मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः १४
← सर्गः १३ | मोक्षोपायटीका/वैराग्यप्रकरणम् भास्करकण्ठः |
सर्गः १५ → |
मोक्षोपायटीका/वैराग्यप्रकरणम् |
---|
अधुनाहङ्कारनिन्दां प्रस्तौति
मुधैवाभ्युत्थितो मोहान्मुधैव परिवर्धते ।
मिथ्यामयेन भीतोऽस्मि दुरहङ्कारशत्रुणा ॥१,१४.१ ॥
"मिथ्यामयेन" मिथ्यास्वरूपेण ॥१,१४.१ ॥
अहङ्कारवशादेव दोषकोशः कदर्थनाम् ।
ददाति दीनदीनानां संसारो विविधाकृतिः ॥१,१४.२ ॥
"कदर्थनां" दुःखम् ॥१,१४.२ ॥
अहङ्कारवशादापदहङ्काराद्दुराधयः ।
अहङ्कारवशादीहाप्यहङ्कारो महामयः ॥१,१४.३ ॥
"ईहा" भोगार्थं चेष्टा ॥१,१४.३ ॥
तमहङ्कारमाश्रित्य परमं चिरवैरिणम् ।
न भुञ्जे न पिबाम्यम्भः किमु भोगान् भजे मुने ॥१,१४.४ ॥
स्पष्टम् ॥१,१४.४ ॥
संसाररज्जुरादीर्घा मम चेतसि मोहिनी ।
तताहङ्कारदोषेण किरातेनेव वागुरा ॥१,१४.५ ॥
"अहङ्कारदोषेणा"हङ्काराख्येन दोषेण ॥१,१४.५ ॥
यानि दुःखानि दीर्घाणि विषमाणि महान्ति च ।
अहङ्कारात्प्रसूतानि तान्यगात्खदिरा इव ॥१,१४.६ ॥
"अगात्" पर्वतात् ॥१,१४.६ ॥
शमेन्दोः सैंहिकेयास्यं गुणिपद्ममहाशनिम् ।
ज्ञानमेघशरत्कालमहङ्कारं त्यजाम्यहम् ॥१,१४.७ ॥
स्पष्टम् ॥१,१४.७ ॥
अहङ्कारत्यागमेव करोति
नाहं रामो न मे वाञ्छा भावेषु न च मे मनः ।
शान्त आसितुमिच्छामि स्वात्मन्येव जिनो यथा ॥१,१४.८ ॥
देहस्यैव रामत्वात् । मम चिन्मात्रत्वादिति भावः । "शान्तः" अहङ्काररहितः ॥१,१४.८ ॥
अहङ्कारवशाद्यद्यन्मया भुक्तं कृतं हृतम् ।
सर्वं तत्तदवस्त्वेव वस्त्वहङ्काररिक्तता ॥१,१४.९ ॥
"अहङ्काररिक्तता" अहङ्कारराहित्यम् ॥१,१४.९ ॥
अहमित्यस्ति चेद्ब्रह्मन्नहमापदि दुःखितः ।
सम्पत्सु सुखितस्तस्मादनहङ्कारिता धनः ॥१,१४.१० ॥
धनयुक्तस्य एव हि आपत्सु सम्पत्सु च दुःखादिस्पर्शो न भवतीति पूर्ववाक्ये भावः । फलितमाह "तस्माद्" इति । "तस्मात्" ततो हेतोः । "अनहङ्कारिता धनः" धनं भवति । देहात्मत्वे निश्चितः पुरुषो हि देहार्थं भोगजालमिच्छन् भोगराहित्यरूपायामापदि दुःखी भवति । तत्सम्पत्तिरूपायां सम्पदि सुखी भवति । चिन्मात्रात्मत्वे निश्चितोऽहं न तादृशो भवामीति भावः ॥१,१४.१० ॥
अहङ्कारं परित्याज्य मुने शान्तमनास्तथा ।
अवतिष्ठे गतोद्वेगो भोगौघेऽभङ्गुरास्पदम् ॥१,१४.११ ॥
"अवतिष्ठे" तिष्ठामि । "अहङ्कारं" कथम्भूतम् । "भोगौघे" भोगसमूहे । "अभङ्गुरास्पदम्" अनश्वरप्रतिष्ठम् ॥१,१४.११ ॥
ब्रह्मन् यावदहङ्कारवारिदः प्रविजृम्भते ।
तावद्विकासमायाति तृष्णाकुटजमञ्जरी ॥१,१४.१२ ॥
स्पष्टम् ॥१,१४.१२ ॥
अहङ्कारघने शान्ते तृष्णानवतडिल्लता ।
शान्तदीपशिखावृत्त्या क्वापि यास्यति सत्वरम् ॥१,१४.१३ ॥
स्पष्टम् ॥१,१४.१३ ॥
अहङ्कारमहाविन्ध्ये मनोमत्तमतङ्गजः ।
विस्फूर्जति घनास्फोटैः स्तनितैरिव वारिदः ॥१,१४.१४ ॥
"विस्फूर्जति" विलसति । "घनास्फोटैः" निविडकर्णतालैः ॥१,१४.१४ ॥
इह देहमहादर्यां घनाहङ्कारकेसरी ।
योऽयमुल्लसति स्फारं तेनेदं जगदाततम् ॥१,१४.१५ ॥
अनहङ्कारित्वे हि सदपि जगन्नास्ति अपेक्षाविषयत्वाभावात् ॥१,१४.१५ ॥
तृष्णातन्तुलवप्रोता बहुजन्मपरम्परा ।
अहङ्कारोग्रशिड्गेन कण्ठे मुक्तावली कृता ॥१,१४.१६ ॥
"शिड्गो" हि "तन्तुप्रोताम्" "मुक्तावलीं" "कण्ठे" करोति ॥१,१४.१६ ॥
पुत्रदारकलत्राणि तन्त्रं मन्त्रविवर्जितम् ।
प्रसारितमनेनेह दुरहङ्कारवैरिणा ॥१,१४.१७ ॥
स्पष्टम् ॥१,१४.१७ ॥
प्रमार्जितेऽहमित्यस्मिन् पदे स्वयमखिद्यता ।
प्रमार्जिता भवन्त्येव सर्वा एव दुराधयः ॥१,१४.१८ ॥
स्पष्टम् ॥१,१४.१८ ॥
अहमित्यम्बुदे शान्ते शनैः सुशमशालिनि ।
मनोमननसम्मोहमिहिका क्वापि गच्छति ॥१,१४.१९ ॥
"मनसः" यः "मननसम्मोहः" मननरूपः । स एव "मिहिका" नीहारः ॥१,१४.१९ ॥
निरहङ्कारवृत्तेर्मे मौर्ख्याच्छोकेन सीदतः ।
यत्किञ्चिदुचितं ब्रह्मंस्तदाख्यातुमिहार्हसि ॥१,१४.२० ॥
प्रथममहङ्कारं स्वयमेव त्यजामि । पश्चात्त्वदुक्तं करोमीति भावः ॥१,१४.२० ॥
सर्गान्तश्लोकेनाहङ्कारनिन्दां समापयति
सर्वापदां निलयमध्रुवमन्तरस्थम्
उन्मुक्तमुत्तमगुणेन न संश्रयामि ।
यत्नादहङ्कृतिपदं परितोऽतिदुःखम्
शेषेण मां समनुशाधि महानुभाव ॥१,१४.२१ ॥
"अहङ्कृतिपदम्" अहङ्कृत्याख्यं स्थानम् । "शेषेणे"ति अहङ्काराश्रयणं त्यक्त्वा यत्किञ्चित्समाज्ञापयसि तत्सम्पादयामीति भावः । अहङ्कारश्च इदन्ताविषयत्वयोग्ये देहे अहन्ताविषयत्वसञ्जननं ज्ञेयम् । इति शिवम् ॥१,१४.२१ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे चतुर्दशः सर्गः ॥ १,१४ ॥