रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/तृतीयः सर्गः(रघुराज्याभिषेकः)

← द्वितीयः सर्गः(नन्दिनीवरप्रदानः) रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
तृतीयः सर्गः(रघुराज्याभिषेकः)
कालिदासः
चतुर्थः सर्गः(रघुदिग्विजयः)  →
रघुवंशस्य सर्गाः
प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) द्वितीयः सर्गः(नन्दिनीवरप्रदानः)

तृतीयः सर्गः(रघुराज्याभिषेकः)

चतुर्थः सर्गः(रघुदिग्विजयः) पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
षष्ठः सर्गः(स्वयंवरवर्णनः) सप्तमः सर्गः(अजपाणिग्रहणः)

अष्टमः सर्गः(अजविलापः)

नवमः सर्गः(मृगयावर्णनः) दशमः सर्गः(रामावतारः)


एकादशः सर्गः(सीताविवाहवर्णनः) द्वादशः सर्गः(रावणवधः)

त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

चतुर्दशः सर्गः(सीतापरित्यागः) पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
षोडशः सर्गः(कुमुद्वतीपरिणयः) सप्तदशः सर्गः(अतिथिवर्णनः)

अष्टादशः सर्गः(वंशानुक्रमः)

एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

तृतीयः सर्गः ।


  उपाधिगम्योऽप्यनुपाधिगम्यः समावलोक्योऽप्यसमावलोक्यः ।
  भवोऽपि योऽभूदभवः शिवोऽयं जगत्यपायादपि नः स पायात् ॥

 राज्ञी गर्भमाधत्तेत्युक्तम् । संप्रति गर्भलक्षणानि वर्णयितुं प्रस्तौति--

  [१]थेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमु[२]खम् ।
  निदानमिक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौर्हृ[३]दलक्षणं दधौ ॥ १ ॥

 अथेति ॥ अथ गर्भधारणानन्तरं सुदक्षिणा । उपस्थितोदयं प्राप्तकालं भर्तुर्दि-


लीपस्येप्सितं मनोरथम् ॥ भावे क्तः॥ पुनः सखीजनस्योद्वीक्षणानां दृष्टीनां कौमुदीमुखं चन्द्रिकाप्रादुर्भावम् ॥ यद्वा कौमुदी नाम दीपोत्सवतिथिः। तदुक्तं भविष्योत्तरे--"कौ मोदन्ते जना यस्यां तेनासौ कौमुदी मता" इति ॥ तस्या मुखं प्रारम्भम् ॥ “सखीजनोद्वीक्षणकौमुदीमहम्" इति पाठं केचित्पठन्ति । इक्ष्वाकुकुलस्य संततेरविच्छेदस्य निदानं मूलकारणम् ॥ “निदानं त्वादिकारणम्" इत्यमरः ॥ एवंविधं दौर्हृदलक्षणं गर्भचिह्नं वक्ष्यमाणं दधौ ॥ स्वहृदयेन गर्भहृदयेन च द्विहृदया गर्भिणी॥ यथाह वाग्भटः "मातृजन्यस्य हृदयं मातुश्च हृदयं च तत् । संबद्धं तेन गर्भिण्याः श्रेष्ठं श्रद्धाभिमाननम्" इति ॥ तत्संबन्धित्वाद्गर्भो दौर्हृदमित्युच्यते । सा च तद्योगाद्दौर्हृदिनीति ॥ तदुक्तं संग्रहे--"द्विहृदयां नारीं दौर्हृदिनीमाचक्षते" इति ॥ अत्र दौर्हृदलक्षणस्येप्सितत्वेन कौमुदीमुखत्वेन च निरूपणाद्रूपकालंकारः ॥ अस्मिन्सर्गे वंशस्थं वृत्तम्--"जतौ तु वंशस्थमुदीरितं जरौ" इति लक्षणात् ।।

 संप्रति क्षामताख्यं गर्भलक्षणं वर्णयति-

  [४]रीरसादादसमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना ।
  तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ॥२॥

 शरीरेति ॥ शरीरस्य सादात्कार्श्यादसमग्रभूषणा परिमिताभरणा लोध्रपुष्पेणेव पाण्डुना मुखेनोपलक्षिता सा सुदक्षिणा । विचेया मृग्यास्तारका यस्यां सा तथोक्ता । विरलनक्षत्रेत्यर्थः । तनुप्रकाशेनाल्पकान्तिना शशिनोपलक्षितेषदसमाप्तप्रभाता प्रभातकल्पा । प्रभातादीषदूनेत्यर्थः ॥ " तसिलादिष्वा कृत्वसुचः" इति प्रभातशब्दस्य पुंवद्भावः ॥ शर्वरी रात्रिरिव । अलक्ष्यत ॥ शरीरसादादिगर्भलक्षणमाह वाह्वटः-"क्षामता गरिमा कुक्षेर्मूर्च्छा छर्दिररोचकम् । जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम्" इति ॥

  तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ ।
  करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ॥३॥

 तदिति ॥ क्षितीश्वरो र[५]हसि मृत्सुरभि मृदा सुगन्धि तस्या आननं तदाननं सुदक्षिणामुखमुपाघ्राय तृप्तिं नाययौ ॥ कः कमिव । शुचिव्यपाये ग्रीष्मावसाने ॥ "शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते। ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि" इति विश्वः ॥ पयोमुचां मेघानां पृषतैर्बिन्दुभिः ॥ "पृषन्ति बिन्दुपृषताः इत्यमरः ॥ सिक्तमुक्षितं वनराज्याः पल्वलमुपाघ्राय करी गज इव ॥ अत्र करिवनराजिपल्वलानां कान्तकामिनीवदनसमाधिरनुसंधेयः । गर्भिणीनां मृद्भक्षणं लोकप्रसिद्धमेव । एतेन दोहदाख्यं गर्भलक्षणमुच्यते-

 दोहदलक्षणे मृद्भक्षणे हेत्वन्तरमुत्प्रेक्षते-

  दिवं मरुत्वानिव भोक्ष्यते भु[६]वं दिगन्तविश्रान्तरथो हि त[७]त्सुतः।
  अतोऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलङ्घ्य सा॥४॥

 दिवमिति ॥ हि यस्माद्दिगन्तविश्रान्तरथश्चक्रवर्ती तस्याः सुतस्तत्मुतः। मरुत्वानिन्द्रः ॥ “ इन्द्रो मरुत्वान्मघवा" इत्यमरः ॥ दिवं स्वर्गमिव । भुवं भोक्ष्यते ॥ “भुजोऽनवने" इत्यात्मनेपदम् ॥ अतः प्रथमं सा सुदक्षिणा तथाविधे भूविकारे मृद्रूपे । अभिलष्यत इत्यभिलाषो भोग्यवस्तु । तस्मिन् ॥ कर्मणि घञ्प्रत्ययः ॥ रस्यन्ते स्वाद्यन्त इति रसा भोग्यार्थाः । अन्ये च ते रसाश्च तान्विलङ्घ्य विहाय मनो बबन्ध । विदधावित्यर्थः ॥ दोहदहेतुकस्य मृद्भक्षणस्य पुत्रभूभोगसूचनार्थत्वमुत्प्रेक्षते ॥

  न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी।
  इति स्म पृच्छत्यनुवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः॥५॥

 नेति ॥ मगधस्य राज्ञोऽपत्यं स्त्री मागधी सुदक्षिणा ॥ " द्वयञ्मगधकलिङ्गसूरमसादण्" इत्यण्प्रत्ययः॥ ह्रिया किंचित्किमपीप्सितमिष्टं मे मह्यं न शंसति नाचष्टे । केषु वस्तुषु स्पृहावतीत्यनुवेलमनुक्षणमादृत आदृतवान् ॥ कर्तरि क्तः ॥ "आदृतौ सादरार्चित्तौ" इत्यमरः ॥ प्रियायाः सखीः सहचरीरुत्तरकोसलेश्वरो दिलीपः पृच्छति स्म पप्रच्छ ॥ " लट् स्मे" इत्यनेन भूतार्थे लट् ॥ सखीनां विश्रम्भभूमित्वादिति भावः॥

  उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम् ।
  न हीष्टम[८]स्य त्रिदिवेऽपि भूपतेर[९]भूदनासाद्यमधिज्यधन्वनः ॥६॥

 उपेत्येति ॥ दोहदं गर्भिणीमनोरथः ॥ "दोहदं दौर्हृदं श्रद्धा लालसं च समं स्मृतम्" इति हलायुधः ॥ सा सुदक्षिणा दोहदेन गर्भिणीमनोरथेन दुःखशीलतां दुःखस्वभावतामुपेत्य प्राप्य यदस्तु वव्र आचकाङ्क्ष तदाहृतमानीतम् । भर्त्रेति शेषः। अपश्यदेव । अलभतेत्यर्थः । कुतः । हि यस्मादस्य भूपतेस्त्रिदिवेऽपि स्वर्गेऽपीष्टं वस्त्वनासाद्यमनवाप्यं नाभूत् । किं याञ्चया । नेत्याह--अधिज्यधन्वन इति ॥ न हि वीरपत्नीनामलभ्यं नाम किंचिदस्तीति भावः॥ अत्र वाह्वटः-"पादशोफो विदाहोऽन्ते श्रद्धा च विविधात्मिका” इति ॥ एतच्च पत्नीमनोरथपूरणाकरणे दृष्टदोषसंभवात् । न तु राज्ञः प्रीतिलौल्यात् । तदुक्तम् 'देयमप्यहितं तस्यै हिताय हितमल्पकम् । श्रद्धाविघाते गर्भस्य विकृतिश्च्युतिरेव वा"॥अन्यत्र च- "दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात्" इति ॥

  क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा।
  पुराणपत्रापगमादनन्तरं लतेव संनद्धमनोज्ञपल्लवा ॥७॥

 क्रमेणेति ॥ सा सुदक्षिणा क्रमेण दोहदव्यथां च निस्तीर्य प्रचीयमानावयवा पुष्यमाणावयवा सती। पुराणपत्राणामपगमान्नाशादनन्तरं संनद्धाः संजाताः प्रत्यग्रत्वान्मनोज्ञाः पल्लवा यस्याः सा लतेव । रराज ॥

 लक्षणान्तरं वर्णयति--

  दिनेषु गच्छत्सु नि[१०]तान्तपीवरं तदीयमा[११]नीलमुखं स्तनद्वयम् ।
  ति[१२]रश्चकार भ्रमरा[१३]भिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम्॥८॥

 दिनेष्विति ॥ दिनेषु दोहददिवसेषु गच्छत्सु सत्सु नितान्तपीवरमतिस्थूलम् । आ समन्तान्नीले मुखे चूचुके यस्य तत् । तदीयं स्तनद्वयम् । भ्रमरैरभिलीनयोरभिव्याप्तयोः सुजातयोः सुन्दरयोः पङ्कजकोशयोः पद्ममुकुलयोः श्रियं तिरश्चकार ॥ अत्र वाह्वटः-"अम्लेष्टता स्तनौ पीनौ श्वेतान्तौ कृष्णचूचुकौ" इति ॥

  निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम्।
  नदीमिवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीममन्यत ॥९॥

 निधानेति ॥ नृपः ससत्त्वामापन्नसत्त्वाम् । गर्भिणीमित्यर्थः॥ "आपन्नसत्त्वा स्याद्रुर्विण्यन्तर्वत्नी च गर्भिणी" इत्यमरः॥ महिषीम् । निधानं निधिर्गर्भे यस्यास्तां सागराम्बरां समुद्रवसनाम् । भूमिमिवेत्यर्थः ॥ “भूतधात्री रत्नगर्भा विपुला सागराम्बरा" इति कोशः॥ अभ्यन्तरे लीनः पावको यस्यास्तां शमीमिव ॥ शमीतरौ वह्निरस्तीत्यत्र लिङ्गं शमीगर्भादग्निं जनयतीति ॥ अन्तःसलिलामन्तर्गतजलां सरस्वतीं नदीमिव । अमन्यत ॥ एतेन गर्भस्य भाग्यवत्त्वतेजस्वित्वपावनत्वानि विवक्षितानि ॥

  प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसंपदाम् ।
  यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः॥१०॥

 प्रियेति ॥ धीरः स राजा प्रियायामनुरागस्य स्नेहस्य । मनसः समुन्नतेरौदार्यस्य

। भुजेन भुजबलेन करेण वार्जितानाम् । न तु वाणिज्यादिना । दिगन्तेषु संपदाम् । धृतेः पुत्रो मे भविष्यतीति संतोषस्य च ॥“धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु" इति विश्वः ॥ सदृशीरनुरूपाः। पुमान्सूयतेऽनेनेति पुंसवनम् । तदादिर्यासां ताः क्रिया यथाक्रमं क्रममनतिक्रम्य व्यधत्त कृतवान् ॥ आदिशब्देनानवलोभनसीमन्तोन्नयने गृह्येते॥ अत्र मासि द्वितीये तृतीये वा पुंसवनम् । यदाह- "पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्" इति पारस्करः । “चतुर्थेऽनवलोभनम्" इत्याश्वलायनः । “षष्ठेऽष्टमे वा सीमन्तोन्नयनम्" इति याज्ञवल्क्यः ।।

  सुरेन्द्रमात्राश्रितगर्भगौरवात्प्रयत्नमुक्तासनया गृहागतः ।
  तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः।।११॥

 सुरेन्द्रेति ॥ गृहागतो नृपः सुरेन्द्राणां लोकपालानां मात्राभिरंशैराश्रितस्यानुपविष्टस्य गर्भस्य गौरवाद्भारात्प्रयत्नेन मुक्तासनया । आसनादुत्थितयेत्यर्थः । उपचारस्याञ्जलावञ्जलिकरणे खिन्नहस्तया पारिप्लवनेत्रया तरलाक्ष्या ॥"चञ्चलं तरलं चैव पारिप्लवपरिप्लवे" इत्यमरः ॥ तया सुदक्षिणया ननन्द । “सुरेन्द्रमात्राश्रित-" इत्यत्र मनु:-"अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः" इति ॥

  कुमारभृत्याकुशलैर[१४]नुष्ठिते भिषग्भिराप्तैरथ ग[१५]र्भभर्मणि ।
  पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रितामिव॥१२॥

 कुमारेति ॥ अथ । कुमारभृत्या बालचिकित्सा ॥ “संज्ञायां समजनिषद-' इत्यादिना क्यप् ॥ तस्यां कुशलैः कृतिभिः ॥ "कृती कुशलः" इत्यमरः ॥ आप्तैहितैषिर्म्भिषग्भिर्वैद्यैः ॥ "भिषग्वैद्यौ चिकित्सको" इत्यमरः ॥ गर्भस्य भर्मणि भरणे ॥ "भरणे पोषणे भर्म" इति हैमः । “भृतिर्भर्म" इति शाश्वतः ॥ भृञोमनिच्प्रत्ययः॥ “गर्भकर्मणि" इति पाठे गर्भाधानप्रतीतावौचित्यभङ्गः ॥ अनुष्ठिते कृते सति ॥ काले दशमे मासि । अन्यत्र ग्रीष्मावसाने । प्रसवस्य गर्भमोचनस्योन्मुखीम् । आसन्नप्रसवामित्यर्थः ॥ “स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने" इत्यमरः ॥ प्रियां भार्याम् । अभ्राण्यस्याः संजातान्यभ्रिता ताम् ॥ "तदस्य संजातं तारकादिभ्य इतच्" इतीतच्प्रत्ययः ॥ दिवमिव । पतिर्भर्ता प्रतीतो हृष्टः सन् ॥ "ख्याते हृष्टे प्रतीतः" इत्यमरः ॥ ददर्श दृष्टवान् ॥

  ग्रहैस्ततः पञ्चभिरु[१६]च्चसंश्रयैरसूर्यगैः सूचितभाग्यसंपदम् ।
  असूत पु[१७]त्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थम[१८]क्षयम् ॥१३॥

 ग्रहैरिति ॥ ततः शन्येन्द्राण्या समा ॥ पुलोमजा "शचीन्द्राणी" इत्यमरः ।

सा सुदक्षिणा समये प्रसूतिकाले सति । दशमे मासीत्यर्थः ॥ “दशमे मासि जायते" इति श्रुतः॥ उच्चसंश्रयैरुच्चसंस्थैस्तुङ्गथानगैरसूर्यगैरनस्तमितैः कैश्चिद्यथासंभवं पञ्चभिर्गहैः सूचिता भाग्यसंपद्यस्य तं पुत्रम् । त्रीणि प्रभावमन्त्रोत्साहात्मकानि साधनान्युत्पादकानि यस्याः सा त्रिसाधना शक्तिः॥"शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः" इत्यमरः ।। अक्षयमर्थमिव । असूत ॥ " पूङ् प्राणिगर्भविमोचने इत्यात्मनेपदिषु पठ्यते । तस्माद्धातोः कर्तरि लङ् ॥ अत्रेदमनुसंधेयम् - "अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः ॥ दशशिखिमनुयुक्तिथीन्द्रियांशैस्त्रिनवकविंशतिभिश्च तेऽस्तनीचाः" इति ।। सूर्यादीनां सप्तानां ग्रहाणां मेषवृषभादयो राशयः श्लोकोक्तक्रमविशिष्टा उच्चस्थानानि । स्वस्वतुङ्गापेक्षया सप्तमस्थानानि च नीचानि । तत्रोच्चेष्वपि दशमादयो राशित्रिंशांशा यथाक्रममुच्चेषु परमोच्चा नीचेषु परमनीचा इति जातकश्लोकार्थः ॥ अत्रांशस्त्रिंशो भागः। यथाह नारद:- त्रिंशद्भागात्मकं लग्नम्" इति ॥ सूर्यपत्यासत्तिर्ग्रहाणामस्तमयो नाम ॥ तदुक्तं लघुजातके-" रविणास्तमयो योगो वियोगस्तूदयो भवेत्” इति ॥ ते च स्वोच्चस्थाः फलन्ति नास्तगा नापि नीचगाः ॥ तदुक्तं राजमृगाङ्के स्वोच्चे पूर्णं स्वर्क्षकेऽर्धं सुहृद्भे पादं द्विड्भेऽल्पं शुभं खेचरेन्द्रः । नीचस्थायी नास्तगो वा न किंचित्पादं नूनं स्वत्रिकोणे ददाति" इति ॥ तदिदमाह कविरुच्चसंश्रयैरसूर्यगैरिति च । एवं सति यस्य जन्मकाले पञ्चप्रभृतयो ग्रहाः स्वोच्चस्थाः स एव तुङ्गो भवति ॥ तदुक्तं कूटस्थीये-“सुखिनः प्रकृष्टकार्या राजप्रतिरूपकाश्च राजानः । एकद्वित्रिचतुर्भिर्जायन्तेऽतः परं दिव्याः" इति ॥ तदिदमाह पञ्चभिरिइति ॥

  दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणार्चि[१९]र्हविरग्निराददे ।
  बभूव सर्वं शुभशंसि त[२०]त्क्षणं भवो हि लोकाभ्युदयाय तादृशाम्।।१४॥

 दिश इति ॥ तत्क्षणं तस्मिन्क्षणे ॥ कालाध्वनोरत्यन्तसंयोगे द्वितीया । दिशः प्रसेदुः प्रसन्ना बभूवुः । मरुतो वाताः सुखा मनोहरा ववुः । अग्निः- प्रदक्षिणार्चिः सन्हविराददे स्वीचकार । इत्थं सर्वं शुभशंसि शुभसूचकं बभूव ॥ तथा- हि । तादृशां रघुप्रकाराणां भवो जन्म लोकाभ्युदयाय । भवतीति शेषः । ततो देवा अपि संतुष्टा इत्यर्थः॥

  अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा।
  निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव।।१५॥

 अरिष्टोति ॥ “अरिष्टं सूतिकागृहम्" इत्यमरः ॥ अरिष्टे सूतिकागृहे शय्यां तल्पं परितोऽभितः॥ “अभितःपरितः समयानिकषाहाप्रतियोगेषु दृश्यते" इति द्वितीया ॥ विसारिणा। सुजन्मनः शोभनोत्पत्तेः ॥ "जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः" इत्यमरः ॥ तस्य शिशोर्निजेन नैसर्गिकेण तेजसा सहसा हतत्विषः क्षीणकान्तयो निशीथदीपा अर्धरात्रप्रदीपाः ॥ “अर्धरात्रनिशीथौ द्वौ" इत्यमरः॥ आलेख्यसमर्पिताश्चित्रार्पिता इव बभूवुः ॥ निशीथशब्दो दीपानां प्रभाधिक्यसंभावनार्थः ॥

  जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम् ।
  अदेयमासीच्चयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे ॥१६॥

 जनायेति ॥ भूपतेर्दिलीपस्यामृतसंमिताक्षरममृतसमानाक्षरम् ॥ “सरूपसमसंमिताः" इत्याह दण्डी॥ कुमारजन्म पुत्रोत्पत्तिं शंसते कथयते शुद्धान्तचरायान्तःपुरचारिणे जनाय त्रयमेवादेयमासीत् । किं तत् । शशिप्रभमुज्ज्वलं छत्रम् । उभे चामरे च ॥ छत्रादीनां राज्ञः प्रधानाङ्गत्वादिति भावः ॥

  नि[२१]वात[२२]पद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम् । मुदः शरीरे मबभूव
नात्मनः पयोधिरिन्दूदयमूर्छित्तो यथा   महोदधेः पूर इवेन्दुदर्शनाद्गुरुः प्रहर्षः प्रबभूव ना[२३]त्मनि ॥१७॥

 निवातेति ॥ निवातो निर्वातप्रदेशः ॥ "निवातावाश्रयावातौ" इत्यमरः ॥ तत्र यत्पद्मं तद्वत्स्तिमितेन निष्पन्देन चक्षुषा नेत्रेण कान्तं सुन्दरं सुताननं पुत्रमुखं पिबतस्तृष्णया पश्यतो नृपस्य गुरुरुत्कटः प्रहर्षः ॥ कर्ता ॥ इन्दुदर्शनाद्गुरुर्महोदधेः पूरो जलौघ इव । आत्मनि शरीरे न प्रबभूव स्थातुं न शशाक । अन्तर्न माति स्मेति यावत् । नह्यल्पाधारेऽधिकं मीयत इति भावः॥ यद्वा हर्ष आत्मनि स्वस्मिन्विषये न प्रबभूव । आत्मानं नियन्तुं न शशाक । किंतु बहिर्निर्जगामेत्यर्थः ॥

  स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते ।
  दिलीपसूनुर्मणिराकरोद्भवः प्रत्युक्तसंस्कार इवाधिकं बभौ।।१८॥

 स इति ॥ स दिलीपसूनुः । तपस्विना पुरोधसा पुरोहितेन ॥ "पुरोधास्तु पुरोहितः" इत्यमरः ॥ वशिष्ठेन । तपस्वित्वात्तदनुष्ठितं कर्म सवीर्यं स्यादिति भावः। तपोवनादेत्यागत्य । अखिले समग्रे जातकर्मणि जातस्य कर्तव्यसंस्कारविशेषे कृते सति । प्रयुक्तः संस्कारः शाणोल्लेखनादिर्यस्य स तथोक्तः। आकरोद्भवः खनिप्रभवः ॥ "खनिः स्त्रियामाकरः स्यात्" इत्यमरः ॥ मणिरिव । अधिकं बभौ ॥ वशिष्ठमन्त्रप्रभावात्तेजिष्ठोऽभूदित्यर्थः । अत्र मनु:-"प्राङ्गाभिवर्धनात्पुंसो जातकर्म विधीयते" इति ।

  सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृ[२४]त्यैः सह वारयोषिताम् ।
  न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि ॥१९॥

 सुखश्रवा इति ॥ सुखः सुखकरः श्रवः श्रवणं येषां ते सुखश्रवाः। श्रुतिमुखा इत्यर्थः । मङ्गलतूर्यनिस्वना मङ्गलवाद्यध्वनयो वारयोषितां वेश्यानाम् ॥ “वारस्त्री गणिका वेश्या रूपाजीवा" इत्यमरः ॥ प्रमोदनृत्यैर्हर्षनर्तनैः सह मागधीपतेर्दिलीपस्य सद्मनि केवलं गृह एव न व्यजृम्भन्त। किंतु । द्यौरोको येषां ते दिवौकसो देवाः ॥ पृषोदरादित्वात्साधुः । तेषां पथ्याकाशेऽपि व्यजृम्भन्त । तस्य देवांशत्वाद्देवोपकारित्वाञ्च देवदुन्दुभयोऽपि नेदुरिति भावः ॥

  न संयतस्तस्य बभूव रक्षितुर्विस[२५]र्जयेद्यं सुतजन्महर्षितः ।
  ऋणाभिधानात्स्वयमेव केवलं तदा पितृणां मुमुचे स बन्धनात् ॥२०॥

 नेति ॥ रक्षितुः सम्यक्पालनशीलस्य तस्य दिलीपस्य । अत एव चौरादद्यभावत् । संयतो बद्धो न बभूव नाभूत् ॥ किं तेनात आह--विसर्जयेदिति ॥ सुतजन्मना हर्षितस्तोषितःसन् । यं बद्धं विसर्जयेद्विमोचयेत् ॥ किंतु स राजा तदा पितॄणामृणाभिधानाद्वन्धनात्केवलमेकं यथा तथा । स्वयमेव । एक एवेत्यर्थः ॥ “केवलः कृत्स्न एकश्च केवलश्वावधीरितः” इति शाश्वतः । मुमुचे॥ कर्मकर्तरि लिट् ॥ स्यवमेव मुक्त इत्यर्थः । अस्मिन्नर्थे-." एष वा अनृणो यः पुत्री" इति श्रुतिः प्रमाणम् ॥

  श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः ।
  अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसंभवम् ॥२१॥

 श्रुतस्येति ॥ अर्थविच्छब्दार्थज्ञः पार्थिवः पृथिवीश्वरो दिलीपः । अयमर्भको बालकः श्रुतस्य शास्त्रस्यान्तं पारं यायात् । तथा युधि परेषां शत्रूणामन्तं पारं च यायात् । यातुं शक्नुयादित्यर्थः ॥ “शकि लिङ्च" इति शक्यार्थे लिङ् ॥ इति हेतोर्धातोः “अघिवधिलघि गत्यर्थाः" इति लघिधातोर्गमनाख्यमर्थमर्थवित्त्वादवेक्ष्यालोच्य । आत्मसंभवं पुत्रं नाम्ना रघुं चकार । “लङ्घिबंह्योर्नलोपश्च " इत्यप्रत्यये वालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यत इति वैकल्पिके रेफादेशे रघुरिति

रूपं सिद्धम् । अत्र शङ्क:-"अशौचे तु व्यतिक्रान्ते नामकर्म विधीयते" इति ॥

  पितुः प्रयत्नात्स समग्रसंपदः शुभैः शरीरावयवैर्दिने दिने।
  पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः॥२२॥

 पितुरिति ॥ स रघुः समग्रसंपदः पूर्णलक्ष्मीकस्य पितुर्दिलीपस्य प्रयत्नाच्छुभैर्मनोहरैः शरीरावयवैः। हरिदश्वदीधितेः सूर्यस्य रश्मेः ॥ “ भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः" इत्यमरः ॥ अनुप्रवेशाद्बालचन्द्रमा इव । दिने दिने प्रतिदिनम् ॥ “नित्यवीप्सयोः" इति द्विर्वचनम् ॥ वृद्धिं पुपोष ॥ अत्र वराहसंहितावचनम् -"सलिलमये शशिनि रवेर्दीधितयो मूर्छितास्तमो नैशम् । क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः" इति ॥

  उमावृषाङ्को शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ ।
  तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥२३॥

 उमेति ॥ उमावृषाङ्कौ पार्वतीवृषभध्वजौ शरजन्मना कार्तिकेयेन ॥ “कार्तिकेयो महासेनः शरजन्मा षडाननः" इत्यमरः ॥ यथा ननन्दतुः । शचीपुरंदरौ जयन्तेन जयन्ताख्येन सुतेन ॥"जयन्तः पाकशासनिः" इत्यमरः॥ यथा ननन्दतुः। तथा तत्समौ ताभ्यामुमावृषाङ्काभ्यां शचीपुरंदराभ्यां च समौ समानौ सा मागधी नृपश्च तत्सदृशेन ताभ्यां कुमारजयन्ताभ्यां सदृशेन सुतेन ननन्दतुः ॥ मागधी प्राग्व्याख्याता॥

  रथाङ्गनाम्नोरिख भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम् ।
  विभक्तमप्येक[२६]सुतेन तत्तयोः परस्परस्योपरि प[२७]र्यचीयत ॥२४॥

 रथाङ्गेति ॥ रथाङ्गनाम्नी च रथाङ्गनामा च रथाङ्गनामानौ चक्रवाकौ ॥ "पुमास्त्रिया" इत्येकशेषः ॥ तयोरिव तयोर्दंपत्योर्भावबन्धनं हृदयाकर्षकं परस्पराश्रयमन्योन्यविषयं यत्प्रेम बभूव तदेकेन केवलेन ताभ्यामन्येन वा ॥ " एके मुख्यान्यकेवलाः" इत्यमरः ।। सुतेन विभक्तमपि कृतविभागमपि परस्परस्योपरि पर्यचीयत ववृधे ॥ कर्मकर्तरि लिट् ॥ अकृत्रिमत्वात्स्वयमेवोपचितमित्यर्थः ॥ यदेकाधारं वस्तु तदाधारद्वये विभज्यमानं हीयते। अत्र तु तयोः प्रागेकैककर्तृकमेकैकविषयं प्रेम संप्रति द्वितीयविषयलाभेऽपि नाहीयत।प्रत्युतोपचितमेवाभूदिति भावः।।

  उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम्।
  अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन त[२८]तान सोऽर्भकः॥२५॥

 उवाचेति ॥ सोऽर्भकहः शिशुः॥" पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः

शिशुः" इत्यमरः ॥ धात्र्योपमाला ॥“धात्री जनन्यामलकीवसुमत्युपमातृषु" इति विश्वः ॥ प्रथममुदितमुपदिष्टं वच उवाच । तदीयामङ्गुलिमवलम्ब्य ययौ च । प्रणिपातस्य शिक्षयोपदेशेन नम्रोऽभूच्च । इति यत्तेन पितुर्मुदं ततान ॥

  तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि ।
  उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ।। २६॥

 तमिति ॥ शरीरयोगजैः सुखैस्त्वचि त्वगिन्द्रियेऽमृतं निषिञ्चन्तं वर्षन्तमिव तं पुत्रमङ्कमारोप्य मुदाविर्भावादुपान्तयोः प्रान्तयोः संमीलितलोचनः सन् । नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ॥ रसः स्वादः॥

  अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् ।
  स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानामिव सर्गमात्मनः ॥२७॥

 अमंस्तेति ॥ स्थितेरभेत्ता मर्यादापालकः स नृपः परार्घ्यजन्मनोत्कृष्टजन्मनानेन रघुणान्वयं वंशम् । प्रजानां पतिर्ब्रह्मा । गुणाः सत्त्वादयः । तेष्वग्र्येण मुख्येन सत्त्वेन वर्तते व्याप्रियत इति गुणाग्र्यवर्ती । तेन स्वस्य मूर्तिभेदेनावतारविशेषेण विष्णुनात्मनः सर्गं सृष्टिमिव । स्थितिमन्तं प्रतिष्ठावन्तममंस्त मन्यते स्म ॥ मन्यतेरनुदात्तत्त्वादिट्प्रतिषेधः ॥ अत्रोपमानोपमेययोरितरेतरविशेषणानीतरेतरत्र योज्यानि॥तत्र रघुपक्षे गुणा विद्याविनयादयः॥ “गुणोऽप्रधाने रूपादौ मौर्व्यां सूदे वृकोदरे । स्तम्बे सत्त्वादिसंध्यादिविद्यादिहरितादिषु" इति विश्वः॥ शेषं सुगमम् ।।

  स वृ[२९]त्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः।
  लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् ॥२८।।

 स इति ॥ "चूडा कार्या द्विजातीनां सर्वेषामेव धर्मतः । प्रथमेऽब्दे तृतीये वा कर्तव्या श्रुतिचोदनात्" इति मनुस्मरणात्तृतीये वर्षे वृत्तचूलो निष्पन्नचूडाकर्मा सन् ॥ डलयोरभेदः॥ स रघुः ॥ "प्राप्ते तु पञ्चमे वर्षे विद्यारम्भं च कारयेत्" इति वचनात्पञ्चमे वर्षे चलकाकपक्षकैश्चञ्चलशिखण्डकैः॥"बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः" इति हलायुधः ॥ सवयोभिः स्निग्धैः ॥"स्निग्धो वयस्यः सवयाः" इत्यमरः ॥ अमात्यपुत्रैरन्वितः सन् । लिपेः पञ्चाशद्वर्णात्मिकाया मातृकाया यथावद्ग्रहणेन सम्यग्बोधेनोपायभूतेन वाङ्मयं शब्दजातम् । नद्या मुखं द्वारम् ॥ "मुखं तु वदने मुख्यारम्भे द्वाराभ्युपाययोः" इति यादवः ॥ तेन कश्चिन्मकरादिः

समुद्रमिव । आविशत्प्रविष्टः। ज्ञातवानित्यर्थः॥

  अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् ।
  अवन्ध्ययत्नाश्च बभूवुर[३०]त्र ते क्रिया हि वस्तूपहिता प्रसीदति॥२९॥

 अथेति ॥ “गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञो गर्भाच्च द्वादशे विशः" इति मनुस्मरणादथ गर्भैकादशेऽब्दे विधिवदुपनीतं गुरुप्रियमेनं रघुं विपश्चितो विद्वांसो गुरवो विनिन्युः शिक्षितवन्तः ॥ ते गुरवोऽत्रा- स्मिन्रघाववन्ध्ययत्राश्च बभूवुः ॥ तथाहि । क्रिया शिक्षा ॥ "क्रिया तु निष्कृतौ शिक्षाचिकित्सोपायकर्मसु" इति यादवः ॥ वस्तुनि पात्रभूत उपहिता प्रयुक्ता प्रसीदति फलति ॥ "क्रिया हि द्रव्यं विनयति नाद्रव्यम्" इति कौटिल्यः॥

  धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः।
  ततार विद्याः पवना[३१]तिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः॥३०॥

 धिय इति ॥ अत्र कामन्दक:-"शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः" इति । “आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । एता विद्याश्चतस्रस्तु लोकसंस्थितिहेतवः" इति च ॥ उदारधीरुत्कृष्टबुद्धिः स रघुः समग्रैर्धियो गुणैः । चत्वारोऽर्णवा उपमा यासां ताश्चतुरर्णवोपमा ॥"तद्धितार्थोत्तरपदसमाहारे च" इत्युत्तरपदसमासः ॥ चतस्रो विद्याः । हरितां दिशामीश्वरः सूर्यः पवनातिपातिभिर्हरिद्भिर्निजाश्वैः ॥ “हरित्ककुभि वर्णे च तृणवाजिविशेषयोः" इति विश्वः ॥ चतस्रो दिश इव । क्रमात्ततार ॥ चतुरर्णवोपमत्वं दिशामपि द्रष्टव्यम् ॥

  त्वचं स मेध्यां परिधाय रौरवीमशिक्षतास्त्रं पितुरेव म[३२]न्त्रवत् ।
  न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरोऽपि सः॥३१॥

 त्वचमिति ॥ स रघुः ॥ “कार्ष्णरौरववास्तानि चर्माणि ब्रह्मचारिणः । वसीरन्नानुपूर्व्येण शाणक्षौमादिकानि च" इति मनुस्मरणान्मेध्यां शुद्धां रौरवीं रुरुसंबिन्धिनीम् ॥ "रुरुर्महाकृष्णसारः" इति यादवः ॥ त्वचं चर्म परिधाय वसित्वा मन्त्रवत्समन्त्रकमस्त्रमाग्नेयादिकं पितुरेवोपाध्यायादशिक्षताभ्यस्तवान् ॥ “आख्यातोपयोगे" इत्यपादानसंज्ञा॥ पितुरेवेत्यवधारणमुपपादयति-नेति ॥ तद्गुरुरेकोऽद्वितीयः पार्थिवः केवलं पृथिवीश्वर एव नाभूत् । किंतु क्षितौ स दिलीप एको

धनुर्धरोऽप्यभूत् ॥

  महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव ।
  रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गा[३३]म्भीर्यमनोहरं वपुः॥३२॥

 महोक्षतामिति॥ रघुः क्रमाद्यौवनेन भिन्नशैशवो निरस्तशिशुभावः सन् । महानुक्षा महोक्षो महर्षभः ॥ "अचतुर-" आदिसूत्रेण निपातनादकारान्तत्वम् ॥ तस्य भावस्तत्ता । तां स्पृशन्गच्छन्वत्सतरो दम्य इव ॥ “दम्यवत्सतरौ समौ" इत्यमरः ॥ द्विपेन्द्रभावं महागजत्वं श्रयन्व्रजन्कलभः करिपोत इव । गाम्भीर्येणाचापलेन मनोहरं वपुः पुपोष ॥

  अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद्गुरुः।
  नरेन्द्रकन्यास्तमवाप्य सत्पतिं त[३४]मोनुदं दक्षसुता इवाबभुः॥३३॥

 अथेति ॥"गौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः । स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि । 'पुंस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु" इति केशवः ॥ गावो लोमानि केशा दीयन्ते खण्ड्यन्तेऽस्मिन्निति व्युत्पत्त्या गोदानं नाम ब्राह्मणादीनां षोडशादिषु वर्षेषु कर्तव्यं केशान्ताख्यं कर्मोच्यते ॥ तदुक्तं मनुना-"केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः" इति ॥ अथ गुरुः पिता ॥ “गुरुर्गीष्पतिपित्रादौ" इत्यमरः ॥ अस्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयत् । कृतवानित्यर्थः ॥ अथ नरेन्द्रकन्यास्तं रघुम् । दक्षस्य सुता रोहिण्यादयस्तमोनुदं चन्द्रमिव ॥ “तमोनुदाऽग्निचन्द्रार्काः" इति विश्वः ॥ सत्पतिमवाप्यावभुः । रघुरपि तमोनुत् ॥ अत्र मनु:-"वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममाविशेत्" इति ॥

 संप्रति यौवराज्ययोग्यतामाह-

  युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकन्धरः।
  वपुःप्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत ॥३४॥

 युवेति ॥ युवा । युगो नाम धुर्यस्कन्धगः सच्छिद्रप्रान्तो यानाङ्गभूतो दारुविशेषः ॥ “यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु" इत्यमरः ॥ युगवद्व्यावत्तौ दीर्घौ बाहू यस्य सः। अंसावस्य स्त इत्यंसलो बलवान् । मांसलश्चेति वृत्तिकारः॥ "बलवान्मांसलोंऽसलः" इत्यमरः ॥ "वत्सांसाभ्यां कामबले" इति लच्प्रत्ययः ।। कपाटवक्षाः परिणद्धकन्धरो विशालग्रीवः ।। परिणाहो विशालता" इत्यमरः ॥ रघुर्वपुषः प्रकर्षादाधिक्याद्यौवनकृताद्गुरुं पितरमजयत् । तथापि विनयान्नम्रत्वेन नीचैरल्पकोऽदृश्यत । अनौद्धत्यं च विवक्षितम् ॥

 संप्रति तस्य यौवराज्यमाह-

  ततः प्रजानां चिरमात्मना धृतां नितान्तगुर्वी लघयिष्यता धुरम् ।
  निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् ॥३५॥

 तत इति ॥ तत आत्मना चिरं धृतां नितान्तगुर्वीम् ॥ “वोतो गुणवचनात्" इति ङीष् ॥ प्रजानां धुरं पालनप्रयासं लघयिष्यता लघुं करिष्यता ॥ " तत्करोति तदाचष्टे” इति लघुशब्दाण्णिच् । ततो “ लुटः सद्वा" इति शतृप्रत्ययः ॥ नृपेण दिलीपेनासौ रघुनिसर्गेण स्वभावेन संस्कारेण शास्त्राभ्यासजनितवासनया च विनीतो नम्र इति हेतोः ॥ युवराज इति शब्दं भजतीति तथोक्तः ॥ भजो ण्विः " इति ण्विप्रययः ॥ चक्रे कृतः ॥“द्विविधो विनयः स्वाभाविकः कृत्रिमश्च" इति कौटिल्यः॥ तदुभयसंपन्नत्वात्पुत्रं युवराजं चकारेत्यर्थः । अत्र कामन्दकः- “विनयोपग्रहान्भूत्यै कुर्वीत नृपतिः सुतान् । अविनीतकुमारं हि कुलमाशु विशीर्यते । विनीतमौरसं पुत्रं यौवराज्येऽभिषेचयेत्” इति ॥

  नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीर्युवराजसंज्ञितम् ।
  अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम् ॥३६॥

 नरेन्द्रेति ॥ गुणान्विनयादीन्सौरभ्यादींश्चाभिलषतीति गुणाभिलाषिणी श्रीराज्यलक्ष्मीः पद्माश्रया च नरेन्द्रो दिलीप एव मूलायतनं प्रधानस्थानं तस्मात् । अपादानात् । अनन्तरं संनिहितम् । युवराज इति संज्ञास्य संजाता युवराजसंज्ञितम् ॥ तारकादित्वादितच्प्रत्ययः ॥ आत्मनः पदं स्थानमास्पदम् ॥ “आस्पदं प्रतिष्ठायाम्" इति निपातः ॥ स रघुरित्यास्पदं तदास्पदम् । कमलाश्चिरोत्पन्नान्नवावतारमचिरोत्पन्नमुत्पलमिव । अंशेनागच्छत् ।। स्त्रियो हि यूनि रज्यन्त इति भावः ॥

  विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव ।
  बभूव तेनातितरां सु[३५]दुःसहः कटप्रभेदेन करीव पार्थिवः॥ ३७॥

 विभावसुरिति ॥ सारथिना सहायभूतेन । एतद्विशेषणमुत्तरवाक्येष्वप्यनुषञ्जनीयम् । वायुना विभावसुर्वह्निरिव ॥ "सूर्यवह्नी विभावसू"इत्यमरः ॥ धनव्यपायेन शरत्समयेन सारथिना गभस्तिमान्सूर्य इव । कटो गण्डः ॥ "गण्डः कटो मदो दानम्" इत्यमरः ॥ तस्य प्रभेदः स्फुटनम् । मदोदय इत्यर्थः। तेन करीव । पार्थिवो दिलीपस्तेन रघुणातितरामत्यन्तं सुदुःसहः सुष्टुसह्यो बभूव ॥

  नियुज्य तं होमतुरंगरक्षणे धनुर्धरं राजसुतैरनुद्रुतम् ।
  अपूर्णमेकेन शतक्रतूपमः शतं क्रतूनामपविघ्नमाप सः॥३८॥

 नियुज्येति ॥ शतक्रतुरिन्द्र उपमा यस्य स शतक्रतूपमः स दिलीपः । “शतं वै तुल्या राजपुत्रा देवा आशापालाः" इत्यादिश्रुत्या । राजसुतैरनुद्रुतमनुगतं धनुर्धरं तं रघुं होमतुरंगाणां रक्षणे नियुज्य । एकेन क्रतुनापूर्णमेकोनं क्रतूनामश्वमेधानां शतमपविघ्नपमपगतविघ्नं यथा तथाप ॥

  ततः परं तेन मखाय यज्वना तुरंगमुत्सृष्टमनर्गलं पुनः।
  धनुर्भृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ॥३९॥

 तत इति ॥ ततः परमेकोनशतक्रतुप्राप्त्यनन्तरं यज्वना विधिनेष्टवता तेन दिलीपेन पुनः पुनरपि मखाय मखं कर्तुम् ॥ “क्रियार्थोपपदस्य-" इत्यादिना चतुर्थी ॥ उत्सृष्टं मुक्तमनर्गलमप्रतिबन्धम् । अव्याहतस्वैरगतिमित्यर्थः ॥ “अपर्यावर्तयन्तोऽश्वमनुचरन्ति" इत्यापस्तम्बस्मरणात् ॥ तुरंगं धनुर्भृतां रक्षिणां रक्षकाणामग्रत एव शक्रो गूढविग्रहः सन् । जहार किल । किलेत्यैतिह्ये ॥

  विषादलुप्तप्रतिपत्ति विस्मितं कुमारसैन्यं सपदि स्थितं च तत् ।
  वशिष्ठधेनुश्च यदृच्छयागता श्रुतप्रभावा ददृशेऽथ नन्दिनी॥४०॥

 विषादेति ॥ तत्कुमारस्य सैन्यं सेना सपदि । विषाद इष्टनाशकृतो मनोभङ्गः । तदुक्तम्- "विषादश्चेतसो भङ्ग उपायाभावनाशयोः" इति ॥ तेन लुप्ता प्रतिपत्तिः कर्तव्यज्ञानं यस्य तत्तथोक्तम् । विस्मितमश्वनाशस्याकस्मिकत्वादाश्चर्याविष्टं सत्।स्थितं तस्थौ ॥ अथ श्रुतप्रभावा यदृच्छया स्वेच्छयागता॥ रघोः स्वप्रसादलब्धत्वादनुजिघृक्षयेति भावः ॥ नन्दिनी नाम वशिष्ठधेनुश्च ददृशे ॥ द्वौ चकारावविलम्बसूचकौ ॥

  तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् ।
  अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः॥४१॥

 तदिति ॥ सतां पुरस्कृतः पूजितो दिलीपनन्दनो रघुः पुण्येन तस्या नन्दिन्या यदङ्गं तस्य निस्यन्दो द्रवः स एव जलम् । मूत्रमित्यर्थः । तेन लोचने प्रमृज्य शोषयित्वा। अतीन्द्रियेष्विन्द्रियाण्यतिक्रान्तेषु ॥"अत्यादयः कान्ताद्यर्थे द्वितीयया" इति समासः । द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु परवल्लिङ्गताप्रतिषेधाद्विशेष्यनिघ्नत्वम् ॥ भावेष्वपि वस्तुषूपपन्नदर्शनः संपन्नसाक्षात्कारशक्तिर्बभूव ॥

  स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः ।
  पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयतम् ॥४२॥

 स इति ॥ नरदेवसंभवः स रघुः पुनः पुनः सूतेन निषिद्धचापलं निवारितोद्धत्यं रथस्य रश्मिभिः प्रग्रहैः ॥ "किरणप्रग्रहौ रश्मी" इत्यमरः ॥ संयतं बद्धमश्वं हरन्तं पर्वतपक्षाणां शातनं छेदकं देवमिन्द्रं पूर्वतः पूर्वस्यां दिशि ददर्श ॥

  शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं विदित्वा हरिभिश्च वाजिभिः।
  अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ॥४३॥

 शतैरिति ॥ रघुस्तमश्वहर्तारमनिमेषवृत्तिभिर्निमेषव्यापारशून्यैरक्ष्णां शतैर्हरिभिर्हरिद्वर्णैः ॥ "हरिर्वाच्यवदाख्यातो हरित्कपिलवर्णयोः" इति विश्वः ॥ वाजिभिरश्वैश्च हरिमिन्द्रं विदित्वा ॥ “हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु" इति विश्वः ॥ एनमिन्द्रं गगनस्पृशा व्योमव्यापिना धीरेण गभीरेण स्वरेण ध्वनिनैव निवर्तयन्निवावोचत् ॥

  मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र स[३६]दा निगद्यसे ।
  अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे॥४४॥

 मखेति ॥ हे देवेन्द्र । मनीषिभिस्त्वमेव मखांशभाजां यज्ञभागभुजां प्रथमः सदा निगद्यसे कथ्यसे ॥ तथाप्यजस्रदीक्षायां नित्यदीक्षायां प्रयतस्य मद्गुरोः क्रियाविघाताय क्रतुविघाताय । क्रियां विहन्तुमित्यर्थः ॥ “तुमर्थाच्च भाववचनात्" इति चतुर्थी । कथं प्रवर्तसे ॥

  त्रिलोकनाथेन स[३७]दा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा ।
  स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः॥४५॥.

 त्रिलोकेति ॥ त्रयाणां लोकानां नाथस्त्रिलोकनाथः ॥ "तद्धितार्थ-" इत्यादिनोत्तरपदसमासः॥ तेन त्रैलोक्यनियामकेन दिव्यचक्षुषातीन्द्रियार्थदर्शिना त्वया मखद्विषः क्रतुविघातकाः सदा नियम्या ननु शिक्ष्याः खलु । स त्वं धर्मचारिणां कर्मसु क्रतुषु स्वयमन्तरायो विघ्नो भवसि चेत् । विधिरनुष्ठानं च्युतः क्षतः।

लोके सत्कर्मकथैवास्तमियादित्यर्थः ॥

  तदङ्गमग्र्यं मघवन्महाकतोरमुं तुरंगं प्रतिमोक्तुमर्हसि ।
  पथः श्रु[३८]तेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥४६॥

 तदिति ॥हे मघवन् । तत्तस्मात्कारणान्महाक्रतोरश्वमेधस्याग्र्यं श्रेष्ठमङ्गं साधनममुं तुरंग प्रतिमोक्तुं प्रतिदातुमर्हसि ॥ तथाहि । श्रुतेः पथो दर्शयितारः सन्मार्गप्रदर्शका ईश्वरा महान्तो मलीमसां मलिनां पद्धतिं मार्गं नाददते न स्वीकुर्वते । असन्मार्गं नावलम्बन्त इत्यर्थः ॥ “मलीमसं तु मलिनं कच्चरं मलदूषितम्" इत्यमरः ॥

  इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् ।
  निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम् ॥४७॥

 इतीति ॥ इति रघुणा समीरितं प्रगल्भं वचो निशम्याकर्ण्य । दिवौकसः स्वर्गौकसः॥ “दिवं स्वर्गेऽन्तरिक्षे च" इति विश्वः ॥ तेषामधिपतिर्देवेन्द्रो रघुप्रभावात्सविस्मयः सन् । रथं निवर्तयामास । उत्तरं प्रतिवक्तुं प्रचक्रमे च ॥

  [३९]दात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः।
  जगत्प्रकाशं तदशेषमिज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः॥४८॥

 यदिति ॥ हे राजन्यकुमार क्षत्रियकुमार ॥ “मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्" इत्यमरः॥ यद्वाक्यमात्थ ब्रवीषि ॥ “ब्रुवः पञ्चानाम्-" इत्यादिनाहादेशः ॥ तत्तथा सत्यम् । किंतु यशोधनैरस्मादृशैः परतः शत्रुतो यशो रक्ष्यम् ॥ ततः किमत आह-भवद्गुरुस्त्वत्पिता जगत्प्रकाशं लोकप्रसिद्धमशेषं सर्वं मम तद्यश इज्यया यागेन लङ्घयितुं तिरस्कर्तुमुद्यत उद्युक्तः ॥

 किं तद्यश इत्याह-

  हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः ।
  तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः॥४९॥

 हरिरिति ॥ पुरुषेषूत्तम इति सप्तमीसमासः । “न निर्धारणे" इति षष्ठीसमासनिषेधात् । कर्मधारये तु "सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः" इत्युत्तमपुरुष इति स्यात् ॥ यथा हरिर्विष्णुरेक एव पुरुषोत्तमः स्मृतः । यथा च त्र्यम्बकः शिव एव महेश्वरः स्मृतः । नापरोऽपरः पुमान्न । तथा मां मुनयः शतक्रतुं विदुर्विदन्ति ॥ “विदो लटो वा" इति झेर्जुसादेशः ॥ नोऽस्माकम् । हरिहरयोर्मम

चेत्यर्थः । एष त्रितयोऽपि शब्दो द्वितीयगामी न हि ॥ द्वितीयाप्रकरणे नमिगम्यादीनामुपसंख्यानात्समासः॥

  अतोऽयमश्वः कपिला[४०]नुकारिणा पितुस्त्वदीयस्य मयापहारितः।
  अलं प्रयत्नेन तवात्र मा[४१] निधाः पदं प[४२]दव्यां सगरस्य संततेः॥५०॥

 अत इति ॥ यतोऽहमेव शतक्रतुरतस्त्वदीयस्य पितुरयं शततमोऽश्वः कपिलानुकारिणा कपिलमुनितुल्येन मयापहारितोऽपहृतः ॥ अपहारित इति स्वार्थे णिच् ॥ तवात्राश्वे प्रयत्नेनालम् । प्रयत्नो माकारीत्यर्थः ॥ निषेध्यस्य निषेधं प्रति करणत्वात्तृतीया ॥ सगरस्य राज्ञः संततेः संतानस्य पदव्यां पदं मा निधा न निधेहि ॥ निपूर्वाद्धाधातोर्लुङ् । न माङयोगे" इत्याडागमप्रतिषेधः । महदास्कन्दनं ते विनाशमूलं भवेदिवि भावः ॥

  ततः प्रहस्या[४३]पभयः पुरंदरं पु[४४]नर्बभाषे तुरगस्य रक्षिता ।
  गृहाण शस्त्रं यदि स[४५]र्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥५१॥

 तत इति ॥ ततस्तुरगस्य रक्षिता रघुः प्रहस्य प्रहासं कृत्वा । अपभयो निर्भीकः सन् । पुनः पुरंदरं बभाषे ॥ किमिति-हे देवेन्द्र। यद्येषोऽश्वामोचनरूपस्ते तव सर्गो निश्चयः ॥“ सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु” इत्यमरः ॥ तर्हि शस्त्रं गृहाण ॥ भवान्रघुं मामनिर्जित्य । कृतमनेनेति कृती। कृतकृत्यो न खलु ॥ "इष्टादिभ्यश्च" इतीनिप्रत्ययः ॥ रघुमित्यनेनात्मनो दुर्जयत्वं सूचितम् ॥

  स एवमुक्ता मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् ।
  अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥५२॥

 स इति ॥ स रघुरुन्मुखः सन् । मघवन्तमिन्द्रमेवमुक्त्वा शरासनं चापं सशरं करिष्यमाणः॥ आलीढेनालीढाख्येन स्थानकभेदेन विशेषशोभिनातिशयशोभिना वपुःप्रकर्षेण देहौन्नत्येन विडम्बितेश्वरोऽनुसृतपिनाकी सन् । अतिष्ठत् ॥ आलीढलक्षणमाह यादव:--- "स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम् । त्रिवितस्त्यन्तरौ पादौ मण्डलं तोरणाकृति । अन्वर्थं स्यात्समपदमालीढं तु ततोऽग्रतः। दक्षिणे वाममाकुञ्च्य प्रत्यालीढविपर्ययः" इति ॥

  रघोरवष्टम्भमयेन पत्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः ।
  नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त सा[४६]यकम् ॥५३

 रघोरिति ॥ रघोरवष्टम्भभयेन स्तम्भरूपेण ॥ "अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि" इति विश्वः ॥ पत्रिणा बाणेन हृदि हृदये क्षतो विद्धः। अत एवामर्षणोऽसहनः । क्रुद्ध इयर्थः । गोत्रभिदिन्द्रोऽपि ॥"संभावनाये चौरेऽपि गोत्र: क्षौणीधरे मतः" इति विश्वः॥ नवाम्बुदानामनीकस्य वृन्दस्य मुहूर्तं क्षणमात्रं लाञ्छने चिह्नभूते धनुषि । दिव्ये धनुषीत्यर्थः । अमोघमवन्ध्यं सायकं वाणं समधत्त संहितवान् ॥

  दिलीपसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः।
  पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ॥५४॥

 दिलीपेति ॥ भीमानां भयंकराणामसुराणां शोणिते रुधिर उचितः परिचितः स इन्द्रमुक्त आशुगः सायको दिलीपसूनो रघोर्बृद्विशालं भुजान्तरं वक्षः प्रविश्य अनास्वादितपूर्वं पूर्वमनास्वादितम् ॥ सुप्सुपेति समासः ॥ मनुष्यशोणितं कुतूहलेनेव पपौ॥

  हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ
  भुजे शचीपत्रविशेषकाङ्किते स्वनामचिह्न निचखान सायकम्।।५५॥

 हरेरिति ।। कुमारस्य स्कन्दस्य विक्रम इव विक्रमो यस्य स तथोक्तः ॥ “सप्तम्युपमानपूर्वस्य-" इत्यादिना समासः ॥ कुमारोऽपि रघुरपि सुरद्विपस्यैरावतस्यास्फालनेन कर्कशा अङ्गुलयो यस्य सः । तस्मिन् । शच्याः पत्रविशेषकैरङ्किते शचीपत्रविशेषकाङ्किते हरेरिन्द्रस्य भुजे खनामचिह्नं स्वनामाङ्कितं सायकं निचखान निखातवान् । निष्कण्टकराज्यमाप्तस्यायं महानभिभव इति भावः ॥

  जहार चान्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजम् ।
  चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव ।।५६॥

 जहारेति ॥ अन्येन मयूरपत्रिणा मयूरपत्रवता शरेण शक्रस्येन्द्रस्य महाशनि- ध्वजं महान्तमशनिरूपं ध्वजं जहार चिच्छेद च । स शक्रः। सुरश्रियः प्रसह्य बलात्कृत्य केशानां व्यपरोपणादवतारणाच्छेदनादिव । तस्मै रघवे भृशमत्यर्थं चुकोप । तं हन्तुमियेषेसर्थः ॥ “क्रुधद्रु-" इत्यादिना संप्रदानचतुर्थी ।

  तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविषभीमदर्शनैः ।
  बभूव युद्धं तुमुलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्रिभिः॥५७॥

 तयोरिति ॥ जयैषिणोरन्योन्यजयाकाङ्क्षिणोस्तयोरिन्द्ररघ्वोः॥ गरुत्मन्तः पक्षवन्तः॥ “गरुत्पक्षच्छदाः पत्रम्" इत्यमरः॥आशीविषाः।आशिषि दंष्ट्रायां विषं येषां त आशीविषाः सर्पाः॥पृषोदरादित्वात्साधुः"स्त्री त्वाशीर्हिताशंसादिष्टयोः"

१ नरेन्द्रसूनोः. २ शचीपत्रलताक्रियोचिते. ३ मयूरपक्ष्मणा. इत्यमरः ॥ त इव भीमदर्शनाः सपक्षाः सर्पा इव । द्रष्टॄणां भयावहा इत्यर्थः । तैरधोमुखैरूर्ध्वमुखैश्च । धन्विनोरुपर्यधोदेशावस्थितत्वादिति भावः । पत्रिभिर्बाणैरुपान्तस्थितास्तटस्थाः सिद्धा देवा इन्द्रस्य सैनिकाश्च रघोर्यस्मिंस्तत्तथोक्तं तुमुलं संकुलं युद्धं बभूव ॥

  अतिप्रबन्धप्रहितास्त्रदृष्टिभिस्तमाश्रयं दुष्प्रसहस्य तेजसः।
  शशाक निर्वापयितुं न वासवः स्वतश्युतं वह्निमिवाद्भिरम्बुदः॥५८॥

 अतीति ॥ वासवोऽतिप्रबन्धेनातिसातत्येन प्रहिताभिः प्रयुक्ताभिरस्त्रदृष्टिभिर्दुष्पसहस्य दुःखेन प्रसह्यत इति दुष्पसहं तस्य । दुःखेनाप्यसह्यस्येसर्थः । तेजसः प्रतापस्याश्रयं तं रघुम् । अम्बुदोद्भिः स्वतश्युतं निर्गतं वह्निमिव । निर्वापयितुं न शशाक ॥ रघोरपि लोकपालात्मकस्येन्द्रांशसंभवत्वादिति भावः ॥

  ततः प्रकोष्ठे हरिचन्दनाङ्कित प्रमथ्यमानार्णवधीरनादिनीम् ।
  रघुः शशाङ्कार्धमुखेन पत्रिणा शरासनज्यामलुनाद्बिडौजसः॥५९॥

 तत इति ॥ ततो रघुर्हरिचन्दनाङ्कित प्रकोष्ठे मणिबन्धे प्रमथ्यमानार्णवधीरनादिनीं प्रमथ्यमानार्णव इव धीरं गम्भीरं नदतीति तां तथोक्ताम् । वेवेष्टि व्यानोतीति विट् व्यापकमोजो यस्य स तस्य बिडौजस इन्द्रस्य ॥ पृषोदरादित्वात्साधुः ॥ शरासनज्यां धनुर्मौर्वीम् । शशाङ्कस्याः खण्ड इव मुखं फलं यस्य तेन पत्रिणालुनादच्छिनत् ॥

  स चापमुत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः।
  महीध्रपक्षव्य[४७]परोपणोचितं स्फुरत्प्रभामण्डलमस्त्रमाददे ॥६०॥

 स इति ॥ विवृद्धमत्सरः प्रद्धवैरः स इन्द्रश्चापमुत्सृज्य प्रबलस्य विद्विषः शत्रोः प्रणाशनाय वधाय । महीं धारयन्तीति महीध्राः पर्वताः ॥ मूलविभुजादित्वात्कप्रत्ययः ॥ तेषां पक्षव्यपरोपणे पक्षच्छेद उचितं स्फुरत्यभामण्डलमस्त्रं वज्रायुधमाददे जग्राह ॥

  रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः ।
  निमेषमात्रादवधूय त[४८]द्व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः॥६१॥

 रघुरिति ॥ रघुस्तेन वज्रेण भृशमत्यर्थं वक्षसि ताडितो हतः सन् । सैनिकानामश्रुभिः सह भूमौ पपात । तस्मिन्पतिते ते रुरुदुरित्यर्थः । निमेषमात्राद्व्यथां दुःखमवधूय तिरस्कृत्य सैनिकानां हर्षेण ये निस्वनाः क्ष्वेडास्तैः सहोत्थितश्च ।

तस्मन्नुथ्थिते हर्षात्सिंहनादांश्चक्ररित्यर्थः॥

  तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तस्थुषः ।
  तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणै[४९]र्निधीयते ॥६२॥

 तथापीति ॥ तथापि वज्रपातेऽपि शस्त्राणामायुधानां व्यवहारेण व्यापारेण निष्ठुरे क्रूरे विपक्षभावे शात्रवे चिरं तस्थुषः स्थितवतोऽस्य रघोर्वीर्यातिशयेन । वृत्रं हतवानिति वृत्रहा ॥ "ब्रह्मभ्रूणवृतेषु क्विप्"॥ तुतोष । स्वयं वीर एव वीरं जानातीति भावः ॥ कथं शत्रोः संतोषोऽत आह-गुणैः सर्वत्र शत्रुमित्रोदासीनेषु पदमङ्घ्रिर्निधीयते । गुणैः सर्वत्र संक्रम्यत इत्यर्थः ॥ गुणाः शत्रूनप्यावर्जयन्तीति भावः॥

  अं[५०]सङ्गमद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढमायुधम् ।
  [५१]वेहि मां प्रीतमृते तुरंगमात्कि[५२]मच्छसीति स्फुटमाह वासवः॥६३॥

 असङ्गमिति ।। सारवत्याद्रिष्वसङ्गमप्रतिबन्धं म आयुधं वज्रं त्वदन्येन न विसोढम् ॥ अतो मां प्रीतं संतुष्टमवेहि । तुरंगमादृते तुरंगं वर्जयित्वा ॥ “अन्या- रादितरर्ते-" इति पञ्चमी ॥ किमिच्छसीति स्फुटं वासव आह । तुरंगमादन्यददेयं नास्तीति भावः॥

  ततो निषङ्गा[५३]दसमग्रमुद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् ।
  [५४]रेन्द्रसूनुः प्रतिसंहरन्निषुं प्रि[५५]यंवदः प्रत्यवदत्सुरेश्वरम् ॥ ६४॥

 तत इति ॥ ततो निषङ्गात्तूणीरादसमग्रं यथा तथोदृतं सुवर्णपुङ्खद्युतिभी रञ्जिता अङ्गुलयो येन तमिषु प्रतिसंहरन्निवर्तयन् । नामहरन्तं प्रहरेदिति निषेधादिति भावः । प्रियं वदतीति, प्रियंवदः ॥ “प्रियवशे वदः खच्" इति खच्प्रत्ययः। "अरुषि-" इत्यादिना मुमागमः ॥ नरेन्द्रसूनू रघुः सुरेश्वरं प्रत्यवदत् । न तु प्राहरदिति भावः॥

  अमोच्यमश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि ।
  अजस्रदीक्षाप्रयतः स[५६] मद्गुरुः क्रतोरशेषेण फलेन युज्यताम्॥६५॥

 अमोच्यमिति ॥ हे प्रभो इन्द्र । अश्वममोच्यं मन्यसे यदि ततस्तर्ह्यजस्रदीक्षायां प्रयतः स मद्गुरुर्मम पिता विधिनैव कर्माणि समाप्ते सति क्रतोर्यत्फलं तेन फलेनाशेषेण

कृत्स्नेन युज्यतां युक्तोऽस्तु ।। अश्वमेधफललाभे किमश्वेनेति भावः॥

  यथा च वृत्तान्तमि[५७]मं सदोगतस्त्रिलोचनैकाशतया दुरासदः ।
  तवैव संदेशहराद्विशांपतिः शृणोति लोके[५८]श तथा विधीयताम् ॥

 यथेति ॥ सदोगतः सदोगृहं गतस्त्रिलोचनस्येश्वरस्यैकांशतयाष्टानामन्यतममूर्तित्वात् । दुरासदोऽस्मादृशैर्दुष्प्राप्यो विशांपतिर्यथेमं वृत्तान्तं तव संदेशहराद्वार्ताहरादेव शृणोति च । हे लोकेशेन्द्र । तथा विधीयताम् ॥

  तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिर्ययौ ।
  नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिणासूनुरपि न्यवर्तत ॥ ६७ ॥

 तथेति ॥ मातलिसारथिरिन्द्रो रघोः संबन्धिनं कामं मनोरथं तथेति तथास्त्विति प्रतिशुश्रुवान् ॥ "भाषायां सदवसश्रुवः" इति क्वसुप्रत्ययः ॥ यथागतं ययौ । सुदक्षिणासूनू रघुरपि नातिप्रमना विजयलाभेऽप्यश्वनाशान्नातीव तुष्टः सन् ॥ नञर्थस्य नशब्दस्य सुप्सुपेति समासः ॥ नृपस्य सदोगृहं प्रति न्यवर्तत ॥

  तमभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः ।
  परामृशन्ह[५९]र्षजडेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम् ॥ ६८ ॥

 तमिति ॥ हरेरिन्द्रस्य शासनहारिणा पुरुषेण प्रथमं प्रबोधितो ज्ञापितः । वृत्तान्तमिति शेषः । प्रजेश्वरो दिलीपो हर्षजडेन हर्षशिशिरेण पाणिना कुलिशव्रणाङ्कितम् । तस्य रघोरिदं तदीयम् । अङ्गं शरीरं परामृशंस्तं रघुमभ्यनन्दत् ॥

  [६०]ति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः ।
  समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरंपरामिव ॥ ६९ ॥

 इतीति ॥ महनीयशासनः पूजनीयाज्ञः क्षितीश इत्यनेन प्रकारेण ॥ "इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु" इत्यमरः ॥ महाक्रतूनामश्वमेधानां नवभिरधिकां नवतिमेकोनशतमायुषः क्षये सति दिवं स्वर्गं समारुरुक्षुरारोढुमिच्छुः सोपानानां परंपरां पङ्क्तिमिव ततान ॥

  अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
   नृपतिककुदं दत्त्वा यूने सितातपवारणम् ।
  मुनिवनतरुच्छायां देव्या तया सह शिश्रिये
   गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥ ७० ॥

 अथेति ॥ अथ विषयेभ्यो व्यावृत्तात्मा निवृत्तचित्तः स दिलीपो यथाविधि

यथाशास्त्रं यूने सूनवे नृपतिककुदं राजचिह्नम् ॥ “ककुद्वत्ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि" इति विश्वः ॥ सितातपवारणं श्वेतच्छत्रं दत्त्वा तया देव्या सुदक्षिणया सह मुनिवनतरोश्छायां शिश्रिये श्रितवान् । वानप्रस्थाश्रमं स्वीकृतवानियर्थः॥ तथाहि । गलितवयसां वृद्धानामिक्ष्वाकूणामिक्ष्वाकोर्गोत्रापत्यानाम् ॥ तद्राजसंज्ञकत्वादणो लुक् ॥ इदं वनगमनं कुलव्रतम् ॥ देव्या सहेत्यनेन सपत्नीकवानप्रस्थाश्रमपक्ष उक्तः । तथा च याज्ञवल्क्यः--"सुतविन्यस्तपत्नीकस्तया वानुगतो वनम् । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्” इति ॥ हरिणीवृत्तमेतत् । तदुक्तम्-- “रसयुगहयैन्सौ म्रौ स्लौ गो यदा हरिणी तदा" इति ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यथा
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
रघुराज्याभिषेको नाम तृतीयः सर्गः ।


  1. ततो विशांपत्युरनन्तसंततेर्मनोरथं किंचिदिवोदयोन्मुखम् । अनन्यसौहार्दरसस्य दोहदं प्रिया प्रपेदे प्रकृतिप्रियंपदा.
  2. सुखम्.
  3. दोहदलक्षणम्.
  4. मुखेन सा केतकपत्रपाण्डुना कृशाङ्गयष्टि: परिमेयभूषणा । स्थिताल्पताराकरणेन्दुमण्डला
    विभातवत्यां रजनीं व्यडम्बयत्.
  5. रह: समाघ्राय.
  6. महीम्
  7. मत्सुतः
  8. अस्याः
  9. बभूव दुष्प्रापम्
  10. मधूकपाण्डुरम्
  11. आश्याममुखम्
  12. समुद्गमो वारणदन्तकोशयोर्बभार कान्तिं गवलापिधान्ययोः
  13. अवलीढयोः
  14. अधिष्ठिते
  15. गर्भवेश्मनि
  16. उच्चसंस्थितैः
  17. सूनुम्
  18. अक्षतम्
  19. हुतम्
  20. तत्क्षणे
  21. स वीक्ष्य पुत्रस्य चिरात्पिता मुखं निधानकुम्भस्य युवेव दुर्गतः ।
  22. निर्वात
  23. नृत्तैः
  24. विमोचयेत्
  25. एकसुते न
  26. पर्यहीयत; न व्यहीयत
  27. शिशुस्ततान सः
  28. वृत्तचौलः; वृत्तचूडः
  29. अर्भके
  30. अतिवर्तिभिः.
  31. मन्त्रवित् .
  32. गम्भीर.
  33. तमोपहम्.
  34. दुरासहः.
  35. यतः
  36. सता ; सताम्
  37. शुचेः
  38. यथा
  39. अनुसारिणा
  40. मानुगाः
  41. पदव्याः
  42. आह पुनः
  43. व्यपेतभीभूमिपुरंदरात्मजः
  44. गर्वः
  45. मार्गणम्
  46. व्पपरोपणोद्धतम् ; व्यपरोपणोद्धृतम्.
  47. च व्यथाम्.
  48. विधीयते.
  49. अभङ्गम्.
  50. अवैहि.
  51. वरं वृणीष्वेति तमाह वृत्रहा; वरं वृणीष्वेति तमादिदेश
    सः.
  52. असमग्रनिःसृतम्.
  53. दिलीपसूनुः.
  54. प्रियंवदम्.
  55. च मे गुरुः.
  56. इदम्.
  57. देवेश; देवेन्द्र.
  58. हर्षचलेन.
  59. इत्थम्.