रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/नवमः सर्गः(मृगयावर्णनः)
← रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/अष्टमः सर्गः(अजविलापः) | रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्) नवमः सर्गः(मृगयावर्णनः) कालिदासः |
दशमः सर्गः(रामावतारः) → |
नवमः सर्गः ।
एकलोचनमेकार्धे सार्धलोचनमन्यतः ।
नीलार्धं नीलकण्ठार्धं महः किमपि मन्महे ।।
पितुरनन्तरमुत्तरकोसलान्समधिगम्य समाधिजितेन्द्रियः ।
दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः॥१॥
पितुरिति ॥ समाधिना संयमेन जितेन्द्रियः॥ “समाधिर्नियमे ध्याने" इति कोशः॥ यमवतां संयमिनामवतां रक्षतां राज्ञां च धुर्यग्रे स्थितो महारथः ॥ “एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च स महारथ उच्यते" इति ॥ दशरथः पितुरनन्तरमुत्तरकोसलाञ्नपदान्समधिगम्य प्रशशास ॥ अत्र मनुः- "क्षत्रियस्य परो धर्मः प्रजानां परिपालनम्" इति ॥ द्रुतविलम्बितमेतद्वृत्तम् । तल्लक्षणम्- “द्रुतविलम्बितमाह नभौ भरौ" इति ॥
अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलमात्मकुलोचितम् ।
अभवदस्य ततो [१]गुणवत्तरं सनगरं नगरन्ध्रकरौजसः॥२॥
अधिगतमिति ॥ अधिगतं प्राप्तमात्मकुलोचितं स्वकुलागतं सनगरं नगरजनसहितं प्रकृतिमण्डलं जानपदमण्डलम् । अत्र प्रकृतिशब्देन प्रजामात्रवाचिना नगरशब्दयोगाद्गोबलीवर्दन्यायेन जानपदमात्रमुच्यते । यद्यस्माद्विधिवद्यथाशास्त्रमपालयत् । ततो हेतोः । रन्ध्रं करोतीति रन्ध्रकरः । रन्ध्रहेतुरित्यर्थः ॥ “ कृञो हेतुताच्छील्यानुलोम्येषु" इति टप्रत्ययः ॥ नगस्य रन्ध्रकरो नगरन्ध्रकरः कुमारः ॥“कुमारः क्रौञ्चदारणः” इत्यमरः ॥ तदोजसस्तत्तुल्यवलस्यास्य दशरथस्य गुणवत्तरमभवत् । तत्पौरजानपदमण्डलं तस्मिन्नतीवासक्तमभूदित्यर्थः ॥
उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् ।
बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयम् ॥ ३॥
उभयमिति ॥ मनस ईषिणो मनीषिणो विद्वांसः ॥ पृषोदरादित्वात्साधुः ॥ वलनिषूदनमिन्द्रम् । दण्डस्य धरो राजा मनुरिति यो दण्डधरः स एवान्वयः कूटस्थो यस्य तमर्थपतिं दशरथं चेत्युभयमेव । समयेऽवसरे जलं धनं च वर्षतीति समयवर्षी । तस्य भावः समयवर्षिता । तया हेतुना कृतकर्मणां स्वकर्मकारिणाम् । नुदतीति नुदम् ॥ “इगुपधज्ञाप्रीकिरः कः” इति कप्रत्ययः॥ श्रमस्य नुदं श्रमनुदम् ॥ किवन्तत्वे नपुंसकलिङ्गेनोभयशब्देन सामानाधिकरण्यं न स्यात् ॥ इति वदन्ति ॥
जनपदे न गदः पदमादधावभिभवः कुत एव सपनजः ।
[२]क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे ॥ ४ ॥
जनपद इति ॥ शमरते शान्तिपरेऽमरतेजस्यजनन्दने दशरथे पार्थिवे पृथिव्या ईश्वरे सति ॥ “ तस्येश्वरः” इत्यण्प्रत्ययः ॥ जनपदे देशे गदो व्याधिः॥ “ उपतापरोगव्याधिगदामयाः” इत्यमरः ॥ पदं नादधौ । नाचक्रामेत्यर्थः ॥ सपत्नजः शत्रुजन्योऽभिभवः कुत एव । असंभावित एवेत्यर्थः ॥ क्षितिः फलवत्यभूच्च॥
दशदिगन्तजिता रघुणा यथा श्रियमपुष्यदजेन ततः परम् ।
तमधिगम्य तथैव पुनर्बभौ न न महीनमहीनपराक्रमम् ॥५॥
दशेति ॥ मही । दशदिगन्ताञ्जितवानिति दशदिगन्तजित् । तेन रघुणा यथा
श्रियं कान्तिमपुष्यत् । ततः परं रघोरनन्तरमजेन च यथा श्रियमपुष्यत् । तथैवाहीनपराक्रम न हीनः पराक्रमो यस्य तमन्यूनपराक्रमं तं दशरथमिनं स्वामिनमधिगम्य पुनर्न बभाविति न । बभावेवेत्यर्थः ॥ द्वौ नञौ प्रकृतमर्थं गमयतः ॥ समतया वसुवृष्टिविसर्जनैर्नियमनादसतां च नराधिपः।
अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ॥६॥
'समतयेति ॥' नराधिपो दशरथः समतया समवर्तित्वेन । मध्यस्थत्वेनेत्यर्थः । वसुवृष्टेर्धनदृष्टेर्विसर्जनैः । असतां दुष्टानां नियमनान्निग्रहाच्च । सवरुणौ वरुणसहितौ यमपुण्यजनेश्वरौ यमकुबेरौ यमकुबेरवरुणान्यथासंख्यमनुययावनुचकार । रुचा तेजसारुणाग्रसरमरुणसारथिं सूर्यमनुययौ ॥
तस्य व्यसनासक्तिर्नासीदित्याह-
न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु ।
तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् ॥७॥
नेति ॥ उदयाय यतमानमभ्युदयार्थं व्याप्रियमाणं तं दशरथं मृगयाभिरतिराखेटव्यसनं नापाहरन्नाचकर्ष ॥“आक्षोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम्” इत्यमरः ॥ दुष्टमासमन्तादुदरमस्यति दुरोदरं द्यूतं च नापाहरत् ॥ “दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्” इत्यमरः ॥ शशिनः प्रतिमा प्रतिविम्बमाभरणं यस्य तन्मधु नापाहरत् । न वेति पदच्छेदः । वाशब्दः समुच्चये ॥ नवयौवना नवं नूतनं यौवनं तारुण्यं यस्यास्तादृशी प्रियतमा वा स्त्री नापाहरत् ॥ जातावेकवचनम् ॥ अत्र मनुः--“पानमक्षः स्त्रियश्चेति मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे” इति ॥
न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि ।
न[३] च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरमीरिता ॥८॥
नेति ॥ तेन राज्ञा प्रभवति प्रभौ सति वासवेऽपि कृपणा दीना वाङ्नेरिता नोक्ता । परिहासकथास्वपि वितथानृता वा नेरिता । किंचापरुपा रोपशून्येन तेन सपत्नजनेष्वपि शत्रुजनेष्वपि परुषाक्षरं निष्ठुराक्षरं यथा तथा वाङ्नेरिता। किमुतान्यत्रेति । सर्वत्रापिशब्दार्थः । किंत्वदीना सत्या मधुरैव वागुक्तेति फलितार्थः ॥
उदयमस्तमयं च रघूद्वहादुभयमानशिरे वसुधाधिपाः।
स हि निदेशमलङ्घयतामभूत्सुहृदयोहृदयः प्रतिगर्जताम् ॥९॥
'उदयमिति ॥ वसुधाधिपा राजानः । उद्वहतीत्युद्वहो नायकः ॥ पचाद्यच् ॥रघूणामुद्वहो रघुनायकः । तस्माद्रघुनायकादुदयं वृद्धिम् ।
अस्तमयं नाशं च । इत्युभयमानशिरे लेभिरे ॥ कुतः । हि यस्मात्स दशरथो निदेशमाज्ञामलङ्घयताम् । शोभनं हृदयमस्येति सुहृन्मित्रमभूत् ॥ सुहृद्दुर्हृदौ मित्रामित्रयोरिति निपातः ॥ प्रतिगर्जतां प्रतिस्पर्धिनाम् । अय इव हृदयं यस्येत्ययोहृदयः कठिनचित्तोऽभूत् ।आज्ञाकारिणो रक्षति । अन्यान्मारयतीत्यर्थः ॥ अजयदेकरथेन स मेदिनीमुदधिनेमिमधिज्यशरासनः ।
जयमघोषयदस्य तु[४] केवलं गजवती जवतीव्रहया चमूः॥१०॥
अजयदिति ॥ अधिज्यशरासनः स दशरथ उदधिनेमिं समुद्रवेष्टनां मेदिनीमेकरथेनाजयत् । स्वयमेकरथेनाजैपीदित्यर्थः ॥ गजवती गजयुक्ता । जवेन तीव्रा जवाधिका हया यस्यां सा चमूस्त्वस्य नृपस्य केवलं जयमघोषयदप्रथयत् । स्वयमेकवीरस्य चमूरुपकरणमात्रमिति भावः ॥
अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः ।
विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपदः ।।११।।
अवनिमिति ॥ वरूथिना गुप्तिमता ॥ “वरूथो रथगुप्तिर्या तिरोधत्ते रथस्थितिम्” इति सज्जनः ॥ एकरथेनाद्वितीयरथेनावनिं जितवतो धनुर्भृतो नरवाहनसंपदः कुबेरतुल्यश्रीकस्य तस्य दशरथस्य घनरवा मेघसमघोषा अर्णवा विजयदुन्दुभितां किल ययुः । अर्णवान्तविजयीत्यर्थः ॥
शमितेति ॥ पुरंदर इन्द्रः शतकोटिना शतास्रिणा कुलिशेन वज्रेण शिखरिणां पर्वतानां शमितपक्षबलो विनाशितपक्षसारः ॥ नवतामरसाननो नवपङ्कजाननः ॥ “पङ्केरुहं तामरसम्” इत्यमरः।। स दशरथः शरदृष्टिमुचा स्वनवता धनुषा द्विषां शमितो नाशितः पक्षः सहायो बलं च येन स तथोक्तः ॥“पक्षः सहायेऽपि” इत्यमरः॥
चरणयोर्नखरागसमृद्धिभिर्मुकुटरत्नमरीचिभिरस्पृशन् ।
नृपतयः शतशो मरुतो यथा शतमखं तमखण्डितपौरुषम्।।१३॥
चरणयोरिति ॥ शतशो नृपतयोऽखण्डितपौरुषं तं दशरथम् । मरुतो देवाः शतमखं यथा शतक्रतुमिव । नखरागेण चरणनखकान्त्या समृद्धिभिः संपादितर्द्धिभिर्मुकुटरत्नमरीचिभिश्चरणयोरस्पृशन् । तं प्रणेमुरित्यर्थः ॥
निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन ।
समनुकम्प्य सपत्रपरिग्रहाननलकानलकानवमां पुरीम्॥ १४ ॥
१०-११ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--
जघननिर्विषयीकृतमेखलाननुचिताश्रुविलुप्तविशेषकान् ।
स रिपुदारगणानकरोद्बलादनलकानलकाधिपविक्रमः ॥
निववृत इति॥ स दशरथः सचिवैः संप्रयोजितैः कारिता बालसुतानामञ्जलयो यैस्तान् । स्वयमसंमुखागतानित्यर्थः । अनलकान्हतभर्तृकतयालकसंस्कारशून्यान्सपत्नपरिग्रहाञ्छत्रुपत्नीः ॥“पत्नीपरिजनादानमूलशापाः परिग्रहाः” इत्यमरः ॥ समनुकम्प्यानुगृह्यालकानवमामलकानगरादन्यूनां पुरीमयोध्यां प्रति महार्णवानां रोधसः पर्यन्तान्निववृते । शरणागतवत्सल इति भावः ॥
उपगतोऽपि च मण्डलनाभितामनुदितान्यसितातपवारणः।
श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनलसोमसमद्युतिः॥१५॥
उपगत इति ॥ अनुदितमनुच्छ्रितमन्यत्स्वच्छत्रातिरिक्तं सितातपवारणं श्वेतच्छत्रं यस्य सः। अनलसोमयोरग्निचन्द्रयोः । समे द्युती तेजःकान्ती यस्य स तथोक्तः। श्रियं लक्ष्मीं रन्ध्रेऽन्यायालस्यादिरूपे छले चलां चञ्चलामवेक्ष्यावलोक्य । श्रीर्हि केनचन्मिषेण पुमांसं परिहरति । स दशरथो मण्डलस्य नाभितां द्वादशराजमण्डलस्य प्रधानमहीपतित्वमुपगतोऽपि । चक्रवर्ती सन्नपीत्यर्थः ॥ “अथ नाभिस्तु जन्त्वङ्गे यस्य संज्ञा प्रतारिका । रथचक्रस्य मध्यस्थपिण्डिकायां च ना पुनः । आद्यक्षत्रियभेदे तु मतो मुख्यमहीपतौ” इति केशवः ॥ अनलसोऽप्रमत्तोऽभूत्॥ “अजितमस्ति नृपास्पदमिति” इति पाठान्तरेऽजितं नृपास्पदमस्तीति बुद्धयानलसोधऽप्रमत्तोऽभूत् । विजितनिखिलजेतव्योऽपि पुनर्जेतव्यान्तरवानिव जागरूक एवावतिष्ठतेत्यर्थः॥द्वादशराजमण्डलं तु कामन्दकेनोक्तम्- “अरिमित्रमरेर्मित्रं मित्र मित्रमतः परम् । तथारिमित्रमित्रं च विजिगीषोः पुरःसराः। पार्ष्णिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः । अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोः समर्थो व्यस्तयोर्वधे । मण्डलाद्बहिरेतेषामुदासीनो बलाधिकः । अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः” इति । “अरिमित्रादयः पञ्च विजिगीषोः पुरःसराः । पार्ष्णिग्राहाक्रन्दपार्ष्णिग्राहासाराक्रन्दासाराः" इति पृष्ठतश्चत्वारः । मध्यमोदासीनौ द्वौ विजिगीषुरेक इत्येवं द्वादशराजमण्डलम् । तत्रोदासीनमध्यमोत्तरश्चक्रवर्ती । दशरथश्चैतादृगिति तात्पर्यार्थः।।
तमिति ॥ पत्यौ व्रतं नियमो यस्याः सा पतिव्रता सकमला कमलहस्ता देवता लक्ष्मीरर्थिथषु विषयेऽलाघवं लघुत्वरहितम् । अपराङ्मुखमित्यर्थः । ककुत्स्थकुलोद्भवं तं दशरयमात्मभवं पुरुषं विष्णुं चापहाय त्यक्ता । अन्यं कं नृपतिमसेवत । कमपि नासेवतेत्यर्थः । विष्णाविव विष्णुतुल्ये तस्मिन्नपि श्रीः स्थिराभूदित्यर्थः । तमलभन्त पतिं पतिदेवताः शिखरिणामिव सागरमापगाः।
[९]गधकोसलकेकयशासिनां दुहितरोऽहितरोपितमार्गणम्।।१७॥
तमिति ॥ पतिरेव देवता यासां ताः पतिदेवताः पतिव्रताः। मगधाश्च कोसलाश्च केकयाश्च ताञ्जनपदाञ्छासतीति तच्छासिनः । तेषां राज्ञां दुहितरः पुत्र्यः।सुमित्राकौसल्याकैकेय्य इत्यर्थः । अत्र क्रमो न विवक्षितः। अहितरोपितमार्गणं शत्रुनिखातशरम् ॥ “कदम्बमार्गणशराः” इत्यमरः॥ तं दशरथं शिखरिणां क्ष्माभृतां दुहितरः ।। आ समन्तादपगच्छन्तीति । अथवा । “आपेनाप्संवन्धिना वेगेन गच्छन्तीत्यापगाः” इति क्षीरस्वामी ॥ नद्यः सागरमिव । पति भर्तारमलभन्त प्रापुः॥
प्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः।
उपगतो विनिनोषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः।।१८॥
प्रियतमाभिरिति॥ अरीन्घ्नन्तीत्यरिहणो रिपुघ्नाः ॥ हन्तेः क्विप् । “ब्रह्मभ्रूणवृत्रेषु क्विप्" इति नियमस्य प्रायिकत्वात् । यथाह न्यासकारः- “प्रायिकश्चायं नियमः । क्वचिदन्यस्मिन्नप्युपपदे दृश्यते । मधुहा । प्रायिकत्वं च वक्ष्यमाणस्य बहुलग्रहणस्य पुरस्तादपकर्षाल्लभ्यते” इति ॥ तेषु योगेषूपायेषु विचक्षणो दक्षः ॥ “योगः संनहनोपायध्यानसंगतियुक्तिषु” इत्यमरः॥ इन्द्रेऽपि योज्यमेतत् । असौ दशरथस्तिसृभिः प्रियतमाभिः सह । प्रजा विनिनीषुर्विनेतुमिच्छुस्तिसृभिः शक्तिभिः प्रभुमन्त्रोत्साहशक्तिभिरेव सह भुवमुपगतो हरिहय इन्द्र इव । बभौ ॥
स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य [१०]महारथः ।
स्वभुजवीर्यमगापयदुच्छ्रितं सुरवधूरवधूतभयाः शरैः ॥ १९॥
स इति॥ महारथः स दशरथः संयुगमूर्ध्नि रणाङ्गणे मघवत इन्द्रस्य सहायतां प्रतिपद्य प्राप्य शरैरवधूतभया निवर्तितत्रासाः सुरवधूरुच्छ्रितं स्वभुजवीर्यमगापयत्किल खलु ॥ गायतेः शब्दकर्मत्वात् “गतिबुद्धि-” इत्यादिना सुरवधूनामपिकर्मत्वम् ॥
ऋतुषु तेन विसर्जितमौलिना भुजसमात्दृतदिग्वसुना कृताः।
कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसासरयूतटाः ॥२०॥
क्रतुष्विति ॥ क्रतुष्वश्वमेधेषु विसर्जितमौलिनावरोपितकिरीटेन ॥ “यावद्यज्ञमध्वर्युरेव राजा भवति" इति राज्ञश्चिह्नत्यागविधानादित्यभिप्रायः ॥“मौलिः किरीटे धम्मिल्ले” इति विश्वः॥ भुजसमाहृतदिग्वसुना भुजार्जितदिगन्तसंपदा ॥अनेन क्षत्रियस्य विजितत्वमुक्तम् । नियमार्जितधनत्वं सद्विनियोगकारित्वं च सूच्यते ॥ वितमसा तमोगुणरहितेन तेन दशरथेन । तमसा च सरयूश्च नद्यौ। तयोस्तटाः कनकयूपानां समुच्छ्रयेण समुन्नमनेन शोभिनः कृताः॥ कनकमयत्वं च यूपानां शोभार्थं विध्यभावात् ॥ “हेमयूपस्तु शोभिकः” इति यादवः ॥
अजिनेति ॥ ईश्वरो भगवानष्टमूर्तिरजिनं कृष्णाजिनं दण्डमौदुम्बरं बिभर्तीति तामजिनदण्डभृतम् ॥ “कृष्णाजिनं दीक्षयति । औदुम्बरं दीक्षितदण्डं यजमानाय प्रयच्छति” इति वचनात् ॥ कुशमयी मेखला यस्यास्तां कुशमेखलाम् । शरमयी मौञ्जी वा मेखला । तया यजमानं दीक्षयतीति विधानात् ॥ प्रकृते कुशग्रहणं कचित्प्रतिनिधिदर्शनात्कृतम् ॥ यतगिरं वाचंयमाम् ॥ “वाचं यच्छति” इति श्रुतेः ॥ मृगशृङ्गं परिग्रहः कण्डूयनसाधनं यस्यास्ताम् ॥ “कृष्णविषाणया कण्डूयते” इति श्रुतेः ॥ अध्वरदीक्षितां संस्कारविशेषयुक्तां तनुं दाशरथीमधिवसन्नधितिष्ठन्सन् । असमा भासो दीप्तयो यस्मिन्कर्मणि तद्यथा तथा । अभासयद्भासयति स्म ॥
अवभृथप्रयतो [१३]नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः ।
नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ॥ २२ ॥
अवभृथेति ॥ अवभृथेन प्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितो देवसभाधिष्ठानार्हः स दशरथ उन्नतं शिरो वनमुचे जलवर्षिणे ॥ “जलं नीरं वनं सत्त्वम्” इति शाश्वतः ॥ नमुचेररये केवलमिन्द्रायैव नमयति स्म । न कस्मैचिदन्यस्मै मानुषायेत्यर्थः ॥
असकृदेक[१४]रथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता।
दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥२३॥
असकृदिति ॥ एकरथेनाद्वितीयरथेन तरस्विना बलवता हरिहयस्येन्द्रस्याग्रसरेण धनुर्भृता दशरथेनासकृद्बहुशो दिनकरस्याभिमुखाः । अभिमुखस्थिता इत्यर्थः। रणरेणवः सुरद्विषां दैत्यानां रुधिरेण रुरुधिरे निवारिताः ॥
अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम् ।
यमकुबेरजलेश्वर[१५]वज्रिणां समधुरं मधुरञ्चितविक्रमम् ॥ २४ ॥
अथेति ॥अथ यमकुवेरजलेश्वरवज्रिणां धर्मराजधनदवरुणामरेन्द्राणां समा धूर्भारो यस्य स समधुरः। माध्यस्थवितरणसंनियमनैश्वर्यैस्तुल्यकक्ष इत्यर्थः। “ऋपूरब्धूः-” इत्यादिना समासान्तोऽच्प्रत्ययः ॥ तं समधुरम् । अञ्चितविक्रमं पूजितपराक्रममेकनराधिपं तं दशरथं सेवितुमिव । मधुर्वसन्तः ॥ “अथ पुष्परसे मधुः । दैत्ये चैत्रे वसन्ते च मधुः” इति विश्वः ॥ नवैः कुसुमैरुपलक्षितः सन्समाववृते समागतः ॥ “रिक्तहस्तेन नोपेयाद्राजानं देवतां गुरुम् ” इति वचनात्पुष्पसमेतो राजानं सेवितुमागत इत्यर्थः ॥
जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः ।
दिनमुखानि रविर्हिमनि[१६]ग्रहैर्विमलयन्मलयं नगमत्यजत् ॥२५॥
जिगमिषुरिति ॥ धनदाध्युषितां कुबेराधिष्ठितां दिशं जिगमिषुर्गन्तुमिच्छु:। रथयुजा सारथिनारुणेन परिवर्तितवाहनो निवर्तिताश्वो रविः। हिमस्य निग्रहैर्निराकरणैर्दिनमुखानि प्रभातानि विमलयन्विशदयन् । मलयं नगं मलयाचलमत्यजत्। दक्षिणां दिशमत्याक्षीदित्यर्थः ॥
कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् ।
इति यथाक्रममाविरभून्मधूर्द्रुमवतीमवतीर्य वनस्थलीम् ॥ २६ ॥
कुसुमेति ॥आदौ कुसुमजन्म । ततो नवपल्लवाः । तदनु ॥ “अनुर्लक्षणे” इति कर्मप्रवचनीयत्वाद्वितीया ॥ यथासंख्यं तदुभयानन्तरं षट्पदानां कोकिलानां च कूजितम् । इत्येवंप्रकारेण यथाक्रमं क्रममनतिक्रम्य द्रुमवतीं द्रुमभूयिष्ठां वनस्थलीमवतीर्य मधुर्वसन्त आविरभूत् ॥केषांचिद्द्रुमाणां पल्लवप्राथम्यात्केषांचित्कुसुमप्राथम्यान्नोक्तक्रमस्य दृष्टविरोधः॥
नयगुणोपचितामिव भूपतेः सदुपकारफलां श्रियमर्थिनः।
अभिययुः सरसो मधुसंभृतां कमलिनीमलिनीरपतत्रिणः॥२७॥
नयेति ॥ नयो नीतिरेव गुणः । तेन । अथवा नयेन गुणैः शौर्यादिभिश्चोपपचिताम् । सतामुपकारः फलं यस्यास्तां सदुपकारफलां भूपतेर्दशरथस्य श्रियमर्थिन इव । मधुना वसन्तेन संभृतां सम्यक्पुष्टां सरसः संबन्धिनीं कमलिनीं पद्मिनीमलिनीरपतत्रिणः। अलयो भृङ्गाः। नीरपतत्रिणो जलपतत्रिणो हंसादयश्च। अभिययुः।
कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम् ।
किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः२८
कुसुममिति ॥ ऋतुरस्य प्राप्त आर्तवम् ।। “ऋतोरण्” इत्यण ॥ नवं प्रत्यग्र-
२४-२५ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--
हिमविवर्णितचन्दनपल्लवं विहरयन्मलयाद्रिमुदङ्मुखः ।
विहगयोः कृपयेव शनैर्ययो रविरहर्विरहध्रुवभेदयोः ॥
विरचिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः।
मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः॥२९॥
विरचिता इति ॥ मधुना वसन्तेन विरचिता उपवनश्रियामभिनवाः पत्रविशेषकाः पत्ररचना इव स्थिता मधूनां मकरन्दानां दाने विशारदाश्चतुराः कुरबकास्तरवो मधुलिहां मधुपानां रवकारणतां ययुः ॥ भृङ्गाः कुरबकाणां मधूनि पीत्वा जगुरित्यर्थः ॥ दानशौण्डानर्थिजनाः स्तुवन्तीति भावः ॥
सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः ।
मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः॥ ३०॥
सुवदनति ॥ सुवदनावदनासवेन कान्तामुखमद्येन संभृतो जनितः॥ तत्तस्य दोहदमिति प्रसिद्धिः ॥ तस्यासवस्यानुवादी सदृशो गुणो यस्य तदनुवादिगुणः कुमुमोद्गमः । कर्ता । मधुलोलुपैरायतपङ्क्तिभिर्दीर्घपङ्क्तिभिर्मधुकरैर्मधुपैः । करणैः । बकुलं बकुलवृक्षमाकुलमकरोत् ॥
उपहितं शिशिरापगमश्रिया मुकुलजालम[१७]शोभत किंशुके।
प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥३१॥
उपहितमिति ॥ शिशिरापगमश्रिया वसन्तलक्ष्म्या किंशुके पलाशवृक्षे ॥ “पलाशः किंशुकः पर्णः” इत्यमरः ॥ उपहितं दत्तं मुकुलजालं कुड्भलसंहतिः । मदेन यापितलज्जयापसारितत्रपया प्रमदया प्रणयिनि प्रियतम उपहितं नखक्षतमेव मण्डनं तदिव । अशोभत ॥
व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलम् ।
न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान्हिमम् ॥३२॥
व्रणेति ॥ व्रणैर्दन्तक्षतैर्गुरुभिर्दुर्धरैः प्रमदानामधरैरधरोष्ठैर्दुःसहं हिमस्य व्यथाकरत्वादसह्यम् । जघनेषु निर्विषयीकृता निरवकाशीकृता मेखला येन तत् । शैत्या-
२९-३० श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--
दशनचन्द्रिकया व्यवभासितं हसितमासवगन्धि मधोरिव ।
तिलकपुष्पमसेव्यत षट्पदैः शुचिरसं चिरसंचितमोप्सुभिः ।।
३०-३१ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते-
गमयितुं प्रभुरेष सुखेन मा न महतीं बत पान्थवधूजनः।
इति दयति इवाभवदायता न रजनी रजनीशवती मधौ।।
निरसितुं नालं खलु न शक्तो हि । किंतु विरलं कृतवांस्तनूचकार ॥
अभिनयान्परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा ।
अमदयत्सहकारलता मनः सकलिका कलिकामजितामपि ॥ ३३
अभिनयानिति ॥अत्र चूतलताया नर्तकीसमाधिरभिधीयते । अभिनयानर्थव्यञ्जकान्व्यापारान् ॥ "व्यञ्जकाभिनयौ समौ" इत्यमरः ॥ परिचेतुमभ्यसितुमुद्यतेव स्थिता ॥ कुतः । मलयमारुतेन कम्पितपल्लवा । पल्लवशब्देन हस्तो गम्यते । सकलिका सकोरका । "कलिका कोरकः पुमान्" इत्यमरः ॥ सहकारलता । कलिः कलहो द्वेष उच्यते ॥ "कलिः स्यात्कलहे शूरे कलिरन्त्ययुगे युधि" इति विश्वः ॥ कामो रागः । तज्जितामपि । जितरागद्वेषाणामपीत्यर्थः । मनोऽमदयत् ॥
प्रथममन्यभूताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः ।
सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥ ३४ ॥
प्रथममिति ॥ सुरभिर्गन्धो यासां तासु सुरभिगन्धिषु ॥ "गन्धस्य-" इत्यादिनेकारः । कुसुमान्यासां संजातानि कुसुमिताः । तासु वनराजिषु वनपङ्क्तिषु । अन्यभृताभिः कोकिलाभिः प्रथमं प्रारम्भेषूदीरिता उक्ता अतएव मिताः परिमिता गिर आलापाः । प्रविरला मौग्ध्यात्स्तोकोक्ता मुग्धवधूनां कथा वाच इव । शुश्रुविरे श्रुताः ॥
श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः ।
उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः ॥ ३५ ॥
श्रुतीति ॥श्रुतिसुखाः कर्णमधुरा भ्रमरस्वना एव गीतयो यासां ताः । कुसुमान्येव कोमला दन्तरुचो दन्तकान्तयो यासां ताः ॥ अनेन सस्मितत्वं विवक्षितम् ॥ उपवनान्तलताः पवनेनाहतैः कम्पितैः किसलयैः सलयैः साभिनयैः ॥ लयशब्देन लयानुगतोऽभिनयो लक्ष्यते । उपवनान्ते पवनाहतैरिति सक्रियत्वाभिधानात् ॥ पाणिभिरिव बभुः । अनेन लतानां नर्तकीसाम्यं गम्यते ॥
३२-३३ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--
परभृतां मदनक्षतचेतसां प्रियसखी लघुवागिव योषिताम् ।
प्रियतमानकरोत्कलहान्तरे मृदुरवा दुरवाप्तसमागमान् ॥
३५-३६ श्लोकयोर्मध्ये इमौ श्लोकौ दृश्येते--
अनलसान्यभृतानलसान्मनः कमलधूलिभृता मदनेरिता ।
कुसुमभारनताध्वगयोषितामसमशोकमशोकलताकरोत् ॥
लघयति स्म न पत्यपराधजां न सहकारतरुस्तरुणीभृताम् ।
कुसुमितो न मितोऽलिभिरुन्मदैः स्मरसमाधिकरोऽधिकरोषताम् ॥ (१ धृतिम्.)
ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् ।
पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥३६॥
ललितेति ॥ अङ्गना ललितविभ्रमबन्धविचक्षणं मधुरविलासघटनापटुतरम् । सुरभिणा मनोहरेण गन्धेन पराजितकेसरं निर्जितबकुलपुष्पम् ॥ "अथ केसरे। बकुलः" इत्यमरः ॥ स्मरस्य सखायं स्मरसखम् । स्मरोद्दीपकमित्यर्थः।मधुं मद्यम्॥ "अर्धर्चाः पुंसि च" इति पुंलिङ्गता ॥ उक्तं च-" मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः । अर्धर्चादिगणे पाठात्पुंनपुंसकयोर्मधुः" इति ॥ पतिषु विषये रसखण्डनवर्जितमनुरागभङ्गरहितं यथा तथा निर्विविशुः । परस्परानुरागपूर्वकं पतिभिः सह पपुरित्यर्थः ॥
शुशुभिरे स्मितचा[१८]रुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः।
विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः॥३७॥
शुशुभिर इति ॥ विकचतामरसा विकसितकमलाः । मदेन कला अव्यक्तमधुरं ध्वनन्त उदकलोलविहंगमा जलप्रियपक्षिणो हंसादयो यासु ता मदकलोदकलोलविहंगमा गृहेषु दीर्घिका वाप्यः। स्मितेन चारुतराण्याननानि यासां ताः । श्लथाः शिञ्जिता मुखरा मेखला यासां ताः॥ शिञ्जितेति कर्तरि क्तः ॥ स्त्रिय इव । शुशुभिरे॥
उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः ।
सदृशमिष्टसमागमनिर्वृतिं वनितयानितया रजनीवधूः॥ ३८॥
उपययाविति ॥ मधुना मधुसमयेन खण्डिता ह्रासं गमिता ॥ क्षीयन्ते खलूत्तरायणे रात्रयः खण्डिताख्या च नायिका ध्वन्यते ॥ हिमकरोदयेन चन्द्रोदयेन पाण्डुर्मुखस्य प्रदोषस्य वक्रस्य च छविर्यस्याः सा रजन्येव वधूः। इष्टसमागमनिर्वृतिं प्रियसंगमसुखमनितयाप्राप्तया ॥ " इण्गतौ" इति धातोः कर्तरि क्तः॥ वनितया सदृशं तुल्यं तनुतां न्यूनतां काश् र्यं चोपययौ ।
अपतुषारतया विशदप्रभैः सुरतस[१९]ङ्गपरिश्रमनोदिभिः ।
कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोर्जितकेतनम् ॥ ३९ ॥
हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत् ।
युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम् ॥४० ॥
हुतेति ॥ हुतहुताशनदीप्त्याज्यादिप्रज्वलिताग्निप्रभं यत्कुसुमम् । कर्णिकारमित्यर्थः । वनश्रिय उपवनलक्ष्म्याः कनकाभरणस्य प्रतिनिधिः। अभूदिति शेषः॥ दलेषु केसरेषु च पेशलम् । सुकुमारपत्रकिञ्जल्कमित्यर्थः ॥ आहितम् । प्रियैरिति शेषः ॥ तत्कुसुमं युवतयोऽलके कुन्तले दधुः ।।
अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकःप्रमदामिव ४१
अलिभिरिति ॥ अञ्जनबिन्दुमनोहरैः कज्जलकणसुन्दरैः कुसुमपङ्क्तिषु निपतन्ति ये तैः। अलिभिरङ्कितश्चिह्नितस्तिलकः श्रीमान्नाम वृक्षः॥"तिलकः क्षुरकः श्रीमान्" इत्यमरः ॥ वनस्थलीम् । तिलको विशेषकः॥ "तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियाम्" इत्यमरः॥प्रमदामिव । न शोभयति स्मेति न खलु । अपि त्वशोभयदेवेत्यर्थः ॥"लट् स्मे" इति स्मशब्दयोगाद्भूतार्थे लट् ॥
अमदयन्मधुगन्धसनाथया किसलयाधर[२०]संगतया मनः।
कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी॥४२
अमदयदिति ॥ तरुचारुविलासिनी तरोः पुंसश्च चारुविलासिनी नवमल्लिका सप्तलाख्या लता ॥ "सप्तला नवमल्लिका" इत्यमरः ॥ मधुनो मकरन्दस्य मद्यस्य च गन्धेन सनाथया । गन्धप्रधानयेत्यर्थः । किसलयमेवाधरस्तत्र संगतया । प्रसृतरागयेत्यर्थः । कुसुमैः संभृतया संपादितया । कुसुमरूपयेत्यर्थः । स्मितरुचा हासकान्त्या मनः । पश्यतामिति शेषः । अमदयत् ॥
अरुणरागनि[२१]षेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः ।
परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः॥४३॥
अरुणेति ॥ विलासिनो विलसनशीलाः पुरुषाः ॥ “वौकषलस-" इत्यादिना घिनुण्प्रत्ययः ॥ अरुणस्यानूरो रागमारुण्यं निषेधन्ति तिरस्कुर्वन्तीत्यरुणरागनिषेधिनः । तैः । कुसुम्भादिरञ्जनात्तत्सदृशैरित्यर्थः ॥ “ तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति । तस्येवानुकरोतीति शब्दाः सादृश्यवाचकाः" इति दण्डी॥ अंशुकैरम्बरैः । श्रवणेषु कर्णेषु लब्धपदैः । निवेशितैरित्यर्थः । यवाङ्कुरैश्च । परभृताविरुतैः कोकिलाकूजितैश्च । इत्येतैः स्मरबलैः कामसैन्यैः । अबलास्वेक एव रसो रागो येषां तेऽबलैकरसाः स्त्रीपरतन्त्राः कृताः॥
उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी।
सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ४४
उपचितेति ॥ शुचिभिः शुभ्रैः कणै रजोभिरुपचितावयवा पुष्टावयवा । अलिकदम्बकयोगमुपेयुषी प्राप्ता। तिलकजा तिलकवृक्षोत्था मञ्जरी। अलकेषु यज्जालकमाभरणविशेषस्तस्मिन्मौक्तिकैः सदृशकान्तिः । अलक्ष्यत ॥ भृङ्गसङ्गिनी शुभ्रा तिलकमञ्जरी नीलालकसक्तमुक्ताजालमिवालक्ष्यतेति वाक्यार्थः ॥
ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः ।
कुसुमकेसररेणुमलिव्रजाः सपवनोपवनोत्थितमन्वयुः ॥ ४५॥
ध्वजेति ॥ अलिव्रजाः षट्पदनिवहा धनुर्भृतो धानुष्कस्य मदनस्य कामस्य ध्वजपटं पताकाभूतम् । ऋतुश्रियो वसन्तलक्ष्म्याश्छविकरं शोभाकरं मुखचूर्णं मुखालंकारचूर्णभूतं सपवनोपवनोत्थितं सपवनं पवनेन सहितं यदुपवनं तस्मिन्नुत्थितम् । कुसुमानां केसरेषु किञ्जल्केषु यो रेणुस्तम् । अन्वयुरन्वगच्छन् । यातेर्लङ्।।
अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया ।
अनयदासनरज्जुपरिग्रहे भुजलतां ज[२२]लतामबलाजनः ॥ ४६॥
अनुभवन्निति ॥ नवा दोला प्रेङ्खा यस्मिंस्तं नवदोलमृतूत्सवं वसन्तोत्सवमनुभवन्नबलाजनः पटुरपि निपुणोऽपि प्रियकण्ठस्य जिघृक्षया ग्रहीतुमालिङ्गितुमिच्छयासनरज्जुपरिग्रहे पीठरज्जुग्रहणे भुजलतां बाहुलतां जलतां शैथिल्यम्।। डलयोरभेदः ॥ अनयत् ॥ दोलाक्रीडासु पतनभयनाटितकेन प्रियकण्ठमाश्लिष्यदित्यर्थः।
त्यजत मानमलं बत विग्रहैर्न पुनरे[२३]ति गतं चतुरं वयः।
परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥ ४७॥
त्यजतेति॥वतेत्यामन्त्रणे॥ “खेदानुकम्पासंतोषविस्मयामन्त्रणे बत" इत्यमरः॥बत अङ्गना मानं कोपं त्यजत । तदुक्तम्- "स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये" इति ॥ विग्रहैर्विरोधैरलम् । विग्रहो न कार्य इत्यर्थः ॥
४४-४५ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--
विशदचन्द्रकरं सुखमारुतं कुसुमितद्रुममुन्मदकोकिलम् ।
तदुपभोगरसं हिमवर्षिणः परमृतोरमृतोप मतां ययुः ।।
स्मराभिप्राये ॥ नपुंसके भावे क्तः॥ परभृताभिः कोकिलाभिर्निवेदिते सतीव वधूजनो रमते स्म रेमे ॥ कोकिलाकूजितोद्दीपितस्मरः स्त्रीजनः कामशासनभयादिवोच्छृङ्खलमखेलदित्यर्थः॥
अथ यथासुखमार्तवमुत्सवं समनुभूय विलासवतीसखः ।
नरपतिश्चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः॥ ४८॥
अथेति ॥ अथानन्तरम् । मधुं मथ्नातीति मधुमद्विष्णुः ॥ संपदादित्वात्क्विप् ॥ मधुर्वसन्तः। मथ्नातीति मथः ॥ पचाद्यच् ॥ मनसो मथो मन्मथः कामः । तेषां संनिभः सदृशो मधुमन्मधुमन्मथसंनिभः स नरपतिर्दशरथो विलासवतीसखः स्त्रीसहचरः सन् । ऋतुः प्राप्तोऽस्यार्तवः । तमुत्सवं वसन्तोत्सवं यथासुखं समनुभूय मृगयारतिं मृगयाविहारं चकम आचकाङ्क्ष।
व्यसनासङ्गदोषं परिहरन्नाह-
परिचयं चललक्ष्यनिपातने भयरुषोश्च तदिङ्गितबोधनम् ।
श्रमजयात्प्रगुणां च करोत्यसौ[२४] तनुमतोऽनुमतःसचिवैर्ययौ ॥ ४९ ॥
परिचयमिति ॥ असौ मृगया। चललक्ष्याणि मृगगवयादीनि । तेषां निपातने परिचयमभ्यासं करोति । भयरुषोर्भयक्रोधयोस्तदिङ्गितबोधनं तेषां चललक्ष्याणामिङ्गितस्य चेष्टितस्य भयादिलिङ्गभूतस्य बोधनं ज्ञानं च करोति ॥ तनुं शरीरं श्रमस्य जयान्निरासात्प्रगुणां प्रकृष्टलाघवातिगुणवतीं च करोति ॥ अतो हेतोः सचिवैरनुमतोऽनुमोदितः सन्ययौ ॥ सर्वं चैतद्युद्धोपयोगीत्यतस्तदपेक्षया मृगयाप्रवृत्तिः। न तु व्यसनितयेति भावः ॥
मृगवनोपगमक्षमवेषभृद्विपुलकण्ठनिषक्तशरासनः।
गगनमश्वखु[२५]रोद्धतरेणुभिर्नृसविता स वितानमिवाकरोत् ॥५०॥
मृगेति ॥ मृगाणां वनं तस्योपगमः प्राप्तिः। तस्य क्षममर्हं वेषं बिभर्तीति स
तथोक्तः। मृगयाविहारानुगुणवेषधारीत्यर्थः । विपुलकण्ठे निषक्तशरासनो लग्नधन्वा । ना सवितेव नृसविता पुरुषश्रेष्ठः ॥ उपमितसमासः ॥ स राजाश्वखुरोद्धतरेणुभिर्गगनं वितानं तुच्छमसदिवाकरोत् । गगनं नालक्ष्यतेत्यर्थः ॥ “वितानं तुच्छमन्दयोः" इति विश्वः ॥ अथवा सवितानमित्येकं पदम् । सवितानमुल्लोचसहितमिवाकरोत् ॥ “ अस्त्री वितानमुल्लोचः" इत्यमरः ॥ ग्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः ।
तुरगवल्गनचञ्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ॥५१॥
ग्रथितेति ॥ वनमालया वनपुष्पस्रजा ग्रथितमौलिर्बद्धधम्मिल्लः । तरूणां पलाशैः पत्रैः सवर्णः समानस्तनुच्छदो वर्म यस्य स तथोक्तः । इदं च वर्मणः पलाशसावर्ण्याभिधानं मृगादीनां विश्वासार्थम्। तुरगस्य वल्गनेन गतिविशेषेण चञ्चलकुण्डलोऽसौ दशरथो रुरुभिर्मृगविशेषैश्चेष्टिताश्चरिता या भूमयस्तासुविरुरुचे विदिद्युते ॥
तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः ।
ददृशुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोशलम् ।। ५२॥
तन्विति ॥ तनुषु लतासु विनिवेशितविग्रहाः संक्रमितदेहाः । भ्रमरेषु संक्रमिता ईक्षणवृत्तयो दृग्व्यापारा यासां ता वनदेवताः सुनयनं सुलोचनं नयेन नीत्या नन्दितास्तोषिताः कोसला येन तं दशरथमध्वनि ददृशुः । प्रसन्नपावनतया तं देवता अपि गूढवृत्त्या ददृशुरित्यर्थः ॥
श्वगणीति ॥ स दशरथः । शुनां गणः स एषामस्तीति श्वगणिनः श्वग्राहिणः। तैः । वागुरा मृगबन्धनरज्जुः ॥ “वागुरा मृगबन्धनी" इत्यमरः ॥ तया चरन्तीति वागुरिका जालिकाः॥ “चरति" इति ठक्प्रत्ययः॥ "द्वौ वागरिकजालिकौ" इत्यमरः ॥ तैश्च प्रथममास्थितमधिष्ठितम् । व्यपगता अनला दावाग्नयो दस्यवस्तस्कराश्च यस्मात्तथोक्तम् ॥ "दस्युतस्करमोषकाः" इत्यमरः ॥ "कारयेद्वनविशोधनमादौ मातुरन्तिकमपि प्रविविक्षुः । आप्तशस्त्र्यनुगतः प्रविशेद्वा संकटे च गहने च न तिष्ठेत्" इति कामन्दकः ॥ स्थिरा दृढा पङ्कादिरहिता तुरंगमयोग्या भूमिर्यस्य तत् । निपानवदाहावयुक्तम् ॥ “आहावस्तु निपानं स्यादुपकूपजलाशये" इत्यमरः॥ मृगैर्हरिणादिभिर्वयोभिः पक्षिभिर्गवयैर्गोसदृशैररण्यपशुविशेषैश्चोपचितं समृद्धं वनं विवेश प्रविष्टवान् ॥
अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसं[२८]युतम् ।
धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेसरी ॥ ५४॥
अथेति॥अथानाधिर्मनोव्यथारहितो नरवरो नरश्रेष्ठः । रवेण धनुष्टङ्कारेण रोषिताः केसरिणः सिंहा येन स राजा। कनकमिव पिङ्गः पिशङ्गो यस्तडिदेव गुणो मौर्वी तेन संयुतं त्रिदशायुधमिन्द्रचापं नभस्यो भाद्रपदमास इव ॥ "स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः" इत्यमरः ॥ अधिज्यमधिगतमौर्वीकं धनुरुपाददे जग्राह॥
तस्य स्तनप्रणयिभिर्मुहुरेणशावै-
र्व्याहन्यमानहरिणीगमनं पुरस्तात् ।
आविर्बभूव कुशगर्भमुखं मृगाणां
यूथं तदग्रसरगर्वितकृष्णसारम् ॥ ५५॥
तस्येति ॥ स्तनप्रणयिभिः स्तनपायिभिरेणशावैर्हरिणशिशुभिः ॥ “पृथुकः शावकः शिशुः" इत्यमरः ॥ व्याहन्यमानं तद्वत्सलतया तद्गमनानुसारेण मुहुर्मुहुः प्रतिषिध्यमानं हरिणीनां गमनं गतिर्यस्य तत् । कुशा गर्भे येषां तानि मुखानि यस्य तत्कुशगर्भमुखम् । तस्य यूथस्याग्रेसरः पुरःसरो गर्वितो दृप्तश्च कृष्णसारो यस्य तत् । मृगाणां यूथं कुलम् । “सजातीयः कुलं यूथं तिरश्चां पुंनपुंसकम्" इत्यमरः ॥ तस्य दशरथस्य पुरस्तादग्र आविर्बभूव ॥ वसन्ततिलकं वृत्तम् ॥
तत्प्रार्थितं जवनवाजिगतेन राज्ञा
तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति ।
श्यामीचकार वनमाकुलदृष्टिपातै-
र्वातेरितोत्पलदलप्रकरैरिवा[२९]र्द्रैः ॥ ५६ ॥
तदिति ॥ जवनो जवशीलः ॥ “जुचंक्रम्य-" इत्यादिना युच्प्रत्ययः ॥ "तरस्वी त्वरितो वेगी प्रजवी जवनो जवः" इत्यमरः॥तं वाजिनमश्वं गतेनारूढेन । तूणीषुधिः ॥ “बह्वादिभ्यश्च" इति स्त्रियां ङीष् ॥ तस्या मुखाद्विवरादुध्दृतशरेण राज्ञा प्रार्थितमभियातम् ॥ “ याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः" इति केशवः ॥ अतएव विशीर्णा पङ्क्तिः संघीभावो यस्य तत् । मृगयूथम् । कर्तृ । आर्द्रैर्भयादश्रुसिक्तैराकुला भयचकिता ये दृष्टिपातास्तैः । वातेरितोत्पलदलप्रकरैः पवनकम्पितेन्दीवरदलवृन्दैरिव । वनं श्यामीचकार ॥
लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः
प्रेक्ष्य स्थितां सहचरीं व्यवधाय देह[३०]म् ।
आकर्णकृष्टमपि कामितया स धन्वी
बाणं कृपामृदुमनाः प्रतिसंजहार ॥ ५७॥
लक्ष्यीकृतेति ॥ हरिरिन्द्रो विष्णुर्वा । तस्येव प्रभावः सामर्थ्यं यस्य स तथोक्तः । धन्वी धनुष्मान्स नृपः। लक्ष्यीकृतस्य वेद्धुमिष्टस्य हरिणस्य स्वप्रेयसो देहं व्यवधायानुरागादन्तर्धाय स्थिताम् । सह चरतीति सहचरी॥ पचादिषु चरतेष्टित्करणाङीप्॥ यथाह वामनः- "अनुचरीति चरेष्टित्त्वात्" इति ॥तां सहचरीं हरिणीं प्रेक्ष्य कामितया स्वयं कामुकत्वात् । कृपामृदुमनाः करुणार्द्रचित्तः सन् । आकर्णकृष्टमपि । दुष्प्रतिसंहरमपीत्यर्थः । बाणं प्रतिसंजहार । नैपुण्यादित्यर्थः ॥ नैपुण्यं तु धन्वीत्यनेन गम्यते ॥
तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः
कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः।
त्रासातिमात्रचटुलैः स्म</ref>स्मरयत्सु
नेत्रै:.</ref>रतः सुनेत्रैः
प्रौढप्रियानयनविभ्रमचेष्टितानि ॥५८॥
तस्येति ॥ त्रासाद्भयादतिमात्रचटुलैरत्यन्तचञ्चलैः सुनेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि प्रगल्भकान्ताविलोचनविलासव्यापारान्सादृश्यात्स्मरतः। अपरेष्वपि मृगेषु शरान्मुमुक्षोर्मोक्तुमिच्छोस्तस्य नृपस्य निबिडो दृढोऽपि मुष्टिः कर्णान्तमेत्य प्राप्य बिभिदे । स्वयमेव भिद्यते स्म ॥ भिदेः कर्मकर्तरि लिट् ॥ कामिनस्तस्य प्रियाविभ्रमस्मृतिजनितकृपातिरेकान्मुष्टिभेदः । न त्वनैपुण्यादिति तात्पर्यार्थः॥
उत्तस्थुष इति ॥ स नृपः । मुस्ताप्ररोहाणां मुस्ताङ्कुराणां कवला ग्रासाः । तेषामवयवैः श्रमविकृतमुखभ्रंशिभिः शकलैरनुकीर्णं व्याप्तम् । आयताभिर्दीर्घाभिरार्द्रपदपङ्क्तिभिः सुव्यक्तम् । सपदि पल्वलपङ्कमध्यादुत्तस्थुष उत्थितस्य द्रुतवराहकुलस्य पलायितवराहयूथस्य मार्गं जग्राहानुससार ॥
तमिति॥वराहाः। वाहनादश्वादीषदवनतोत्तरकायं किंचिदानतपूर्वकायं विध्यन्तं प्रहरन्तं तं नृपम् । उद्धृतसटा ऊर्ध्वकेसराः सन्तः ॥ “सटा जटाकेसरयोः"इति केशवः ॥ प्रतिहन्तुमीषुः प्रतिहर्तुमैच्छन् । अस्य नृपस्येषुभिः सहसा जघनानामाश्रयेष्ववष्टम्भेषु वृक्षेषु विद्धमात्मानं न विविदुः॥ एतेन वराहाणां मनस्वित्वं नृपस्य हस्तलाघवं चोक्तम् ॥
तेनाभिघातरभसस्य विकृष्य पत्री
वन्यस्य नेत्रविवरे महिषस्य मुक्तः।
निर्भिद्य विग्रहमशोणितलिप्तपु[३५]ङ्ख-
स्तं पातयां प्रथममास पपात पश्चात् ॥ ६१॥
{{gapतेनेति ॥}} अभिघाते रभस औत्सुक्यं यस्य तस्य । अभिहन्तुमुद्यतस्येत्यर्थः । वन्यस्य वने भवस्य महिषस्य नेत्रविवरे नेत्रमध्ये तेन नृपेण विकृष्याकृष्य मुक्तः पत्री शरो विग्रहं महिषदेहं निर्भिद्य विदार्य । शोणितलिप्तो न भवतीत्यशोणितलिप्तः पुङ्खो यस्य स तथोक्तः सन् । तं महिषं प्रथमं पातयामास । स्वयं पश्चात्पपात ॥ “कृञ्चानुप्रयुज्यते लिटि" इत्यत्रानुशब्दस्य व्यवहितविपर्यस्तप्रयोगनिवृत्त्यर्थत्वात् “पातयां प्रथममास" इत्यपप्रयोग इति पाणिनीयाः । यथाह वार्तिककारः- “विपर्यासनिवृत्त्यर्थं व्यवहितनिवृत्त्यर्थं च" इति ॥
प्राय इति ॥ नृपतिर्निशितैः क्षुरप्रैः शरविशेषैः खड्गान्खड्गाख्यान्मृंगान् ।। "गण्डके खड्गखड्गिनौ " इत्यमरः ॥ प्रायो बाहुल्येन विषाणपरिमोक्षेण शृङ्गभङ्गेन लघून्यगुरूण्युत्तमाङ्गानि शिरांसि येषां तांश्चकार । न त्ववधीदित्यर्थः ॥ कुतः । दृप्तविनयाधिकृतो दुष्टनिग्रहनियुक्तः स राजा परेषां प्रतिकूलानामत्युच्छ्रितमुन्नतं शृङ्गं विषाणं प्राधान्यं च ॥ " शृङ्गं प्राधान्यसान्वोश्च" इत्यमरः ॥ न ममृषे न सेहे । दीर्घमायुर्जीवितकालम् ॥ "आयुर्जीवितकालो ना" इत्यमरः॥ न ममृष इति न ।
किंतु ममृष एवेत्यर्थः॥ व्याघ्रानभीरभिमुखोत्पतितान्गुहाभ्यः
फुलासनाग्रविटपानिव वायुरु[३९]ग्णान् ।
शिक्षाविशेषलघुहस्ततया निमेषा-
त्तूणीचकार शरपूरितवक्त्ररन्ध्रान् ।।६३॥
व्याघ्रानिति ॥ अभीर्निर्भीकः स धन्वी गुहाभ्योऽभिमुखमुत्पतितान् । वायुना रुग्णान्भग्नान् । फुल्ला विकसिताः ॥ “अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः" इति निष्ठातकारस्य लत्वनिपातः॥ येऽसनस्य सर्जवृक्षस्य ॥ “सर्जकासनबन्धूकपुष्पप्रियकजीवकाः" इत्यमरः ॥ अग्रविटपास्तानिव स्थितान् । इषुधिभूतानित्यर्थः । व्याघ्राणां चित्ररूपत्वादुपमाने फुल्लविशेषणम् ॥ शरैः पूरितानि वक्ररन्ध्राणि येषां तान्व्याघ्रान् । शिक्षाविशेषेणाभ्यासातिशयेन लघुहस्ततया क्षिप्रहस्ततया निमेषात्तूणीचकार । तूर्णं शरैः पूरितवानित्यर्थः ॥
निर्घातोग्रैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयामास सिंहान् ।
नूनं तेषामभ्यसूयापरोऽभूद्वीर्योदग्रे राजशब्दे मृगेषु ।।६४॥
निर्घातेति ॥ कुञ्जेषु लीनान् ॥ “निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे" इत्यमरः ॥ सिंहाञ्जिघांसुर्हन्तुमिच्छुः । निर्घातो व्योमोत्थित औत्पातिकः शब्दविशेषः । तद्वदुग्रै रौद्रैर्ज्यानिर्घोषैर्मौर्वीशब्दैः क्षोभयामास॥अत्रोत्पेक्षते तेषां सिंहानां संबन्धिनि वीर्येणोदग्र उन्नते मृगेषु विषये यो राजशब्दस्तस्मिन्नभ्यसूयापरोऽभून्नूनम् । अन्यथा कथमेतानन्विष्य हन्यादित्यर्थः ॥ “मृगाणाम्” इति पाठे समासे गुणभूतत्वाद्राजशब्देन संबन्धो दुर्घटः ॥ शालिनीवृत्तम् - "शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः" इति लक्षणात् ॥
तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् ।
आत्मानं रणकृतकर्मणां गजानामानृण्यं गतमिव मार्गणैरमंस्त॥६५॥
तानिति ॥ काकुत्स्थो दशरथः । गजकुलेषु बद्धं तीव्रं वैरं यैस्तान् । कुटिलेषु नखाग्रेषु लग्ना मुक्ता गजकुम्भमौक्तिकानि येषां तान्सिंहान्हत्वा आत्मानं रणेषु कृतकर्मणां कृतोपकाराणां गजानामानृण्यमनृणत्वं मार्गणैः शरैः॥ “मार्गणो याचके शरे" इति विश्वः । गतं प्राप्तवन्तमिवामंस्त मेने ॥
चमरानिति॥क्वचिच्चमरान्परितः॥“अभितःपरितःसमया-" इत्यादिनाद्वितीया ॥ प्रवर्तिताश्वः प्रधाविताश्वः। आकर्णविकृष्टभल्लानिषुविशेषान्वर्षतीति तथोक्तः स नृपः । नृपतीनिव । तांश्चमरान्सितबालव्यजनैः शुभ्रचामरैर्वियोज्य विरहय्य सद्यः शान्तिं जगाम ॥ शूराणां परकीयमैश्वर्यमेवासह्यम् । न तु जीवितमिति भावः ॥ औपच्छन्दसिकं वृत्तम् ॥
अपि तुरगसमीपादुत्पतन्तं मयूरं
न स रुचिरकलापं बाणलक्ष्यीचकार ।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे
रतिविगलितबन्धे केशपाशे प्रियायाः॥६७॥
अपीति ॥ स नृपस्तुरगसमीपादुत्पतन्तमपि । सुप्रहारमपीत्यर्थः । रुचिरकलापं भासुरबर्हम् । मह्यामतिशयेन रौतीति मयूरो बर्ही ॥ पृषोदरादित्वात्साधुः॥ तं चित्रेण माल्येनानुकीर्णे रतौ विगलितबन्धे प्रियायाः केशपाशे सपदि गतमनस्कः प्रवृत्तचित्तः॥“उरःप्रभृतिभ्यः कप्" इति कप्प्रत्ययः॥ न बाणलक्ष्यीचकार । न प्रजहारेत्यर्थः॥
तस्य कर्कशविहारसंभवं स्वेदमाननविलग्नजालकम् ।
आचचाम स[४३]तुषारशीकरो भिन्नपल्लवपुटो वनानिलः ॥ ६८॥
तस्येति ॥ कर्कशविहारादतिव्यायामात्संभवो यस्य तम् । आनने विलग्नजालकं बद्धकदम्बकं तस्य नृपस्य स्वेदम् । सतुषारशीकरः शिशिराम्बुकणसहितः । भिन्नां निर्दलिताः पल्लवानां पुटाः कोशा येन सः । वनानिल आचचाम । जहारेत्यर्थः॥ रथोद्धतावृत्तमेतत् ॥
इतीति ॥ इति पूर्वोक्तप्रकारेणात्मनो विस्मृतमन्यत्करणीयं कार्यं येन तम् ।
विस्मृतात्मकार्यान्तरमित्यर्थः । सचिवैरवलम्बिता धृता धूर्यस्य तम् ॥ “ऋक्पूरब्धूह्पथामानक्षे” इति समासान्तोऽच्प्रत्ययः ॥ अनुबन्धसेवया संततसेवया परिवृद्धो रागो यस्य तं धराधिपम् । मृग्यन्ते यस्यां मृगा इति मृगया ॥ “परिचर्यापरिसर्यामृगयाटाट्यादीनामुपसंख्यानम्" इति शप्प्रत्ययान्तो निपातः ॥ चतुरा विदग्धा कामिनीव । जहाराचकर्ष । “न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते" इति भावः ॥ स[४६] ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् ।
नरपतिरतिवाहयांबभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ॥७०॥
स इति ॥ स नरपतिः । ललितानि कुसुमानि प्रवालानि पल्लवानि शय्यायस्यां ताम् । ज्वलिताभिर्महौषधिभिरेव दीपिकाभिः सनाथाम् । तत्प्रधानामित्यर्थः॥ त्रियामां रात्रिं क्वचिदसमेतपरिच्छदः। परिहृतपरिजनः सन्नित्यर्थः ॥ अतिवाहयांबभूव गमयामास ॥ पुष्पिताग्रावृत्तम् ॥
उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः ।
अरमत म[४७]धुराणि तत्र शृण्वन्विहगविकूजितबन्दिमङ्गलानि ॥७१॥
उषसीति ॥ उषसि प्रातः पटूनां पटहानामिव ध्वनिर्येषां तैर्गजयूथानां कर्णैरेव तालैर्वाद्यप्रभेदैर्विनीतनिद्रः स नृपस्तत्र वने मधुराणि विहगानां विहंगानां विकूजितान्येव बन्दिनां मङ्गलानि मङ्गलगीतानि शृण्वन्नरमत ॥
अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः ।
श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरंगमेण ॥७२॥
अथेति ॥ अथ जातु कदाचिद्रुरोर्मृगस्य गृहीतवर्त्मा स्वीकृतरुरुमार्गो विपिने वने पार्श्वचरैरलक्ष्यमाणः । तुरगवेगादित्यर्थः ॥ श्रमेण फेनमुचा । सफेनं स्विद्यतेत्यर्थः । तुरंगमेण तपस्विभिर्गाढामवगाढां सेवितां तमसां नाम नदीं सरितं प्राप ॥
कुम्भपूरणभवः पटुरुच्चैरुच्चचार निनदोऽम्भसि तस्याः।
तत्र स द्विरदबृंहितशङ्की शब्दपातिनमिषुं विससर्ज ॥ ७३ ॥
कुम्भेति ॥ तस्यास्तमसाया अम्भसि कुम्भपूरणेन भव उत्पन्नः॥पचाद्यच् ॥ पटुर्मधुरः । उच्चैर्गम्भीरो निनदो ध्वनिरुच्चचारोदियाय ॥ तत्र निनदे स नृपः । द्विरदबृंहितं शङ्कत इति द्विरदबृंहितशङ्की सन् । शब्देन शब्दानुसारेण पततीति शब्दपातिनमिषुं विससर्ज ॥ स्वागतावृत्तम् ॥
नृपतेरिति ॥ तत्कर्म नृपतेः क्षत्रियस्य प्रतिषिद्धमेव निषिद्धमेव यदेतत्कर्म गजवधरूपं पङ्तिरथो दशरथो विलङ्घ्य “लक्ष्मीकामो युद्धादन्यत्र करिवधं न कुर्यात्" इति शास्त्रमुल्लङ्घ्य कृतवान् ॥ ननु विदुषस्तस्य कथमीदृग्विचेष्टितमत आह-अपथ इति ॥ श्रुतवन्तोऽपि विद्वांसोऽपि रजोनिमीलिता रजोगुणावृताः स
१ २ ३ ४ न्तः । न पन्था इत्यपथम् ॥ “पथो विभाषा" इति वा समासान्तः । “अपथं नपुंसकम्" इति नपुंसकम् ॥ "अपन्थास्त्वपथं तुल्यम्" इसमरः ॥ तस्मिनपथेऽमार्गे पदमर्पयन्ति हि निक्षिपन्ति हि । प्रवर्तन्त इत्यर्थः ॥ वैतालीयं वृत्तम् ।।
हा तातेति ॥ हेत्यार्तौ । तातो जनकः ॥ " हा विषादशुगर्तिषु” इति । "तातस्तु जनकः पिता" इति चामरः ॥ हा तातेति क्रन्दितं क्रोशनमाकर्ण्य । विषण्णो भग्नोत्साहः सन् । तस्य क्रन्दितस्य वेतसैर्गूढं छन्नम् । प्रभवत्यस्मादिति प्रभवः कारणम् । तमन्विष्यञ्छल्येन शरेण प्रोतं स्यूतम् । “शल्यं शङ्कौ शरे वंशे" इति विश्वः ॥ सकुम्भं मुनिपुत्रं प्रेक्ष्य स क्षितिपोऽपि तापाद्दुःखादन्तःशल्यं यस्य सोऽन्तःशल्य इवासीत् ॥ मत्तमयूरं वृत्तम् ॥
तेनावतीर्य तुरगात्प्रथितान्वयेन
पृष्टान्वयः स जलकुम्भनिषण्णदेहः।
तस्मै द्विजेतरत[५२]पस्विसुतं स्खलद्भि-
रात्मानमक्षरपदैः कथयांबभूव ॥७६ ॥
तेनेति ॥ प्रथितान्वयेन प्रख्यातवंशेन ॥ एतेन पापभीरुत्वं सूचितम् ।। तेन राज्ञा तुरगादवतीर्य पृष्टान्वयो ब्रह्महत्याशङ्कया पृष्टकुलः। जलकुम्भनिषण्णदेहः स मुनिपुत्रस्तस्मै राज्ञे स्खलद्भिः। अशक्तिवशादर्धोच्चारितैरित्यर्थः । अक्षरप्रायैः पदैरक्षरपदैरात्मानं द्विजेतरश्चासौ तपस्विसुतश्च तं द्विजेतरतपस्विसुतं कथयांबभूव ॥ न तावस्त्रैर्वणिक एवाहमस्मि किंतु करणः ॥ “वैश्यात्तु करणः शूद्रायाम्" इति याज्ञवल्क्यः ॥ कुतो ब्रह्महत्येत्यर्थः ॥ तथा च रामायणे-"ब्रह्महत्याकृतं पापं हृदयादपनीयताम् । न द्विजातिरहं राजन्मा भूत्ते मनसो व्यथा । शूद्रायामस्मि वैश्येन जातो जनपदाधिप" इति ।
ताभ्यां तथागतमुपेत्य तमेकपुत्र-
मज्ञानतः स्वरचितं नृपतिः शशंस ।। ७७॥
तदिति ॥ तच्चोदितस्तेन पुत्रेण चोदितः पितृसमीपं प्रापयेत्युक्तः स नृपतिरनुद्धृतशल्यमनुत्पाटितशरमेव तं मुनिपुत्रम् । अवसन्नदृशोर्नष्टचक्षुषोः । अन्धयोरित्यर्थः । पित्रोर्मातापित्रोः ॥ " पिता मात्रा" इत्येकशेषः ॥ सकाशं समीपं निनाय ॥ इदं च रामायणविरुद्धम् । तत्र-“अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ । अस्पर्शयमहं पुत्रं तं मुनि सह भार्यया" इति नदीतीर एव मृतं पुत्रं प्रति पित्रोरानयनाभिधानात् ॥ तथागतं वेतसगूढम् । एकश्चासौ पुत्रश्चैकपुत्रस्तम् ।। एकग्रहणं पित्रोरनन्यगतिकत्वसूचनार्थम् ॥ तं मुनिपुत्रमुपेत्य संनिकृष्टं गत्वाज्ञानतः करिभ्रान्त्या स्वचरितं स्वकृतं ताभ्यां मातापितृभ्याम् ॥ क्रियाग्रहणाच्चतुर्थी ॥ शशंस कथितवान् ॥
तौ दंपती बहु विलप्य शिशोः प्रहार्त्रा
शल्यं निखातमुदहारयतामुरस्तः।
सोऽभूत्परासुरथ भूमिपति शशाप
हस्तार्पितैर्नयनवारिभिरेव वृद्धः॥ ७८॥
ताविति ॥ तौ जाया च पतिश्च दंपती ॥ राजदन्तादिषु जायाशब्दस्य दम्भावो जम्भावश्च विकल्पेन निपातितः॥ “दंपती जंपती जायापती भार्यापती च तौ" इसमरः॥ बहु विलप्य भूरि परिदेव्य ॥ “विलापः परिदेवनम्" इत्यमरः॥ शिशोरुरस्तो वक्षसः ॥ “पञ्चम्यास्तसिल्" ॥ निखातं शल्यं शरं प्रहर्त्रा राज्ञोदहारयतामुद्धारयामासतुः ॥ स शिशुः परामर्गतमाणोऽभूत् ॥ अथ वृद्धो हस्तार्पितैर्नयनवारिभिरेव शापदानस्य जलपूर्वकत्वात्तैरेव भूमिपतिं शशाप ॥
दिष्टेति ॥ हे राजन्, भवानप्यन्त्ये वयस्यहमिव पुत्रशोकाद्दिष्टान्तं कालावसानम् । मरणमित्यर्थः ॥ “दिष्टः काले च दैवे स्याद्दिष्टम्" इति विश्वः ॥ आप्स्यति प्राप्स्यति । इत्युक्तवन्तम् । आक्रान्तः पादाहतः पूर्वमाक्रान्तपूर्वः ॥ सुप्सुपेति समासः ॥ तम् । प्रथममपकृतमित्यर्थः । मुक्तविषमपकारात्पश्चादुत्सृष्टविषं भुजंगमिव स्थितं तं वृद्धं प्रति मथमापराद्धः प्रथमापराधी ॥ कर्तरि क्तः ॥ इदं च सहने कारणमुक्तम् ॥ कोसलपतिर्दशरथः शापदानात्पश्चादप्येनं मुनिं प्रोवाच ॥
शाप इति ॥ अदृष्टा तनयाननपद्मशोभा येन तस्मिन्नपुत्रके मयि भगवता पातितः ॥ वज्रप्रायत्वात्पातित इत्युक्तम् ॥ अय पुत्रशोकान्म्रियस्वेत्येवंरूपः शापोऽपि सानुग्रहः । वृद्धकुमारीवरन्यायेनेष्टावाप्तेरन्तरीयकत्वात्सोपकार एव ॥ निग्राहकस्याप्यनुग्राहकत्वमर्थान्तरन्यासेनाह--कृष्यामिति ॥ इन्धनैः काष्ठैरिद्धः प्रज्वलितो ज्वलनोऽग्निः कृष्यां कर्षणार्हाम् ॥ “ऋदुपधाच्चाक्लृपिचृतेः" इति क्यप् ॥ क्षितिं दहन्नपि बीजमरोहाणां बीजाङ्कराणां जननीमुत्पादनक्षमां करोति ॥
इत्थंगते गतघृणः किमयं विधत्तां
वध्यस्तवेत्य[६२]भिहितो वसुधाधिपेन ।
एधान्हुताशनवतः स मुनिर्ययाचे
पुत्रं परासुमनुगन्तुमनाः सदारः॥८१॥
इत्थमिति ॥ इत्थंगते प्रवृत्ते सति । वसुधाधिपेन राज्ञा । गतघृणो निष्करुणः । हन्तृत्वानिष्कृप इत्यर्थः । अतएव तव वध्यो वधार्होऽयं जनः ॥ अयमिति राज्ञो निर्वेदादनादरेण स्वात्मनिर्देशः ॥ किं विधत्तामित्यभिहित उक्तः । मया किं विधेयमिति विज्ञापित इत्यर्थः । स मुनिः सदारः सभार्यः परासुं गतासुं पुत्रमनुगन्तुं मनो यस्य सोऽनुगन्तुमनाः सन् ॥ “तुं काममनसोरपि" इति मकारलोपः ॥ हुताशनवतः साग्नीनेधान्काष्ठानि ययाचे ॥ न चात्रात्मघातदोषः - "अनुष्ठानासमर्थस्य वानप्रस्थस्य जीर्यतः । भृग्वग्निजलसंपातैर्मरणं प्रविधीयते" इत्युक्तेः॥
प्रासानुगः सपदि शासनमस्य राजा
संपाद्य पातकविलुप्तधृतिर्निवृत्तः।
अन्तर्निविष्टपदमात्मविनाशहेतुं
शापं दधज्ज्वलनमौर्वमिवाम्बुराशिः॥८२॥
प्राप्तेति ॥ प्राप्तानुगःप्राप्तानुचरो राजा सपद्यस्य मुनेः शासनं काष्ठसंभारण-
रूपं प्रागेकोऽपि संप्रति प्राप्तानुचरत्वात्संपाद्य पातकेन मुनिवधरूपेण विलसतिर्नष्टोत्साहः
सन् । अन्तर्निविष्टपदमन्तर्लब्धस्थानमात्मविनाशहेतुं शापम् । अम्बुराशिरौर्वं ज्वलनं वडवानलमिव ॥ "और्वस्तु वाडवो वडवानल:" इत्यमरः॥ दधद्धृतवान्सन् । निवृत्तः । वनादिति शेषः॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
मृगयावर्णनो नाम नवमः सर्गः ।
- ↑ गुणतत्परम्.
- ↑ कृषिः
- ↑ अपि सपत्नजनेन च.
- ↑ हि
- ↑ स्फुरितकोटिसहस्रमरीचिना समचिनोत्कुलिशेन हरिर्यशः । स धनुषा बहुसायकवर्षिणा स्वनवता नवतामरसाननः.
- ↑ शित
- ↑ ककुत्स्थकुलोद्वहम्.
- ↑ आत्मभुवम्.
- ↑ मगधकोसलकैकयशासिनाम्; मलयकोसलकेकयशासिनाम्
- ↑ महायशाः
- ↑ भृताम्
- ↑ जितगिरम्
- ↑ विजितेन्द्रियः; अपि जितेन्द्रियः.
- ↑ एव हितेन
- ↑ वज्रिणम
- ↑ निर्ग्रहै:
- ↑ अरोचत.
- ↑ चारुविलोचनाः.
- ↑ राग.
- ↑ संततया मनः; संगतरागया.
- ↑ निषेविभिः
- ↑ बडताम्.
- ↑ ऐति.
- ↑ सा.
- ↑ खुरोद्धुत.
- ↑ श्वगुणि; श्वगुण.
- ↑ प्रथमाश्रितम्.
- ↑ संगतम्।
- ↑ अम्भः.
- ↑ कायम्.
- ↑ शिशिर.
- ↑ गुञ्जा..
- ↑ ते.
- ↑ उद्धृतसटाः.
- ↑ शल्यः.
- ↑ परिमोष.
- ↑ अभ्युच्छ्रितम्.
- ↑ च.
- ↑ भग्नान्.
- ↑ विवर्तिताश्वः.
- ↑ निकृष्ठभल्ल; निशक्तभल्ल.
- ↑ नृपतीनिव तान्निनाय शान्तिं
सितबालव्यजनैर्वियोज्य सद्यः. - ↑ सतुषारशीतलः, सुतुषारशीतलः.
- ↑ सचिवाविलम्बितधुरम.
- ↑ नराधिपम् .
- ↑ सुललित.
- ↑ मधुरस्वराणि.
- ↑ यत्.
- ↑ तत्.
- ↑ वेतसगूढमभवम्,
- ↑ वीक्ष्य.
- ↑ तपस्विसुतः.
- ↑ नोदितः.
- ↑ सः.
- ↑ दिष्टया.
- ↑ अन्ते.
- ↑ मथमापराध:.
- ↑ अथ.
- ↑ हि भवता.
- ↑ कक्षाम्.
- ↑ दहन:
- ↑ अभिहिते.