← सर्गः १९ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः २१ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



एवं यौवननिन्दां सम्पाद्य तत्प्रसङ्गेन स्त्रीनिन्दां प्रस्तौति

मांसपुत्तलिकायाश्च यन्त्रलोलाङ्गपञ्जरे ।

स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियाः किमिव शोभनम् ॥ १,२०.१ ॥

"पुत्तलिकायाः" पुत्रिकायाः । "यन्त्र"वत्"लोलं" यत्"अङ्गपञ्जरं" । तस्मिन् । पुत्रिकापि यन्त्रस्था भवति । न हि किञ्चिदपि स्त्रियाः शोभनमिति भावः ॥ १,२०.१ ॥

 

 

 

त्वङ्मांसरक्तबाष्पास्रु पृथक्कृत्वा विलोचनम् ।

समालोकय रम्यं चेत्किं मुधा परिमुह्यसि ॥ १,२०.२ ॥

सर्वाङ्गानामुपलक्षणमेतत् ॥ १,२०.२ ॥

 

 

इतः केशा इतो रक्तमितीयं प्रमदातनुः ।

किमेतया निन्दितया करोतु विपुलाशयः ॥ १,२०.३ ॥

"विपुलाशयस्या"त्र रतिर्न युक्तेति भावः ॥ १,२०.३ ॥

 

 

वासोविलेपनैर्यानि लालितानि पुनः पुनः ।

तान्यङ्गान्यवलुम्पन्ति क्रव्यादाः सर्वदेहिनाम् ॥ १,२०.४ ॥

अतः स्त्रीणामपि "क्रव्यादा अवलुम्पन्ती"ति भावः ॥ १,२०.४ ॥

 

 

 

मेरोः शृङ्गतटोल्लासिगङ्गाजलरयोपमा ।

दृष्टा यस्मिन् स्तने मुक्ता हारस्योल्लासशालिनः ॥ १,२०.५ ॥

श्मशानेषु दिगन्तेषु स एव ललनास्तनः ।

श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः ॥ १,२०.६ ॥

स्पष्टम् । युग्मम् ॥ १,२०.५६ ॥

 

 

रक्तमांसादिदिग्धानि करभस्य यथा वने ।

तथैवाङ्गानि कामिन्यास्तत्प्रत्यपि हि को ग्रहः ॥ १,२०.७ ॥

स्पष्टम् ॥ १,२०.७ ॥

 

 

आपातरमणीयत्वं कल्प्यते केवलं स्त्रियाः ।

मन्ये तदपि नास्त्यत्र मुने मोहैककारणे ॥ १,२०.८ ॥

"अत्र" स्त्रीशरीरे ॥ १,२०.८ ॥

 

 

विपुलोल्लासदायिन्या मदोन्मथनपूर्वकम् ।

को विशेषो विकारिण्या मदिराया इह स्त्रियाः  ॥ १,२०.९ ॥

"मदिराया" इति पञ्चमी ॥ १,२०.९ ॥

 

 

 

ललनालानसंलीना मुने मानवदन्तिनः ।

प्रबोधं नाधिगच्छन्ति दीर्घैरपि शमाङ्कुशैः ॥ १,२०.१० ॥

स्पष्टम् ॥ १,२०.१० ॥

 

 

केशकज्जलधारिण्यस्तीक्ष्णाः प्रकृतितः सदा ।

दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् ॥ १,२०.११ ॥

स्पष्टम् ॥ १,२०.११ ॥

 

 

ते वन्द्यास्ते महात्मानस्त एव पुरुषा भुवि ।

ये सुखेन समुत्तीर्णाः साधो यौवतसङ्कटात् ॥ १,२०.१२ ॥

"यौवतसङ्कटात्" स्त्रीसमूहाख्यात् ॥ १,२०.१२ ॥

 

 

ज्वलतामतिदूरेऽपि सरसा अपि नीरसम् ।

स्त्रियो हि नरकाग्नीनां दारु चारु च दारुणम् ॥ १,२०.१३ ॥

"सरसा अपि" "स्त्रियः" "नीरसं" "दारु" भवन्तीति विरोधाभासः ॥ १,२०.१३ ॥

 

 

कीर्णान्धकारकवरी तरत्तारकलोचना ।

पूर्णेन्दुबिम्बवदना कुमुदोत्करहासिनी ॥ १,२०.१४ ॥

लीलाविलोलपुरुषा कार्यसंहारकारिणी ।

परं विमोहनं बुद्धेः कामिनी दीर्घयामिनी ॥ १,२०.१५ ॥

स्पष्टम् ॥ १,२०.१४१५ ॥

 

 

 

पुष्पाभिराममधुरा करपल्लवलासिनी ।

भ्रमरभ्रूविलासाढ्या स्तबकस्तनधारिणी ॥ १,२०.१६ ॥

पुष्पकेसरगौराङ्गी नरमारणतत्परा ।

ददात्युत्तमवैवश्यं कान्ता विषमहालता ॥ १,२०.१७ ॥

स्पष्टम् ॥ १,२०.१६१७ ॥

 

 

सीत्कारोच्छ्वासमात्रेण भुजङ्गदलनोत्कया ।

कान्तयोद्ध्रियते जन्तुः करिण्येवोरगो बिलात् ॥ १,२०.१८ ॥

"भुजङ्गाः" विटाः सर्पाश्च । "उद्ध्रियते" आकृष्यते ॥ १,२०.१८ ॥

 

 

कामनाम्ना किरातेन विकीर्णा मुग्धचेतसाम् ।

नार्यो नरविहङ्गानामङ्गबन्धनवागुराः ॥ १,२०.१९ ॥

स्पष्टम् ॥ १,२०.१९ ॥

 

 

 

ललनाविपुलालाने मनोमत्तमतङ्गजः ।

रतिशृङ्खलया ब्रह्मन् बद्धस्तिष्ठति मूकवत् ॥ १,२०.२० ॥

स्पष्टम् ॥ १,२०.२० ॥

 

 

जन्मपल्वलमत्स्यानां कर्मकोटरवारिणाम् ।

पुंसां दुर्वासनारज्जुर्नारी बडिशपिण्डिका ॥ १,२०.२१ ॥

"बडिशे" हि मत्स्यग्रहणार्थमन्नादि"पिण्डिका" स्थाप्यते ॥ १,२०.२१ ॥

 

 

 

मन्दुरेव तुरङ्गानामालानमिव दन्तिनाम् ।

पुंसामब्जमिवालीनां बन्धनं वामलोचनाः ॥ १,२०.२२ ॥

स्पष्टम् ॥ १,२०.२२ ॥

 

 

नानारसमयी चित्रा भोगभूमिरियं मुने ।

स्त्रियमाश्रित्य संयाता परामिह हि संस्थितिम् ॥ १,२०.२३ ॥

स्पष्टम् ॥ १,२०.२३ ॥

 

 

सर्वेषां दोषरत्नानां सुसमुद्गिकयानया ।

दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया ॥ १,२०.२४ ॥

"अलमस्तु" दूरे भवतु ॥ १,२०.२४ ॥

 

 

किं स्तनेन किमक्ष्णा वा किं नितम्बेन किं भ्रुवा ।

मांसमात्रैकसारेण करोम्यहमवस्तुना ॥ १,२०.२५ ॥

स्पष्टम् ॥ १,२०.२५ ॥

 

 

 

इतो मांसमितो रक्तमितोऽस्थीनि च वासरैः ।

ब्रह्मन् कतिपयैरेव याति स्त्री विशरारुताम् ॥ १,२०.२६ ॥

"इति"शब्द अध्याहार्यः ॥ १,२०.२६ ॥

 

 

यास्ता निष्परुषैस्तूलैर्लालिताः पतिभिः स्त्रियः ।

ता मुने प्रविभक्ताङ्ग्यः स्वपन्ति पितृभूमिषु ॥ १,२०.२७ ॥

"निष्परुषैः" कोमलैः । "तूलैः" तूलविकारैः शयनीयैः । "पितृभूमिषु" श्मशानेषु ॥ १,२०.२७ ॥

 

 

 

यस्मिन् घननवस्नेहं मुखे पत्त्राङ्कुरश्रियः  ।

कान्तेन रचिता ब्रह्मञ्शीर्यते तत्तु जङ्गले ॥ १,२०.२८ ॥

"घनः" "नवः" "स्नेहः" यत्र । तत् । क्रियाविशेषणमेतत् ॥ १,२०.२८ ॥

 

 

 

केशाः श्मशानवृक्षेषु यान्ति चामरलेशताम् ।

अस्थीन्युडुवदाभान्ति दिनैरवनिमण्डले ॥ १,२०.२९ ॥

"दिनैः" स्वल्पकालेनेत्यर्थः ॥ १,२०.२९ ॥

 

 

पिबन्ति पांसवो रक्तं क्रव्यादाश्चाप्यनेकशः ।

चर्मानलशिखा भुङ्क्ते खं यान्ति प्राणवायवः ॥ १,२०.३० ॥

इत्येषा ललनाङ्गानामचिरेणैव भाविनी ।

स्थितिर्मया वः कथिता किं भ्रान्तिमनुधावथ ॥ १,२०.३१ ॥

स्पष्टम् ॥ १,२०.३०३१ ॥

 

 

भूतपञ्चकसङ्घट्टसंस्थानं ललनाभिधम् ।

रसादभिवहत्वेतत्कथं नाम धियान्वितः ॥ १,२०.३२ ॥

"भूतपञ्चकस्य" यः "सङ्घट्टः" । तस्य "संस्थानं" रचनाविशेषः । "रसाद्" अभिलाषात् । "अभिवहतु" अनुयातु ॥ १,२०.३२ ॥

 

 

शाखावितानगहना कट्वम्लफलशालिनी ।

प्रतानोत्तालतामेति चिन्ता कान्तानुसारिणी ॥ १,२०.३३ ॥

"वितानं" समूहः । "प्रतानैर्" उपशाखाभिर् । या "उत्तालता" उद्भटता । ताम् । "कान्तानुसारिणी" कान्ताविषया । "कान्तानुसारिणी" "चिन्ता" अत्यन्तं घनीभवतीति भावः ॥ १,२०.३३ ॥

 

 

 

शोच्यतां परमामेति तरुणस्तरुणीरतः ।

निबद्धः करिणीलोभाद्विन्ध्यखाते यथा द्विपः ॥ १,२०.३४ ॥

स्पष्टम् ॥ १,२०.३४ ॥

 

 

यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य न भोगभूः ।

स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥ १,२०.३५ ॥

"भोगेषु" स्त्र्यादिरूपेषु । "भोगभूः" भोगेच्छा ॥ १,२०.३५ ॥

 

 

सर्गान्तश्लोकेन स्त्रीनिन्दां समापयति

आपातमात्रमधुरेषु दुरुत्तरेषु

भोगेषु नाहमलिपक्षतिपेलवेषु  ।

ब्रह्मन् रमे मरणरोगजरादिभीत्या

शाम्याम्यहं परमुपैमि वनं प्रयत्नात् ॥ १,२०.३६ ॥

स्पष्टम् । इति शिवम् ॥ १,२०.३६ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे विंशः सर्गः ॥ १,२० ॥