← सर्गः ९ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः ११ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



रामभृत्यवचनं श्रुत्वा विश्वामित्रः कथयति

एवं चेत्तन्महाप्राज्ञं भवन्तो रघुनन्दनम् ।

इहानयन्तु त्वरितं हरिणं हरिणा इव ॥१,१०.१ ॥

स्पष्टम् ॥१,१०.१ ॥

एष मोहो रघुपतेर्नापद्भ्यो न च रागतः ।

विवेकवैराग्यकृतो बोध एष महोदयः ॥१,१०.२ ॥

महानुदयः मुक्तिलक्षणः यस्मात्"सः" "महोदयः" ॥१,१०.२ ॥

इहायातु क्षणाद्रामस्तदिहैव वयं क्षणात् ।

मोहं तस्यापनेष्यामो मरुतोऽद्रेर्घनं यथा ॥१,१०.३ ॥

"वयं" के इव । "मरुत" इव । "यथा" "मरुतः" वायवः । "अद्रेः" "घनं" मेघम् । अपनयन्ति । तथेत्यर्थः ॥१,१०.३ ॥

एतस्मिन्मार्जिते युक्त्या मोहे च रघुनन्दनः ।

विश्रान्तिमेष्यति पदे तस्मिन् वयमिवोत्तमे ॥१,१०.४ ॥

"तस्मिन् पदे" चिन्मात्राख्ये विश्रान्तिस्थाने ॥१,१०.४ ॥

सत्यतां मुदितां प्रज्ञां विश्रान्तिं च समेत्य सः ।

पीनतां वरवर्णत्वं पीतामृत इवैष्यति ॥१,१०.५ ॥

स्पष्टम् ॥१,१०.५ ॥

निजां च प्रकृतामेव व्यवहारपरम्पराम् ।

परिपूर्णमना मान्य आचरिष्यत्यखण्डिताम् ॥१,१०.६ ॥

स्पष्टम् ॥१,१०.६ ॥
 

भविष्यति महासत्त्वो ज्ञातलोकपरावरः ।

सुखदुःखदशाहीनः समलोष्टाश्मकाञ्चनः ॥१,१०.७ ॥

[भगवद्गीता Vई ८ ॑ XईV २४ ]

"ज्ञाते" सम्यक्निश्चिते । "लोकानाम्" "परावरे" परावाची । पारद्वयमिति यावत् । येन । सः ॥१,१०.७ ॥

विश्वामित्रवाक्यमुपसंहरति

इत्युक्ते मुनिनाथेन राजा सम्पूर्णमानसः ।

प्राहिणोद्राममानेतुं भूयो दूतपरम्पराम् ॥१,१०.८ ॥

स्पष्टम् ॥१,१०.८ ॥
 

एतावता च कालेन रामो निजगृहासनात् ।

पितुः सकाशमागन्तुमुत्थितोऽर्क इवाचलात् ॥१,१०.९ ॥

स्पष्टम् ॥१,१०.९ ॥
 

वृतः कतिपयैर्भृत्यैर्भ्रातृभ्यां चाजगाम ह ।

तत्पुण्यं पितुरास्थानं स्वर्गं सुरपतेरिव ॥१,१०.१० ॥

स्पष्टम् ॥१,१०.१० ॥


दूरादेव ददर्शासौ रामो दशरथं तदा ।

वृतं राजसमूहेन देवौघेनेव वासवम् ॥१,१०.११ ॥

स्पष्टम् ॥१,१०.११ ॥


वसिष्ठविश्वामित्राभ्यां सेवितं पार्श्वयोर्द्वयोः ।

सर्वशास्त्रार्थतज्ज्ञेन मन्त्रिवृन्देन पालितम् ॥१,१०.१२ ॥

स्पष्टम् ॥१,१०.१२ ॥
 

चारुचामरहस्ताभिः कान्ताभिः समुपासितम् ।

ककुब्भिरिव मूर्ताभिः संस्थिताभिर्यथोचितम् ॥१,१०.१३ ॥


"ककुब्भिः" दिग्भिः ॥१,१०.१३ ॥
 

वसिष्ठविश्वामित्राद्यास्तथा दशरथादयः ।

ददृशू राघवं दूरादुपायान्तं गुहोपमम् ॥१,१०.१४ ॥

"गुहोपमं" कुमारसदृशम् ॥१,१०.१४ ॥

 

सत्त्वावष्टम्भगर्वेण शैत्येनेव हिमालयम् ।

श्रितं सकलसेव्येन गम्भीरेण स्वरेण च ॥१,१०.१५ ॥

"सत्त्वस्यावष्टम्भेन" हस्तावलम्बेन यः "गर्वः" । तेन । पूर्वस्य श्लोकस्य विशेषणत्वेन योज्यम् ॥१,१०.१५ ॥

 

सौम्यं समशुभाकारं विनयोदारमूर्जितम् ।

कान्तोपशान्तवपुषं परस्यार्थस्य भाजनम् ॥१,१०.१६ ॥

"परस्यार्थस्य" मोक्षस्य ॥१,१०.१६ ॥

 

समुद्यद्यौवनारम्भमुद्योगशमशोभितम् ।

अनुद्विग्नमनायासं पूर्णप्रायमनोरथम् ॥१,१०.१७ ॥

स्पष्टम् ॥१,१०.१७ ॥
 

विचारितजगद्यात्रं पवित्रगुणगोचरम् ।

महासत्त्वैकलोभेन गुणैरिव समाश्रितम् ॥१,१०.१८ ॥

"महासत्त्वस्य" महाधैर्यस्य । यः "एको" "लोभः" । तत्सङ्गलोभः इति यावत् । तेन ॥१,१०.१८ ॥

 

उदारसारमापूर्णमन्तःकरणकोटरम् ।

अविक्षुभितया वृत्त्या दर्शयन्तमनुत्तमम् ॥१,१०.१९ ॥

रामं पुनः कथम्भूतम् । ईदृश्या "वृत्त्या" ईदृशम् "अन्तःकरणं" "दर्शयन्तम्" इति सम्बन्धः । "आपूर्णम्" भोगान् प्रति अलौल्येन समन्तात्पूर्णम् ॥१,१०.१९ ॥

 

श्रीरामविशेषणान्युपसंहरति

एवं गुणगणाकीर्णो दूरादेव रघूद्वहः ।

परिमेयसिताच्छाच्छस्वहाराम्बरपल्लवः ॥१,१०.२० ॥

प्रणनाम चलच्चारुचूडामणिमरीचिना ।

शिरसा वसुधाकम्पलोलमानाचलश्रिया ॥१,१०.२१ ॥

"परिमेयाः" परिमिताः । "सिताः" "अच्छाच्छाः" "स्वहाराम्बरपल्लवाः" यस्य । सः तादृशः । "शिरसा" कथम्भूतेन । "वसुधायां" यः "कम्पः" । तेन "लोलमानस्याचलस्य" "श्रीः" यस्य । तत् । तादृशेन । युग्मम् ॥१,१०.२०२१ ॥
 

कान् प्रणनामेत्यपेक्षायामाह

प्रथमं पितरं पश्चान्मुनीन्मान्यैकमानतः ।

ततो विप्रांस्ततो बन्धूंस्ततोऽधिकगुणान् गुरून् ॥१,१०.२२ ॥

"पितरं" कथम्भूतम् । मान्यानां मध्ये एकम् "मान्यैकम्" ॥१,१०.२२ ॥

 

जग्राह चात्मना दृष्ट्वा मनाक्स्वादुगिरा तथा ।

राजलोकेन विहितां स प्रणामपरस्पराम् ॥१,१०.२३ ॥

स्पष्टम् ॥१,१०.२३ ॥

 

विहिताशीर्मुनिभ्यां तु रामः सशममानसः ।

आससाद पितुः पुण्यं समीपं सुरसुन्दरः ॥१,१०.२४ ॥

"समीपं" निकटम् ॥१,१०.२४ ॥

 

पादाभिवन्दनरतं तमथासौ महीपतिः ।

शिरस्यभ्यालिलिङ्गाशु चुचुम्ब च पुनः पुनः ॥१,१०.२५ ॥

शत्रुघ्नं लक्ष्मणं चैव तथैव परवीरहा ।

आलिलिङ्ग घनस्नेहं राजहंसोऽम्बुजं यथा ॥१,१०.२६ ॥

स्पष्टम् । युग्मम् ॥१,१०.२५२६ ॥

 

उत्सङ्गे वत्स तिष्ठेति वदत्यथ महीपतौ ।

भूमौ परिजनास्तीर्णे सोऽंशुकेऽथ न्यविक्षत ॥१,१०.२७ ॥

"न्यविक्षत" उपाविशत् । "अथ"शब्दद्वयं सम्बन्धिभेदेनानन्तर्यद्वयवाचकम् ॥१,१०.२७ ॥

 

दशरथः कथयति

पुत्र प्राप्तविवेकस्त्वं कल्याणानां च भाजनम् ।

जनवज्जीर्णया बुद्ध्या खेदायात्मा न दीयते ॥१,१०.२८ ॥

त्वया "न दीयते" न देय इत्यर्थः । "खेदाय्"एति सम्प्रदाने चतुर्थी ॥१,१०.२८ ॥

 

वृद्धविप्रगुरुप्रोक्तं त्वादृशेनानुतिष्ठता ।

पदमासाद्यते पुण्यं न मोहमनुधावता ॥१,१०.२९ ॥

स्पष्टम् ॥१,१०.२९ ॥

 

तावदेवापदो दूरे तिष्ठन्ति परिपेलवाः ।

यावदेव न मोहस्य प्रसरः पुत्र दीयते ॥१,१०.३० ॥

स्पष्टम् ॥१,१०.३० ॥

 

श्रीवसिष्ठः कथयति

राजपुत्र महाबाहो शूरस्त्वं विजितास्त्वया ।

दुरुच्छेदा दुरारम्भा अप्यमी विषयारयः ॥१,१०.३१ ॥

स्पष्टम् ॥१,१०.३१ ॥

 

किमतज्ज्ञ इवाज्ञानां योग्ये वा मोहसागरे ।

विनिमज्जसि कल्लोलगहने जाड्यशालिनि ॥१,१०.३२ ॥

स्पष्टम् ॥१,१०.३२ ॥

 

विश्वामित्र आह

चलन्नीलोत्पलव्यूहसमलोचन लोलताम्  ।

ब्रूहि चेतःकृतां त्यक्त्वा हेतुना केन मुह्यसि ॥१,१०.३३ ॥

हे "चलन्नीलोत्पलव्यूहसमलोचन "त्वम् । "चेतःकृतां" "लोलतां" "त्यक्त्वा" "ब्रूहि" । कर्मापेक्षायां वाक्यं कर्मत्वेन कथयति "हेतुने"ति । त्वं किमर्थं "मुह्यसी"त्यर्थः ॥१,१०.३३ ॥

 

किंनिष्ठाः कियता केन कियन्तः कारणेन ते ।

आधयो नु विलुम्पन्ति मनो गेहमिवाखवः ॥१,१०.३४ ॥

"ते" "कियन्तः" "आधयः" । "किंनिष्ठाः" किंविषयाः सन्तः । "कियता" "केन" "कारणेन" "मनः" "नु" "विलुम्पन्ति" । के "इव" । "आखव" "इव" । यथा "आखवः गेहं विलुम्पन्ति" । तथेत्यर्थः । "नु"शब्दः प्रश्नद्योतकः ॥१,१०.३४ ॥
 

मन्ये नानुचितानां त्वमाधीनां पदमुत्तमः ।

आपत्सु चाप्तो यो धीरो निर्जितास्तेन चाधयः ॥१,१०.३५ ॥

"आप्तः" विचारकारी । न ह्युचितस्य्"आनुचितपदत्वं" युक्तमिति भावः ॥१,१०.३५ ॥

 

यथाभिमतमाशु त्वं ब्रूहि प्राप्स्यसि चानघम् ।

सर्वमेव पुनर्येन तव भेत्स्यन्ति नाधयः ॥१,१०.३६ ॥

"येन" सर्वप्रापणेन ॥१,१०.३६ ॥

 

विश्वामित्रवाक्यं सर्गान्तश्लोकेनोपसंहरति

इत्युक्तमस्य स मुने रघुवंशकेतुर्

आकर्ण्य वाक्यमुचितार्थविलासगर्भम् ।

तत्याज खेदमभिगर्जति वारिवाहे

बर्ही यथाभ्यनुमिताभिमतार्थसिद्धिः ॥१,१०.३७ ॥

"अभ्यनुमिता" गर्जनहेतुकेनानुमानेन ज्ञाता । "अभिमतार्थस्य सिद्धिः" यस्य । स । इति शिवम् ॥१,१०.३७ ॥

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे दशमः सर्गः ॥ १,१० ॥