← सर्गः १६ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः १८ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



एवं तृष्णानिन्दां कृत्वा शरीरनिन्दां प्रस्तौति

आर्द्रान्त्रतन्त्रीगहनो विकारी परितापवान् ।

देहः स्फुरति संसारे सोऽपि दुःखाय केवलम् ॥ ंो_१,१७.१ ॥

"आर्द्रा" रक्तार्द्राः । याः "अन्त्रतन्त्र्यः" । ताभिः "गहनः" दुर्गमः । "विकारी" रोगवान् ॥ ंोट्_१,१७.१ ॥

 

 

 

देहमेव विस्तरेण विशिनष्टि

अज्ञोऽपि तज्ज्ञसदृशो वलितात्मचमत्कृतिः ।

युक्त्या भव्योऽप्यभव्यो मे न जडो नापि चेतनः ॥ ंो_१,१७.२ ॥

"अज्ञोऽपि" पाषाणतुल्यत्वेनाचेतनोऽपि । "तज्ज्ञसदृशः" प्रमातृत्वेन भासमानत्वात् । "वलिते"ति देहाहम्भावनयैव परम्"आत्मचमत्कारो" व्यवधानं याति । "युक्त्या" योगादिरूपया युक्त्या । "भव्योऽपि" श्रेष्ठोऽपि मोक्षसाधनत्वात् । "मे अभव्यः" मद्दृष्ट्याभव्यः ॥ ंोट्_१,१७.२ ॥

 

 

 

जडाजडदृशोर्मध्ये दोलायितदुराशयः ।

न विवेकी न मूढात्मा मोहमेव प्रयच्छति ॥ ंो_१,१७.३ ॥

"जडत्वे" पाषाणवत्चेष्टाश्रयो न स्यात् । "अजडत्वे" ग्राह्यतां न यायादिति भावः ॥ ंोट्_१,१७.३ ॥

 

 

 

स्तोकेनानन्दामायाति स्तोकेनायाति खिन्नताम् ।

नास्ति देहसमः शोच्यो नीचो गुणबहिष्कृतः ॥ ंो_१,१७.४ ॥

"नीचो" हि "स्तोकेनानन्दमायाति खिन्नतां" च्"आयाति" ॥ ंोट्_१,१७.४ ॥

 

 

आगमापायिना नित्यं दन्तकेसरशालिना ।

विकासिस्मितपुष्पेण प्रतिक्षणमलङ्कृतः ॥ ंो_१,१७.५ ॥

स्पष्टम् ॥ ंोट्_१,१७.५ ॥

 

 

भुजशाखौघनमितो द्विजानुस्तम्भसुस्थितः  ।

लोचनालिवनाक्रान्तः शिरःपीठबृहत्फलः ॥ ंो_१,१७.६ ॥

स्पष्टम् ॥ ंोट्_१,१७.६ ॥

 

 

 

स्रवदस्रुरसस्रोता हस्तपादसुपल्लवः ।

गुल्फवान् कार्यसङ्घातविहङ्गमततास्पदम् ॥ ंो_१,१७.७ ॥

"कार्यसङ्घातविहङ्गमानां ततं" विस्तीर्णम् । "आस्पदम्" ॥ ंोट्_१,१७.७ ॥

 

 

 

सच्छायो देहवृक्षोऽयं जीवपान्थगणास्पदम् ।

कस्यात्मीयः कस्य पर आस्थानास्थे किलात्र के ॥ ंो_१,१७.८ ॥

"आस्थानास्थे" इति उपेक्षा एवात्र युक्तेति भावः ॥ ंोट्_१,१७.८ ॥

 

 

भारसन्तारणार्थेन गृहीतायां पुनः पुनः ।

नावि देहलतायां च कस्य स्यादात्मभावना ॥ ंो_१,१७.९ ॥

देहपक्षे "भारसन्तारणार्थेन" संसारभारसमाप्तये । देहं विना हि संसारो नश्यति ॥ ंोट्_१,१७.९ ॥

 

 

देहनाम्नि वने शून्ये बहुगर्तसमाकुले ।

तनूरुहासङ्ख्यतरौ विश्वासं कोऽधिगच्छति ॥ ंो_१,१७.१० ॥

"गर्ताः" अत्र विषयाः ॥ ंोट्_१,१७.१० ॥

 

 

चर्मस्नाय्वस्थिवलिते शरीरपटहे दृढे ।

मार्जारवदहं नान्तस्तिष्ठाम्यविरतध्वनौ ॥ ंो_१,१७.११ ॥

"स्नायवः" सूक्ष्मनाड्यः "पटहा"न्तरे । "मार्जारो" हि तत्र "न" तिष्ठति ॥ ंोट्_१,१७.११ ॥

 

 

 

संसारारण्यसंरूढो विलसच्चित्तमर्कटः  ।

चिन्तामञ्जरिकाकारो दीर्घदुःखघुणक्षतः ॥ ंो_१,१७.१२ ॥

तृष्णाभुजङ्गमीदेहः कोपकाककृतालयः ।

स्मितपुष्पो द्रुमः श्रीमाञ्शुभाशुभमहाफलः ॥ ंो_१,१७.१३ ॥

सुस्कन्धो दोर्लताजालो हस्तस्तबकसुन्दरः ।

पवनस्पन्दिताशेषस्वाङ्गावयवपल्लवः ॥ ंो_१,१७.१४ ॥

सर्वेन्द्रियखगाधारः सुजानुः सुत्वगुन्नतः ।

सरसच्छायया युक्तः कामपान्थनिषेवितः ॥ ंो_१,१७.१५ ॥

मूर्ध्नि सञ्जनितादीर्घशिरोरुहतृणावलिः ।

अहङ्कारजरद्गृद्धकुलायसुषिरोदरः ॥ ंो_१,१७.१६ ॥

उच्छिन्नवासनाजालमूलत्वाद्दुर्बलाकृतिः ।

व्यायामविरमः कायवृक्षोऽयं न सुखाय मे ॥ ंो_१,१७.१७ ॥

"अहङ्कार" एव "गृद्धः" । तस्य "कुलाय"भूतं यत्"सुषिरं" विवरम् । तत्"उदरे" यस्य । तत्तादृशम् । "दुर्बलाकृतिः" शिथिलाकृतिः । "वासनया" अहम्भावेन गृहीत एव हि देहः दृढाकृतिः भवति । "व्यायामेन" आघातेन । "विरमः" नाशो यस्य । तादृशः । कुलकम् ॥ ंोट्_१,१७.१२१७ ॥

 

 

 

कलेवरमहङ्कारगृहस्थस्य महागृहम् ।

लुठत्वभ्येतु वा स्थैर्यं किमनेन मुने हि मे ॥ ंो_१,१७.१८ ॥

न हि परगृहस्य लुठने स्थैर्ये वा सुखदुःखे युक्ते इति भावः ॥ ंोट्_१,१७.१८ ॥

 

 

 

पङ्क्तिबद्धेन्द्रियपशुं वल्गत्तृष्णागृहाङ्गनम् ।

रजोरञ्जितसर्वाङ्गं नेष्टं देहगृहं मम ॥ ंो_१,१७.१९ ॥

अनेन देहस्य ग्रामीणगृहसदृशत्वमुक्तम् ॥ ंोट्_१,१७.१९ ॥

 

 

काष्ठास्थिकाष्ठसङ्घट्टपरिसङ्कटकोटरम् ।

अन्त्रदामभिराबद्धं नेष्टं देहगृहं मम ॥ ंो_१,१७.२० ॥

"काष्ठ" इति काष्ठरूपम् "अस्थिकाष्ठं" । तस्य यः "सङ्घट्टः" निःसन्धिबन्धमवस्थानम् । तेन "परिसङ्कटं" परितः सम्बाधम् । "कोटरं" यस्य । तादृशम् । "अन्त्रदामभिर्" अन्त्ररज्जुभिः ॥ ंोट्_१,१७.२० ॥

 

 

 

प्रसृतस्नायुतन्त्रीकं रक्ताम्बुकृतकर्दमम्  ।

जरामक्कोलधवलं नेष्टं देहगृहं मम ॥ ंो_१,१७.२१ ॥

स्पष्टम् ॥ ंोट्_१,१७.२१ ॥

 

 

 

चित्रकृत्यभृतानन्तचेष्टावष्टब्धसंस्थिति  ।

मिथ्यामोहमहास्थूणं नेष्टं देहगृहं मम ॥ ंो_१,१७.२२ ॥

"चित्रकृत्येषु" नानाविधकार्येषु । "भृताः" धारिताः । याः "अनन्तचेष्टाः" । ताभिर्"अवष्टब्धा" भरिता । "संस्थितिः" यस्य । तत् । गृहपक्षे "चित्रकृत्यानि" आलेख्यानि । "मिथ्यामोहः" मिथ्याज्ञानमेव "महास्थूणा" यस्य । तत्तादृशम् । मिथ्याज्ञानेनैव हि देहो धार्यते ॥ ंोट्_१,१७.२२ ॥

 

 

 

दुःखार्भककृताक्रन्दं सुखशय्यामनोहरम् ।

दुरीहादग्धदासीकं नेष्टं देहगृहं मम ॥ ंो_१,१७.२३ ॥

"सुखान्य्" एव "शय्याः" । ताभिः "मनोहरम्" । "दुरीहाः" कुत्सिताः काङ्क्षा एव "दग्धदास्यः" हतदास्यः यस्य ॥ ंोट्_१,१७.२३ ॥

 

 

 

मलाढ्यविषयिव्यूहभाण्डोपस्करसङ्कटम्  ।

अज्ञानक्षारवलितं नेष्टं देहगृहं मम ॥ ंो_१,१७.२४ ॥

"विषयीणि" इन्द्रियाणि । "क्षारम्" भस्म ॥ ंोट्_१,१७.२४ ॥

 

 

 

गुल्फगुल्गुलुविश्रान्तजानूच्चस्तम्भमस्तकम्  ।

दीर्घदोर्दारुसुदृढं नेष्टं देहगृहं मम ॥ ंो_१,१७.२५ ॥

"गुल्गुलुः" स्तम्भाधारभूता शिला ॥ ंोट्_१,१७.२५ ॥

 

 

प्रकटाक्षगवाक्षान्तः क्रीडत्प्रज्ञागृहाङ्गनम् ।

चिन्तादुहितृकं ब्रह्मन्नेष्टं देहगृहं मम ॥ ंो_१,१७.२६ ॥

स्पष्टम् ॥ ंोट्_१,१७.२६ ॥

 

 

मूर्धजच्छादनच्छन्नकर्णश्रीचन्द्रशालिकम् ।

आदीर्घाङ्गुलिनिर्यूहं नेष्टं देहगृहं मम ॥ ंो_१,१७.२७ ॥

"छन्ना" आवृता । "चन्द्रशालिका" शिरोगृहम् । "निर्यूहः" बहिर्गतदारु ॥ ंोट्_१,१७.२७ ॥

 

 

सर्वाङ्गकुड्यसञ्जातघनरोमयवाङ्कुरम् ।

संशून्यपीठपिठिरं नेष्टं देहगृहं मम ॥ ंो_१,१७.२८ ॥

"पीठपिठिरम्" मध्यदेशः ॥ ंोट्_१,१७.२८ ॥

 

 

 

नखोर्णनाभनिलयैः शारमारणितान्तरम्  ।

भाङ्कारकारिपवनं नेष्टं देहगृहं मम ॥ ंो_१,१७.२९ ॥

"निलयाः" आलयाः । "शारं" शवलम् ॥ ंोट्_१,१७.२९ ॥

 

 

 

प्रवेशनिर्गमव्यग्रवातवेगमनारतम् ।

वितताक्षगवाक्षं च नेष्टं देहगृहं मम ॥ ंो_१,१७.३० ॥

"वातः" प्राणवातः ॥ ंोट्_१,१७.३० ॥

 

 

जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् ।

दृष्टदन्तास्थिशकलं नेष्टं देहगृहं मम ॥ ंो_१,१७.३१ ॥

स्पष्टम् ॥ ंोट्_१,१७.३१ ॥

 

 

त्वक्सुधालेपमसृणं यन्त्रसञ्चारचञ्चलम् ।

मनोमन्दाखुनोत्खातं नेष्टं देहगृहं मम ॥ ंो_१,१७.३२ ॥

"यन्त्र"वद्यः "सञ्चारः" । तेन "चञ्चलम्" ॥ ंोट्_१,१७.३२ ॥

 

 

स्मितदीपप्रभाभासि क्षणमानन्दसुन्दरम् ।

क्षणं व्याप्तं प्रभापूरैर्नेष्टं देहगृहं मम  ॥ ंो_१,१७.३३ ॥

स्पष्टम् ॥ ंोट्_१,१७.३३ ॥

 

 

 

समस्तरोगायतनं वलीपलितपत्तनम् ।

सर्वाधिसारङ्गवनं नेष्टं मम कलेवरम् ॥ ंो_१,१७.३४ ॥

"सर्वाधय" एव "सारन्गाः" । तेषां "वनम्" ॥ ंोट्_१,१७.३४ ॥

 

 

अक्षर्क्षक्षोभविषमा शून्या निःसारकोटरा ।

तमोगहनहृत्कुञ्जा नेष्टा देहाटवी मम ॥ ंो_१,१७.३५ ॥

"अक्षाणि" एव "ऋक्षास्" । तेषां यः "क्षोभः" । तेन "विषमा" । "तमः" अज्ञानमन्धकारं च ॥ ंोट्_१,१७.३५ ॥

 

 

देहालयं धारयितुं न शक्तोऽस्मि मुनीश्वर ।

पङ्कमग्नं समुद्धर्तुं गजमल्पबलो यथा ॥ ंो_१,१७.३६ ॥

"देहालयं" देहाख्यं गृहम् ॥ ंोट्_१,१७.३६ ॥

 

 

किं श्रिया किं च कायेन किं मानेन किमीहया ।

दिनैः कतिपयैरेव कालः सर्वं निकृन्तति  ॥ ंो_१,१७.३७ ॥

स्पष्टम् ॥ ंोट्_१,१७.३७ ॥

 

 

 

रक्तमांसमयस्यास्य सबाह्याभ्यन्तरं मुने ।

नाशैकधर्मिणो ब्रूहि केव कायस्य रम्यता ॥ ंो_१,१७.३८ ॥

नाशस्य एकः धर्मी "नाशैकधर्मी" । तस्य ॥ ंोट्_१,१७.३८ ॥

 

 

 

मरणावसरे काया जीवं नानुसरन्ति ये ।

तेषु तात कृतघ्नेषु केवास्था वत धीमतः ॥ ंो_१,१७.३९ ॥

स्पष्टम् ॥ ंोट्_१,१७.३९ ॥

 

 

 

मत्तेभकर्णाग्रचलः कायो लम्बाम्बुभङ्गुरः  ।

न सन्त्यजति मां यावत्तावदेनं त्यजाम्यहम् ॥ ंो_१,१७.४० ॥

अहन्ताविषयत्वेनाग्रहणादिति भावः ॥ ंोट्_१,१७.४० ॥

 

 

 

पवनस्पन्दतरलः पेलवः कायपल्लवः ।

जर्जरस्तनुवृत्तश्च नेष्टोऽयं कटुनीरसः ॥ ंो_१,१७.४१ ॥

तनुश्चासौ वृत्तश्च "तनुवृत्तः" ॥ ंोट्_१,१७.४१ ॥

 

 

 

भुक्त्वा पीत्वा चिरं कालं बालपल्लवपेलवम् ।

तनुतामेत्ययत्नेन विनाशमनुधावति ॥ ंो_१,१७.४२ ॥

आदौ "तनुताम्" "एति" । ततोऽ"यत्नेन" "विनाशम्" "अनुधावति" ॥ ंोट्_१,१७.४२ ॥

 

 

तान्येव सुखदुःखानि भावाभावमयान्यसौ ।

भूयोऽप्यनुभवन् कायः प्राकृतो हि न लज्जते ॥ ंो_१,१७.४३ ॥

स्पष्टम् ॥ ंोट्_१,१७.४३ ॥

 

 

सुचिरं प्रभुतां कृत्वा संसेव्य विभवश्रियम् ।

नोच्छ्रायमेति न स्थैर्यं कायः किमिति पाल्यते ॥ ंो_१,१७.४४ ॥

"किमिति" किमर्थम् । "पाल्यते" रक्ष्यते ॥ ंोट्_१,१७.४४ ॥

 

 

जराकाले जरामेति मृत्युकाले तथा मृतिम् ।

सममेव विशेषज्ञ कायो भोगिदरिद्रयोः ॥ ंो_१,१७.४५ ॥

हे "विशेषज्ञ" । "भोगिदरिद्रयोः" "कायः" "सममेव" निर्विशेषमेव । "जराकाले" "जराम्" "एति" । "तथा" "मृतिकाले" "मृतिम्" एति । अतः शरीरभोगसाधनार्थं यत्नो व्यर्थ एवेति भावः ॥ ंोट्_१,१७.४५ ॥

 

 

 

संसाराम्भोधिजठरे तृष्णाकुहरकान्तरे ।

सुप्तस्तिष्ठति मुक्तेहो मूकोऽयं कायकच्छपः ॥ ंो_१,१७.४६ ॥

"कच्छपः" कूर्मः । "कुहरकं" रन्ध्रम् ॥ ंोट्_१,१७.४६ ॥

 

 

 

दहनैकार्थयोग्यानि कायकाष्ठानि भूरिशः ।

संसाराब्धाविवोह्यन्ते कञ्चित्तेषु नरं विदुः ॥ ंो_१,१७.४७ ॥

"दहना"ख्यो यः "एकः अर्थः" प्रयोजनम् । तत्र "योग्यानि" । कञ्चित्ज्ञातज्ञेयजीवाश्रयमित्यर्थः । "तेषु" इति निर्धारणे सप्तमी । अन्ये पशव इव इति भावः ॥ ंोट्_१,१७.४७ ॥

 

 

 

दीर्घदौरात्म्यचलया निपातफलयानया ।

न देहलतया कार्यं किञ्चिदस्ति विवेकिनः ॥ ंो_१,१७.४८ ॥

"निपातफलया" नाशफलया । "विवेकिनः" आत्मविचारयुक्तस्य ॥ ंोट्_१,१७.४८ ॥

 

 

मज्जन् कर्दमकोशेषु झगित्येवं जरां गतः ।

न ज्ञायते यात्यचिरात्क्व कथं देहदर्दुरः ॥ ंो_१,१७.४९ ॥

"देह" एव "दर्दुरः" भेकः ॥ ंोट्_१,१७.४९ ॥

 

 

 

निःसारसकलारम्भाः कायाश्चपलवायवः ।

रजोमार्गेण गच्छन्तो दृश्यन्ते नेह केनचित् ॥ ंो_१,१७.५० ॥

"रजोमार्गेण" लोभमार्गेण धूलिमर्गेण च ॥ ंोट्_१,१७.५० ॥

 

 

वायोर्दीपस्य मनसो गच्छतो ज्ञायते गतिः ।

आगच्छतश्च भगवन्न शरीरशरस्य नः ॥ ंो_१,१७.५१ ॥

"नः" अस्मत्सम्बन्धिन इत्यर्थः ॥ ंोट्_१,१७.५१ ॥

 

 

बद्धाशा ये शरीरेषु बद्धाशा ये जगत्स्थितौ ।

तान्मोहमदिरोन्मत्तान् धिग्धिगस्तु पुनः पुनः ॥ ंो_१,१७.५२ ॥

स्पष्टम् ॥ ंोट्_१,१७.५२ ॥

 

 

 

नाहं देहस्य नो देहो मम नायमहं तथा ।

इति विश्रान्तचित्ता ये ते मुने पुरुषोत्तमाः ॥ ंो_१,१७.५३ ॥

"अहं तथा" तद्वत् । "अयं" देहो । नास्मि ॥ ंोट्_१,१७.५३ ॥

 

 

मानावमानबहुला बहुलाभमनोरमाः ।

शरीरमात्रबद्धास्थं घ्नन्ति दोषदृशो नरम् ॥ ंो_१,१७.५४ ॥

"दोषदृशः" रागादिरूपाः । "बहुलाभमनोरम"त्वमामुखे ज्ञेयम् ॥ ंोट्_१,१७.५४ ॥

 

 

शरीरसङ्गशायिन्या पिशाच्या पेशलाङ्गया ।

अहङ्कारचमत्कृत्या छलेन च्छलिता वयम् ॥ ंो_१,१७.५५ ॥

शरीरोत्सङ्गेति वा पाठः ॥ ंोट्_१,१७.५५ ॥

 

 

प्रज्ञा वराकी सर्वैव कायबद्धास्थयानया ।

मिथ्याज्ञानकुराक्षस्या छलिता कष्टमेकिका ॥ ंो_१,१७.५६ ॥

राक्षसी हि एककमेव च्छलयति ॥ ंोट्_१,१७.५६ ॥

 

 

न किञ्चिदपि यस्यास्ति सत्यं तेन हतात्मना ।

चित्रं दग्धशरीरेण जनता विप्रलभ्यते ॥ ंो_१,१७.५७ ॥

"किञ्चिदपि" विप्रलम्भकरणं किमपि वस्तु । "विप्रलभ्यते" वञ्च्यते ॥ ंोट्_१,१७.५७ ॥

 

 

 

दिनैः कतिपयैरेव निर्झराम्बुकणो यथा ।

पतत्ययमयत्नेन जर्जरः कायपल्लवः ॥ ंो_१,१७.५८ ॥

स्पष्टम् ॥ ंोट्_१,१७.५८ ॥

 

 

कायोऽयमचिरापायो बुद्बुदोऽम्बुनिधाविव ।

व्यर्थं कार्यपरावर्ते परिस्फुरति निष्फलः ॥ ंो_१,१७.५९ ॥

"कार्यपरावर्ते" संसारे ॥ ंोट्_१,१७.५९ ॥

 

 

मिथ्याज्ञानविकारेऽस्मिन् स्वप्नसम्भ्रमपत्तने ।

काये स्फुटतरापाये क्षणमास्था न मे द्विज ॥ ंो_१,१७.६० ॥

"स्वप्नसम्भ्रमपत्तने" स्वप्नसम्भ्रमदृष्टपत्तनतुल्ये इत्यर्थः ॥ ंोट्_१,१७.६० ॥

 

 

 

तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च ।

स्थैर्यं येन विनिर्णीतं स विश्वसिति विग्रहे ॥ ंो_१,१७.६१ ॥

"विश्वसिति" विश्वासं करोति ॥ ंोट्_१,१७.६१ ॥

 

 

सर्गान्तश्लोकेन शरीरनिन्दां समापयति

सततभङ्गुरकार्यपरम्परा

विजयि जातजयं शठवृत्तिषु ।

सकलदोषमिदं कुकलेवरं

तृणमिवाहमुपोज्झ्य सुखं स्थितः ॥ ंो_१,१७.६२ ॥

"सततभङ्गुराः" याः "कार्यपरम्पराः" । तासु "विजयः" अस्यास्तीति तादृशम् । भङ्गुरकार्यपरम्परासाधनमिति यावत् । अत एव "शठवृत्तिषु" कुत्सितव्यापारेषु । "जातजयम्" । इति शिवम् ॥ ंोट्_१,१७.६२ ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे सप्तदशः सर्गः ॥ १,१७ ॥