रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/द्वादशः सर्गः(रावणवधः)

← रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/एकादशः सर्गः(सीताविवाहवर्णनः) रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
द्वादशः सर्गः(रावणवधः)
कालिदासः
त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)  →
रघुवंशस्य सर्गाः
प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) द्वितीयः सर्गः(नन्दिनीवरप्रदानः)

तृतीयः सर्गः(रघुराज्याभिषेकः)

चतुर्थः सर्गः(रघुदिग्विजयः) पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
षष्ठः सर्गः(स्वयंवरवर्णनः) सप्तमः सर्गः(अजपाणिग्रहणः)

अष्टमः सर्गः(अजविलापः)

नवमः सर्गः(मृगयावर्णनः) दशमः सर्गः(रामावतारः)


एकादशः सर्गः(सीताविवाहवर्णनः) द्वादशः सर्गः(रावणवधः)

त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

चतुर्दशः सर्गः(सीतापरित्यागः) पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
षोडशः सर्गः(कुमुद्वतीपरिणयः) सप्तदशः सर्गः(अतिथिवर्णनः)

अष्टादशः सर्गः(वंशानुक्रमः)

एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

द्वादशः सर्गः ।


   वन्दामहे महोद्दण्डदोर्दण्डौ रघुनन्दनौ ।
   तेजोनिर्जितमार्तण्डमण्डलौ लोकनन्दनौ।

  निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान् ।
  आसीदासननिर्वाणः प्रदीपार्चिरिवोषसि ॥१॥

 निविष्टेति ॥ स्नेहयन्ति प्रीणयन्ति पुरुपमिति स्नेहाः॥ पचायच् ॥ स्निश्यन्ति पुरुषा येष्विति वा स्नेहाः ॥ अधिकरणार्थे घञ् ॥ विषयाः शब्दादयस्त एव स्नेहा निर्विष्टा भुक्ता विषयस्नेहा येन स तथोक्तः॥ “निर्वेशो भृतिभोगयोः" इति विश्वः ॥ दशा जीवनावस्था तस्या अन्तं वार्द्धकमुपेयिवान्स दशरथः । उपसि प्रदीपाचिरिव दीपज्वालेव । आसन्न निर्वाणं मोक्षो यस्य स तथोक्त आसीत् । चिःपक्षे तु विषयो देश आश्रयः। भाजनमिति यावत् ॥ “विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च" इति विश्वः ॥ स्नेहस्तैलादिः॥ “स्नेहस्तैलादिकरसे द्रवे स्यात्सौहृदेशपिच" इति विश्वः॥ दशा वर्तिका ॥ "दशा वर्ताववस्थायाम्" इति विश्वः॥निर्वाणं विनाशः।।“निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने” इति यादवः॥

  तं कर्णमूलमागत्य राम श्रीय॑स्यतामिति ।
  कैकेयीशङ्कयेवाह पलितच्छद्मना जरा ॥२॥

 तमिति ॥ जरा कैकेयीशङ्कयेव पलितस्य केशादिशौक्ल्यादि छद्मना मिषेण।। "पलितं जरसा शौक्ल्यं केशादौ” इत्यमरः ॥ कर्णमूलं कर्णोपकण्ठमागत्य रामे श्री राज्यलक्ष्मीय॑स्यता निधीयतामिति तमाह ॥ दशरथो वृद्धोऽहमिति विचार्य रामस्य यौवराज्याभिषेकं चकाङ्केत्यर्थः॥

  सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रु[]तिः ।
  प्रत्येकं हा[]दयांचके कुल्येवोद्यानपादपान् ॥ ३॥

 सेति ॥ सा पौरकान्तस्य रामस्याभ्युदयश्रुतिरभिषेकवार्ता । कुल्या कुमा सरित् ॥ "कुल्याल्पा कृत्रिमा सरित्" इत्यमरः ॥ उद्यानपादपानिव । पौरामस्येकं हादयांचक्रे ॥

  तस्याभिषेकसभारं कल्पितं क्रूरनिश्रया ।
  दूषयामास कैकेयी शोकोष्णैः पा[]र्थिवाश्रुभिः॥४॥

 तस्येति॥कूरनिश्चया कैकेयी तस्य रामस्य कल्पितं संभृतमभिषेकस्य संभारमुपकरणंशोकोष्णैः पार्थिवाश्रुभिषयामासास्वदुःखमूलन राजशोकेन प्रतिबन्धेत्यर्थः।।

  सा किलाश्वासिता चण्डी अर्त्रा त[]त्संश्रुतौ वरौ ।
  उद्ववामेन्द्रसिक्ता भूर्बिलममाविवोरगौ ॥ ५॥

 सेति ॥ चण्डयतिकोपना ॥"चण्डस्त्वत्यन्तकोपनः" इत्यमरः ॥ सा किल भावासितानुनीता सती तेन भर्त्रा संश्रुतौ प्रतिज्ञातौ वरौ । इन्द्रेण सिक्ताभिवष्टा भूबिले वल्मीकादौ मनावुरगाविव । उवामोजगार ॥

  तयोश्चतुर्दशैकेन रामं प्रावाजयत्समाः।
  द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियम् ॥ ६ ॥

 तयोरिति॥सा तयोर्वरयोर्मध्य एकेन वरेण रामं चतुर्दश समाः संवत्सरान् ॥ अत्यन्तसंयोगे द्वितीया ॥ प्रात्राजयत्सावासयत् । द्वितीयेन वरेण सुतस्य भरतस्य वैधव्यैकफलां स्ववैधव्यमात्रफलाम् । न तूपभोगफलामिति भावः। श्रियमैच्छदियेष॥

  पित्रा दत्तां रुदन्रामः प्राङ्महीं प्रत्यपद्यत ।
  पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत् ॥७॥

 पित्रेति ॥ रामः प्रापित्रा दत्तां महीं रुदन्प्रत्यपद्यताङ्गीचकार । स्वत्यागदु:खादिति भावः । पश्चाद्वनाय गच्छेत्येवंरूपां तदाज्ञां पित्राज्ञां मुदितोऽग्रहीत् । पित्राज्ञाकरणलाभादिति भावः॥

  दधतो महालक्षौमे वसानस्य च वल्कले।
  ददृशुर्विस्मितास्तस्य मु[]खरागं समं जनाः॥८॥

 दधत इति ॥ मङ्गलक्षौमे दधतो वल्कले वसानस्याछादयतश्च तस्य रामस्य सममेकविधं मुखरागं मुखवर्णं जना विस्मिता ददृशुः। सुखदुःखयोरविकृतं इति भावः।।

  स सीतालक्ष्मणसखः सत्याद्गुरुम[]लोपयन् ।
  विवेश दण्डकारण्यं प्रत्येकं च सतां मनः॥ ९॥

 स इति ॥ स रामो गुरुं पितरं सत्याद्वरदानरूपादलोपयनभ्रंशयन् । सीतालक्ष्मणयोः सखेति विग्रहः । ताभ्यां सहितः सन्दण्डकारण्यं विवेश । सतां मनश्च प्रत्येकं विवेश । पितृभक्त्या सर्वे सन्तः संतुष्टा इति भावः ॥

  राजापि तद्वियोगातः स्मृत्वा शापं स्वकर्मजम् ।
  शरीरत्यागमात्रेण शुद्धिलाभममन्यत ॥ १० ॥

राजेति॥ तद्वियोगार्तः पुत्रवियोगदुःखितो राजापि स्वकर्मणा मुनिपुत्रवधरुपेण जातः स्वकर्मजस्तं शापं पुत्रशोकजं मरणात्मकं स्मृत्वा शरीरत्यागमात्रेण देहत्यागेनैव शुद्धिलाभ प्रायश्चित्तममन्यत । मृत इत्यर्थः ॥

  विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् ।
  रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ ॥ ११ ॥

 विप्रोषितेति ॥ विप्रोषिता गताः कुमारा यस्मिंस्तत्तथोक्तम् । अस्तमितो मृत ईश्वरो राजा यस्य तत्तथोक्तं तद्राज्यं रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां भोग्यवस्तुतां ययौ ॥ “आमिषं भोग्यवस्तुनि" इति केशवः॥

  अथानाथाः प्रकृतयो मा[]तृबन्धुनिवासिनम् ।
  मौलेरानाययामासुर्भरतं स्तम्भिताश्रुभिः ॥ १२ ॥

 अथेति ।। अथानाथा: प्रकृतयोऽमात्याः॥ “प्रकृतिः सहजे योनावमात्ये परमात्मनि" इति विश्वः ॥ मातृबन्धुषु निवासिनं भरतं स्तम्भिताश्रुभिः। पितृमरणगुप्त्यर्थमिति भावः । मौलराप्तैः सचिवैरानाययामासुरागमयांचक्रुः॥

  श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः ।
  मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः॥ १३ ॥

 श्रुत्वेति ॥ कैकेयीतनयो भरतः पितुस्तथाविधं स्वमातृमूलं मृत्युं मरणं श्रुत्वा स्वस्या मातुः केवलं मातुरेव पराङ्मुखो न। किंतु श्रियोऽपि पराङ्मुख आसीत् ॥

  ससैन्यश्चान्वगाद्रामं द[]र्शितानाश्रमालयैः ।
  तस्य पश्यन्ससौमित्रेरुदश्रुर्वसतिद्रुमान् ॥ १४ ॥

 ससैन्य इति ॥ ससैन्यो भरतो राममन्वगाच । किं कुर्वन् । आश्रमालयैर्वनवासिभिर्दशितानेते रामनिवासा इति कथितान्ससौमित्रलक्ष्मणसहितस्य तस्य रामस्य वसतिद्भुमान्निवासवृक्षान्पश्यन्नुदश्रू रुदन् ।

  चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः ।
  लक्ष्म्या निमन्त्रयांचक्रे तम[]नुच्छिष्टसंपदा ॥ १५॥

 चित्रेति ॥ चित्रकूटवनस्थं तं रामं च गुरोः पितुः कथितस्वर्गतिः । कथितपितृमरणः सन्नित्यर्थः । अनुच्छिष्टाननुभूतशिष्टा संपगुणोत्कर्षो यस्याः सा ॥"सं-

पद्भूतौ गुणोत्कर्षे" इति केशवः॥ तया लक्ष्म्या करणेन निमन्त्रयांचक्र आहूतवान्।।

  स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे ।
  परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः ।। १६ ॥

 सहीति ॥ स हि भरतः प्रथमजेऽग्रजे तस्मिन् रामेऽकृतश्रीपरिग्रहे सति स्वयं भुवः स्वीकरणादात्मानं परिवेत्तारं मेने ॥ “परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात्" इत्यमरः ॥ भूपरिग्रहोऽपि दारपरिग्रहसम इति भावः ॥

  तमशक्यमपाक्रष्टुं निदे[१०]शात्स्वर्गिणः पितुः ।
  ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते ।। १७ ॥

 तमिति ॥ स्वर्गिणः पितुर्निदेशादपाक्रष्टुं निवर्तयितुमशक्यं तं रामं पश्चाद्राज्याधिदेवते स्वामिन्यौ कर्तुं पादुके ययाचे ॥

  स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीम् ।
  नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक् ॥ १८॥

 स इति ॥ स भरतो भ्रात्रा रामेण तथेत्युक्त्वा विसृष्टः सन्पुरीमयोध्यां नाविशदेव । किंतु नन्दिग्रामगतः संस्तस्य रामस्य राज्यं न्यासमिव निक्षेपमिवाभुनगपालयत् । न तूपभुक्तवानित्यर्थः । अन्यथा “भुजोऽनवने" इत्यात्मनेपदप्रसङ्गात् ॥ भुजेर्लङ् ॥

  दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।
  मातुः पापस्य भ[११]रतः प्रायश्चित्तमिवाकरोत् ॥१९॥

 दृढेति॥ ज्येष्टे दृढभक्ती राज्यतृष्णापराङ्मुखो भरत इति पूर्वोक्तानुष्ठानेन मातुः पापस्य प्रायश्चित्तं तदपनोदकं कर्माकरोदिव । इत्युत्प्रेक्षा ॥ दृढभक्तिरित्यत्र दृढशब्दस्य “स्त्रियाः पुंवत्'-' इत्यादिना पुंवद्भावो दुर्घटः । “अप्रियादिषु" इति निषेधात् । भक्तिशब्दस्य प्रियादिषु पाठात् । अतो दृढं भक्तिरस्येति नपुंसकपूर्वपदो बहुव्रीहिरिति गणव्याख्याने दृढभक्तिरित्येवमादिषु पूर्वपदस्य नपुंसकस्य विवक्षितत्वात्सिद्धमिति समाधेयम् ॥ वृत्तिकारश्च-दीर्घनिवृत्तिमात्रपरो दृढभक्तिशब्दो लिङ्गविशेषस्यानुपकारत्वात्स्त्रीत्वमविवक्षितमेव। तस्मादस्त्रीलिङ्गत्वादृढभक्तिशब्दस्यायं प्रयोग इत्यभिप्रायः॥ न्यासकारोऽप्येवम् ॥ भोजराजस्तु ‌-"कर्मसाधनस्यैव भक्तिशब्दस्य प्रियादिपाठाद्भवानीभक्तिरित्यादौ कर्मसाधनत्वात्पुंवद्भावप्रतिषेधः । दृढभक्तिरित्यादौ भावसाधनत्वात्पुंवद्भावसिद्धिः पूर्वपदस्य"इत्याह ।

  रामोऽपि सह वैदेह्या व[१२]ने वन्येन वर्तयन् ।
  चचार सानुजः शान्तो वृद्धेश्वाकुव्रतं युवा ॥ २०॥

 राम इति ॥ सानुजः शान्तो रामोऽपि वैदेह्या सह वने वन्येन वनभवेन

कन्दमूलादिना वर्तयन्वृत्तिं कुर्वञ्जीवन्वृद्धेक्ष्वाकूणां व्रतं वनवासात्मकं युवा यौवनस्थ एव चचार ॥

  प्रभावस्तम्भितच्छायमाश्रितः स वनस्पतिम् ।
  कदाचिदङ्के सीतायाः शिश्ये किंचिदिव श्रमात् ॥ २१ ॥

 प्रभावेति ॥ स रामः कदाचित्प्रभावेण स्वमहिम्ना स्तम्भिता स्थिरीकृता छाया यस्य तं वनस्पतिमाश्रितः सन् । किंचिदीषच्छ्रमादिव सीताया अङ्के शिश्ये सुष्वाप ॥

  ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः ।
  प्रियोपभोगचिह्नेषु पौरोभाग्यमिवा[१३]चरन् ॥ २२ ॥

 ऐन्द्रिरिति ॥ ऐन्द्रिरिन्द्रस्य पुत्रो द्विजः पक्षी काकस्तस्याः सीतायाः स्तनौ । प्रियस्य रामस्योपभोगचिह्नेषु । तत्कृतनखक्षतेष्वित्यर्थः । पुरोभागिनो दोषैकदर्शिनः कर्म पौरोभाग्यम् ॥ "दोषैकदृक्पुरोभागी" इत्यमरः ॥ दुःश्लिष्टदोषघातमाचरन्कुर्वन्निव । नखैर्विददार विलिलेख ॥ किलेत्यैतिह्ये ॥

  तस्मिन्नास्थदिषीकास्त्रं रामो रामावबोधितः ।
  [१४]त्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः ॥ २३ ॥

 तस्मिन्निति ॥ रामया सीतयावबोधितो रामस्तस्मिन्काक इषीकास्त्रं काशास्त्रम् ॥ "इषीका काशमुच्यते" इति हलायुधः ॥ आस्थदस्यति स्म ॥ "असुक्षेपणे" इति धातोर्लुङ् । "अस्यतिवक्तिख्यातिभ्योऽङ्" इत्यङ्प्रत्ययः । "अस्यतेस्थुक्" इति थुगागमः ॥ स काक एकनेत्रस्य व्ययेन दानेन तस्मादस्त्रादात्मानं मुमुचे मुक्तवान् ॥ मुचेः कर्तरि लिट् ॥ "धेनुं मुमोच" (२।१) इतिवत्प्रयोगः ॥

  रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः ।
  आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ ॥ २४ ॥

 राम इति ॥ रामस्त्वासन्नदेशत्वाद्धेतोः पुनर्भरतागमनमाशङ्क्योत्सुकसारङ्गामुत्कण्ठितहरिणां चित्रकूटस्थलींं जहौ तत्याज ॥ आसन्नश्चासौ देशश्चेति विग्रहः ॥

  प्रययावातिथेयेषु वसन्नृषिकुलेषु सः ।
  दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः ॥ २५ ॥


२२-२३ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--

 मृगमांसं ततः सीतां रक्षन्तीमातपे शठः ।
 पक्षतुण्डनखाघातैर्बबाधे वायसो बलात् ।

 प्रययाविति ॥ स रामः । अतिथिषु साधून्यातिथेयानि ॥

“पथ्यतिथिवसतिस्वपतेर्ढञ्" इति ढप्रत्ययः ॥ तेष्वृषिकुलेष्तृष्याश्रमेषु ॥ "कुलं कुल्ये गणे देहे गेहे जनपदेऽन्वये" इति हैमः ॥ वर्षासु भवानि वार्षिकाणि ॥ “वर्षाभ्यष्ठक्" इति ठक्प्रत्ययः । तेष्वृक्षेषु नक्षत्रेषु राशिषु वा भास्कर इव । वसन्दक्षिणां दिशं प्रययौ ॥

  बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता।
  प्रतिषिद्धापि कैके[१५]य्या लक्ष्मीरिवि गुणोन्मुखी ॥ २६ ॥

 बभाविति ॥ तं राममनुगच्छन्ती विदेहाधिपतेः सुता सीता कैकेय्या प्रतिषिद्धा निवारितापि गुणोन्मुखी गुणोत्सुका लक्ष्मी राजलक्ष्मीरिव बभौ ॥

  अनुसूया[१६]तिसृष्टेन पुण्यगन्धेन काननम् ।
  सा चकाराङ्गरागेण पुष्पोच्चलितषट्पदम् ॥२७॥

 अनुसूयेति ॥ सा सीतानुसूययात्रिभार्ययातिसृष्टेन दत्तेन पुण्यगन्धेनाङ्गरागेण काननं वनं पुष्पेभ्य उच्चलिता निर्गताः षट्पदा यस्मिंस्तत्तथाभूतं चकार ॥

  संध्याभ्रकपिशस्त[१७]स्य विराधो नाम राक्षसः ।
  अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ॥२८॥

 संध्येति ॥ संध्याभ्रकपिशो विराधो नाम राक्षसः । ग्रहो राहुरिन्दोरिव । तस्य रामस्य मार्गमध्वानमावृत्यावरुध्यातिष्ठत् ॥

  स जहार तयो[१८]र्मध्ये मैथिली लोकशोषणः ।
  नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ॥ २९ ॥

 स इति ॥ लोकस्य शोषणः शोषकः स राक्षसस्तयो रामलक्ष्मणयोर्मध्ये मैथिलीम् । नभोनभस्ययोः श्रावणभाद्रपदयोरन्तरे मध्ये वृष्टिमवग्रहो वर्षप्रतिबन्ध इव । जहार ॥ " वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ" इत्यमरः ॥

  त विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम् ।
  गन्धेनाशुचिना चेति वसुधायां निचख्नतुः॥३०॥

 तमिति ॥ ककुत्स्थस्य गोत्रापत्ये पुमांसौ काकुत्स्थौ रामलक्ष्मणौ तं विराधं विनिष्पिष्य हत्वा । अशुचिनापवित्रेण गन्धेन स्थलीमाश्रमभुवं पुरा दूषयति दूषयिष्यतीति हेतोः॥" यावत्पुरानिपातयोर्लट्" इति भविष्यदर्थे लट् ॥ वसुउदङ्कपाट्यांशः-

धायां निचख्न्तुर्भूमौ खनित्वा निक्षिप्तवन्तौ च ॥

  पञ्चवट्यां त[१९]तो रामः शासनात्कुम्भजन्मनः ।
  अनपोढस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव ॥ ३१ ॥

 पञ्चवट्यामिति ॥ ततो रामः कुम्भजन्मनोऽगस्त्यस्य शासनात् । पञ्चानां वटानां समाहारः पञ्चवटी ॥ "तद्धितार्थ-" इति तत्पुरुषः । “संख्यापूर्वो द्विगुः" इति द्विगुसंज्ञायाम् “द्विगोः” इति ङीप् । “द्विगुरेकवचनम्" इत्येकवचनम् ॥ तस्यां पञ्चवट्याम् । विन्ध्याद्रिः प्रकृतौ वृद्धः पूर्वावस्थायामिव । अनपोढस्थितिरनतिक्रान्तमर्यादस्तस्थौ ॥

  रावणावरजा तत्र राघवं मदनातुरा।
  [२०]भिपेदे निदाघार्ता व्यालीव मलयद्रुमम् ॥ ३२ ॥

 रावणावरजेति ॥ तत्र पञ्चवट्यां मदनातुरा रावणावरजा शूर्पणखा ॥ “पूर्वपदात्संज्ञायामगः" इति णत्वम् ॥ राघवम् । निदाघार्ता घर्मतप्ता व्याकुला व्याली भुजंगी मलयद्रुमं चन्दनद्रुममिव । अभिपेदे पाप ॥

  सा सीतासंनिधावेव तं वव्रे कथितान्वया।
  अत्यारूढो हि नारीणामकालज्ञो मनोभवः॥ ३३ ॥

 सेति ॥ सा शूर्पणखा सीतासंनिधावेव कथितान्वया कथितस्ववंशा सती तं रामं वव्रे वृतवती ॥ तथाहि । अत्यारूढोऽतिप्रवृद्धो नारीणां मनोभवः कामः कालज्ञोऽवसरज्ञो न भवतीत्यकालज्ञो हि ॥

  कलत्रवानहं बाले कनीयांसं भजस्व मे ।
  इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥ ३४ ॥

 कलत्रवानिति ॥ वृषः पुमान् ॥ " वृषः स्याद्वासवे धर्मे सौरभेये च शुक्रले। पुंराशिभेदयोः शृङ्ग्यां मूषकश्रेष्ठयोरपि" इति विश्वः॥ वृषं पुरुषमात्मार्थमिच्छतीति वृषस्यन्ती कामुकी।। "वृषस्यन्ती च कामुकी" इत्यमरः ॥ "सुप आत्मनः क्यच्" इति क्यच्यत्ययः । “अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि" इत्यसुगागमः । ततो लदः शत्रादेशः । “उगितश्च" इति ङीप् ॥ श्लोकार्थस्तु वृषस्कन्धो रामो वृषस्यन्तीं तां राक्षसीम् 'हे बाले, अहं कलत्रवान्, मे कनीयांसं कनिष्ठं भजस्व' इति शशासाज्ञापितवान् ।

  ज्येष्ठाभिगमनात्पूर्वं ते[२१]नाप्यनभिनन्दिता।
  साभूद्रामाश्रया भूयो नदीवोभयकूलभाक् ॥ ३५॥

 ज्येष्ठेति ॥ पूर्व ज्येष्ठाभिगमनात्तेन लक्ष्मणेनाप्यनभिनन्दिता नाङ्गीकृता भूयो

रामाश्रया सा राक्षसी । उभे कूले भजतीत्युभयकूलभाक् । नदीवाभूत् । सा हि यातायाताभ्यां पर्यायेण कूलद्वयगामिनी नदीसदृश्यभूदित्यर्थः ॥

  संरम्भं मैथिलीहासः क्ष[२२]णसौम्यां निनाय ताम् ।
  निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः॥ ३६ ॥

 संरम्भमिति ॥ मैथिलीहासः क्षणं सौम्यां सौम्याकारां तां राक्षसीम् । निवातेन स्तिमितां निश्चलामुदधेर्वेलामम्बुविकृतिम् । अम्बुपूरमित्यर्थः ॥" अब्ध्यम्बुविकृतौ वेला" इत्यमरः ॥ चन्द्रोदय इव । संरम्भं संक्षोभं निनाय ॥

  फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् ।
  मृ[२३]ग्याः परिभवो व्याघ्र्यामित्य[२४]वेहि त्वया कृ[२५]तम् ॥ ३७॥

 फलमिति ॥ श्लोकद्वयेनान्वयः ॥ अस्योपहासस्य फलं सद्यः संप्रत्येव प्राप्स्यसि । मां पश्य । त्वया । कर्त्र्या । कृतमुपहासरूपम् । करणम् । व्याघ्र्यां विषये मृग्याः। कर्त्र्याः । परिभव इत्यवेहि ॥

  इत्युक्त्वा मैथिलीं भर्तुर[२६]ङ्के नि[२७]विशतीं भयात् ।
  रूपं शूर्पणखा ना[२८]म्नः सदृशं प्रत्यपद्यत ॥ ३८॥

 इतीति । भयाद्भर्तुरङके निविशतीमालिङ्गन्तीं मैथिलीमित्युक्त्वा शूर्पणखा ना- म्नः सदृशम् । शूर्पाकारनखयुक्तमित्यर्थः । रूपमाकारं प्रत्यपद्यत स्वीचकार । अदर्शयदित्यर्थः॥

  लक्ष्मणः प्रथमं श्रुत्वा कोकिलाम[२९]ञ्जुवादिनीम् ।
  शिवाघोरस्व[३०]नां पश्चाद्बुबुधे विकृतेति ताम् ॥ ३९ ॥

 लक्ष्मण इति ॥ लक्ष्मणः प्रथमं कोकिलावन्मनञुवादिनीं पश्चाच्छिवावद्धोर- स्वनां तां शूर्पणखां श्रुत्वा । तस्याः स्वनं श्रुत्वेत्यर्थः ॥ सुस्वनः शङ्खः श्रूयत इ. तिवत्प्रयोगः ॥ विकृता मायाविनीति बुबुधे बुद्धवान् ॥ कर्तरि लिट् ॥

  पर्णशालामथ क्षिप्रं विकृ[३१]ष्टासिः प्रविश्य सः।
  वैरू[३२]प्यपौनरुक्त्येन भीषणां तामयोजयत् ॥४०॥

 पर्णशालामिति ॥ अथ स लक्ष्मणो विकृष्टासिः कोशोदृतखङ्गः सन्क्षिप्रं पर्णशालां प्रविश्य । भीषयतीति भीषणाम् ॥ नन्द्यादित्वाल्ल्युट् कर्तरि ॥ तां राक्षसीं वैरूप्यस्य पौनरुक्त्यं द्वैगुण्यं लक्षणया । तेनायोजयद्योजितवान् । स्वभावत एव विकृतां तां कर्णादिच्छेदेन पुनरतिविकृतामकरोदित्यर्थः॥

  सा वक्रनखधारिण्या वेणुकर्कशपर्वया ।
  अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे ॥४१॥

 सेति ॥ सा वक्रनखं धारयतीति वक्रनखधारिणी । तया वेणुवत्कर्कशपर्वया। अतएवाङ्कुशस्याकार इवाकारो यस्याः सा तया । अङ्गुल्या तौ राघवावम्बरे व्योम्नि स्थिता ॥ “ अम्बरं व्योम्नि वाससि" इत्यमरः ॥ अतर्जयदभर्त्सयत् ॥ " तर्ज भर्त्सने" इति धातोश्चौरादिकादनुदात्तेत्त्वादात्मनेपदेन भाव्यम् । तथापि चक्षिङोङित्करणाज्ज्ञापकानुदात्तेत्त्वनिमित्तस्यानियत्वात्परस्मैपदमूह्यमित्युक्तमाख्यातचन्द्रिकायाम् ॥ तर्जयते भर्त्स्ययते । तर्जयतीत्यपि च दृश्यते कविष्विति ॥

  प्राप्य चाशु जनस्थानं खरादिभ्यस्त[३३]थाविधम् ।
  रामोपक्रममाचख्यौ रक्षःपरिभवं नवम् ॥४२॥

 प्राप्येति ॥ साशु जनस्थानं प्राप्य खरादिभ्यो राक्षसेभ्यस्तथाविधं स्वाङ्ग- च्छेदात्मकम् । उपक्रम्यत इत्युपक्रमः ॥ कर्मणि घञ्प्रययः॥ रामस्य कर्तुरुप- क्रमः । रामोपक्रमम् । रामेणादावुपक्रान्तमित्यर्थः ॥ उपज्ञोपक्रमं तदाद्याचि- ख्यासायाम्” इति क्लीबत्वम् ॥ तन्नवं रक्षसां कर्मभूतानां परिभवमाचख्यौ च ॥

  मुखावयवलूनां तां नैर्ऋता यत्पुरो दधुः।
  रामाभियायिनां तेषां तदेवा[३४]भूदमङ्गलम् ॥४३॥

 मुखेति ॥ नैर्ऋता राक्षसाः॥“नैर्ऋतो यातुरक्षसी" इत्यमरः ॥ मुखावयवेषु कर्णादिषु लूनां छिन्नां तां पुरो दधुरग्रे चक्रुरिति यत्तदेव रामाभियायिनां राम- मभिद्रवतां तेषाममङ्गलमभूत् ॥

  उदायुधानापततस्तान्दृप्तान्प्रेक्ष्य राघवः ।
  निदधे विजयाशंसां चापे सीतां च लक्ष्मणे ॥४४॥

 उदिति ॥ उदायुधानुद्यतायुधानापतत आगच्छतो दृप्तांस्तान्खरादीन्प्रेक्ष्य राघवश्चापे विजयस्याशंसामाशां लक्ष्मणे सीतां च निदधे । सीतारक्षणे लक्ष्मणं नियुज्य स्वयं युद्धाय संनद्ध इति भावः ॥

  एको दाशरथिः का[३५]मं यातुधानाः सहस्रशः ।
  ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः ॥ ४५॥

 एक इति ॥दाशरथी राम एकोऽद्वितीयः । यातुधानाः कामं सहस्रशः ।

सन्तीति शेषः । तैर्यातुधानैस्तु स राम आजौ ते यातुधाना यावन्तो यावत्संख्या- का एव तावांस्तावत्संख्याकश्च ददृशे ॥

  असज्जनेन काकुत्स्थः प्रयुक्तम[३६]थ दुषणम् ।
  न चक्षमे शुभाचारः स दूषणमिवा[३७]त्मनः॥ ४६ ।।

 असदिति ॥ अथ शुभाचारो रणे साधुचारी सहृत्तश्च स काकुत्स्थोऽसज्जनेन दुर्जनेन रक्षोजनेन च प्रयुक्तं प्रेषितमुच्चारितं च दूषणं दूषणाख्यं राक्षसमात्मनो दूषणं दोषमिव न चक्षमे न सेहे । प्रतिकर्तुं प्रवृत्त इत्यर्थः ॥

  तं शरैः प्रतिजग्राह खरत्रिशिरसौ च सः।
  क्रमशस्ते पुनस्तस्य चापात्सममिवोद्ययुः ॥४७॥

 तमिति ॥ स रामस्तं दूषणं खरत्रिशिरसौ च शरैः प्रतिजग्राह । प्रतिजहा- रेत्यर्थः । क्रमशो यथाक्रमम् । प्रयुक्ता अपीति शेषः । तस्य ते शराः पुनश्चापात्समं युगपदिवोद्ययुः । अतिलघुहस्त इति भावः ॥

  तैस्त्रयाणां शितैर्बा[३८]णैर्यथा[३९]पूर्वविशुद्धिभिः।
  आयुर्वेहातिगैः पीतं रुधिरं तु पतत्रिभिः॥ ४८॥

 तैरिति ॥ देहमतीत्य भित्त्वा गच्छन्तीति देहातिगाः । तैर्यथास्थिता पूर्वविशुद्ध्यर्थं अतिवेगेन दे क्ष्णैर्बाणैस्त्रयाणां खरादीनामायुः पीतं रुधिरं तु पतत्रिभिः पीतम् ॥

  तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम् ।
  [४०]त्थितं ददृशेऽन्य[४१]च्च कबन्धेभ्यो न किंचन ॥४९॥

 तस्मिन्निति ॥ तस्मिन्रामशरैरुत्कृत्ते छिन्ने महति रक्षसां बल उत्थितमुत्थान- क्रियाविशिष्टं प्राणिनां कबन्धेभ्यः शिरोहीनशरीरेभ्यः ॥ "कबन्धोऽस्त्री क्रि-युक्तमपमूर्धकलेवरम्" इत्यमरः ॥ अन्यच्चान्यत्किंचन न ददृशे ॥ कबन्धेभ्य इत्यत्र “ अन्यारात्-" इति पञ्चमी ॥ निःशेषं हतमित्यर्थः।

  सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् ।
  अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी॥५०॥

 सेति ॥सा सुरद्विषां वरूथिनी सेना बाणवर्षिणं रामं योधयित्वा युद्धं कारयित्वा गृध्राणां छाया गृध्रच्छायम् ॥ "छाया बाहुल्ये” इति क्लीबत्वम् ॥ तस्मिन्नप्रबोधायापुनर्बोधाय सुष्वाप । ममारेत्यर्थः । अत्र सुरतश्रान्तकान्तासमाधिर्ध्वन्यते ॥

  राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम् ।
  तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराभवत् ॥ ५१ ॥

 राघवेति ॥ एका शूर्पवन्नखानि यस्याः सा शूर्पणखा ॥ “पूर्वपदात्संज्ञायाम्" इति णत्वम् । “नखमुखात्संज्ञायाम्" इति ङीप्प्रतिषेधः ॥ सैव रावणं प्रति राघवास्त्रैर्विदीर्णानां हतानां तेषां रक्षसां खरादीनां दुष्पवृत्तिं वार्तां हरति प्रापयतीति दुष्पवृत्तिहराभवत् ॥ “हरतेरनुद्यमनेऽच्" इत्यच्प्रत्ययः॥

  निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः।
  रामेण निहितं मेने पदं दशसु मूर्धसु ॥५२॥

 निग्रहादिति ॥ स्वसुः शूर्पणखाया निग्रहादङ्गच्छेदादाप्तानां बन्धूनां खरादीनां वधाच्च कारणाद्धनदानुजो रावणो रामेण दशसु मूर्धसु पदं पादं निहितं मेने॥

  रक्षसा मृगरूपेण वञ्चयित्या स राघवौ ।
  जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः॥५३॥

 रक्षसेति॥स रावणो मृगरूपेण रक्षसा मारीचेन राघवौ वञ्चयित्वा प्रतार्य पक्षीन्द्रस्य जटायुषः प्रयासेन युद्धरूपेण क्षणं विघ्नितः संजातविघ्नः सन्सीतां जहार ॥

  तौ सीतान्वेषिणौ गृधं लूनपक्षमपश्यताम् ।
  प्राणैर्दशरथप्रीतेरे[४२]नृणं कण्ठवर्तिभिः ॥ ५४ ॥

 ताविति ॥ सीतान्वेषिणौ तौ राघवौ लूनपक्षं रावणेन छिन्नपक्षं कण्ठवर्तिभिः प्राणैर्दशरथप्रीतेर्दशरथसख्यस्यानृणमृणैर्विमुक्तं गृध्रं जटायुषमपश्यतां दृष्टवन्तौ ॥ दृशेर्लङि रूपम् ॥

  स रावणहृतां ताभ्यां वचसा[४३]चष्ट मैथिलीम् ।
  आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः॥ ५५॥

 स इति ॥ स जटायू रावणहृतां मैथिलीं ताभ्यां रामलक्ष्मणाभ्याम् ॥ "क्रियाग्रहणमपि कर्तव्यम्" इति संप्रदानत्वाचतुर्थी ॥ वचसा वाग्वृत्त्याचष्ट । आत्मनः

सुमहत्कर्म युद्धरूपं व्रणैरावेद्य संस्थितो मृतः॥

  तयोस्तस्मिन्नवीभूतपितृव्यापत्तिशोक[४४]योः ।
  पितरीवा[४५]ग्निसंस्कारात्परा ववृतिरे क्रियाः ॥५६॥

 तयोरिति ॥ व्यापत्तिर्मरणम् । नवीभूतः पितृव्यापत्तिशोको ययोस्तौ तयो राघवयोस्तस्मिन्गृध्रे पितरीवाग्निसंस्कारादग्निसंस्कारमारभ्य परा उत्तराः क्रिया ववृतिरेऽवर्तन्त । तस्य पितृवदौर्ध्वदेहिकं चक्रतुरियर्थः ॥

  वधनिर्धूतशापस्य कबन्धस्योपदेशतः ।
  मुमूर्छ सख्यं रामस्य समानव्यसने हरौ ॥ ५७ ॥

 वधेति॥ वधेन रामकृतेन निर्धूतशापस्य देवभुवं गतस्य कबन्धस्य रक्षोविशेषस्योपदेशतो रामस्य समानव्यसने समानापदि । सख्यार्थिनीत्यर्थः । हरौ कपौ सुग्रीवे ॥ “शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु" इत्यमरः ॥ सख्यं मुमूर्छ ववृधे॥

  स हत्वा वालिनं वी[४६]रस्तत्पदे चिरकाङ्क्षिते।
  धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् ॥ ५८ ॥

 स इति ॥ वीरः स रामो वालिनं सुग्रीवाग्रजं हत्वा चिरकाङ्क्षिते तत्पदे वालिस्थाने । धातोः स्थान आदेशमिव । आदेशभूतं धावन्तरमिवेत्यर्थः । सुग्रीवं संन्यवेशयत्स्थापितवान् ॥ यथा “अस्तेर्भूः" इसस्तिधातोः स्थान आदेशो भूधातुरस्तिकार्यमशेषं समभिधत्ते तद्वदिति भावः। आदेशो नाम शब्दान्तरस्य स्थाने विधीयमानं शब्दान्तरमभिधीयते ॥

  इतस्ततश्च्[४७] वैदेहीमन्वेष्टुं भ[४८]र्तृचोदिताः।
  कपयश्चेरुरा[४९]र्तस्य रामस्येव मनोरथाः॥ ५९ ॥

 इतस्ततश्चेति ॥ वैदेहीमन्वेष्टुं मार्गितुं भर्त्रा सुग्रीवेण चोदिताः प्रयुक्ताः कपयो हनुमत्प्रमुखाः । आर्तस्य विरहातुरस्य रामस्य मनोरथाः कामा इव । इतस्ततश्चेरुर्नानादेशेषु बभ्रमुश्च ॥

  प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनात् ।
  मारुतिः सागरं तीर्णः संसारमिव निर्ममः॥६०॥

 प्रवृत्ताविति ॥ संपातिर्नाम जटायुषो ज्यायान्भ्राता। तस्य दर्शनात्। तन्मुखादिति भावः। तस्याः सीतायाः प्रवृत्तौ वार्तायाम्॥"वार्ता प्रवृत्तिर्वृत्तान्तः" इत्यमरः॥ उपलब्धायां ज्ञातायां सत्याम् । मारुतस्यापत्यं पुमान्मारुतिः। हनुमान्सागरम् । ममेत्येतदव्ययं ममतावाचि । तद्रहितो निर्ममो निःस्पृहः संसारमविद्याबन्धनमिव । तीर्णस्ततार ॥ तरतेः कर्तरि क्तः॥

  दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता।
  जानकी विषवल्लीभिः परीतेव महौषधिः॥ ६१ ॥

 दृष्टेति ॥ लङ्कायां रावणराजधान्यां विचिन्वता मृगयमाणेन तेन मारुतिना राक्षसीभिर्वृता जानकी । विषवल्लीभिः परीता परिवृता महौषधिः संजीविनीलतेव । दृष्टा॥

  तस्यै भर्तुरभिज्ञानमङ्गलीयं ददौ क[५०]पिः ।
  प्रत्युद्गतमिवानुष्णैस्तदानन्दाश्रुबि[५१]न्दुभिः॥ ६२॥

 तस्या इति ॥ कपिर्हनुमान्भर्तू रामस्य संबन्ध्यभिज्ञानं प्रत्यभिज्ञानसाधकमङ्गुलीयमूर्मिकाम् ॥ “अङ्गुलीयकमूर्मिका" इत्यमरः ॥ “जिह्वामूलाङ्गुलेश्छः" इति छप्रत्ययः॥ तस्यै जानक्यै ददौ ॥ किंविधमङ्गुलीयम् । अनुष्णैः शीतलैस्तस्या आनन्दाश्रुबिन्दुभिः प्रत्युद्गतमिव स्थितम् । भर्त्रभिज्ञानदर्शनादानन्दबाष्पो जात इत्यर्थः।।

  निर्वाप्य प्रियसंदेशैः सीताम[५२]क्षवधोद्धतः।
  स ददाह पुरीं लङ्कां क्ष[५३]णसोढारिनिग्रहः॥६३॥

 निर्वाप्येति ॥ स कपिः । प्रियस्य रामस्य संदेशैर्वाचिकैः सीतां निर्वाप्य सुखयित्वा । अक्षस्य रावणकुमारस्य वधेनोद्धतो दृप्तः सन् । क्षणं सोढोऽरेरिन्द्रजितः । कर्तुः । निग्रहो बाधो ब्रह्मास्त्रबन्धनरूपो येन स तथोक्तः सन् । लङ्कां पुरीं ददाह भस्मीचकार ॥

  प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती।
  हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत् ।। ६४ ॥

 प्रत्यभीति ॥ कृती कृतकृत्यः कपिः स्वयमायातं मूर्तिमद्वैदेह्या हृदयमिव स्थितं तस्या एव प्रत्यभिज्ञानरत्नं च रामायादर्शयत् ॥

  स प्राप हृदयन्यस्तमणिस्पर्शनिमीलितः।
  अपयोधरसं[५४]सर्गा प्रियालिङ्गननिर्वृतिम् ॥६५॥

 स इति ॥ हृदये वक्षसि न्यस्तस्य धृतस्य मणेरभिज्ञानरत्नस्य । स्पर्शेन निमीलितो मोहितः स रामोऽविद्यमानः पयोधरसंसर्गः स्तनस्पर्शो यस्यास्तां

तथाभूतां प्रियाया आलिङ्गनेन या निर्वृतिरानन्दस्तां प्राप ॥

  श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः ।
  महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥ ६६ ॥

 श्रुत्वेति ॥ प्रियाया उदन्तं वार्ताम् ॥ “उदन्तः साधुवार्तयोः" इति विश्वः।। श्रुत्वा तस्याः सीतायाः संगम उत्सुको रामो लङ्कायाः संबन्धी यो महार्णव एव परिक्षेपः परिवेष्टस्तं परिखालघु दुर्गवेष्टनवत्सुतरं मेने ॥

  स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः ।
  न केवलं भु[५५]वः पृष्ठे व्यो[५६]म्नि संबाधव[५७]र्तिभिः ॥६७॥

 स इति ॥ केवलमेकं भुवः पृष्ठे भूतले न किंतु व्योम्नि च संबाधवर्तिभिः संकटगामिभिर्हरिसैन्यैः कपिबलैरनुद्वतोऽन्वितः सन्स रामोऽरिनाशाय प्रतस्थे चचाल।।

  निवि[५८]ष्टमुदधेः कूले तं प्रपेदे विभीषणः ।
  स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमा[५९]विश्य चोदि[६०]तः ॥६८॥

 निविष्टमिति ॥ उदधेः कूले निविष्टं तं रामम् । विशेषेण भीषयते शत्रूनिति विभीषणो रावणानुजः। राक्षसलक्ष्म्या स्नेहाद्बुद्धिं कर्तव्यताज्ञानमाविश्य चोदितः प्रणोदित इव । प्रपेदे प्राप्तः ॥

  तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः ।
  काले खलु समारब्धाः फलं बघ्नन्ति नीतयः॥ ६९ ॥

 तस्या इति॥राघवस्तस्मै विभीषणाय ॥ “प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता" इति संप्रदानत्वाच्चतुर्थी ॥ निशाचरैश्वर्यं राक्षसाधिपत्यं प्रतिशुश्राव प्रतिज्ञातवान् । तथाहि । कालेऽवसरे समारब्धाः प्रक्रान्ता नीतयः फलं बघ्नन्ति गृह्णन्ति । जनय- न्तीत्यर्थः । खलु॥

  स सेतुं बन्धयामास प्ल[६१]वगैर्लवणाम्भसि ।
  रसातलादिवोन्म[६२]ग्नं शे[६३]षं स्व[६४]प्नाय शार्ङ्गिणः॥७॥

 स इति ॥ स रामो लवणं क्षारमम्भो यस्यासौ लवणाम्भास्तस्मिँल्लवणाब्धौ प्लवगैः प्रयोज्यैः । शार्ङ्गिणो विष्णोः स्वप्नाय शयनाय रसातलात्पातालादुन्मग्नमुत्थितं शेषमिव स्थितम् । सेतुं बन्धयामास ॥

  तेनोत्तीर्य पथा लङ्कां रोधयामास पिङ्गलैः ।
  द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः॥ ७१ ॥

 तेनेति ॥ रामस्तेन पथा सेतुमार्गेणोत्तीर्य । सागरमिति शेषः । पिङ्गलैः सुवर्णवर्णैरतएव

द्वितीयं हेमप्राकारं कुर्वद्भिरिव स्थितैर्वानरैर्लङ्कां रोधयामास ॥

  रणः प्रववृते तत्र भीमः[६५] प्लवगरक्षसाम् ।
  दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोष[६६]णः ॥ ७२ ॥

 रण इति ॥ तत्र लङ्कायां प्लवगानां रक्षसां च भीमो भयंकरो दिग्विजृम्भितं काकुत्स्थपौलस्त्ययो रामरावणयोर्जयघोषणं जयशब्दो यस्मिन्स तथोक्तो रणःघोरः. प्रववृते प्रवृत्तः । “अस्त्रियां समरानीकरणाः कलहविग्रहौ" इत्यमरः ॥

  पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः।
  अतिशस्त्रनखन्यासः शैलरु[६७]ग्णमतंगजः॥७३॥

 पादपेति ॥ किंविधो रणः । पादपैर्वृक्षैराविद्धा भग्नाः परिघा लोहबद्धकाष्ठानि यस्मिन्स तथोक्तः॥ “परिघः परिघातनः" इत्यमरः॥ शिलाभिर्निष्पिष्टाश्चूर्णिता मुद्गरा अयोधना यस्मिन्स तथोक्तः॥"द्रुघणो मुद्रघनौ” इत्यमरः॥अतिशस्त्राः शस्त्राण्यतिक्रान्ता नखन्यासा यस्मिन्स तथोक्तः। शैलैरुग्णा भग्ना मतंगजा यस्मिन्स तथोक्तः।।

  अथ रामशिरश्छेददर्शनोद्भ्रान्तचेत[६८]नाम् ।
  सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥ ७४ ॥

 अथेति ॥ अथानन्तरम् । छिद्यत इति छेदः खण्डः। शिर एव छेद इति विग्रहः। रामशिरश्छेदस्य विद्युज्जिह्वाख्यराक्षसमायानिर्मितस्य दर्शनेनोग्भ्रान्तचेतनां गतसंज्ञां सीतां त्रिजटा नाम काचित्सीतापक्षपातिनी राक्षसी मायाकल्पितं नत्वेतत्सत्यमिति शंसन्ती ब्रुवाणा ॥ "शप्श्यनोर्नित्यम्" इति नित्यं नुमागमः॥ समजीवयत् ॥

  कामं जीवति मे नाथ इति सा विजहौ शुचम् ।
  प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता ।।७५॥

 काममिति ॥सा सीता मे नाथो जीवतीति हेतोः शुचं शोकं कामं विजहौ । किंतु प्राक्पूर्वमस्य नाथस्यान्तं नाशं सत्यं यथार्थं मत्वा जीविता जीवितवत्यस्मीति हेतोर्लज्जिता लज्जावती ॥ कर्तरि क्तः॥ दुःखादपि दुःसहो लज्जाभर इति भावः ॥

  गरुडापातविश्लि[६९]ष्टमेघनादास्त्रब[७०]न्धनः।
  दाशरथ्योः क्ष[७१]णक्लेशः स्व[७२]प्नवृत्त इवाभवत् ॥ ७६ ॥

 गरुडेति ॥ गरुडस्तार्क्ष्यः। तस्यापातेनागमनेन विश्लिष्टं मेघनादस्येन्द्रजितोऽस्त्रेण

नागपाशेन बन्धनं यस्मिन्स तथोक्तः क्षणक्लेशो दाशरथ्यो रामलक्ष्मणयोः स्वप्नवृत्तः स्वप्नावस्थायां भूत इवाभवत् ॥

  ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् ।
  रामस्त्वनाहतोऽप्यासीद्विदीर्णहृदयः शुचा ॥ ७७ ॥

 तत इति ॥ ततः पौलस्त्यो रावणः शक्त्या कासूनामकेनायुधेन ॥ "कासूसामर्थ्ययोः शक्तिः" इत्यमरः॥ लक्ष्मणं वक्षसि बिभेद विदारयामास ॥ रामस्त्वनाहतोऽप्यहतोऽपि शुचा शोकेन विदीर्णहृदय आसीत् ॥

  स मारुतिसमानीतमहौषधिह[७३]तव्यथः ।
  लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः ॥ ७८ ॥

 स इति ॥ स लक्ष्मणो मारुतिना मरुत्सुतेन हनुमता समानीतया महौषध्या संजीविन्या हतव्यथः सन्पुनः शरैर्लङ्कास्त्रीणां विलापे परिदेवने ॥ “विलापः परिदेवनम्" इत्यमरः ॥ आचार्यकमाचार्यकर्म ॥ “योपधाद्गुरूपोत्तमाहद्वुञ्" इति वुञ् ॥ चक्रे ॥ पुनरपि राक्षसाञ्जघानेति व्यज्यते ॥

  [७४] नादं मेघनादस्य धनुश्चन्द्रायुधप्रभम् ।
  मेघस्येव शरत्कालो न किंचित्पर्यशेषयत् ॥ ७९ ॥

 स इति ॥ स लक्ष्मणः । शरत्कालो मेघस्येव । मेघनादस्येन्द्रजितो नादं सिंहनादम् । अन्यत्र गर्जितं च । इन्द्रायुधप्रभं शक्रधनुःप्रभं धनुश्च किंचिदल्पमपि न पर्यशेषयन्नावशेषितवान् । तमवधीदित्यर्थः॥

  कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः।
  रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥ ८० ॥

 कुम्भकर्ण इति ॥ कपीन्द्रेण सुग्रीवेण स्वसुः शूर्पणखायास्तुल्यावस्थो नासाकर्णच्छेदेन सदृशः कृतः कुम्भकर्णष्टङ्केन शिलाभेदकशस्त्रेण छिन्ना मनःशिला रक्तवर्णधातुविशेषो यस्य स तथोक्तः॥ "टङ्कः पाषाणभेदनः" इति । "धातुमनःशिलाद्यद्रेः" इति चामरः ॥ शृङ्गी शिखरीव । रामं रुरोध ॥



७९-८० श्लोकयोर्मध्ये इमौ श्लोकौ दृश्येते--

  क्लेशेन महती निद्रा त्याजितं रणदुर्जयम् ।
  रावणः प्रेषयामास युद्धायानुजमात्मनः॥
  स जघान तदादेशात्कपीनुग्राननेकशः ।
  विवेश च पुरीं लङ्कां समादाय हरीश्वरम् ।

  अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भ[७५]वान् ।
  रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः ॥ ८१ ॥

 अकाल इति ॥ पियस्वप्न इष्टनिद्रोऽनुजो भवान्वृथा भ्रात्रा रावणेनाकाले बोधित इतीवासौ कुम्भकर्णो रामेषुभी रामबाणैर्दीर्घनिद्रां मरणं प्रवेशितो गमितः॥ यथा लोकेष्विष्टवस्तुविनाशदुःखितस्य ततोऽपि भूयिष्ठमुपपाद्यते तद्वदिति भावः॥

  इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
  रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥ ८२ ॥

 इतराणीति ॥ इतराणि रक्षांस्यपि वानरकोटिषु । समरोत्थानि रजांसि तेषां रक्षसां शोणितनदीषु रक्तप्रवाहेष्विव । पेतुः । निपत्य मृतानीत्यर्थः॥

  निर्ययावथ पौलस्त्यः पुनर्युद्धाय मन्दिरात् ।
  अरावणमरामं वा जगदद्येति निश्चि[७६]तः॥ ८३ ॥

 निर्ययाविति ॥ अथ पौलस्त्यो रावणः । अद्य जगदरावणं रावणशून्यमरामं रामशून्यं वा भवेदिति निश्चितो निश्चितवान् ॥ कर्तरि क्तः ॥ विजयमरणयोरन्यतरनिश्चयवान्पुनर्युद्धाय मन्दिरान्निर्ययौ निर्जगाम ॥

  रामं पदातिमालोक्य लङ्केशं च वरूथिनम् ।
  हरियुग्यं रथं तस्मै प्रजिघाय पुरंदरः॥ ८४ ॥

 राममिति॥ पादाभ्यामततीति पदातिः। तं पादचारिणं रामम् । वरूथो रथ- गुप्तिः ॥ “रथगुप्तिर्वरूथो ना" इत्यमरः ॥ अत्र वरूथेन रथोलक्ष्यते ॥ वरूथिनं रथिनं लङ्केशं चालोक्य पुरंदर इन्द्रः । युगं वहन्तीति युग्या रथाश्वाः ॥ “तद्वहति रथयुगप्रासङ्गम्" इति यत्प्रत्ययः ॥ हरियुग्यं कपिलवर्णाश्वम् ॥ “शुकाहिकपिभेकेषु हरिना कपिले त्रिषु" इत्यमरः ॥ रथं तस्मै रामाय प्रजिघाय प्रहितवान् ॥

  तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभिः ।
  देवसूतभुजालम्बी जैत्रमध्यास्त राघवः ॥ ८५ ॥

 तमिति ॥राघवो व्योमगङ्गोर्मिवायुभिराधूतध्वजपटम् । मार्गवशादिति भा- वः । जेतैव जैत्री जयनशीलः । तं जैत्रम् ॥ "जेतृशब्दात्तृन्नन्तात् “प्रज्ञादिभ्यश्च" इति स्वार्थेऽण्प्रत्ययः॥ तं रथं देवसूतभुजालम्बी मातलिहस्तावलम्बः

सन्नध्यास्ताधिष्ठितवान् ॥ आसेर्लङ् ॥

  मातलिस्तस्य माहेन्द्रमामुमोच तनुच्छदम् ।
  यत्रोत्पलदलक्लैब्यम[७७]स्त्राण्यापुः सुरद्विषाम् ॥ ८६ ॥

 मातलिरिति ॥ मातलिरिन्द्रसारथिर्माहेन्द्रम् । तनुश्छाद्यतेऽनेनेति तनुच्छदो वर्म ॥ "पुंसि संज्ञायां घः प्रायेण” इति घः॥ तं तस्य रामस्यामुमोचासञ्जयामास । यत्र तनुच्छदे सुरद्विषामस्त्राण्युत्पलदलानां यत्क्लैब्यं नपुंसकत्वं निरर्थकत्वं तदापुः॥

  अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् ।
  रामरावणयोर्यु[७८]द्धं चरितार्थमिवाभवत् ॥ ८७ ॥

 अन्योन्यति ॥ चिरादन्योन्यदर्शनेन प्राप्तविक्रमावसरं रामरावणयोर्युद्धं योधनं चरितार्थं सफलमभवदिव ॥ प्राक्पराक्रमावसरदौर्बल्याद्विफलस्याद्य तल्लाभात्साफल्यमुत्प्रेक्ष्यते ॥

  भु[७९]जमूर्धोरुबाहुल्यादेकोऽपि धनदानुजः ।
  ददृशे ह्य[८०]थापू[८१]र्वो मातृवंश इव स्थितः॥ ८८ ॥

 भुजेति ॥ यथा भूतः पूर्वं यथापूर्वः॥ सुप्सुपेति समासः॥ यथापूर्वो न भवतीत्ययथापूर्वः । निहतबन्धुत्वाद्रक्षःपरिचारशून्य इत्यर्थः । अतएवैकोऽपि सन्धनदानुजो रावणः । भुजाश्च मूर्धानश्चोरवः पादाश्च भुजमूर्धोरु ॥ प्राण्यङ्गत्वाद्वन्दैकवद्भावः॥ तस्य बाहुल्याद्वहुत्वाद्धतोः॥ तद्बहुत्वे यादवः- “दशास्यो विंशतिभुजश्चतुष्पान्मातृमन्दिरे" इति ॥ मातृवंशे मातृसंबन्धिनि वर्गे स्थित इव ददृशे दृष्टो हि ॥ “वंशो वेणौ कुले वर्गे" इति विश्वः॥ अत्र रावणमातू रक्षोजातित्वात्तद्वर्गो रक्षोवर्ग इति लभ्यते । अतश्चैकोऽप्यनेकरक्षःपरिवृत इवालक्ष्यतेत्यर्थः ॥

  जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम् ।
  रामस्तुलितकैलासमरा[८२]तिं बह्वमन्यत ॥ ८९॥

 जेतारमिति ॥ लोकपालानामिन्द्रादीनां जेतारम् ॥ “कर्तृकर्मणोः कृति" इति कर्मणि षष्ठी ॥ स्वमुखैः स्वशिरोभिरर्चितेश्वरं तुलितकैलासमुत्क्षिप्तरुद्राद्रिं तमेवं शौर्यवीर्यसत्त्वसंपन्नं महावीर्यमरातिं शत्रुं रामो गुणग्राहित्वाज्जेतव्योत्कर्षस्य जेतुः स्वोत्कर्षहेतुत्वाच्च बह्वमन्यत ॥ साधु मद्विक्रमस्यायं पर्याप्तो विषय इति बहुमानमकरोदित्यर्थः ॥ बह्विति क्रियाविशेषणम् ॥

  तस्य स्फुरति पौलस्त्यः सीतासंगमशंसिनि ।
  निचखाना[८३]धिकक्रोधः शरं सव्येतरे भुजे॥ ९० ॥

 तस्येति ॥ अधिकक्रोधः पौलस्यः स्फुरति स्पन्दमानेऽतएव सीतासंगमशंसिनि

तस्य रामस्य सव्य इतरो यस्मात्सव्येतरे दक्षिणे ॥ “न बहुव्रीहौ" इतीतरशब्दस्य सर्वनामसंज्ञाप्रतिषेधः ॥ भुजे शरं निचखान निखातवान् ॥

  रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः।
  विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् ॥ ९१ ॥

 रावणस्येति ॥ रामेणास्तः क्षिप्त आशुगो बाणः॥ विश्रवसोऽपत्यं पुमान्रावणः। विश्रवःशब्दादपत्येऽर्थेऽण्प्रत्यये सति “ विश्रवसो विश्रवणरवणौ” इति रवणादेशः ॥ तस्य रावणस्यापि हृदयं वक्षो भित्त्वा विदार्य । उरगेभ्यः पातालवासिभ्यः प्रियमाख्यातुमिव । भुवं विवेश ॥

  वचसै[८४]व तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतोः ।
  अन्योन्यजयसंरम्भो ववृधे वादिनोरिव ॥ ९२ ॥

 वचसेति ॥ वाक्यं वचसैवास्त्रमस्त्रेण निघ्नतोः प्रतिकुर्वतोस्तयो रामरावणयोः। वादिनोः कथकयोरिव । अन्योन्यविषये जयसंरम्भो ववृधे ।।

  विक्रमव्यतिहारेण सामान्याभूद्वयोरपि ।
  जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव ॥ ९३ ।।

 विक्रमेति ॥ जयश्रीर्विक्रमस्य व्यतिहारेण पर्यायक्रमेण तयोर्द्वयोरपि । अन्तरा मध्ये ॥ अव्ययमेतत् ॥ वेदिर्वेद्याकारा भित्तिर्मत्तवारणयोरिव । सामान्या साधारणाभूत् । न त्वन्यतरनियतेत्यर्थः ॥ अत्र मत्तवारणयोरित्यत्र द्वयोरित्यत्र च "अनरान्तरेणयुक्ते" इति द्वितीया न भवति । अन्तराशब्दस्योक्तरीत्यान्यत्रान्वयात् ॥ मध्ये कापि भित्तिं कृत्वा गजौ योधयन्तीति प्रसिद्धिः ॥

  कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः ।
  [८५]रस्परशरव्राताः पुष्पवृष्टिं न सेहिरे ॥ ९४ ॥

 कृतेति । स्वयमस्त्रप्रयोगः कृतं प्रतिकृतं परकृतप्रतीकारस्ताभ्यां प्रीतैः सुरासुरैर्यथासंख्यं तयो रामरावणयोर्मुक्तां पुष्पवृष्टिम् । द्वयीमिति शेषः । परस्परं शरव्राता न सेहिरे ॥ अहमेवालं किं त्वयेति चान्तराल एवेतरेतरबाणदृष्टिरितरेतरपु- ष्पवृष्टिमवारयदित्यर्थः॥

  अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे ।
  हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत् ॥ ९५ ॥

 भय इति ॥ अथ रक्षो रावणोऽयसः शङ्कुभिः कीलैश्चितां कीणां शतघ्नीं लो-

     ३४ हकण्टककीलितयष्टिविशेषाम् ॥ “शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता । 

यष्टिः" इति केशवः ॥ हृतां विजयलब्धाम् । वैवस्वतस्यान्तकस्य कूटशाल्मलिमिव । शत्रवे राघवायाक्षिपत्क्षिप्तवान् ॥ कूटशात्मलिरिव कूटशाल्मलिरिति व्युत्पत्त्या वैवस्वतगदाया गौणी संज्ञा ॥ कूटशाल्मलिर्नामैकमूलप्रकृतिः कण्टकी वृक्षविशेषः॥ "रोचनः कूटशाल्मलिः" इत्यमरः ॥ तत्सादृश्यं च गदाया अयःशङ्कुचितत्वादनुसंधेयम् ॥

  राघवो रथमप्राप्तां तामाशां च सु[८६]रद्विषाम् ।
  अर्धचन्द्रमुखर्बाणैश्चिच्छेद क[८७]दलीसुखम् ॥ ९६ ॥

 राघव इति ॥ राघवो रथमप्राप्तां तां शतघ्नीं सुरद्विषां रक्षसामाशां विजयतृष्णां च ॥ “आशा तृष्णादिशोः प्रोक्ता" इति विश्वः ॥ अर्धचन्द्र इव मुखं येषां तैर्बाणैः कदलीवत्सुखं यथा तथा चिच्छेद ॥ अथवा कदल्यामिव सुखमक्लेशो यस्मिन्कर्मणि तदिति विग्रहः ।।

  अमोघं संदधे चास्मै धनुष्येकधनुर्धरः।
  ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥ ९७ ॥

 अमोघमिति ॥ एकोऽद्वितीयो धनुर्धरो रामः प्रियायाः शोक एव शल्यं तस्य निष्कर्षणमुद्धारकं यदौषधं तदमोघं ब्राह्मं ब्रह्मदेवताकमस्त्रमभिमन्त्रितं बाणमस्मै रावणाय च । तद्वधार्थमित्यर्थः । धनुषि संदधे ॥

  तद्व्योम्नि श[८८]तधा भिन्नं ददृशे दीप्तिमन्मुखम् ।
  वपुर्महोरगस्येव करालफणमण्डलम् ॥ ९८ ॥

 तदिति ॥ व्योम्नि शतधा भिन्नं प्रसृतं दीप्तिमन्ति मुखानि यस्य तद्ब्रह्मास्त्रम् । करालं भीषणं तुङ्गं वा फणमण्डलं यस्य तत्तथोक्तम् ॥ “करालो दन्तुरे तुङ्गे करालो भीषणेऽपि च" इति विश्वः ॥ महोरगस्य शेषस्य वपुरिव । ददृशे दृष्टम् ॥

  तेन मन्त्रप्रयुक्तेन निभेषार्धादपातयत् ।
  [८९] रावणशिरःपङ्क्तिमज्ञातव्रणवेदनाम् ॥ ९९ ॥

 तेनेति ॥ स रामो मन्त्रप्रयुक्तेन तेनास्त्रेणाज्ञातव्रणवेदनामतिशैघ्र्यादननुभूतव्रणदुःखां रावणशिरःपङ्क्तिं निमेषार्धादपातयत्पातयामास ॥

  बाला[९०]र्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः ।
  रराज रक्षःकायस्य कण्ठच्छेदपरंपरा ॥ १०० ॥

 बालेति॥पतिष्यत आसन्नपातस्य रक्षःकायस्य रावणकलेवरस्य। छिद्यन्त इति

छेदाः खण्डाः । कण्ठानां ये छेदास्तेषां परंपरा पङ्क्तिः । वीचिभिर्भिन्ना नानाकृताप्सु बालार्कस्य प्रतिमा प्रतिबिम्बमिव । रराज । अर्कस्य बालविशेषणमारुण्यसिद्ध्यर्थमिति भावः॥

  मरुतां पश्यतां तस्य शिरांसि पतितान्यपि ।
  मनो नातिविशश्वास पुनःसंधानशङ्किनाम् ॥ १०१ ॥

 मरुतामिति॥ पतितानि तस्य रावणस्य शिरांसि पश्यतामपि पुनःसंधानशङ्किनाम् । पूर्वं तथादर्शनादिति भावः । मरुताममराणाम् ॥ "मरुतौ पवनामरौ" इत्यमरः ॥ मनो नातिविशश्वासातिविश्वासं न प्राप ।

  अथ मदगुरुपक्षैर्लोकपालद्विपाना-
   मनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय ।
  उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः
   सुरभि सुरविमुक्तं पुष्पवर्षं पपात ॥ १०२ ॥

 अथेति ॥ अथ मदेन गजगण्डसंचारसंक्रान्तेन गुरुपक्षैर्भारायमाणपक्षैरलिवृन्दैर्लोकपालद्विपानामैरावतादीनां गगनवर्तिनां गण्डभित्तीर्विहायानुगतमनुद्रुतं सुरभि सुगन्धि ॥ “सुरभिश्चम्पके स्वणे जातीफलवसन्तयोः । गन्धोपले सौरभेय्यां सल्लकीमातृभेदयोः । सुगन्धौ च मनोज्ञे च वाच्यवत्सुरभि स्मृतम्" इति विश्वः॥ सुरविमुक्तं पुष्पवर्षमुपनत आसन्नो मणिबन्धो राज्याभिषेकसमये भावी यस्य तस्मिन्पौलस्त्यशत्रो रामस्य मूर्ध्नि पपात । इदमेव राज्याभिषेकसूचकमिति भावः।।

  यन्ता हरेः सपदि संहृतकार्मुकज्य-
   मापृच्छ्य राघवमनुष्ठितदेवकार्यम् ।
  नामाङ्करावणशराङ्कितकेतुयष्टि-
   मूर्ध्वं रथं हरिसहस्रयु[९१]जं निनाय ॥ १०३ ॥

 यन्तेति ॥ हरेरिन्द्रस्य यन्ता मातलिः सपदि संहृतकार्मुकज्यमनुष्ठितं देवकार्यं रावणवधरूपं येन तं राघवमापृच्छ्य साधु यामीत्यामन्त्र्य । नामाङ्कैर्नामाक्षरचिह्नै रावणशरैरङ्किता चिह्निता केतुयष्टिर्ध्वजदण्डो यस्य तम् । हरीणां वाजिनां सहस्रेण युज्यत इति हरिसहस्रयुक् । तम् ॥ " यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ।

हरिः" इत्युभयत्राप्यमरः ॥ रथमूर्ध्वं निनाय नीतवान् ।

  रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रिया
   प्रियसुहृदि विभीषणे संग[९२]मय्य श्रियं वैरिणः ।
  रविसुतसहितेन तेनानुयातः ससौमित्रिणा
   भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ॥ १०४ ॥

 रघुपतिरिति ॥ रघुपतिरपि जातवेदस्यग्नौ विशुद्धां जातशुद्धिं प्रियां सीतां प्रगृह्य स्वीकृत्य । प्रियसुहृदि विभीषणे वैरिणो रावणस्य श्रियं राज्यलक्ष्मी संगमय्य संगतां कृत्वा ॥ गमेर्ण्यन्ताल्ल्यप्प्रत्ययः "मितां ह्रस्वः" इति ह्रस्वः । “ल्यपि लघुपूर्वात् " इति णेरयादेशः ॥ रविसुतसहितेन सुग्रीवयुक्तेन ससौमित्रिणा सलक्ष्मणेन तेन विभीषणेनानुयातोऽनुगतः सन् ॥ विमानं रत्नमिव विमानरत्नमित्युपमितसमासः ॥ भुजविजितं यद्विमानरत्नं पुष्पकं तदारूढः सन् । पुरीमयोध्यां प्रतस्थे ॥ “समवप्रविभ्यः स्थः" इत्यात्मनेपदम् ॥ अत्र प्रस्थानक्रियाया अकर्मकत्वेऽपि तदङ्गभूतोद्देशक्रियापेक्षया सकर्मकत्वम् । अस्ति च धातूनां क्रियान्तरोपसजनकस्वार्थाभिधायकत्वम् । यथा “कुसूलान्पचति" इत्यादावादानक्रियागर्भ: पाको विधीयत इति ॥


इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
रावणवधो नाम द्वादशः सर्गः ।


  1. छविः
  2. हादयामास.
  3. नमनाश्रुभिः; अश्रुबिन्दुभिः.
  4. पाक्सं शृतौ.
  5. मुखरागसमञ्जसम् .
  6. अलोकयन्.
  7. मातृवर्ग.
  8. कथितान्.
  9. अनुत्सृष्ट.
  10. निर्देशात्.
  11. शुद्ध्यर्थम्.
  12. वृत्तिम् .
  13. आचरत्.
  14. भ्रान्तश्च; भ्रान्तः सः; भ्रान्तस्तु; भ्रान्तः सन्; भीतः सन्.
  15. कैकेयी.
  16. विसृष्टेन.
  17. तत्र.
  18. मध्यात्.
  19. अथो.
  20. प्रतिपेदे.
  21. न तेनाप्यभिनन्दिता.
  22. क्षणं सौम्याम्.
  23. मृगीपरिभवः.
  24. मृत्यवे हि.
  25. कृतः.
  26. अङ्कम्.
  27. निर्विशतीम्.
  28. नाम्ना.
  29. मञ्जुभाषिणीम्.
  30. स्वराम्.
  31. विवृतासिः; विधृतासिः.
  32. वैरूप्यं पुनरुक्तेन.
  33. तथाविधा.
  34. आसीत्.
  35. रामः.
  36. अपि.
  37. आत्मनि.
  38. शतैः.
  39. यथापूर्व विशुद्धिभिः.
  40. उच्छ्रितम्.
  41. अन्यत्र; अन्यत्तु; चान्यत्
  42. आनृण्यम्.
  43. आख्याय.
  44. दुःखयोः
  45. अग्निसंस्कारात्परा निवृतिरे क्रियाः; अग्निसंस्कारात्पुनराववृते क्रिया:;
    अग्निसंस्कारानन्तराववृते क्रियाः.
  46. वीरम्.
  47. अथ.
  48. भर्तृनोदिताः.
  49. उत्कस्य.
  50. हरिः.
  51. वारिभिः.
  52. रक्षोवधोद्धताम्.
  53. क्षणं सोढारिनिग्रहः; क्षणसोढारिनिग्रहः.
  54. संसर्गम्.
  55. धरापृष्ठे.
  56. खेऽपि.
  57. वर्त्मभिः.
  58. निर्विष्टम्.
  59. आदिश्य (=उपदिश्य).
  60. नोदितः.
  61. यो
    बभौ.
  62. उन्ममः; उत्तीर्णः.
  63. शेषः.
  64. स्वापाय.
  65. घोर:
  66. घोषिणाम्.
  67. भम.
  68. चेतसाम्.
  69. विश्लेषि.
  70. बन्धनम्.
  71. क्षणक्लेशि.
  72. स्वप्नवृत्तम् ; स्वप्नवृत्तिः.
  73. हृत.
  74. नादं सः।
  75. अनुजः.
  76. निश्चितम्.
  77. शस्त्राणि.
  78. वैरम्.
  79. भुजोत्तमाङ्ग.
  80. सः.
  81. यथापूर्वम्.
  82. तमरिम्.
  83. अधिकक्रोधात्.
  84. इव।
  85. परस्परं शरव्राता:.
  86. सुरद्विषः.
  87. कदलीमिव.
  88. दशधा.
  89. रावणस्य शिरःपङ्क्तिम्.
  90. बालार्कप्रतिमेयाः स्युः.
  91. युतम्.
  92. संक्रमय्य.