मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः १३
← सर्गः १२ | मोक्षोपायटीका/वैराग्यप्रकरणम् भास्करकण्ठः |
सर्गः १४ → |
मोक्षोपायटीका/वैराग्यप्रकरणम् |
---|
एवं श्रीनिन्दां कृत्वा जीवितनिन्दां करोति
आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् ।
उन्मत्तमिव सन्त्यज्य यात्यकाण्डे शरीरकम् ॥१,१३.१ ॥
"आयुः" जीवितम् । "याती"ति सम्बन्धः । "अकाण्डे" असमये । तत्सम्मतिरूपं समयमुल्लङ्घ्येति यावत् ॥१,१३.१ ॥
विषयाशीर्विषासङ्गपरिजर्जरचेतसाम् ।
अप्रौढात्मविवेकानामायुरायासकारणम् ॥१,१३.२ ॥
स्पष्टम् ॥१,१३.२ ॥
ये तु विज्ञातविज्ञेया विश्रान्ता वितते पदे ।
भावाभावसमाश्वस्ता आयुस्तेषां सुखायते ॥१,१३.३ ॥
"विश्रान्ता" आत्मत्वे निश्चिताः । "वितते" अपरिमिते । "भावाभावेषु" प्रवाहागतेषु नाशोत्पादेषु । "समाश्वस्ताः" स्वभावादप्रच्युताः ॥१,१३.३ ॥
वयं परिमिताकारपरिनिष्ठितनिश्चयाः ।
संसाराभ्रतडित्पुञ्जे मुने नायुषि निर्वृताः ॥१,१३.४ ॥
"परिमितः" पारिमित्ययुक्तः । यः "आकारः" देहादिरूपः आकारः । तत्र "परिनिष्ठितः" निष्ठां गतः । "निश्चयः" आत्मनिश्चयः । येषाम् । ते । "निर्वृतिर्" हि अपरिमितस्वरूपनिष्ठत्वमिति भावः ॥१,१३.४ ॥
युज्यते वेष्टनं वायावाकाशस्य च खण्डनम् ।
ग्रथनं च तरङ्गाणामास्था नायुषि युज्यते ॥१,१३.५ ॥
"आस्था" दृढताविश्वासः ॥१,१३.५ ॥
पेलवं शरदीवाभ्रमस्नेहमिव दीपकम् ।
तरङ्गकमिवालोलं गतमेवोपलक्ष्यते ॥१,१३.६ ॥
आयुरिति शेषः । "पेलवं" लघु ॥१,१३.६ ॥
तरङ्गप्रतिबिम्बेन्दुं तडित्पुञ्जं नभोऽम्बुदम् ।
ग्रहीतुमास्थां बध्नामि न त्वायुषि गतस्थितौ ॥१,१३.७ ॥
स्पष्टम् ॥१,१३.७ ॥
अविश्रान्तमनाः शून्यमायुराततमीहते ।
दुःखायैव विमूढोऽन्तर्गर्भमश्वतरी यथा ॥१,१३.८ ॥
"अश्वतरी" खरस्त्रियामश्वाज्जाता वडवा । तस्या "गर्भः" कुक्षिपाटनं विना न निर्याति ॥१,१३.८ ॥
संसारसंसृतावम्भःफेनोऽस्मिन् सर्गसागरे ।
कायवल्ल्यां रसो राजञ्जीवितं मे न रोचते ॥१,१३.९ ॥
"सर्गसागरे" कथम्भूते । "संसारे" "संसृतिः" संसरणम् । यस्य । तादृशे । "अम्भःफेनः" अम्भोविकारः फेनः । दशरथं प्रति इयमुक्तिः ॥१,१३.९ ॥
प्राप्यं सम्प्राप्यते येन भूयो येन न शोच्यते ।
पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते ॥१,१३.१० ॥
"पराया" उत्कृष्टायाः ॥१,१३.१० ॥
तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः ।
स जीवति मनो यस्य मननेन न जीवति ॥१,१३.११ ॥
"मननेन" भोगानुसन्धानेन ॥१,१३.११ ॥
जातास्त एव जगति जन्तवः साधुजीविताः ।
ये पुनर्नेह जायन्ते शेषा जानीत गर्दभाः ॥१,१३.१२ ॥
यूयं "जानीत" । किमित्यपेक्षायामाह । "शेषा" इति । "शेषा" "गर्दभाः" भवन्ति ॥१,१३.१२ ॥
भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः ।
अशान्तं च मनो भारो भारोऽनात्मविदो वपुः ॥१,१३.१३ ॥
"अविवेकिनः" विवेकरहितस्य । "भार"त्वं च "शास्त्रा"देः सम्यग्ज्ञानाद्यर्थक्रियाकारित्वाभावेन ज्ञेयम् ॥१,१३.१३ ॥
रूपमायुर्मनो बुद्धिरहङ्कारस्तथेहितम् ।
भारो भारधरस्येव सर्वं दुःखाय दुर्धियः ॥१,१३.१४ ॥
"दुर्धियः" बुद्धिरहितस्य । बुद्धिरहितो हि "रूपा"दौ समतया पारवश्यं याति । ततश्च दुःखे निमज्जति ॥१,१३.१४ ॥
अविश्रान्तमनःपूर्णमापदां परमास्पदम् ।
नीडो रोगविहङ्गानामायुरायासनं दृढम् ॥१,१३.१५ ॥
"आयुः" कथम्भूतम् । "अविश्रान्तम्" परमपदविश्रान्तिरहितम् । यन् "मनस्" । तेन "पूर्णम्" ॥१,१३.१५ ॥
प्रत्यहं खेदमुत्सृज्य शनैरलमनारतम् ।
आश्वेव जन्मनः श्वभ्रं कालेन विनिखन्यते ॥१,१३.१६ ॥
कालनाश्यत्वं हि आयुषः प्रसिद्धम् ॥१,१३.१६ ॥
शरीरबिलविश्रान्तैर्विषदाहप्रदायिभिः ।
रोगैर्निपीयते रौद्रैर्व्यालैरिव वनानिलः ॥१,१३.१७ ॥
आयुरिति शेषः ॥१,१३.१७ ॥
प्रसुवानैरवच्छेदं तुच्छैरन्तरवासिभिः ।
दुःखैराकृष्यते क्रूरैर्घुणैरिव जरद्द्रुमः ॥१,१३.१८ ॥
"अवच्छेदं" छेदनम् । "प्रसुवानैर्" उत्पादयद्भिः । "आकृष्यते" स्ववशं नीयते ॥१,१३.१८ ॥
नूनं निगिरणायाशु घनगर्वमनारतम् ।
आखुर्मार्जारकेणेव मरणेनावलोक्यते ॥१,१३.१९ ॥
"अवलोक्यते" कदा एतत्ग्रसे इति दृश्यते ॥१,१३.१९ ॥
गर्वादिगुणगर्भिण्या शून्ययाशक्तिवश्यया ।
अन्नं महाशनेनेव जरसा परिजीर्यते ॥१,१३.२० ॥
"अशक्तिवश्यया" अशक्तिग्रस्तया ॥१,१३.२० ॥
दिनैः कतिपयैरेव परिज्ञाय गतादरम् ।
दुर्जनः सज्जनेनेव यौवनेनावमुच्यते ॥१,१३.२१ ॥
स्पष्टम् ॥१,१३.२१ ॥
विनाशसुहृदा नित्यं जरामरणबन्धुना ।
रूपं शिड्गवरेणेव कृतान्तेनाभिलष्यते ॥१,१३.२२ ॥
स्पष्टम् ॥१,१३.२२ ॥
सर्गान्तश्लोकेन जीवितनिन्दां समापयति
स्थिरतया सुखहारितया तया
सततमुज्झितमुत्तम फल्गु च ।
जगति नास्ति तथा गुणवर्जितम्
मरणमार्जितमायुरिदं यथा ॥१,१३.२३ ॥
"उत्तमे"त्यामन्त्रणम् । "फल्गु" निःसारम् । "मरणेन" "मार्जितं" सङ्क्षिप्तम् । इति शिवम् ॥१,१३.२३ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे त्रयोदशः सर्गः ॥ १,१३ ॥