणीव जरत्तरोः ॥ १,२९.२ ॥
"अभ्युत्थितः" अभ्युदयं गतः । यः "अनर्थसार्थ" अनर्थसमूहः । तेन "सङ्कटं" सम्बाधम् । "कोटरम्" मध्यं यस्य । तत् । "मनसः" यत्"मननम्" सङ्कल्पापरपर्यायो मननाख्यो धर्मः । स एव "कर्दमः" । तस्मिन् । "सम्भ्रमः" आवेगः । "गात्राणि" अङ्गानि ॥ १,२९.१२ ॥
अनाप्तोत्तमसन्तोषचर्योत्सङ्गाकुला मतिः ।
शून्यास्पदा बिभेतीह बालेवाल्पबलेश्वरा ॥ १,२९.३ ॥
"अनाप्तः" । "उत्तमसन्तोषस्य" "चर्यायाः" क्रियायाः । "उत्सङ्गः" अङ्कः । यया । सा । तादृशी चासौ । अत एव्"आकुला" च । बालापि अनाप्तप्रियसख्युत्सङ्गा आकुला भवति । "अल्पबलः ईश्वरः" पतिर् । यस्याः । सा । तादृशी । "अल्पबलेश्वरा" "शून्यास्पदा" च "बाला" हि स्फुटमेव "बिभेति" ॥ १,२९.३ ॥
विकल्पेभ्यो लुठन्त्येताश्चान्तःकरणवृत्तयः ।
श्वभ्रेभ्य इव सारङ्ग्यस्तुच्छालम्बविडम्बिताः ॥ १,२९.४ ॥
"विकल्पेभ्यः लुठन्ति" अन्यस्माद्विकल्पादन्यं विकल्पं यान्तीत्यर्थः । अथ वा मोहं गच्छन्तीति । "अन्तःकरणवृत्तयः" कथम्भूताः । "तुच्छाः" आपातमात्रमधुरत्वेन निःसाराः । ये "आलंबाः" विषयास्। तैर्"विडम्बिताः" वञ्चिताः । स्वोन्मुखाः कृता इति यावत् ॥ १,२९.४ ॥
अविवेकास्पदभ्रष्टाः कष्टे रूढा न सत्पदे ।
अन्धकूपमिवापन्ना वराकाश्चक्षुरादयः ॥ १,२९.५ ॥
"कष्टे" विषयाख्ये कठिने पदे इत्यर्थः ॥ १,२९.५ ॥
नावस्थितिमुपायाति न च याति यथेप्सितम् ।
चिन्ता जीवेश्वरायत्ता कान्तेवाप्रियसद्मनि ॥ १,२९.६ ॥
"अवस्थितिं" स्थैर्यम् । "यथेप्सितं" स्वेप्सितमर्थम् । "जीव" एव "ईश्वरः" पतिः । तस्य्"आयत्ता" वश्या । न तु स्वाधीना ॥ १,२९.६ ॥
जर्जरीकृत्य वस्तूनि त्यजन्ती बिभ्रती तथा ।
मार्गशीर्षान्तवल्लीव धृतिर्विधुरतां गता ॥ १,२९.७ ॥
"जर्जरीकृत्य" निर्विद्य । "बिभ्रती" । नवानीति शेषः । "धृतिः" लक्षणया धैर्ययुक्ता बुद्धिः ॥ १,२९.७ ॥
अपहस्तितसर्वार्थमनवस्थितिरास्थिता ।
गृहीत्वोत्सृज्य चात्मानमवस्थितिरवस्थिता ॥ १,२९.८ ॥
"अपहस्तिताः" हस्तादतीताः । "सर्वे अर्थाः" यत्र । तत् । निष्प्रयोजनमित्यर्थः । "अनवस्थितिः" अरतिः । "आस्थिता" दृढीभूता । "अवस्थितिः" रतिः । "आत्मानं गृहीत्वा" "उत्सृज्य" "चावस्थिता" शिथिलास्थितेत्यर्थः ॥ १,२९.८ ॥
चलिताचलितेनान्तरवष्टम्भेन मे मतिः ।
दरिद्राच्छिनवृक्षस्य मूलेनेव विडम्ब्यते ॥ १,२९.९ ॥
"दरिद्रैर्" "आच्छिन्नो" मूलदेशं तावच्छिन्नश्चासौ "वृक्षस्" । तस्य । "मूलेन" कर्त्रा । "चलिताचलितेन" क्षणमचलितेन । अवष्टम्भेन धैर्येण । उपलक्षिता "मे मतिः" कर्मभूता । "विडम्ब्यते"ऽनुक्रियते । मम मतिः छिन्नवृक्षमूलवदङ्कुरजननासमर्थास्तीति भावः ॥ १,२९.९ ॥
चेतश्चञ्चलमाभोगि भुवनान्तर्विहारि च ।
सम्भ्रमं न जहातीदं स्वविमानमिवामरः ॥ १,२९.१० ॥
"आभोगि" विकल्पाख्याभोगयुक्तम् ॥ १,२९.१० ॥
अतोऽतुच्छमनायासमनुपाधि गतभ्रमम् ।
किं तत्स्थितिपदं साधु यत्र शङ्का न विद्यते ॥ १,२९.११ ॥
स्थितेः योग्यं पदं "स्थितिपदं" । "शङ्का" नाशशङ्का ॥ १,२९.११ ॥
सर्वारम्भसमारम्भाः सुजना जनकादयः ।
व्यवहारपरा एव कथमुत्तमतां गताः ॥ १,२९.१२ ॥
"सर्वारम्भेषु" "समारम्भः" येषाम् । ते । सर्वकारिण इति यावत् । "सुजनाः" सज्जनाः ॥ १,२९.१२ ॥
लग्नेनापि किलाङ्गेषु बहुना बहुमानद ।
कथं संसारपङ्केन पुमानिह न लिप्यते ॥ १,२९.१३ ॥
"न लिप्यते" स्वावेशेनोत्पादितैः सुखदुःखैः पापपुण्यैः वा न गृह्यते ॥ १,२९.१३ ॥
कां दृष्टिं समुपाश्रित्य भवन्तो वीतकल्मषाः ।
महान्तो विचरन्तीह जीवन्मुक्ता महाशयाः ॥ १,२९.१४ ॥
तां ममापि कथयेति भावः ॥ १,२९.१४ ॥
लोभयन्तो भयायैव विषयाभोगभोगिनः ।
भङ्गुराकारविभवाः कथमायान्ति भव्यताम् ॥ १,२९.१५ ॥
"भयायैव" न तु सुखाय । "विषयाः" "भोगाः" । भोगयुक्ताः भोगिनः "भोगभोगिनः" । पुष्टशरीरयुक्तसर्पस्वरूपा इत्यर्थः । "भङ्गुराकारः" नश्वरस्वभावः । "विभवः" उत्पत्तिस्थानं येषाम् । तादृशाः । "भव्यताम्" रागानुत्पादकत्वेन रमणीयताम् ॥ १,२९.१५ ॥
मोहमातङ्गमृदिता कलङ्ककलितान्तरा ।
परं प्रसादमायाति शेमुषीसरसी कथम् ॥ १,२९.१६ ॥
"कलङ्को"ऽत्र भोगानुसन्धानरूपो ज्ञेयः । "शेमुषी" बुद्धिः । सा एव "सरसी" ॥ १,२९.१६ ॥
संसार एव निवसञ्जनो व्यवहरन्नपि ।
न बन्धं कथमायाति पद्मपत्त्रे पयो यथा ॥ १,२९.१७ ॥
स्पष्टम् ॥ १,२९.१७ ॥
आत्मवत्तृणवद्वेदं सकलं जनयञ्जगत् ।
कथमुत्तमतामेति मनोमन्मथमस्पृशन् ॥ १,२९.१८ ॥
"जनयन्" उत्पादयन् । लक्षणया जाननित्यर्थः । मनो हि ज्ञानद्वारेणैव सर्वं जनयति । उभयथापि मोक्ष एवेति भावः ॥ १,२९.१८ ॥
कं महापुरुषं पारमुपयातं भवोदधेः ।
आचारेणानुसृत्यायं जनो याति न दुष्कृतम् ॥ १,२९.१९ ॥
स्पष्टम् ॥ १,२९.१९ ॥
किं तद्यदुचितं श्रेयः किं तत्स्यादुचितं फलम् ।
वर्तितव्यं च संसारे कथं नामासमञ्जसे ॥ १,२९.२० ॥
"असमञ्जसे" विषमे ॥ १,२९.२० ॥
तत्त्वं कथय मे किञ्चिद्येनास्य जगतः प्रभो ।
वेद्मि पूर्वापरां धातुश्चेष्टितस्यासमस्थितिम् ॥ १,२९.२१ ॥
"येन" कथितेन । "पूर्वापराम्" अन्तद्वययुक्ताम् । समग्रामिति यावत् । "असमस्थितिं" विषमां स्थितिम् । "जगतः" कथम्भूतस्य । "धातुश्चेष्टितस्य" ब्रह्मचेष्टितरूपस्य ॥ १,२९.२१ ॥
हृदयाकाशशशिनश्चेतसो मलमार्जनम् ।
यथा मे जायतां ब्रह्मंस्तथा निर्विघ्नमाचर ॥ १,२९.२२ ॥
"मलमार्जनम्" संशयाख्यमलमार्जनम् ॥ १,२९.२२ ॥
किमिह स्यादुपादेयं किं वा हेयमथेतरत् ।
कथं विश्रान्तिमायातु चेतश्चपलमद्रिवत् ॥ १,२९.२३ ॥
"अथ इतरद्" उपेक्ष्यं किमस्ति ॥ १,२९.२३ ॥
केन पावनमन्त्रेण दुःसंसृतिविषूचिका ।
शाम्यतीयमनायासमायासशतकारिणी ॥ १,२९.२४ ॥
स्पष्टम् ॥ १,२९.२४ ॥
कथं शीतलतामन्तरानन्दतरुमञ्जरीम् ।
पूर्णचन्द्र इवाक्षीणां राकामासादयाम्यहम् ॥ १,२९.२५ ॥
"राकाम्" पूर्णिमाम् ॥ १,२९.२५ ॥
प्राप्यान्तःपूर्णतामन्तर्न शोचामि यथा पुनः ।
सन्तो भवन्तस्तत्त्वज्ञास्तथैवोपदिशन्तु माम् ॥ १,२९.२६ ॥
स्पष्टम् ॥ १,२९.२६ ॥
सर्गान्तश्लोकेनैतत्समापयति
अनुत्तमानन्दपदप्रधान
विश्रान्तिरिक्तं हि मनो महात्मन् ।
कदर्थयन्तीह भृशं विकल्पाः
श्वानो वने देहमिवाल्पजीवम् ॥ १,२९.२७ ॥
"कदर्थयन्ति" मथ्नन्ति । इति शिवम् ॥ १,२९.२७ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकोनत्रिंशः सर्गः ॥ १,२९ ॥