← सर्गः १५ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः १७ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



एवं मनोनिन्दां कृत्वा तृष्णानिन्दां प्रस्तौति

हार्दान्धकारशर्वर्या तृष्णयेह दुरन्तया ।

चरन्ति चेतनाकाशे दोषकौशिकपङ्क्तयः ॥ ंो_१,१६.१ ॥

"चेतनाकाशे" चित्ताकाशे । "दोषाः" रागादयः । युक्तं च शर्वर्यां कौशिकचरणम् ॥ ंोट्_१,१६.१ ॥

 

 

अन्तर्दाहप्रदायिन्या समूढरसमार्दवः ।

पङ्क आदित्यदीप्त्येव शोषं नीतोऽस्मि चिन्तया ॥ ंो_१,१६.२ ॥

"समूढं" धृतम् । "रसमार्दवम्" आस्वादकृतं जलकृतं च मार्दवं येन । सः । "चिन्ता" चात्र तृष्णा एव ज्ञेया । तृष्णायाः चिन्तारूपत्वानपायात् । एवमुत्तरत्रापि ज्ञेयम् ॥ ंोट्_१,१६.२ ॥

 

 

 

मम चित्तमहारण्ये व्यामोहतिमिराकुले ।

शून्ये ताण्डविनी मत्ता भृशमाशा पिशाचिका ॥ ंो_१,१६.३ ॥

"आशा" तृष्णा ॥ ंोट्_१,१६.३ ॥

 

 

रजोरचितनीहारा काञ्चनावचयोज्ज्वला ।

नूनं विकासमायाति चिन्ता मेऽशोकमञ्जरी ॥ ंो_१,१६.४ ॥

"नूनं" निश्चये । "चिन्ता" "अशोकमञ्जरी" "मे" "विकासम्" "आयाति" । कथम्भूता । "रजसा" स्वयमुत्पादितेन लोभेन । "रचितः" "नीहारः" जाड्यं यया । सा । "रजसा" परागेण । "रचितः" उत्पादितः । "नीहारः" यया सेति च । "काञ्चनावचयेन" काञ्चनसङ्ग्रहेण । "उज्ज्वला" ज्वलन्ती । काञ्चनावचयवतुज्ज्वला च ॥ ंोट्_१,१६.४ ॥

 

 

अलमन्तर्भ्रमायैषा तृष्णा कवलिताशया ।

आयाता विमलोल्लासमूर्मिरम्बुनिधाविव ॥ ंो_१,१६.५ ॥

"अन्तर्" मनसि । "भ्रमाय" मिथ्याज्ञानाय ॥ ंोट्_१,१६.५ ॥

 

 

उद्दामकल्लोलरवा देहाद्रौ वहतीव मे ।

तरङ्गिततराकारा तरतृष्णातरङ्गिणी ॥ ंो_१,१६.६ ॥

तरन्ती चासौ तृष्णातरङ्गिणी "तरतृष्णातरङ्गिणी" ॥ ंोट्_१,१६.६ ॥

 

 

वेगं संरोद्धुमुदितो वात्ययेव जरत्तृणम् ।

नीतः कलुषया क्वापि धियायं चित्तचातकः ॥ ंो_१,१६.७ ॥

"वेगं" स्वकीयं वेगम् । "धिया" तृष्णाविष्टया बुद्ध्या ॥ ंोट्_१,१६.७ ॥

 

 

 

यां यामहमधीतास्थामाश्रयामि गुणश्रियम् ।

तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका ॥ ंो_१,१६.८ ॥

"अधीतास्थाम्" शिक्षितदार्ढ्यम् । दृढामिति यावत् ॥ ंोट्_१,१६.८ ॥

 

 

 

पयसीव जरत्पर्णं वायाविव जरत्तृणम् ।

नभसीव शरन्मेघश्चिन्ताचक्रे भ्रमाम्यहम् ॥ ंो_१,१६.९ ॥

"चिन्ताचक्रे" तृष्णाचक्रे ॥ ंोट्_१,१६.९ ॥

 

 

 

गन्तुमास्पदमात्मीयमसमर्थधियो वयम् ।

चिन्ताजाले विमुह्यामो जाले शकुनयो यथा ॥ ंो_१,१६.१० ॥

"आत्मीयमास्पदम्" परमात्मतत्त्वाख्यं निजं स्थानम् ॥ ंोट्_१,१६.१० ॥

 

 

 

तृष्णाभिधानया तात दग्धोऽस्मि ज्वालया तथा ।

यथा दाहोपशमनमाशङ्के नामृतैरपि ॥ ंो_१,१६.११ ॥

स्पष्टम् ॥ ंोट्_१,१६.११ ॥

 

 

दूरं दूरमितो गत्वा समेत्य च पुनः पुनः ।

भ्रमत्याशु दिगन्तेषु तृष्णोन्मत्ता तुरङ्गमी ॥ ंो_१,१६.१२ ॥

स्पष्टम् ॥ ंोट्_१,१६.१२ ॥

 

 

जडसंसङ्गिणी तृष्णा कृतोर्ध्वाधोगमागमा ।

क्षुब्धा ग्रन्थिमती नित्यमरघट्टोग्ररज्जुवत् ॥ ंो_१,१६.१३ ॥

"ग्रन्थिमती" रागादिग्रन्थियुक्ता ॥ ंोट्_१,१६.१३ ॥

 

 

 

अन्तर्ग्रथितया देहे सम्भ्रमोच्छिद्यमानया ।

रज्ज्वेवाशु बलीवर्दस्तृष्णया वाह्यते जनः ॥ ंो_१,१६.१४ ॥

"देहे" शरीरे । "सम्भ्रमेण" न तु युक्त्या । "उच्छिद्यमानया" नाशयितुमारब्धया । "वाह्यते" यत्र तत्र नीयते ॥ ंोट्_१,१६.१४ ॥

 

 

पुत्रदारकलत्रादितृष्णया नित्यकृष्णया ।

खगेष्विव किरात्येह जालं लोकेषु रच्यते ॥ ंो_१,१६.१५ ॥

"पुत्रादिभिर्" एव हि लोकः संसारे बन्धमाप्नोति ॥ ंोट्_१,१६.१५ ॥

 

 

 

भाययत्यपि धीरेहमन्धयत्यपि सेक्षणम् ।

खेदयत्यपि सानन्दं तृष्णा कृष्णेव शर्वरी ॥ ंो_१,१६.१६ ॥

स्पष्टम् ॥ ंोट्_१,१६.१६ ॥

 

 

कुटिला कोमलस्पर्शा विषवैषम्यशंसिनी ।

दहत्यपि मनाक्स्पृष्टा तृष्णा कृष्णेव भोगिनी ॥ ंो_१,१६.१७ ॥

स्पष्टम् ॥ ंोट्_१,१६.१७ ॥

 

 

 

भिनत्ति हृदयं पुंसां मायामयविधायिनी ।

दौर्भाग्यदायिनी दीना तृष्णा कृष्णेव राक्षसी ॥ ंो_१,१६.१८ ॥

"माया" एव्"आमयः" रोगस्। तं करोतीति तादृशी । "दौर्भाग्यदायिनी" वैवर्ण्यकारिणी ॥ ंोट्_१,१६.१८ ॥

 

 

तन्द्रातन्त्रीगणं कोशे दधाना परिवेष्टितम् ।

नानन्दे राजते ब्रह्मंस्तृष्णाजर्जरवल्लकी ॥ ंो_१,१६.१९ ॥

"तन्द्राः" विषयेष्ववसादाः । ता एव "तन्त्र्यस्" । तासां "गणस्" । तं "परिवेष्टितं" सम्यक्बद्धम् । "आनन्दे" विश्रान्त्यवस्थारूपे आनन्दे नाट्ये च ॥ ंोट्_१,१६.१९ ॥

 

 

नित्यमेवातिमलिना कटुकोन्मादशालिनी ।

दीर्घा तन्वी घनस्नेहा तृष्णागह्वरवल्लरी ॥ ंो_१,१६.२० ॥

"तृष्णा" एव "गह्वरवल्लरी" श्वभ्रलता ॥ ंोट्_१,१६.२० ॥

 

 

अनानन्दकरी शून्या निष्फलात्यर्थमुन्नता ।

अमङ्गलकरी क्रूरा तृष्णा क्षीणेव मञ्जरी ॥ ंो_१,१६.२१ ॥

"क्षीणा मञ्जरी" निस्सारा मञ्जरी ॥ ंोट्_१,१६.२१ ॥

 

 

अनावर्जितचित्तापि सर्वमेवानुधावति ।

न चाप्नोति फलं किञ्चित्तृष्णा जीर्णेव कामिनी ॥ ंो_१,१६.२२ ॥

"अनावर्जितचित्ता" अरम्यत्वादवशीकृतजनहृदया ॥ ंोट्_१,१६.२२ ॥

 

 

संसारनृत्ते महति नानारससमाकुले ।

भुवनाभोगरङ्गेषु तृष्णा जरढनर्तकी ॥ ंो_१,१६.२३ ॥

"नानारसाः" सुखादिरूपाः शृङ्गारादिरूपाश्च ॥ ंोट्_१,१६.२३ ॥

 

 

जरा कुसुमिता रूढा पातोत्पातफलावलिः ।

संसारजङ्गले दीर्घे तृष्णाविषलता तता ॥ ंो_१,१६.२४ ॥

"रूढा" प्ररोहं गता ॥ ंोट्_१,१६.२४ ॥

 

 

यन्न शक्नोति तत्रापि धत्ते ताण्डवितां गतिम् ।

नृत्यत्यानन्दरहितं तृष्णा जीर्णेव नर्तकी ॥ ंो_१,१६.२५ ॥

स्पष्टम् ॥ ंोट्_१,१६.२५ ॥

 

 

भृशं स्फुरति नीहारे शाम्यत्यालोक आगते ।

दुःखौघेषु पदं धत्ते तृष्णाचपलवर्हिणी ॥ ंो_१,१६.२६ ॥

"नीहारे" मोहे । "आलोके" ज्ञाने ॥ ंोट्_१,१६.२६ ॥

 

 

 

जडकल्लोलबहला चिरं शून्यतरान्तरा ।

क्षणमुल्लासमायाति तृष्णाप्रावृट्तरङ्गिणी ॥ ंो_१,१६.२७ ॥

"जडकल्लोलैः" जाड्यरूपैः कल्लोलैः जलकल्लोलैश्च ॥ ंोट्_१,१६.२७ ॥

 

 

नष्टमुत्सृज्य तिष्ठन्तं वृक्षाद्वृक्षमिवा परम् ।

पुरुषात्पुरुषं याति तृष्णा लोलेव पक्षिणी ॥ ंो_१,१६.२८ ॥

"तृष्णा" "नष्टम्" "पुरुषम्" "उत्सृज्य" "पुरुषात्" तस्मान्नष्टात्पुरुषात् । "परम्" अन्यरूपम् । "तिष्ठन्तं" स्थितियुक्तम् । "पुरुषमा याति" । का "इव" । "पक्षिणीव" । यथा "पक्षिणी" "नष्टं वृक्षम्" परित्यज्य "वृक्षात्" तस्मात्नष्टात् । "अपरम्" अन्यरूपम् । "तिष्ठन्तं वृक्षं याति" । तथेत्यर्थः ॥ ंोट्_१,१६.२८ ॥

 

 

 

पदं करोत्यलङ्घ्येऽपि तृप्तापि फलमीहते ।

चिरं तिष्ठति नैकत्र तृष्णाचपलमर्कटी ॥ ंो_१,१६.२९ ॥

स्पष्टम् ॥ ंोट्_१,१६.२९ ॥

 

 

इदं कृत्वेदमायाति सर्वमेवासमञ्जसम् ।

अनारतं च यतते तृष्णा चेष्टेव दैविकी ॥ ंो_१,१६.३० ॥

"दैविकी" दैवसम्बन्धिनी ॥ ंोट्_१,१६.३० ॥

 

 

 

क्षणमायाति पातालं क्षणं याति नभस्तलम् ।

क्षणं भ्रमति दिक्कुञ्जे तृष्णाहृत्पद्मषट्पदी ॥ ंो_१,१६.३१ ॥

स्पष्टम् ॥ ंोट्_१,१६.३१ ॥

 

 

सर्वसंसारदोषाणां तृष्णैका दीर्घदुःखदा ।

अन्तःपुरस्थमपि या योजयत्यतिसङ्कटे ॥ ंो_१,१६.३२ ॥

"दोषाणाम्" इति निर्धारणे षष्ठी । दीर्घदुःखत्वमेवोत्तरार्धेन कथयति "अन्तःपुरस्थम्" इति ॥ ंोट्_१,१६.३२ ॥

 

 

 

प्रयच्छति परं जाड्यं परमालोकरोधिनी ।

मोहनीहारगहना तृष्णाजलदमालिका ॥ ंो_१,१६.३३ ॥

स्पष्टम् ॥ ंोट्_१,१६.३३ ॥

 

 

सर्वेषां जन्तुजालानां संसारव्यवहारिणाम् ।

परिप्रोतमनोमालास्तृष्णा बन्धनरज्जवः ॥ ंो_१,१६.३४ ॥

स्पष्टम् ॥ ंोट्_१,१६.३४ ॥

 

 

 

विचित्रवर्णा विगुणा दीर्घा मलिनसंस्थितिः ।

शून्याशून्यास्पदा तृष्णा शक्रकार्मुकधर्मिणी ॥ ंो_१,१६.३५ ॥

मलिनास्पदत्वं शक्रकार्मुकपक्षे मेघाश्रयत्वेन ज्ञेयम् ॥ ंोट्_१,१६.३५ ॥

 

 

 

अशनिर्गुणसस्यानां फलिता शरदापदे ।

हिमं सम्पत्सरोजिन्यास्तमसां दीर्घयामिनी ॥ ंो_१,१६.३६ ॥

तृष्णा का । "आपदे" आपदर्थम् । "फलिता" "शरत्" फलयुक्ता शरद् । आपत्प्रदेत्यर्थः ॥ ंोट्_१,१६.३६ ॥

 

 

संसारनाटकनटी कायालयविहङ्गमी ।

मानसारण्यहरिणी स्मरसङ्गीतवल्लकी ॥ ंो_१,१६.३७ ॥

स्पष्टम् ॥ ंोट्_१,१६.३७ ॥

 

 

व्यवहाराब्धिलहरी मोहमातङ्गशृङ्खला ।

मार्गन्यग्रोधसुभगा दुःखकैरवचन्द्रिका ॥ ंो_१,१६.३८ ॥

"मार्गे" "न्यग्रोध"च्छायावत्परिणामदुःखावहेत्यर्थः ॥ ंोट्_१,१६.३८ ॥

 

 

जरामरणदुःखानामेका रत्नसमुद्गिका ।

आधिव्याधिविलासानां नित्यमत्ता विलासिनी ॥ ंो_१,१६.३९ ॥

"समुद्गिका" पेटिका ॥ ंोट्_१,१६.३९ ॥

 

 

क्षणमालोकविमला सान्धकारलवा क्षणम् ।

व्योमवीथीसमा तृष्णा नीहारगहना क्षणम् ॥ ंो_१,१६.४० ॥

स्पष्टम् ॥ ंोट्_१,१६.४० ॥

 

 

गच्छतूपशमं तृष्णा कार्यव्यायामशान्तये ।

तमी घनतमःकृष्णा यथा रक्षोनिवृत्तये ॥ ंो_१,१६.४१ ॥

"कार्य"कृतः यः "व्यायामः" । तस्य "शान्तये" । "तमी" रात्रिः ॥ ंोट्_१,१६.४१ ॥

 

 

तावन्मुह्यत्ययं लोको मूको विलुलिताशयः ।

यावदेवानुसन्धत्ते तृष्णाविषविषूचिकाम् ॥ ंो_१,१६.४२ ॥

"विषविषूचिका" विषभक्षणकृतो रोगविशेषः ॥ ंोट्_१,१६.४२ ॥

 

 

लोकोऽयमखिलं दुःखं चिन्तयोज्झित उज्झति ।

चिन्ताविषूचिकामन्त्रश्चिन्तात्यागो हि कथ्यते ॥ ंो_१,१६.४३ ॥

"दुःखं" चिन्तास्वरूपं दुःखम् ॥ ंोट्_१,१६.४३ ॥

 

 

तृणपाषाणकाष्ठादि सर्वमामिषशङ्कया  ।

आदधाना स्फुरत्यन्तस्तृष्णा मत्स्यी ह्रदे यथा ॥ ंो_१,१६.४४ ॥

स्पष्टम् ॥ ंोट्_१,१६.४४ ॥

 

 

 

रोगार्तिरङ्गगा तृष्णा गम्भीरमपि मानवम् ।

उत्तानतां नयत्याशु सूर्यांशव इवाम्बुजम् ॥ ंो_१,१६.४५ ॥

"उत्तानताम्" उत्तानपाणित्वम् । याचकभावमिति यावत् ॥ ंोट्_१,१६.४५ ॥

 

 

अहो बत महच्चित्रं तृष्णामपि महाधियः ।

दुश्छेदामपि कृन्तन्ति विवेकेनामलासिना ॥ ंो_१,१६.४६ ॥

स्पष्टम् ॥ ंोट्_१,१६.४६ ॥

 

 

 

नासिधारा न वज्राग्निर्न तप्तायःकणार्चिषः ।

तथा तीक्ष्णा यथा ब्रह्मंस्तृष्णेयं हृदि संस्थिता ॥ ंो_१,१६.४७ ॥

स्पष्टम् ॥ ंोट्_१,१६.४७ ॥

 

 

कज्जलासिततीक्ष्णाग्राः स्नेहदीर्घदशापराः ।

प्रकाशा दाहदस्पर्शास्तृष्णा दीपशिखा इव ॥ ंो_१,१६.४८ ॥

"कज्जलासिताश्" च ताः "तीक्ष्णाग्राश्" च । "स्नेहः" रागः तैलं च । "दशा" अवस्था वर्तिश्च ॥ ंोट्_१,१६.४८ ॥

 

 

 

अपि मेरूपमं प्राज्ञमपि शूरमपि स्थिरम् ।

तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् ॥ ंो_१,१६.४९ ॥

"तृणीकरोति" लघूकरोतीत्यर्थः ॥ ंोट्_१,१६.४९ ॥

 

 

विस्तीर्णगहना भीमा घनजालरजोमयी ।

सान्धकारोग्रनीहारा तृष्णा विन्ध्यमहाटवी ॥ ंो_१,१६.५० ॥

"विस्तीर्णा" चासौ "गहना" च । विन्ध्यमहाटवीपक्षे "विस्तीर्णानि गहनानि" यस्याः । सेति । "घना" चासौ बन्धकत्वात्"जाल"रूपा च । तादृशी चासौ "रजोमयी" च रजोगुणमयी च । मेघजालेन रजसा च व्याप्तेत्यटवीपक्षे । "सान्धकारा" अज्ञानान्ध्ययुक्ता । "उग्रनीहारा" कठिनमोहयुक्ता ॥ ंोट्_१,१६.५० ॥

 

 

 

सर्गान्तश्लोकेन तृष्णानिन्दां समापयति

एकैव सर्वभुवनान्तरलब्धलक्ष्या

दुर्लक्षतामुपगतैव पुरःस्थितेव ।

तृष्णा स्थिता जगति चञ्चलवीचिमाले

क्षीरार्णवाम्बुपटले मधुरेव शक्तिः ॥ ंो_१,१६.५१ ॥

"दुर्लक्षताम्" "उपगतैवा"त्यन्तासत्त्वादिति भावः । "मधुरा शक्तिः" माधुर्याख्यो गुणः । इति शिवम् ॥ ंोट्_१,१६.५१ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे षोडशः सर्गः ॥ १,१६ ॥