रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/अष्टमः सर्गः(अजविलापः)
← रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/सप्तमः सर्गः(अजपाणिग्रहणः) | रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्) अष्टमः सर्गः(अजविलापः) कालिदासः |
नवमः सर्गः(मृगयावर्णनः) → |
अष्टमः सर्गः ।
हेरम्बमवलम्बेऽहं यस्मिन्पातालकेलिषु ।
दन्तेनोदस्यति क्षोणीं विश्राम्यन्ति फणीश्वराः॥
अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः।
वसुधामपि हस्तगामिनीमकरोदिन्दुमतीमिवापराम् ॥ १॥
अथेति॥ अथ पार्थिवो रघुर्ललितं सुभगं विवाहकौतुकं विवाहमङ्गलं विवाहहस्तसूत्रं वा बिभ्रत एव ॥ “कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले” इति शाश्वतः ॥ तस्याजस्य । अपरामिन्दुमतीमिव । वसुधामपि हस्तगामिनीमकरोत् । अस्मिन्सर्गे वैतालीयं छन्दः॥
दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् ।
तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ॥२॥
दुरितैरिति । नृपसूनवो राजपुत्रा यद्राज्यं दुरितैरपि विषप्रयोगादिनिपिद्धोपायैरप्यात्मसात्स्वाधीनम् ॥ “तदधीनवचने” इति सातिप्रत्यय ॥कर्तुं प्रयतन्ते हि । प्रवर्तन्त एवेत्यर्थः। हिशब्दोऽवधारणे ॥" हि हेताववधारणे" इत्यमरः ॥ उपस्थितं स्वतःप्राप्तं तद्राज्यमजः पितुराज्ञेति हेतोरग्रहीत्स्वीचकारः। भोगतृष्णया तु नाग्रहीत्॥
अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनम् ।
विशदोच्छुसितेन मेदिनी कथयामास कृतार्थतामिव ॥३॥
अनुभूयेति ॥ मेदिनी भूमिः महिषी च ध्वन्यते । वसिष्ठेन संभृतैः सलिलै स्तेनाजेन सहाभिषेचनमनुभूय विशदोच्छ्वसितेन स्फुटमुद्बृंहणेन । आनन्दनिर्मलोच्छ्वसितेन चेति ध्वन्यते । कृतार्थतां गुणवद्भर्तृलाभकृतं साफल्यं कथयामासेव ॥ न चैतावता पूर्वेषामपकर्षः । प्रशंसापरत्वात् । “सर्वत्र जयमन्विच्छेत्पुत्रादिच्छेत्पराजयम्" इत्यङ्गीकृतत्वाच्च ॥
स बभूव दुरासदः परैर्गुरुणाथर्वविदा कृतक्रियः।
पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा ।। ४ ॥
स इति ॥ अथर्वविदाथर्ववेदाभिज्ञेन गुरुणा वसिष्टेन कृतक्रियः। अथर्वोक्तविधिना कृताभिषेकसंस्कार इत्यर्थः । सोऽजः परैः शत्रुभिर्दुरासदो दुर्धर्षो बभूव ॥ तथाहि । अस्त्रतेजसा क्षत्रतेजसा सहितं युक्तं यद्ब्रह्म ब्रह्मतेजोऽयं पवनाग्निसमागमो हि । तत्कल्प इत्यर्थः ॥ पवनाग्नीत्यत्र पूर्वनिपातशास्त्रस्यानित्यत्वात् “द्वन्द्वे घि" इति नाग्निशब्दस्य पूर्वनिपातः ॥ तथा च काशिकायाम्- " अयमेकस्तु लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारचिह्नम्" इति ॥ क्षात्रेणैवायं दुर्धर्षः किमयं पुनर्वसिष्ठमन्त्रप्रभावे सतीत्यर्थः ॥अत्र मनुः-"नाक्षत्रं ब्रह्म भवति क्षत्रं नाब्रह्म वर्धते । ब्रह्मक्षत्रे तु संयुक्त इहामुत्र च वर्धते" इति ॥
रघुमेव निवृत्तयौवनं तममन्यन्त न[१]वेश्वरं प्रजाः।
स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि ॥५॥
रघुमिति ॥ प्रजा नवेश्वरं तमजं निवृत्तयौवनं प्रत्यावृत्तयौवनं रघुमेवामन्यन्त । न किंचिद्भेदकमस्तीत्यर्थः ॥ कुतः । हि यस्मात्सोऽजस्तस्य रघोः केवलामेकां श्रियं न प्रतिपेदे । किंतु सकलान्गुणाञ्छौर्यदाक्षिण्यादीनपि प्रतिपेदे ॥ अतस्तद्गुणयोगात्तद्बुद्धिर्युक्तेत्यर्थः ॥
अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव संगतम् ।
पदमृद्धमजेन पैतृकं विनयेनास्य नवं च यौवनम् ॥ ६ ॥
अधिकामिति ॥ द्वयमेव शुभंयुना शुभवता ॥ “शुभंयुस्तु शुभान्वितः” इत्यमरः ॥ " अहंशुभमोर्युस्” इति युस्मत्ययः ॥ द्वितयेन संगतं युतं सदाधिकं शुशुभे ॥ किं केनेत्याह- पदमिति ॥ पैतृकं पितुरागतम् ॥ "ऋतष्ठञ्" इति ठष्प्रत्ययः॥ ऋद्धं समृद्धं पदं राज्यमजेन । अस्याजस्य नवं यौवनं विनयेनेन्द्रियजयेन च ॥ “विजयो हीन्द्रियजयस्तयुक्तः शास्त्रमर्हति" इति कामन्दकः । राज्यस्थोऽपि प्राकृतवन्न दृप्तोऽभूदित्यर्थः ॥
सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति ।
अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥७॥
अहमेव मतो म[२]हीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।
उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥ ८॥
अहमिति ॥ प्रकृतिषु प्रजासु मध्ये सर्वोऽपि जनः ॥ अथवा प्रकृतिष्वित्यस्याहमित्यनेनान्वयः । व्यवधानं तु सह्यम् ॥ सर्वोऽपि जनः प्रकृतिष्वहमेव महीपतेर्मतो महीपतिना मन्यमानः ॥ “मतिबुद्धिपूजार्थेभ्यश्च" इति वर्तमाने क्तः । "क्तस्य च वर्तमाने" इति षष्ठी ॥ इत्यचिन्तयदमन्यत ।। उदधेर्निम्नगाशतेष्विवास्य नृपस्य ॥ कर्तुः ॥ “कर्तृकर्मणोः कृति" इति कर्तरि षष्ठी ॥ क्वचिदपि जनविषये विमाननावगणना तिरस्कारो नाभवत् ॥ यतो न कंचिदवमन्यतेऽतः सर्वोऽप्यहमेवास्य मत इत्यमन्यतेत्यर्थः॥
नेति ।। स नृपो भूयसा बाहुल्येन खरस्तीक्ष्णो न । भूयसा मृदुरतिमृदुरपि न । किंतु पुरस्कृतमध्यमक्रमः सन् । मध्यमपरिपाटीमवलम्ब्येत्यर्थः । पवमानो वायुः पृथिवीरुहांस्तरूनिव । नृपाननुद्धरन्ननुत्पाटयन्नेव नमयामास ।। अत्र कामन्दकः-- " मृदुश्चेदवमन्येत तीक्ष्णादुद्विजते जनः । तीक्ष्णश्चैव मृदुश्चैव प्रजानां स च संमतः" इति ॥
अथेति ॥ अथ रघुरात्मजं पुत्रमात्मवत्तया । निर्विकारमनस्कतयेत्यर्थः । उदयादिष्वविकृतिर्मनसः सत्त्वमुच्यते ॥ “ आत्मवान्सत्त्ववानुक्तः" इत्युत्पलमालायाम् ॥ प्रकृतिष्वमात्यादिषु प्रतिष्ठितं रूढमूलं वीक्ष्य ज्ञात्वा विनाशो धर्मो येषां तेषु विनाशधर्मसु । अनित्येष्वित्यर्थः ॥ “धर्मादनिच्केवलात्" इत्यनिच्प्रत्ययः समासान्तः ॥ त्रिदिवस्थेषु स्वर्गस्थेष्वपि विषयेषु शब्दादिषु निःस्पृहो निर्गतेच्छोऽभवत् ॥
कुलधर्मश्चायमेवेत्याह-
गुणवदिति ॥ दिलीपवंशजाः परिणामे वार्द्धके गुणवत्सुतेषु रोपितश्रियः स्थापितलक्ष्मीकाः प्रयताश्च सन्तः। तरुवल्कान्येव वासांसि येषां तेषां संयमिनां यतीनां पदवीं प्रपेदिरे । यस्मात्तस्मादस्यापीदमुचितमित्यर्थः ॥
तमरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः।
पितरं प्रणिपत्य पादयोरपरित्यागमयाचतात्मनः ॥ १२ ॥
तमिति ॥अरण्यसमाश्रयोन्मुखं वनवासोद्युक्तं पितरं तं रघुं सुतोऽजः । वेष्टनशोभिनोष्णीषमनोहरेण शिरसा पादयोः प्रणिपत्य । आत्मनोऽपरित्यागमयाचत । मां परित्यज्य न गन्तव्यमिति प्रार्थितवानित्यर्थः ।
रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रियः ।
न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ॥ १३ ॥
रघुरिति ॥ आत्मजप्रियः पुत्रवत्सलो रघुः । अश्रूणि मुखे यस्य तस्याश्रुमुखस्याजस्य तदपरित्यागरूपमीप्सितमभिलषितं कृतवान् । किंतु सर्पस्त्वचमिव व्यपवर्जितां त्यक्तां श्रियं पुनर्न प्रतिपेदे न प्राप ॥
स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः ।
समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ॥१४॥
स इति ॥ स रघुः किलान्त्यमाश्रमं प्रव्रज्यामाश्रितः पुरान्नगराद्बहिरावसथे स्थाने निवसन्नविकृतेन्द्रियः जितेन्द्रियः सन्नित्यर्थः । अतएव स्नुषयेव वध्वेव पुत्रभोग्यया । न स्वभोग्यया । श्रिया समुपास्यत शुश्रूषितः॥ जितेन्द्रियस्य तस्य स्नुषयेव श्रियापि पुष्पफलोदकाहरणादिशुश्रूषाव्यतिरेकेण न किंचिदपेक्षितमासीदित्यर्थः । अत्र यद्यपि “ब्राह्मणाः प्रव्रजन्ति" इति श्रुतेः । “ आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्" इति मनुस्मरणात् । “ मुखजानामयं धर्मो यद्विष्णोलिङ्गधारणम् । बाहुजातोरुजातानामयं धर्मो न विद्यते” इति निषेधाच्च ब्रह्मणस्यैव प्रव्रज्या न क्षत्रियादेरित्याहुः । तथापि “ यदहरेव विरजेत्तदहरेव प्रव्रजेत्" इत्यादि श्रुतेस्त्रैवर्णिकसाधारण्यात् । “ त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः" इति सूत्रकारवचनात् । “ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद्गृहात्" इति स्मरणात् । “ मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम् । वाहुजातो रुजातानां त्रिदण्डं न विधीयते" इति निषेधस्य त्रिदण्डविषयत्वदर्शनाच्च । कुत्रचिद्ब्राह्मणपदस्योपलक्षणमाचक्षाणाः केचित्त्रैर्वणिकाधिकारं प्रतिपेदिरे ॥ तथा सति “स किलाश्रममन्त्यमाश्रितः" (८/१४) इत्यत्रापि कविनाप्ययमेव पक्षो विवक्षित इति प्रतीमः । अन्यथा वानप्रस्थाश्रमतया व्याख्याते "विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित्" (८।२५) इति वक्ष्यमाणेनानग्निसंस्कारेण विरोधः स्यात् ।अग्निसंस्काररहितस्य वानप्रस्थस्येवाभावात् । इत्यलं प्रासङ्गिकेन ।
प्रशमस्थितपू[९]र्वपार्थिवं कुलमभ्युद्यतनूतनेश्वरम् ।
नभसा निभृतेन्दुना तुलामुदितार्केण समारुरोह तत् ॥१५॥
प्रशमेति॥ प्रशमे स्थितः पूर्वपार्थिवो रघुर्यस्य तत् । अभ्युद्यतोऽभ्युदितो नूतनेश्वरोऽजो यस्य तत् । प्रसिद्धं कुलं निभृतेन्दुनास्तमयासन्नचन्द्रेणोदितार्केण प्रकटितसूर्येण च नभसा तुलां सादृश्यं समारुरोह पाप ॥ न च नभसा तुलामित्यत्र "तुल्यार्थैः-" इत्यादिना प्रतिषेधस्तृतीयायाः। तस्य सदृशवाचितुलाशब्दविषयत्वात् । “कृष्णस्य तुला नास्ति' इति प्रयोगात् । अस्य च सादृश्यवाचित्वात् ।।
यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः ।
अ[१०]पवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ ।। १६ ।।
यतीति ॥ यतिर्भिक्षुः। पार्थिवो राजा । तयोर्लिङ्गधारिणौ रघुराघवौ रघुतत्सुतौ। अपवर्गमहोदयार्ययोर्मोक्षाभ्युदयफलयोधर्मयोः। निवर्तकप्रवर्तकरूपयोरित्यर्थः । भुवं गतौ भूलोकमवतीर्णावंशाविव । जनैर्ददृशाते दृष्टौ ॥
अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरजः।
अ[११]नपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः ॥ १७॥
अजितेति॥अजोऽजिताधिगमायाजितपदलाभाय नीतिविशारदैर्नीतिज्ञैर्मन्त्रिभिर्युयुजे संगतः। रघुरप्यनपायिपदस्योपलब्धये मोक्षस्य प्राप्तये यथार्थदर्शिनो यथार्थवादिनचाप्ताः। तैर्योगिभिः समियाय संगतः। उभयत्राप्युपायचिन्तार्थमिति शेषः॥
नृपतिः प्रकृतीवेक्षितुं व्यवहारासनमाददे युवा ।
परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् ॥ १८॥
नृपतिरिति ॥ युवा नृपतिरजः प्रकृतीः प्रजाः कार्यार्थिनीरवेक्षितुम् । दुष्टादुष्टपरिज्ञानार्थमित्यर्थः॥ व्यवहारासनं धर्मासनमाददे स्वीचकार ।प्रवयाः स्थविरो नृपती रघुस्तु ॥ "प्रवयाः स्थविरो वृद्धः" इत्यमरः ॥धारणां चित्तस्यैकाग्रतां परिचतुमभ्यसितुमुपांशु विजने ॥ “उपांशु विजने प्रोक्तम्" इति हलायुधः॥ कुशैः पूतं विष्टरमासनमाददे ॥ “यमादिगुणसंयुक्ते मनसः स्थितिरात्मनि । धारणा प्रोच्यते सद्भिर्योगशास्त्रविशारदैः" इति वसिष्ठः ॥
अनयत्प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् ।
अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥ १९॥
१९-२० श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--
नयचक्षुरजो दिदृक्षया पररन्ध्रस्य ततान मण्डले ।
हृदये समरोपयन्मनः परमं ज्योतिरवेक्षितुं रघुः ।।
अनयदिति॥ एकोऽन्यतरः । अज इत्यर्थः । अनन्तरान्स्वभूम्यनन्तरान्नृपतीन्यातव्यपार्ष्णिग्राहादीन्प्रभुशक्तिसंपदा कोशदण्डमहिम्ना वशं स्वायत्ततामनयत्॥ "कोशो दण्डो बलं चैव प्रभुशक्तिः प्रकीर्तिता" इति मिताक्षरायाम् ॥ अपरो रघुः प्रणिधानयोग्यया समाध्यभ्यासेन ॥ "योगाभ्यासार्कयोषितोः” इति विश्वः॥ शरीरगोचरान्देहाश्रयान्पञ्च मरुतः प्राणादीन्वशमनयत् ॥ "प्राणोऽपानः समान श्चोदानव्यानौ च वायवः । शरीरस्थाः" इत्यमरः ॥
अकरोदिति ॥ अचिरेश्वरोऽजः क्षितौ द्विषतामारम्भाः कर्माणि तेषां फलानि भस्मसादकरोत्कार्स्न्येन भस्मीकृतवान् ॥ “विभाषा साति कार्त्स्न्यै" इति सातिप्रत्ययः । इतरो रघुर्ज्ञानमयेन तत्त्वज्ञानप्रचुरेण वह्निना पावकेन । करणेन । स्वकर्मणां भवबीजभूतानां दहने भस्मीकरणे ववृते । स्वकर्माणि दग्धुं प्रवृत्त इत्यर्थः।। "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन" इति गीतावचनात् ।।
पणबन्धमुखान्गुणानजः षडुपायुङ्क समीक्ष्य तत्फलम् ।
रघुरप्य[१४]जयद्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ॥ २१ ॥
पणबन्धेति ॥ “पणबन्धः संधिः" इति कौटिल्यः ॥ अजः पणबन्धमुखान्संध्यादीन्षड्गुणान् ॥ “संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः" इत्यम्मरः।। तत्फलं तेषां गुणानां फलं समीक्ष्यालोच्योपायुङ्क्त । फलिष्यन्तमेव गुणं प्रायुङ्क्तेत्यर्थः ॥ "प्रोपाभ्यां युजेरयज्ञपात्रेषु” इत्यात्मनेपदम् ॥ समस्तुल्यतया भावितो लोष्टो मृत्पिण्डः काञ्चनं सुवर्णं च यस्य स समलोष्टकाञ्चनः । निःस्पृह इत्यर्थः ॥ "लोष्टानि लेष्टवः पुंसि" इत्यमरः ॥ रघुरपि गुणत्रयं सत्त्वादिकम् ॥ “गुणाः सत्त्वं रजस्तमः" इत्यमरः ॥ प्रकृती साम्यावस्थायामेव तिष्ठतीति प्रकृतिस्थं पुनर्विकारशून्यं यथा तथाजयत् ॥
न नवः प्रभुरा फलोदयात्स्थिरकर्मा विरराम कर्मणः।
न च योगविधेर्नवेतरः स्थिरधीरा प[१५]रमात्मदर्शनात् ॥ २२ ॥
नेति ॥ स्थिरकर्मा फलोदयकर्मकारी नवः प्रभुरज आ फलोदयात्फलसिद्धिपर्यन्तं कर्मण आरम्भान्न विरराम न निवृत्तः ॥ "जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्" इत्यपादानात्पञ्चमी ॥ "व्याङ्परिभ्यो रमः" इति परस्मैपदम् ॥ स्थिरधीर्निश्चलचित्तो रघुश्चानवेतरोपरमात्मदर्शनात्परमात्मसाक्षात्कारपर्यन्वं योगविधेरैक्यानुसंधानान्न विरराम ॥
इतीति ॥ इत्येवं प्रतिषिद्धः प्रसरः स्वार्थप्रवृत्तिर्येषां तेषु शत्रुषु चेन्द्रियेषु च जाग्रतावप्रमत्तावुदयापवर्गयोरभ्युदयमोक्षयोः प्रसितावासक्तौ ॥"तत्परे प्रसितासक्तौ” इत्यमरः ॥ उभावजरघू उभयीं द्विविधामभ्युदयमोक्षरूपाम् ॥ “ उभादुदात्तो नित्यम् " इति तयप्प्रत्यस्यायजादेशः। “ टिड्ढा -" इति ङीप् सिद्धिंं फलमवापतुः । उभावुभे सिद्धी यथासंख्यमवापतुरित्यर्थः ॥
अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः।
तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः ॥२४॥
अथेति ॥ अथ रघुः समदर्शनः सर्वभूतेषु समदृष्टिः सन्नजव्यपेक्षयाजाकाङ्क्षानुरोधेन काश्चित्समाः कतिचिद्वर्षाणि ॥ “समा वर्षं समं तुल्यम्" इति विश्वः ॥गमयित्वा नीत्वा योगसमाधिनैक्यानुसंधानेन ॥ “संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः" इति वसिष्ठः॥ अव्ययमविनाशिनं तमसः परमविद्यायाः परम् ।मायातीतमित्यर्थः । पुरुषं परमात्मानमापत्प्राप । सायुज्यं प्राप्त इत्यर्थः ॥
श्रुतेति ॥ अग्निचिदग्निं चितवानाहितवान् ॥ “अग्नौ चेः” इति क्विप्प्रत्ययः॥ राघवोऽजः पितुः श्रुतदेहविसर्जन आकर्णितपितृतनुत्यागः संश्चिरमश्रूणि बाष्पान्विमुच्य विसृज्यास्य पितुरनग्निम् । अग्निसंस्काररहितमित्यर्थः । नैष्ठिकं निष्ठायामन्ते भवं विधिमाचारमन्त्येष्टिं यतिभिः संन्यासिभिः सार्धं सह विदधे चक्रे । अनग्निं विधिमित्यत्र शौनक:-“सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च । न तस्य दहनं कार्यं नैव पिण्डोदकक्रिया । निदध्यात्प्रणवेनैव बिले भिक्षोः कलेवरम् । प्रोक्षणं खननं चैव सर्वं तेनैव कारयेत्" इति ॥
अकरोत्स[२०] तदौर्ध्वदैहिकपितृकार्यकल्पवित् ।
न हि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः ॥२६॥
अकरोदिति ॥ पितृकार्यस्य तातश्राद्धस्य कल्पविद्विधानज्ञः सोऽजः पितृभक्त्या पितरि प्रेम्णा । करणेन । न पितुः परलोकसुखापेक्षया । मुक्तत्वादिति भावः। तस्य रघोरौर्ध्वदैहिकम् । देहादूर्ध्वं भवतीति तत्तिलोदकपिण्डदानादिकमकरोत्॥ "उर्ध्वं देहाच्च" इति वक्तव्याट्ठक्प्रत्ययः । अनुशतिकादित्वादुभयपदवृद्धिः ॥ ननु कथं भक्तिरेव श्राद्धादिफलप्रेप्सापि कस्मान्नाभूदित्याशङ्क्याह-नहीति । तेन पथा योगरूपेण मार्गेण तनुत्यजः शरीरत्यागिनः पुरुषास्तनयेनावर्जितं दत्तं पिण्डं काङ्क्षन्तीति तथोक्ता न हि भवन्ति ॥
स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः ।
शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगत् ॥ २७॥
स इति ॥ परार्घ्यगतेः प्रशस्तगतेः प्राप्तमोक्षस्य पितुरशोच्यतामशोचनीयत्वमुद्दिश्याभिसंधाय । शोको न कर्तव्य इत्युपदिश्यत्यर्थः । सदर्थवेदिभिः परमार्थज्ञैर्विद्वद्भिः शमिताधिर्निवारितमनोव्यथः ।। "पुंस्याधिर्मानसी व्यथा" इत्यमरः॥सोजोऽधिज्यकार्मुकः । अधिज्यमारोपितमौर्वीकं कार्मुकं यस्य स तथोक्तः सन् जगत्कर्मभूतमप्रतिशासनं द्वितीयाज्ञारहितम् । आत्माज्ञाविधेयमित्यर्थः । कृतवांश्चकार ॥
क्षितिरिति ॥ क्षितिर्मही भामिनी कामिनीन्दुमती च ॥ “भामिनी कामिनी च" इति हलायुधः ॥ अग्र्यपौरुषं महापराक्रममुत्कृष्टभोगशक्तिं च तमजं पतिमासाध प्राप्य । तत्र प्रथमा क्षितिः । बहूनि रत्नानि श्रेष्ठवस्तूनि सूत इति बहुरत्नसूरभूत् ॥ " रत्नं खजातिश्रेष्ठेऽपि" इत्यमरः ॥ अपरेन्दुमती वीरं सुतमजीजनज्जनयति स्म । जायतेर्णौ लुङिरुपम्॥ सहोक्त्या सादृश्यमुच्यते ॥ किनामकोऽसावत आह-
दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् ।
दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥ २९ ॥
दशेति ॥ दश रश्मिशतानि यस्य स दशरश्मिशतः सूर्यः । स उपमा यस्याः सा दशरश्मिशतोपमा द्युतिर्यस्य तम् । यशसा । करणेन । दशस्वपि दिक्ष्वाशासु श्रुतं प्रसिद्धम् । दशकण्ठारे रावणारे रामस्य गुरुं पितरं यं सुतम् ॥ आख्यया नाम्ना दशपूर्वो दशशब्दपूर्वो रथो रथशब्दस्तम् । दशरथमित्यर्थः । बुधा विद्वांसो विदुर्वदन्ति ॥ “ विदो लटो वा" इति झेर्जुसादेशः ॥
ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः ।
अनृणत्वमुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः॥३०॥
ऋषीति ॥ श्रुतयागप्रसवैरध्ययनयज्ञसंतानैः । करणैः । यथासंख्यमृषीणां देवगणानामिन्द्रादीनां खधाभुजां पितॄणामनृणत्वमृणविमुक्तसमुपेयिवान्प्राप्तवान् ॥ एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वा" इति श्रुतेः ॥ स पार्थिवोऽजः परिधेः परिवेशात् ॥ “परिवेशस्तु परिधिः" इत्यमरः ॥ मुक्तो निर्गतः । कर्मकर्ता । उष्णदीधितिः सूर्य इव । बभौ दिदीपे । इत्युपमा ।
बलमिति ॥ तस्य विभोरजस्य केवलं वसु धनमेव परप्रयोजनं परोपकारकं नाभूत् । किंतु गुणवत्तापि गुणित्वमपि परप्रयोजना परेषामन्येषां प्रयोजनं यस्यां सा । विधेयांशत्वेन प्राधान्याद्गुणवत्ताया विशेषणं वस्वित्यत्र तूहनीयम् । तथा हि । बलं पौरुषमार्तानामापन्नानां भयस्योपशान्तये निषेधाय । न तु स्वार्थं परपीडनाय वा । बहु भूरि श्रुतं विद्या विदुषां सत्कृतये सत्काराय । न तूत्सेकाय । बभूव ॥ तस्य धनं परोपयोगीति किं वक्तव्यम् । बलश्रुतादयोऽपि गुणाः परोपयोगिन इत्यर्थः॥
स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजाः।
नगरोपवने शचीसखो मरुतां पालयितेव न[२८]न्दने ॥ ३२ ॥
स इति ॥ अवेक्षितप्रजोऽकुतोभयत्वेनानुसंहितप्रजः ॥ “नित्यमसिच्प्रजामेधयोः" इत्यच्प्रत्ययः ॥ न केवलं स्त्रैण इति भावः । शोभना प्रजा यस्यासौ सुप्रजाः । सुपुत्रवान् । पुत्रन्यस्तभार इति भावः । सोऽजः कदाचिद्देव्या महिष्येन्दुमत्या सह नगरोपवने । नन्दने नन्दनाख्येऽमरावत्युपकण्ठवने शचीसखः । शच्या सहेत्यर्थः । मरुतां देवानां पालयितेन्द्र इव । विजहार चिक्रीड ॥
अथेति ॥ अथ दक्षिणस्योदधेः समुद्रस्य रोधसि तीरे श्रितगोकर्णनिकेतमधिष्ठितगोकर्णाख्यस्थानमीश्वरं शिवमुपवीणयितुं वीणयोप समीपे गातुम् ॥ “सत्यापपाश-" इत्यादिना वीणाशब्दादुपगानार्थे णिच्प्रत्ययः । ततस्तुमुन् ॥ नारदो देवपीं रवेः सूर्यस्य संबन्धिनोदयावृत्तिपथेनाकाशमार्गेण ययौ जगाम ॥ सूर्योपमानेनास्यातितेजस्त्वमुच्यते ॥
कुसुमैर्ग्रथितामपार्थिवैः स्रजमातोद्यशिरोनिवेशिताम् ।
अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः॥ ३४ ॥
कुसुमैरिति ॥ अपार्थिवैरभौमैः । दिव्यैरित्यर्थः । कुसुमैर्ग्रथितां रचिताम् । तस्य नारदस्यातोद्यस्य वाद्यस्य वीणायाः शिरस्यग्रे निवेशिताम् ॥ “चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्" इत्यमरः ॥ स्रजं मालां वेगवान्मारुतः । अधिवासे वासनायां स्पृहयेव । स्रजा स्वाङ्ग संस्कर्तुमित्यर्थः ॥ “संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम्" इत्यमरः ॥अहरत्किल । किलेत्यैतिह्ये ॥
भ्रमरैः कुसुमानुसारिभिः प[३२]रिकीर्णा परिवादिनी मुनेः।
ददृशे पवनावलेपनं सृजती बाष्पमिवाञ्जनाविलम् ॥ ३५॥
भ्रमरैरिति॥ कुसुमानुसारिभिः पुष्पानुयायिभिर्भ्रमरैरलिभिः परिकीर्णाव्याप्ता मुनेर्नारदस्य परिवादिनी वीणा । “वीणा तु वल्लकी । विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी" इत्यमरः ॥ पवनस्य वायोरवलेपोऽधिक्षेपस्तज्जमञ्जनेन कज्जलेनाविलं कलुषं बाष्पमश्रु सृजती मुञ्चतीव । ददृशे दृष्टा । भ्रमराणां साञ्जनबाष्पबिन्दुसादृश्यं विवक्षितम् ॥ “वा नपुंसकस्य" इति वर्तमाने “ आच्छीनद्योर्नुम् " इति नुम्विकल्पः ।।
अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम् ।
नृपतेरमरस्रगाप सा द[३३]यितोरुस्तनकोटिसुस्थितिम् ॥ ३६ ॥
अभिभूयेति ॥ सामरस्रग्दिव्यमाला । मधुगन्धयोर्मकरन्दसौरभयोरतिशयेनाधिक्येन । वीरुधां लतानाम् ॥ "लता प्रतानिनी वीरुत्" इत्यमरः ॥ ऋतोः प्राप्तामार्तवीमृतुसंबन्धिनी विभूतिं समृद्धिमभिभूय तिरस्कृत्य नृपतेरजस्य दयिताया इन्दुमत्या उर्वोर्विशालयोः स्तनयोर्ये कोटी चूचुकौ तयोः सुस्थितिं गोप्यस्थाने पतितत्वात्प्रशस्तं स्थानमाप प्राप्ता॥
क्षणमात्रसखी सुजातयोः स्तनयोस्तामवलोक्य विह्वला।
निमिमील न[३४]रोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी॥३७॥
क्षणमिति ॥जातयोः सुजन्मनोः । सुन्दरयोरित्यर्थः । स्तनयोः क्षणमात्रं सखीं सखीमिव स्थिताम् । सुजातत्वसाधर्म्यात्स्रजः स्तनसखीत्वमिति भावः ॥ तां स्रजमवलोक्येषद्दृष्ट्वा विह्वला परवशा नरोत्तमप्रियेन्दुमती। तमसा राहुणा ॥“तमस्तु राहुः स्वर्भानुः” इत्यमरः ॥ हृतचन्द्रा कौमुदी चन्द्रिकेव । निमिमील मुमोह । ममारेत्यर्थः॥"निमीलो दीर्घनिद्राच" इति ॥ हलायुधः॥कौमुद्या निमीलनं प्रतिसंहारः।।
वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत् ।
ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् ॥ ३८॥
वपुषोति॥ करणैरिन्द्रियैरुज्झितेन मुक्तेन ॥ “करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि" इत्यमरः। वपुषा निपतन्ती सेन्दुमती पतिमजमप्यपातयत्पातयति स्म । तथाहि । निषिच्यते निषेकः। तैलस्य निषेकस्तैलनिषेकः। क्षरत्तैलमित्यर्थः। तस्य बिन्दुना सह दीपार्चिर्दीपज्वाला मेदिनीं भुवमुपैति ननूपैत्येव । नन्वत्रावधारणे । “प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु" इत्यमरः ॥ इन्दुमत्या दीपार्चिरुपमानम् ॥ अजस्य तैलबिन्दुः । तत एव तस्या जीवितसमाप्तिस्तस्य जीवितशेषश्च सूच्यते ॥
उभयोरिति ॥ उभयोर्दंपत्योः पार्श्ववर्तिनां परिजनानां तुमुलेन संकुलेनार्तरवेण करुणस्वनेन वेजिता भीताः कमलाकरालयाः सरःस्थिता विहगा हंसादयोऽपि तत्रोपवने समदुःखा इव तत्पार्श्ववर्तिनां समानशोका इव चुक्रुशुः क्रोशन्ति स्म ।
नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता ।
प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ॥ ४०॥
भूपतेरिति॥ नृपतेरजस्य तमोऽज्ञानं व्यजनादिभिः साधनैर्नुनुदेऽपसारितम् । आदिशब्देन जलसेककर्पूरमोदादयो गृह्यन्ते । सात्विन्दुमन्ती तथैव संस्थिता मृता। तथाहि । प्रतिकारविधानं चिकित्सायुषो जीवितकालस्य शेषे सति विद्यमाने ॥ "आयुर्जीवितकालो ना" इत्यमरः ॥ फलाय सिद्धये कल्पत आरोग्याय भवति । नान्यथा नृपतेरायुःशेषसद्भावात्प्रतीकारस्य साफल्यम् । तस्यास्तु तदभावाद्वैफल्यमित्यर्थः॥
प्रतीति ॥ अथ सत्त्वस्य चैतन्यस्य विप्लवाद्विनाशाद्धेतोः ॥ “द्रव्यासुव्यवसायेषु सत्त्वम्" इत्यमरः॥ प्रतियोजयितव्या तन्त्रीभिर्योजनीया। न तु योजिततन्त्रीत्यर्थः । या वल्लकी वीणा । तस्याः समावस्था दशा यस्यास्तामङ्गनां वनितां नितान्तवत्सलोऽतिप्रेमवान्सोऽजः परिगृह्य हस्ताभ्यां गृहीत्वोचितं परिचितमङ्कमुत्सङ्गं निनाय नीतवान् ॥वल्लकीपक्षे तु सत्त्वं तन्त्रीणामवष्टम्भकः शलाकाविशेषः॥ पतिरङ्कनिषण्णया तया करणापायविभिन्नवर्णया ।
समलक्ष्यत बि[३९]भ्रदाविलां मृगलेखामुषसीव चन्द्रमाः॥१२॥
पतिरिति ॥ पतिरजोऽङ्कनिषण्णयोत्सङ्गस्थितया करणानामिन्द्रियाणामपा- येनापगमेन हेतुना विभिन्नवर्णया विच्छायया तया । उषसि प्रातःकाल आविला मलिनां मृगलेखां लाञ्छनं मृगरेखारूपं बिभ्रद्धारयंश्चन्द्रमा इव । समलक्ष्यतादृश्यत । इत्युपमा ॥
विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् ।
अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ ४३॥
विललापेति ॥ सोऽजः सहजां स्वाभाविकीमपि धीरतां धैर्यमपहाय विप्रकीर्य वाष्पेण कण्ठगतेन गद्गदं विशीर्णाक्षरं यथा तथा ध्वनिमात्रानुकारिगद्गद शब्दैर्विललाप परिदेवितवान् ॥ "विलापः परिदेवनम्" इत्यमरः॥अभितप्तमग्निना संतप्तमयो लोहमचेतनमपि मार्दवं मृदुत्वमवैरत्वं च भजते प्राप्नोति । शरीरिषु देहिषु । अभिसंतप्तेष्विति शेषः । विषये कैव कथा वार्ता । अनुक्तसिद्धमित्यर्थः॥
कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि ।
न भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः ॥४४ ॥
कुसुमानीति ॥ कुसुमानि पुष्पाण्यपि । अपिशब्दो नितान्तमार्दवद्योतनार्थः । गात्रसंगमाद्देहसंसर्गादायुरपोहितुमपहर्तुं प्रभवन्ति यदि ॥ हन्त विषादे ॥ हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः "इत्यमरः॥ प्रहरिष्यतो हन्तुमिच्छतो विधेर्दैवस्यान्यत्कुसुमातिरिक्तं किमिव वस्तु ॥ इवशब्दो वाक्यालंकारे कीदृश- मित्यर्थः।। साधनं प्रहरणं न भविष्यति न भवेत् । सर्वमपि साधनं भविष्यत्येवेत्यर्थः।
अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः ।
हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं म[४०]ता ॥ ४५ ॥
अथवेति ।। अथवा पक्षान्तरे प्रजान्तकः कालो मृदु कोमलं वस्तु मृदुनैव वस्तुना हिंसितुं हन्तुमारभत उपक्रमते । अत्रार्थे हिमसेकेन तुषारनिष्यन्देन विपत्तिर्मुत्युर्यस्याः सा तथा नलिनी पद्मिनी मे पूर्वं प्रथमं निदर्शनमुदाहरणं मता द्वितीयं निदर्शनं पुष्पमृत्युरिन्दुमतीति भावः ॥
स्रगियं यदि जीवितापहा हृदये किं[४१] निहिता न हन्ति माम् ।
विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ॥१६॥
स्रगिति ॥ इयं स्रग्जीवितमपहन्तीति जीवितापहा यदि । हृदये वक्षसि ॥ "हृदयं वक्षसि स्वान्ते" इत्यमरः ॥ निहिता सती मां किं न हन्ति । ईश्वरेच्छया क्वचित्मदेशे विषमप्यमृतं भवेत्कचिदमृतं वा विषं भवेत् । दैवमेवात्र कारणमित्यर्थः॥
अथवेति ॥ अथवा मम भाग्यस्य विप्लवाद्विपर्ययादेषः । स्रगित्यर्थः ॥ विधेयप्राधान्यात्पुंलिङ्गनिर्देशः॥ वेधसा विधात्राशनिर्वैद्युतोऽग्निः कल्पितः ॥ “दम्भो- लिरशनियोः" इत्यमरः । यद्यस्मादनेनाप्यशनिना प्रसिद्धाशनिनेव तरुस्तरुस्थानीयः खयमेव न पातितः। किंतु तस्य तरोविंटपाश्रिता लता वल्ली क्षपिता नाशिता॥
कृतवत्यसि नावधीरणाम[४७]पराद्धेऽपि यदा चिरं मयि ।
कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे ॥१८॥
कृतवतीति ॥ मयि चिरं भूरिशोऽपराद्धेऽप्यपराधं कृतवत्यपि ॥ राधेः कतरि क्तः॥ यदा यस्माद्धेतोः-यदेति हेत्वर्थः । “स्वरादौ पठ्यते यदेति हेतौ" इति गणव्याख्यानात् ॥ अवधारणामवज्ञां न कृतवत्यसि नाकार्षीः । तत्कथमेकपदे तत्क्षणे ॥ " स्यात्तत्क्षण एकपदम्" इति विश्वः ॥ निरागसं नितरामनपराधमिमं जनम् । इममिति स्वात्मनिर्देशः । मामित्यर्थः। आभाष्यं संभाष्यं न मन्यसे न चिन्तयसि ॥
ध्रुवमस्मि शठः शुचिस्मिते विदितः कैतववत्सलस्तव ।
परलोकमसंनिवृत्तये यद[४८]नापृच्छ्य गतासि मामितः॥१९॥
ध्रुवमिति ॥ हे शुचिस्मिते धवलहसिते, शठो गूढविपियकारी कैतवेन कपटेन वत्सलः कैतवस्निग्ध इति ध्रुवं सत्यं तव विदितस्त्वया विज्ञातोऽस्मि ॥ “मतिबुद्धि-" इत्यादिना कर्तरि क्तः । क्तस्य च वर्तमाने" इति कर्तरि षष्ठी ॥कुतः । यद्यस्मान्मामनापृच्छयानामन्त्र्येतोऽस्माल्लोकात्परलोकमसंनिवृत्तयेऽपुनरावृत्तये गतासि ॥
दयितां यदि तावदन्वगाद्विनिवृत्तं किमिदं तया विना ।
सहतां हतजीवितं मम प्रबलात्मि[४९]कृतेन वेदनाम् ॥ ५० ॥
दयितामिति ॥ इदं मम हतजीवितं कुत्सितं जीवितं तावदादौ दयितामिन्दुमतीमन्वगादन्वगच्छद्यदि । अन्वगादेव ॥ यद्यत्रावधारणे ॥ पूर्व मूर्छितत्वादिति भावः ॥ तर्हि तया दयितया विना किं किमर्थं विनिवृत्तं प्रयागतम् । प्रत्यागमनं न युक्तमित्यर्थः । अतएवात्मकृतेन स्वदुश्चेष्टितेन निवृत्तिरूपेण प्रबलामधिकां वेदनां दुःखं सहतां क्षमताम् ॥ स्वयंकृतापराधेषु सहिष्णुतैव शरणमिति भावः ॥
सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते ।
अ[५०]थ चास्तमिता त्वमात्मना धिगिमां देहभृतामसारताम् ॥ ५१
सुरतेति ॥ सुरतश्रमेण संभृतो जनितः स्वेदलवोद्गमोऽपि ते तव मुखे ध्रियते वर्तते । अथ च त्वमात्मना स्वरूपेणास्तं नाशमिता प्राप्ता । अतः कारणाद्देहभृतां प्राणिनामिमां प्रत्यक्षामसारतामस्थिरतां धिक् ॥
मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् ।
ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ॥ ५२ ॥
मनसेति ॥ मया मनसापि तव विप्रियं न कृतपूर्वम् । पूर्वं न कृतमित्यर्थः ॥ सुप्सुपेति समासः ॥ किं केन निमित्तेन मां जहासि त्यजसि । नन्वहं क्षितेः शब्द पतिः शब्दत एव पतिः । न त्वर्थत इत्यर्थः । भावनिबन्धनाभिप्रायनिबन्धना स्वभावहेतुका मे रतिः प्रेम तु त्वय्येव । अस्तीति शेषः ॥
कुसुमेति ॥ कुसुमैरुत्खचितानुत्कर्षेण रचितान्वलीभृतो भङ्गीयुक्तान् । कुटिलानित्यर्थः । भृङ्गरुचो नीलांस्तवालकांश्चलयन्कम्पयन्मारुतः । हे करभोरु करभसदृशोरु ॥ "मणिबन्धादाकनिष्ठं करस्य करभो बहिः" इत्यमरः ॥ मे मनस्त्वदुपावर्तनशङ्कि तव पुनरागमने शङ्कावत्करोति । त्वदुज्जीवने शङ्कां कारयतीत्यर्थः ॥
तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाशु मे ।
ज्वलितेन गुहागतं तमस्तुहिनाद्रेखि नक्तमोषधिः ॥ ५४ ॥
तदिति ॥ हे प्रिये, तत्तस्मात्कारणादाशु मे विषादं दुःखम् । नक्तं रात्रावोषधिस्तृणज्योतिराख्या लता ज्वलितेन प्रकाशेन तुहिनाद्रेर्हिमाचलस्य गुहागतं तमोऽन्धकारमिव । प्रतिबोधेन ज्ञानेनापोहितुं निरसितुमर्हसि ॥
इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् ।
निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥ ५५ ॥
इदमिति ॥ इदमुच्छ्वसितालकं चलितचूर्णकुन्तलं विश्रान्तकथं निवृत्तसंलापं तव मुखम् । निशि रात्रौ सुप्तं निमीलितं विरतोऽभ्यन्तराणामन्तवर्तिनां षट्पदानां स्वनो यत्र तत् । निःशब्दभृङ्गमित्यर्थः । एकपङ्कजमद्वितीयं पद्ममिव । मां दुनोति परितापयति ॥
शशिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्रिणम् ।
इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः॥५६ ।।
शशिनमिति ॥ शर्वरी रात्रिः शशिनं चन्द्रं पुनरेति प्राप्नोति । द्वन्द्वीभूय चरतीति द्वन्द्वचरः। तं पतत्रिणं चक्रवाकं दयिता चक्रवाकी पुनरेति । इति हेतोस्तौ चन्द्रचक्रवाकौ विरहान्तरक्षमौ विरहावधिसहौ । “अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये " इत्यमरः ॥ अत्यन्तगता पुनरावृत्तिरहिता त्वं तु कथं न मां दहेर्न संतापयेः । अपि तु दहेरेवेत्यर्थः ॥
नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् ।
तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणम् ॥ ५७ ॥
नवेति । नवपल्लवसंस्तरे नूतनप्रवालास्तरणेऽप्यर्पितं स्थापितं मृदु ते तव यदङ्गं शरीरं दूयेत परितप्तं भवेत् । वामौ सुन्दरौ ऊरू यस्याः सा हे वामोरु ॥ “वामं स्यात्सुन्दरे सख्ये" इति केशवः ॥ “संहितशफलक्षण-" इत्यादिनोङ्प्रत्ययः ॥ तदिदमङ्गं चितायाः काष्टसंचयस्याधिरोहणं कथं विषहिष्यते वद ॥
इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी।
गतिविभ्रमसादनीरवा न शुचा नानुमृतेव लक्ष्यते ॥ ५८॥
इयमिति ॥ इयं प्रथमाद्या रह:सखी । सुरतसमयेऽप्यनुयानादिति भावः । गतिविभ्रमसादेन नीरवा विलासोपरमेण निःशब्दा रशना मेखलाप्रतिबोधमपुनरुद्बोधं यथा तथा शायिनीम् । मृतामित्यर्थः। त्वामनु त्वया सह ॥ तृतीयार्थ इत्यनुशब्दस्य कर्मप्रवचनीययुक्ते द्वितीया ॥ शुचा शोकेन मृतेव न लक्ष्यत इति न। लक्ष्यत एवेत्यर्थः ॥ संभाव्यनिषेधनिवर्तनाय द्वौ प्रतिषेधौ ॥
कलमिति। त्रिदिवेति । युग्मम् । उभयोरेकान्वयः॥ अन्यभृतासु कोकिलासु कलं मधुरं भाषितं भाषणम् । कलहंसीषु विशिष्टहंसीषु मदालसं मन्थरं गतं गमनम् । पृषतीषु हरिणीषु विलोलमीक्षितं चञ्चला दृष्टिः । पवनेन वायुनाधूतलतास्वीषकम्पितलतासु विभ्रमा विलासाः॥ इत्यमी पूर्वोक्ताः कलभाषणादयो गुणाः। एषु कोकिलादिस्थानेष्विति शेषः । त्रिदिवोत्सुकयापीह जीवन्त्येव स्वर्गं प्रति प्रस्थितयापि त्वया मामवेक्ष्य विरहासहं विचार्य सत्यं निहिताः। मत्प्राणधारणोपायतया स्थापिता इयर्थः । तव विरहे गुरुव्यथमतिदुःखं मे हृदयं मनोऽवलम्बितुं स्थापयितुं न क्षमा न शक्ताः । ते तु तत्संगम एव सुखकारिणः । नान्यथा । प्रत्युत प्राणानपहरन्तीति भावः॥
मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ ।
अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसांप्रतम् ॥ ६१ ।।
मिथुनमिति ॥ ननु हे पिये, सहकारश्चूतविशेष: फलिनी प्रियंगुलता चेमौ त्वया मिथुनं परिकल्पितं मिथुनत्वेनाभ्यमानि । अनयोः फलिनीसहकारयोर्विवाहसक्रियां विवाहमङ्गलमविधायाकृत्वा गम्यत इत्यसांप्रतमयुक्तम् । मातृहीनानां न किंचित्सुखमस्तीति भावः ॥
कुसुमं कृतदो[५६]हदस्त्वया यदशोकोऽयमुदीरयिष्यति ।
अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम् ॥ ६२॥
कुसुममिति ॥ वृक्षादिपोपकं दोहदम् । त्वया कृतं दोहदं पादताडनरूपं यस्य सोऽयमशोको यत्कुसुममुदीरयिष्यति प्रसविष्यते । तवालकानामाभरणमाभरणभूतं तत्कुसुमं कथं नु केन प्रकारेण निवापमाल्यतां दाहाञ्जलेरर्घ्यतां नेष्यामि। "निवापः पितृदानं स्यात्" इत्यमरः ॥
स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् ।
अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि शोच्यसे ॥६३॥
स्मरतेति ॥ अन्यदुर्लभम् । किंतु स्मर्तव्यमेवेत्यर्थः । सशब्दं ध्वनियुक्तं नूपुरं मञ्जीरं यस्य तं चरणेनानुग्रहं पादेन ताडनरूपं स्मरतेव चिन्तयतेव कुसुमान्येवाश्रूणि तर्षिणामुना पुरोवर्तिनाशोकेन । हे सुगात्रि ॥ "अङ्गगात्रकण्ठेभ्यश्च" इति वक्तव्याङीप् ॥ त्वं शोच्यसे॥
तव निःश्वसिता[५७]नुकारिभिर्बकुलैरर्धचितां समं मया ।
असमाप्य विलासमेखलां किमिदं किंनरकण्ठि सुप्यते ॥६४॥
तवेति ॥ तव निःश्वसितानुकारिभिर्बकुलैर्वकुलकुसुमैर्मया समं सार्धमर्धचितामधु यथा तथा रचितां विलासमेखलामसमाप्यापूरयित्वा । किंनरस्य देवयोनिविशेषस्य कण्ठ इव कण्ठो यस्यास्तत्संबुद्धिर्हे किंनरकण्ठि ॥ "अङ्गगात्रकण्ठेभ्यश्च" इति ङीप् ॥ किमिदं सुप्यते निद्रा क्रियते ॥ “वचिस्वपि-" इत्यादिना संप्रसारणम् ॥ अनुचितमिदं स्वपनमित्यर्थः ॥
समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः।
अ[५८]हमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुर:॥६५॥
समेति ॥ सखीजनः समदुःखमसुखः । त्वद्दुःखेन दुःखी त्वत्सुखेन सुखीत्यर्थः । अयमात्मजो बालः प्रतिपचन्द्रनिभः । दर्शनीयो वर्धिष्णुश्चेत्यर्थः । प्रतिपच्छब्देन द्वितीया लक्ष्यते प्रतिपदि चन्द्रस्यादर्शनात् । अहमेकरसोऽभिन्नरागः ॥ “शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः इत्यमरः ॥ तथापि । जीवितसामग्रीसत्त्वेऽपीत्यर्थः । ते तव व्यवसायोऽस्मत्परित्यागरूपो व्यापारः प्रतिपत्त्या निश्चयेन निष्ठुर: क्रूरः ॥ “प्रतिपत्तिः पदमाप्तौ प्रकृतौ गौरवेऽपि च । प्रागल्भ्ये च प्रवोधे च" इति विश्वः ॥ स्मर्तुं न शक्यः किमुताधिकर्तुमिति भावः ॥
धृतिरस्तमिता रतिश्चयुता विरतं गेयमृतुर्निरुत्सवः ।
गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥ ६६ ॥
धृतिरिति ॥ अद्य मे धृतिधैर्यं प्रतीतिर्वास्तं नाशमिता । रतिः क्रीडा च्युता गता । गेयं गानं विरतम् । ऋतुर्वसन्तादिनिरुत्सवः । आभरणानां प्रयोजनं गतमपगतम् । शेतेऽस्मिन्निति शयनीयं तल्पम् ॥ “कृत्यल्युटो बहुलम्" इत्यधिकरणार्थेऽनीयर्प्रत्यय: ॥ परिशून्यम् । त्वां विना सर्वमपि निष्फलमिति भावः ।।
गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥६७॥
गृहिणीति ॥ त्वमेव गृहिणी दाराः । अनेन सर्वं कुटुम्बं त्वदाश्रयमिति भावः । सचिवो बुद्धिसहायो मन्त्री । सर्वो हितोपदेशस्त्वदायत्त इत्यनेनोच्यते । मिथो रहसि सखी नर्मसचिवः । सर्वोपभोगस्त्वदाश्रय इत्यमुना प्रकटितम् । ललिते मनोहरे कलाविधौ वादित्रादिचतुःषष्टिकलाप्रयोगे प्रियशिष्या । प्रियत्वं प्राज्ञत्वादिसभिसंधिः सर्वानन्दोऽनेन त्वन्निबन्धन इत्युद्धाटितम् । अतस्त्वां समष्टिरूपां हरतातएव करुणाविमुखेन कृपाशून्येन मृत्युना मे मत्संबन्धि किं वस्तु न हृतं वद । सर्वमपि हृतमित्यर्थः ॥
मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे ।
अनुपास्यसि बाष्पदूषितं प[५९]रलोकोपनतं जलाञ्जलिम् ॥ ६८॥
मदिराक्षि । मदाननेनार्पितं रसवत्स्वादुतरं मधु मद्यं पीत्वा बाष्पषितमश्रुतप्तं परलोकोपनतं परलोकप्राप्तं मे जलाञ्जलिं तिलोदकाञ्जलिं कथं न्वन्वनन्तरं पास्यसि । तदनन्तमिदमनहमित्यर्थः । यथाह भट्टमल्लः-"अनुपानं हिमजलं यवगोधूमनिमिते । दनि मद्य विपे द्राक्षे पिष्टे मिष्टमयेऽपि च" इति । तच्चैहैव युज्यते । इदं तूष्णं लोकान्तरोपयोगि चेत्यायुर्वेद विरोधात्कथमनुपास्यसीति भावः ॥
विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् ।
अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ॥ ६९॥
विभव इति ॥ विभव ऐश्वर्ये सत्यपि खया विनाजस्यैतावदेव सुखं गण्यताम् । यावत्त्वया मह भुक्तं ततोऽन्यन्न किंचिद्भविष्यतीयर्थः । कुतः । विलोभनान्तरविषयान्तरैरहतस्यानाकृष्टस्य मम सर्वे विषया भोगादयस्त्वदाश्रयास्त्वदधीनाः। त्वां विना मे न किंचिद्रोचत इत्यर्थः ।।
विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति ।
अकरोत्पृथिवीरुहानपि उतशाखारसवाष्पदू[६०]षितान् ॥ ७० ॥
विलपन्निति ॥ कोसलाधिपो&ज इति करुणः शोकरसः स एवार्थस्तेन ग्रथितं संबद्धं यथा तथा प्रियां प्रतीन्दुमतीमुद्दिश्य विलपन्पृथिवीरुहान्क्षानपि स्रुताः शाखारसा मकरन्दा एव बाष्पास्तैदूश्हितानकरोत् । अचेतनानप्यरोदयदित्यर्थः ॥
अथेति ॥ अथ स्वजनो बन्धुवर्गस्तस्याजस्याङ्कत उत्सङ्गात्कथंचिदपनीय । तदिव्यकुसुममेवान्त्यं मण्डनमलंकारो यस्यास्ताम् । तां सुन्दरीमगुरूणि चन्दनान्येधांसीन्धनानि यस्य तस्मा अनलायाग्नये विससर्ज विसृष्टवान् ॥ "क्रियाग्रहणमपि कर्तव्यम्” इति क्रियामात्रप्रयोगे संप्रदानत्वाच्चतुर्थी ॥
प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् ।
न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया॥७२॥
प्रमदामिति ॥ नृपतिरजः सपि विद्वानपि शुचा शोकेन प्रमदामनु प्रमदया सह संस्थितो मृत इति वाच्यदर्शनाभिन्दादर्शनाद्देव्येन्दुमत्या सह शरीरमग्निसादग्न्यधीनं न चकार ॥ "तदधीनवचने" इति सातिप्रत्ययः ॥ जीविताशया प्राणेच्छया तु नेति॥
अथेति ॥ अथ विदुषा शास्त्रज्ञेन तेनाजेन । गुणा एव शेषा रूपादयो यस्यास्तां गुणशेषां भामिनीमिन्दुमतीमुपदिश्योद्दिश्य । दशानामह्नां समाहारो दशाहः।। 'तद्धितार्थ-" इत्यादिना समासः । समाहारस्यैकत्वादेकवचनम् । “राजाहःसखिभ्यष्टच्” इति टच् । “रात्राह्नाहाः पुंसि” इति पुंवत् । ततस्तसिल् ॥ तस्माद्दशाहतः पर ऊर्ध्वं कर्तव्या महर्द्धयो महासमृद्धयो विधयः क्रियाः पुरः पुर्या उपवन उद्यान एव समापिताः संपूर्णमनुष्ठिताः ॥ दशाहतः इत्यत्र “विप्र: शुध्येद्दशाहेन द्वादशाहेन भूमिपः" इति मनुवचनविरोधो नाशङ्कनीयः । तस्य निर्गुणक्षत्रियविषयत्वात् । गुणवत्क्षत्रियस्य तु दशाहेन शुद्धिमाह पराशरः- "क्षत्रियस्तु दशाहेन स्वधर्मनिरतः शुचिः" इति ॥ सूच्यतेऽस्यापि गुणवत्त्वं विदुषेत्यनेन ॥
स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः ।
परिवाहमिवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु ॥ ७४ ।।
स इति ॥ तयेन्दुमत्या विना । क्षणदाया रात्रेरपायेऽपगमे यः शशाङ्कश्चन्द्रः स इव दृश्यत इति क्षणदापायशशाङ्कदर्शनः । प्रातःकालिकचन्द्र इव दृश्यमान इत्यर्थः ॥ दृश्यत इति कर्मार्थे ल्युट् ॥ सोऽजः पौरवधूमुखाश्रुषु स्वशुचः स्वशो- कस्य परिवाहं जलोच्छ्वासमिवावलोकयन् ॥ “जलोच्छ्वासाः परीवाहाः" इत्यम- रः॥ स्वदुःखपूरातिशयमिव पश्यन्पुरीं विवेश ॥ वधूग्रहणात्तस्यामिन्दुमत्यां स- ख्याभिमानादजसमानदुःखसूचकपरीवाहोक्तिर्निर्वहति ॥
अथेति ॥ अथ सवनाय यागाय दीक्षितो गुरुर्वसिष्ठ आश्रमे स्वकीयाश्रमे स्थितः सन् । तमजमभिषङ्गजडं दुःखमोहितं प्रणिधानाच्चित्तैकाग्रयाद्विजज्ञिवाञ्ज्ञातवान् ॥ " क्वसुश्च" इति क्वसुप्रत्ययः॥ इति वक्ष्यमाणप्रकारेण शिष्येणान्वबोध- यत्किल ॥ बुधेर्ण्यन्ताण्णिचि लङ्॥ वसिष्ठशिष्य आह--
असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम् ।
न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितुं पे[७१]थश्च्युतम् ॥७६॥
असमाप्तेति ॥ यतो हेतोर्मुनिरसमाप्तविधिरसमाप्तक्रतुस्ततस्तव तापकारणं दुःखहेतुं कलत्रनाशरूपं विद्वाञ्जानन्नपि ॥ “विदेः शतुर्वसुः” इति वस्वादेशः । "न लोक-" इत्यादिना षष्ठीप्रतिषेधः ॥ पथश्च्युतं स्वभावाद्भ्रष्टं भवन्तं प्रकृतौ स्वभावे स्थापयितुम् । समाश्वासयितुमित्यर्थः । स्वयं नोपस्थितो नागतः॥
मयीति ॥ हे सुवृत्त सदाचार, संदिश्यत इति संदेशः संदेष्टव्यार्थः । तस्य पदानि वाचकानि लघूनि संक्षिप्तानि संदेशपदानि यस्यां सा लघुसंदेशपदा तस्य मुनेः सरस्वती वाङ्मयि वर्तते । हे विश्रुतसत्त्वसार प्रख्यातधैर्यातिशय, तां सरस्वतीं शृणु । एनां वाचं हृद्युपधातुं धर्तुं चार्हसि ॥
वक्ष्यमाणार्यानुगुणं मुनेः सर्वज्ञत्वं तावदाह-
पुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च ।
स हि निष्प्रतिघेन चक्षुषा त्रि[७४]तयं ज्ञानमयेन पश्यति ॥ ७८॥
पुरुषस्येति ॥ अजन्मनः पुरुषस्य पुराणपुरुषस्य भगवतस्त्रिविक्रमस्य पदेषु वि- क्रमेषु । त्रिभुवनेष्वपीत्यर्थः । समतीतं भूतं च भवद्वर्तमानं च भावि भविष्यच्चेति त्रितयं स मुनिर्निष्पतिघेनाप्रतिवन्धेन ज्ञानमयेन चक्षुषा ज्ञानदृष्टया पश्यति हि । अतस्तदुक्तिषु न संशयितव्यमित्यर्थः॥
चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा ।
प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् ॥७९॥
चरत इति ॥ पुरा किल दुश्चरं तीव्रं तपश्चरतस्तृणबिन्दोस्तृणबिन्दुनामकाकस्माच्चिदृषेः परिशङ्कितो भीतः ॥ कर्तरि क्तः॥ “भीत्रार्थानां भयहेतुः" इत्यपादानात्पञ्चमी ॥ हरिरिन्द्रः समाधिभेदिनीं तपोविघातिनीं हरिणीं नाम मुराङ्गनामस्मै
तृणबिन्दवे प्रजिघाय प्रेरितवान् ।स इति ॥स मुनिः। शमः शान्तिरेव वेला मर्यादा । यस्याः प्रलयोर्मिणा प्रलयकालतरंगेण । शमविघातकेनेत्यर्थः ॥ “अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि" इत्यमरः ॥ तपसः प्रतिबन्धेन विघ्नेन यो मन्युः क्रोधस्तेन हेतुना। प्रमुखेऽग्र आविष्कृतचारुविभ्रमां प्रकाशितमनोहरविलासां तां हरिणीं भुवि भूलोके मानुषी मनुष्यस्त्री भवेत्यशपच्छशाप ॥
भगवन्परवानयं जनः प्रतिकूलाचरितं क्ष[७८]मस्व मे ।
इति चोपनतां क्षितिस्पृशं कृतवाना सुरपुष्पदर्शनात् ॥ ८१ ॥
भगवन्निति ॥ हे भगवन्महर्षे, अयं जनः । परोऽस्यास्तीति स्वामित्वेन परवान्पराधीनः । अयमित्यात्मनिर्देशः। अहं पराधीनेत्यर्थः । मे मम प्रतिकूलाचरितमपराधं क्षमस्वेत्यनेन प्रकारेणोपनतां शरणागतां च हरिणीमा सुरपुष्पदर्शनात्सुरपुष्पदर्शनपर्यन्तम् । क्षितिं स्पृशतीति क्षितिस्पृक्तां क्षितिस्पृशं मानुषीं कृतवानकरोत् । दिव्यपुष्पदर्शनं शापावधिरित्यनुगृहीतवानित्यर्थः ॥
क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा।
उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणम् ।। ८२ ॥
क्रथेति॥ क्रथकैशिकानां राज्ञां वंशे संभवो यस्याः सा हरिणी तव महिष्यभिषिक्ता स्त्री ॥ “कृताभिषेका महिषी" इत्यमरः ॥ भूत्वा चिराय दिवः स्वर्गाच्युतं पतितं शापनिवृत्तिकारणं सुरपुष्परूपमुपलब्धवती विवशा। अभूदिति शेषः। मृतेत्यर्थः॥
तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता ।
वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः॥ ८३॥
तदिति॥तत्तस्मात्तस्या अपायचिन्तयालम्। तस्या मरणं न चिन्त्यमित्यर्थः। निषेधक्रियां प्रति करणत्वाच्चिन्तयेति तृतीया॥ कुतो न चिन्त्यमत आह-उत्पत्तिमतां जन्मवतां विपद्विपत्तिरुपस्थिता सिद्धा । जातस्य हि ध्रुवो मृत्युरित्यर्थः ॥ तथापि कलत्ररहितस्य किं जीवितेन। तत्राह--त्वयेयं वसुधा भूमिरवेक्ष्यतां पाल्यताम् । हि यस्मान्नृपा वसुमत्या पृथिव्या कलत्रिणः कलत्रवन्तः । अतो न शोचितव्यमित्यर्थः॥
उदय इति ॥ उदयेऽभ्युदये सति मदेन यद्वाच्यं निन्दादुःखं तदुज्झता परिहरतासत्यपि मदहेतावमाद्यता त्वया यदात्मवदध्यात्मप्रचुरं श्रुतं शास्त्रम् । तज्जनितं ज्ञानमिति यावत् । आविष्कृतं प्रकाशितम् । तच्छ्रुतं मनसो ज्वरे संताप उपस्थिते प्राप्तेऽक्लीबतया धैर्येण लिङ्गेन पुनः प्रकाश्यताम् । विदुषा सर्वास्ववस्थास्वपि धीरेण भवितव्यमित्यर्थः॥
इतोऽपि न रोदितव्यमित्याह-
रुदता कुत एव सा पुनर्भवता नानुमृता[८१]पि लभ्यते ।
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ।। ८५॥
रुदतेति ॥ रुदता भवता सा कुत एव लभ्यते । न लभ्यत एव ॥ अनुम्रियत इत्यनुमृत् ॥ क्विप् ॥ तेनानुमृतानुमृतवतापि भवता पुनर्न लभ्यते । कथं न लभ्यत इत्याह- परलोकजुषां लोकान्तरभाजां देहिनाम् । गम्यन्त इति गतयो गम्यस्थानानि स्वकर्मभिः पूर्वाचरितपुण्यपापैर्भिन्नपथाः पृथक्कृतमार्गा हि ॥ परत्रापि स्वस्वधर्मानुरूपफलभोगाय भिन्नदेहगमनान्न मृतेनापि लभ्यत इत्यर्थः ॥
अपशोकमनाः कुटुम्बिनीमनुगृह्णीष्व निवापदत्तिभिः ।
खजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥ ८६ ॥
अपेति ॥ किंत्वपशोकमना निर्दुःखचित्तः सन्कुटुम्बिनीं पत्नीं निवापदत्तिभिः पिण्डोदकादिदानैरनुगृण्हीष्व । तर्पयेत्यर्थः । अन्यथा दोषमाह-अतिसंततमविच्छिन्नं स्वजनानां बन्धूनाम् ॥ “बन्धुस्वस्वजनाः समाः इत्यमरः ॥ अश्रु। कर्तृ । प्रेतं मृतं दहतीति प्रचक्षते मन्वादयः किल । अत्र याज्ञवल्क्यः- "श्लेष्माश्रु बन्धुभिर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः" इति ॥
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः।
क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥ ८७ ॥
मरणमिति ॥ शरीरिणां मरणं प्रकृतिः स्वभावः । ध्रुवमित्यर्थः । जीवितं विकृतिर्यादृच्छिकं बुधैरुच्यते । एवं स्थिते जन्तुः प्राणी क्षणमपि ॥ अत्यन्तसंयोगे द्वितीया ॥ श्वसञ्जीवन्नवतिष्ठते यद्यसौ क्षणजीवी लाभवान्ननु । जीवने यथालाभं संतोष्टव्यम् । अलभ्यलाभात् । मरणे तु न शोचितव्यम्। अस्य स्वाभाव्यादिति भावः।।
अ[८२]वगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् ।
स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ ८८॥
अवेति ॥ मूढचेतनो भ्रान्तबुद्धिः प्रियनाशमिष्टनाशं हृद्यर्पितं निखातं शल्यं शङ्कुमवगच्छति मन्यते । स्थिरधीर्विद्वांस्तु तदेव शल्यं समुद्धृतमुत्खातं मन्यते । प्रियनाशे सतीति शेषः ॥ कुतः । कुशलद्वारतया । प्रियनाशस्य मोक्षोपायतयेत्यर्थः । विषयलाभाविनाशयोर्यथाक्रमं हिताहितसाधनत्वाभिमानः पामराणाम् । विपरीतं तु विपश्चितामिति भावः ॥
स्वेति ॥ स्वस्थ शरीरशरीरिणौ देहात्मानावपि यदा यतः श्रुतौ श्रुत्यवगतौ संयोगविपर्ययौ संयोगवियोगौ ययोस्तौ तथोक्तौ । तदा बाह्यैर्विषयैः पुत्रमित्रकलत्रादिभिर्विरहो विपश्चितं विद्वांसं किमिवानुतापयेत्त्वं वद । न किंचिदित्यर्थः । अथवास्वशब्दस्य शरीरेणैव संबन्धः ॥
न पृथग्जनवच्छुचो वशं वशिनामुत्तम गन्तुमर्हसि ।
द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः॥९०॥
नेति ॥ हे वशिनामुत्तम जितेन्द्रियवर्य, पृथग्जनवत्पामरजनवच्छुचः शोकस्य वशं गन्तुं नार्हसि । तथाहि । द्रुमसानुमतां तरुशिखरिणां किमन्तरं को विशेषः । वायौ सति द्वितयेऽपि द्विप्रकारा अपि ॥ “प्रथमचरम-" इत्यादिना जसि वि- भाषया सर्वनामसंज्ञा ॥ ते द्रुमसानुमन्तश्चलाश्चञ्चला यदि । सानुमतामपि चलने दुमवत्तेषामप्यचलसंज्ञा न स्यादित्यर्थः ।।
स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् ।
तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरोः॥९१॥
स इति ॥ सोऽज उदारमतेर्विनेतुर्गुरोर्वसिष्ठस्य वचस्तच्छिष्यमुखेरितं तथेति प्रतिगृह्याङ्गीकृत्य मुनिं वसिष्ठशिष्यं विससर्ज प्रेषयामास । किंतु तद्वचः शोकघने दुःखसान्द्रेऽस्याजस्य हृद्यलब्धपदमप्राप्तावकाशं सद्गुरोर्वसिष्ठस्यान्तिकं प्रतियात. मिव प्रतिनिवृत्तं किमु । इत्युत्प्रेक्षा ॥ तोटकवृत्तमेतत्- “इह तोटकमम्बुधिसै: प्रथितम्” इति तल्लक्षणम् ॥
तेनाष्टौ परिगमिताः समाः कथंचिद्बालत्वादवितथसूनृतेन सूनोः।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च॥९२॥
तेनेति ॥ अवितथं यथार्थं सूनृतं पियवचनं यस्य तेनाजेन । सुनोः पुत्रस्य बालत्वात् । राज्याक्षमत्वादित्यर्थः । प्रियाया इन्दुमत्या: सादृश्यं वस्त्वन्तरगतमाकारसाम्यम् । प्रतिकृतिश्चित्रम् । तयोर्दर्शनैः स्वप्नेषु क्षणिकाः क्षणभङ्गुरा ये समागमोत्सवास्तैश्च । कथंचित्कृच्छ्रेण । अष्टौ समा वत्सराः॥"संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरस्समाः" इत्यमरः॥परिगमिता अतिवाहिताः॥उक्तं च-"वियोगावस्थासु प्रियजनसदृक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपगतवतां स्पर्शनमपि प्रतीकारः कामव्यथितमनसां कोऽपि कथितः" इति।। प्रकृते सादृश्यादित्रितयाभिधानं तदङ्गस्पृष्टपदार्थस्पृष्टेरप्युपलक्षणम् ॥प्रहर्षिणीवृत्तमेतत् ॥
तस्य प्रसह्य हृदयं किल शोकशङ्कुः
प्लक्षप्ररोह इव सौधतलं बिभेद ।
प्राणान्तहेतुमपि तं भिषजामसाध्यं
लाभं प्रि[८५]यानुगमने त्वरया स मेने ॥ ९३॥
तस्येति ॥ शोक एव शङ्कु: कीलः ॥ “शङ्कः कीले शिवेऽस्त्रे च" इति विश्वः ॥ तस्याजस्य हृदयम् । प्लक्षप्ररोहः सौधतलमिव । प्रसह्य बलात्किल बिभेद ॥ सोऽजः प्राणान्तहेतुं मरणकारणमपि भिषजामसाध्यमप्रतिसमाधेयं तं शोकशङ्कुं रोगपर्यवसितं प्रियाया अनुगमने त्वरयोत्कण्ठया लाभं मेने ॥ तद्विरहस्यातिदुःसहत्वात्तत्प्राप्तिकारणं मरणमेव वरमित्यमन्यतेत्यर्थः ॥
सम्यग्विनीतमथ व[८६]र्महरं कुमार-
मादिश्य रक्षणविधौ विधिवत्प्रजानाम् ।
रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः
प्रायोपवेशनमतिर्नृपतिर्बभूव ॥ ९४ ॥
सम्यगिति ॥ अथ नृपतिरजः सम्यग्विनीतं निसर्गसंस्काराभ्यां विनयवन्तं वर्म हरतीति वर्महरः कवचधारणार्हवयस्कः ॥ " वयसि च" इत्यच्प्रत्ययः ॥ तं कुमारं दशरथं प्रजानां रक्षणविधौ राज्ये विधिवद्विध्यर्हम् । यथाशास्त्रमित्यर्थः ॥ "तदर्हम्" इति वतिप्रत्ययः ॥ आदिश्य नियुज्य रोगेणोपसृष्टाया व्याप्तायास्तनोः शरीरस्य दुर्वसतिं दुःखावस्थितिं मुमुक्षुर्जिहासुः सन् । प्रायोपवेशनेऽनशनावस्थाने मतिर्यस्य स बभूव ।। “प्रायश्चानशने मृत्गौ तुल्यबाहुल्ययोरपि" इति विश्वः ॥ अत्र पुराणवचनम् " समासक्तो भवेद्यस्तु पातकैर्महदादिभिः । दुश्चिकित्स्यैर्महारोगैः पीडितो वा भवेत्तु यः । स्वयं देहविनाशस्य काले प्राप्ते महामतिः । आब्रह्माणं वा स्वर्गादिमहाफलजिगीषया । प्रविशेज्ज्वलनं दीप्तं कुर्यादनशनं तथा । एतेषामधिकारोऽस्ति नान्येषां सर्वजन्तुषु । नराणामथ नारीणां सर्ववर्णेषु सर्वदा" इति ॥ अनयोर्वसन्ततिलकाच्छन्दः । तल्लक्षणम्- "उक्ता वसन्ततिलका तभजा
जगौ गः" इति ॥तीर्थ इति ॥ असावजो जह्नुकन्यासरय्वोस्तोयानां जलानां व्यतिकरेण संभेदेन भवे तीर्थे गङ्गासरयूसंगमे देहत्यागात्सद्य एवामरणगणनायां लेख्यं लेखनम्।। "तयोरेव कृत्यक्तखलर्था:" इति भावार्थे ण्यत्प्रत्ययः॥ आसाद्य प्राप्य । पूर्वस्मादाकारादधिकतरा रुग्यस्यास्तया कान्तया रमण्या संगतः सन् । नन्दनस्येन्द्रोद्यानस्याभ्यन्तरेष्वन्तर्वर्तिषु लीलागारेषु क्रीडाभवनेषु पुनररमत ॥ “यथाकथंचित्तीर्थेऽस्मिन्देहत्यागं करोति यः । तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि " इति स्कान्दे ॥ मन्दाक्रान्ताछन्दः । तल्लक्षणम्- “मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत्" इति ॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
अजविलापो नामाष्टमः सर्गः ।
- ↑ नरेश्वरम्
- ↑ अस्य भूपतेः.
- ↑ क्रियः.
- ↑ अनन्तरान्.
- ↑ आत्मवित्तया (=आत्मज्ञत्वेन ).
- ↑ विनाशधर्मिषु.
- ↑ ककुत्स्थवंशजाः.
- ↑ यमिनः संप्रियया।
- ↑ पूर्वपार्थिवः
- ↑ अपवर्गमहोदयार्थिनौ; अपवृत्तिमहोदयार्थयोः.
- ↑ अनपाय.
- ↑ अपरः.
- ↑ ध्यानमयेन चक्षुषा.
- ↑ अगमत्.
- ↑ परमार्थ
- ↑ प्रसृतो.
- ↑ उभयाम्
- ↑ विसृज्य.
- ↑ अग्निवित्
- ↑ च
- ↑ आजग्मतुः
- ↑ उग्रपौरुषम्.
- ↑ बहुरत्नभूः
- ↑ इतरा
- ↑ संमतये; संनतये.
- ↑ न केवलं विभोः.
- ↑ परप्रयोजनम्,
- ↑ नन्दनम्,
- ↑ श्रुत.
- ↑ उपवर्णयितुम्.
- ↑ उदगावृत्तिपथेन. (=उदीच उत्तरस्या दिश आकाश आवृत्तिनिवर्तनम् । तस्याः पन्था गतिप्रकारस्तेन ।
यथा रविरुत्तरस्या दिशो व्यावृत्य दक्षिणायनमागच्छति तद्वदित्यर्थः). - ↑ विनिकीर्णा.
- ↑ दयितोरःस्थलकोटिषु स्थितिम्.
- ↑ नरेश्वरप्रिया.
- ↑ परिपार्श्ववर्तिनाम्.
- ↑ कमलाकराश्रयाः.
- ↑ विह्वलां पुनः.
- ↑ अङ्गम्.
- ↑ विभ्रमाविलाम्.
- ↑ गता.
- ↑ संनिहिता.
- ↑ सुरमाल्यरूपभाक्.
- ↑ निर्मितः.
- ↑ कर्मणा.
- ↑ न पातितस्तरुः.
- ↑ तद्विटापाश्रया.
- ↑ अपराधे.
- ↑ अनामन्त्र्य
- ↑ आत्मकृता तु वेदनाम् ; आत्मकृतान्तवेदनाम्,
- ↑ अथवा.
- ↑ कुसुमोत्कचितान्; कुसुमोत्कलितान्.
- ↑ वलीमतः.
- ↑ गतं मदालसम्.
- ↑ हरिणोषु.
- ↑ विभ्रमः, विभ्रमा.
- ↑ दौर्ह्रदः.
- ↑ अनुवादिभिः-
- ↑ अथवा.
- ↑ परलोकोपनताम्,
- ↑ दुर्दिनान्.
- ↑ अवतार्य.
- ↑ कृतान्त्यमण्डनाम्
- ↑ अगरु.
- ↑ परम् ; परा.
- ↑ अपदिश्य .
- ↑ गेहिनीम्.
- ↑ वितेनिरे.
- ↑ तमवेक्ष्य मखाय.
- ↑ आश्रमाश्रितः;
आश्रमाश्रयः. - ↑ अभिषङ्गिणमीश्वरं विशाम्.
- ↑ ततश्चुतम् ; स्वतश्चुतम् ; कृतस्थितिः .
- ↑ स्फुटसंदेशपदा; लघुसंदेशहरा.
- ↑ अवधातुम्.
- ↑ अवितथम्.
- ↑ तपसा प्रतिघातमन्युना.
- ↑ शमवेलाप्रलयोर्मिवान्.
- ↑ मुनिः.
- ↑ सहस्व.
- ↑ यदवाच्यम्.
आत्मवत्तया (=अविकृतचित्ततया लिङ्गेन ); आत्मनस्त्वया. - ↑ समुपस्थिते.
- ↑ च.
- ↑ अथ गच्छति.
- ↑ स्मृत; स्मृति; श्रित.
- ↑ कम्.
- ↑ प्रियानुगमनत्वरया.
- ↑ वर्मधरम्.
- ↑ तोये तीर्थव्यतिकरभवे.
- ↑ पूर्वाकाराधिकचतुरया (-पूर्वस्मादाकारादधिकं चतुरया सुभगया).