रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/पञ्चमः सर्गः(अजस्वयंवराभिगमनः)

← चतुर्थः सर्गः(रघुदिग्विजयः) रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
कालिदासः
षष्ठः सर्गः(स्वयंवरवर्णनः) →
रघुवंशस्य सर्गाः
प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) द्वितीयः सर्गः(नन्दिनीवरप्रदानः)

तृतीयः सर्गः(रघुराज्याभिषेकः)

चतुर्थः सर्गः(रघुदिग्विजयः) पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
षष्ठः सर्गः(स्वयंवरवर्णनः) सप्तमः सर्गः(अजपाणिग्रहणः)

अष्टमः सर्गः(अजविलापः)

नवमः सर्गः(मृगयावर्णनः) दशमः सर्गः(रामावतारः)


एकादशः सर्गः(सीताविवाहवर्णनः) द्वादशः सर्गः(रावणवधः)

त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

चतुर्दशः सर्गः(सीतापरित्यागः) पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
षोडशः सर्गः(कुमुद्वतीपरिणयः) सप्तदशः सर्गः(अतिथिवर्णनः)

अष्टादशः सर्गः(वंशानुक्रमः)

एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

पञ्चमः सर्गः।


    इन्दीवरदलश्याममिन्दिरानन्दकन्दलम् ।
    वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥

  तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् ।
  उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः॥१॥

 तमिति ॥ विश्वजिति विश्वजिन्नाम्न्यध्वरे यज्ञे ॥ " यज्ञः सवोऽध्वरो यागः" इत्यमरः ॥ निःशेषं विश्राणितं दत्तम् ॥ श्रण दाने चुरादिः॥ कोशानामर्थराशीनां जातं समूहो येन तं तथोक्तम् ॥ “कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः" इत्यमरः ॥ “जातं जनिसमूहयोः" इति शाश्वतः ॥ एतेन कौत्सस्यानवसरप्राप्तिं सूचयति । तं क्षितीशं रघुमुपात्तविद्यो लब्धविद्यो वरतन्तोः शिष्यः कौत्सः ॥ ऋष्यन्धक-" इत्यण् । इञोsपवादः || गुरुदक्षिणार्थी ॥ " पुष्करादिभ्यो देशे" इत्यत्रार्थाच्चासंनिहिते तदन्ताच्चेतीनिः ॥ अप्रत्याख्येय इति भावः । प्रपेदे प्राप ॥ अस्मिन्सर्गे वृत्तमुपजातिः । तल्लक्षणं तु- " स्यादिन्द्रवज्रा यदि तौ जगौ गः । उपेन्द्रवज्रा जतजास्ततो गौ । अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः" इति ॥

  स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायार्घ्य[]मनर्घशीलः ।
  श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः॥२॥

 स इति ॥ अनर्घशीलोऽमूल्यस्वभावः । असाधारणस्वभाव इत्यर्थः ॥ “मूल्ये पूजाविधावर्घः" इति। " शीलं स्वभावे सद्दत्ते” इति चामरशाश्वतौ ॥ यशसा कीर्त्या । प्रकाशत इति प्रकाशः॥ पचाद्यच् ॥ अतिथिषु साधुरातिथेयः ॥ “पध्यतिथिवसतिस्वपतेर्ढञ् " इति ढञ् ॥ स रघुः । हिरण्यस्य विकारो हिरण्मय- म् ॥ "दाण्डिनायन-" आदिसूत्रेण निपातः॥ वीतहिरण्मयत्वादपगतसुवर्णपात्रत्वात् । यज्ञस्य सर्वस्वदक्षिणाकत्वादिति भावः । मृण्मये मृद्विकारे पात्रे । अर्घार्थमिदमर्घ्यम् ॥ “ पादार्घाभ्यां च" इति यत् ॥ पूजार्थं द्रव्यं निधाय श्रुतेन शास्त्रेण प्रकाशं प्रसिद्धम् । श्रूयत इति श्रुतं वेदशास्त्रम् ॥ " श्रुतं शास्त्रावधृतयोः" इत्यमरः ॥ अतिथिमभ्यागतं कौत्सम् ॥ “ अतिथिर्ना गृहागते" इत्यमरः ॥ प्रत्युज्जगाम ॥

  तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी।
  विशांपतिर्विष्टरभाजमारात्कृताञ्जलिः कृत्यविदित्युवाच ॥३॥

 तमिति ॥ विधिज्ञः शास्त्रज्ञः। अकरणे प्रत्यवायभीरुरित्यर्थः । मानधनानामग्रयाय्यग्रेसरः। अपयशोभीरुरित्यर्थः । कृत्यवित्कार्यज्ञः । आगमनप्रयोजनमवश्यं प्रष्टव्यमिति कृत्यवित् । विशां पतिर्मनुजेश्वरः ॥ “द्वौ विशौ वैश्यमनुजौ" इत्यमरः ॥ विष्टरभाजमासनगतम् । उपविष्टमित्यर्थः ॥ "विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्" इत्यमरः ॥ “वृक्षासनयोर्विष्टरः" इति निपातः ॥ तं तपोधनं विधिवद्विध्यर्हम् |यथाशास्त्रमित्यर्थः ॥ " तदर्हम् " इति वतिप्रत्ययः॥ अर्चयित्वारात्समीपे ॥ “आराद्दूरसमीपयोः इत्यमरः ॥ कृताञ्जलिः सन्निति वक्ष्यमाणप्रकारेणोवाच॥

  []प्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते ।
  यतस्त्वया ज्ञानमशेषमाप्तं लो[]केन चैतन्यमिवोष्णरश्मेः॥४॥

 अप्यग्रणीरिति ॥ हे कुशाग्रबुद्धे सूक्ष्मबुद्धे ॥ “कुशाग्रीयमतिः प्रोक्तः सूक्ष्मदर्शी च यः पुमान् ” इति हलायुधः ॥ मन्त्रकृतां मन्त्रस्रष्टॄणाम् ॥ “सुकर्मपापमन्त्र-" इत्यादिना क्विप् ॥ ऋषीणामग्रणीः श्रेष्ठस्ते तव गुरुः कुशल्यपि । क्षेमवान्किम् ॥ अपि प्रश्ने । “गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि" इत्यमरः ।। यतो यस्माद्गुरोः सकाशात्वयाशेषं ज्ञानम् । लोकेनोष्णरश्मेः सूर्याच्चैतन्यं प्रबोध इव । आप्तं स्वीकृतम् ॥

  कायेन वाचा मनसा[]पि शश्वद्यत्सं[]भृतं वासवधैर्यलोपि ।
  आपाद्यते न व्ययमन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तत् ॥५॥

 कायेनेति ॥ कायेनोपवासादिकृच्छ्रचान्द्रायणादिना वाचा वेदपाठेन मनसा गायत्रीजपादिना कायेन वाचा मनसापि । करणेन । वासवस्येन्द्रस्य धैर्यं लुम्पतीति वासवधैर्यलोपि । स्वपदापहारशङ्काजनकमित्यर्थः । यत्तपः शश्वदसकृत् ।। "मुहुः पुनःपुनः शश्वदभीक्ष्णमसकृत्समाः इत्यमरः ॥ संभृतं संचितं महर्षेर्वरतन्तोस्त्रिविधं वाङ्मनःकायजं तत्तपोऽन्तरायैर्विधैरिन्द्रप्रेरिताप्सरःशापैर्व्ययं नाशं नापाद्यते कच्चित् । न नीयते किम् ॥ " कच्चित्कामप्रवेदने" इत्यमरः ॥

  आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् ।
  कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदात्माश्रमपादपानाम् ॥६॥

 आधारेति ॥ आधारबन्धममुखैरालवालनिर्माणादिभिः प्रयत्नैरुपायैः ॥ “आधार आलवालेऽम्बुबन्धेऽधिकरणेऽपि च" इति विश्वः ॥ सुतेभ्यो निर्गतो विशेषोऽतिशयो यस्मिन्कर्मणि तत्तथा संवर्धितानां श्रमच्छिदां व आश्रमपादपानां वाय्वादिः । आदिशब्दाद्दावानलादिः। उपप्लवो बाधको न कच्चिन्नास्ति किम् ॥

  क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु ।
  तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूतिः॥ ७॥

 क्रियेति ॥ क्रियानिमित्तेष्वप्यनुष्ठानसाधनेष्वपि कुशेषु मुनिभिर्वत्सलत्वान्मृगस्नेहादभग्नकामाप्रतिहतेच्छा । तेषां मुनीनामङ्का एव शय्यास्तासु च्युतानि नाभिनालानि यस्याः सा तथोक्ता मृगीणां प्रसूतिः संततिरनघाव्यसना कच्चित् । अनपायिनी किमित्यर्थः ॥" दुःखैनोव्यसनेष्वघम्" इति यादवः॥ ते हि व्यालभयाद्दशरात्रमङ्क एव धारयन्ति ।

  निवर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितृणाम् |
  तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ।।८।।

 निर्वर्त्यत इति ॥ यैस्तीर्थजलैर्नियमाभिषेको नित्यस्नानादिर्निर्वर्त्य॑ते निष्पाद्यते । येभ्यो जलेभ्यः । उद्धृत्येति शेषः । पितॄणामग्निष्वात्तादीनां निवापाञ्जलयस्तर्पणाञ्जलयः ॥ “पितृदानं निवापः स्यात्" इत्यमरः ॥ निर्वर्त्यन्ते । उञ्छानां प्रकीर्णोद्धृतधान्यानां षष्ठैः षष्ठभागैः पालकत्वाद्राजग्राह्यैरङ्कितानि सैकतानि पुलिनानि येषां तानि तथोक्तानि वो युष्माकं तानि तीर्थजलानि शिवानि भद्राणि कच्चित् । अनुपप्लवानि किमित्यर्थः ॥ “उञ्छो धान्याशकादानं कणिशाद्यर्जनं शिलम्" इति यादवः ॥ “षष्ठाष्टमाभ्यां ञ च" इति षष्ठशब्दाद्भागार्थेऽन्प्रत्ययः। अतएवापूरणार्थत्वात् “ पूरणगुण-" इत्यादिना न षष्ठीसमासप्रतिषेधः ।। सिकता येषु सन्ति सैकतानि ॥ “सिकताशर्कराभ्यां च" इत्यण्प्रत्ययः ॥

  नीवारपाकादि क[]डंगरीयैरामृश्यते जानपदैर्न कच्चित् ।
  कालोपपन्नातिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं वः॥९॥

 नीवारेति ॥ कालेषु योग्यकालेषुपपन्नानामागतानामतिथीनां कल्प्या भागा यस्य तत्तथोक्तम् । वने भवं वन्यम् । शरीरस्थितेर्जीवितस्य साधनं वो युष्माकम् । पच्यत इति पाकः फलम् । धान्यमिति यावत् । नीवारपाकादि । आदिशब्दाच्छ्यामाकादिधान्यसंग्रहः । जनपदेभ्य आगतैर्जानपदैः॥ "तत आगतः' इत्यण् ॥ कडंगरीयैः । कडंगरं बुसमर्हन्तीति कडंगरीयाः ॥ “कडंगरो बुसं क्लीबे धान्यत्वचि तुषः पुमान्" इत्यमरः ॥ “कडंगरदक्षिणाच्छ च" इति छप्रत्ययः।।

तैर्गोमहिषादिभिर्नामृश्यते कच्चित् । न भक्ष्यते किमित्यर्थः ॥

  []पि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।
  कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमंते ॥१०॥

 अपीति ॥ किंच त्वं प्रसन्नेन सता महर्षिणा सम्यग्विनीय शिक्षयित्वा । विद्यामुपदिश्येत्यर्थः । गृहाय गृहस्थाश्रमं प्रवेष्टुम् ॥ " क्रियार्थोपपद-" इत्यादिना चतुर्थी ॥ अनुमतोऽप्यनुज्ञातः किम् ॥ हि यस्मात्ते तव सर्वेषामाश्रमाणां ब्रह्मचर्यवानप्रस्थयतीनामुपकारे क्षमं शक्तम् ॥ “क्षमं शक्ते हिते त्रिषु" इत्यमरः ॥ द्वितीयमाश्रमं गार्हस्थ्यं संक्रमितुं प्राप्तुमयं कालः । विद्याग्रहणानन्तर्यात्तस्येति भावः ॥“कालसमयवेलासु तुमुन्" इति तुमुन् । सर्वोपकारक्षममित्यत्र मनु: यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः । वर्तन्ते गृहिणस्तद्वदाश्रित्येतर आश्रमाः" इति ॥

 कुशलप्रश्नं विधायागमनप्रयोजनप्रश्नं चिकीर्षुराह-

  []वार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे।
  []प्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्माम्।।११॥

 तवेति ॥ अर्हतः पूज्यस्य प्रशस्तस्य ॥ “ अर्हः प्रशंसायाम्" इति शतृप्रत्ययः ॥ तवाभिगमनेनागमनमात्रेण मे मनो न तृप्तं न तुष्टम् । किंतु नियोगक्रियया ज्ञाकरणेनोत्सुकं सोत्कण्ठम् ॥ “इष्टार्थोद्युक्त उत्सुकः” इत्यमरः ॥ “प्रसितोत्सुकाभ्यां तृतीया च” इति सप्तम्यर्थे तृतीया शासितुर्गुरोराज्ञयाप्यात्मना स्वतो वा ।। "प्रकृत्यादिभ्य उपसंख्यानम्” इति तृतीया ॥ मां संभावयितुं वनात्प्राप्तोऽसि ॥ गुर्वर्थं स्वार्थं वागमनमित्यर्थः ॥

  इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य ।
  स्वार्थोपपत्तिं प्रति दुर्बलाशस्त[१०]मित्यवोचद्वरतन्तुशिष्यः॥१२॥

 इतीति।अर्घ्यपात्रेण मृण्मयेनानुमितो व्ययः सर्वस्वत्यागो यस्य तस्य रघोरिस्युक्तप्रकारामुदारामौदार्ययुक्तामपि गां वाचम् । “मनो नियोगक्रिययोत्सुकं मे" (५। ११) इत्येवंरूपाम् ॥ “स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रघृणिभूतले । लक्ष्यदृष्टया स्त्रियां पुंसि गौः" इत्यमरः ॥ निशम्य श्रुत्वा वरतन्तुशिष्यः कौत्सः स्वार्थोपपत्तिं स्वकार्यसिद्धिं प्रति दुर्बलाशः सन्मृण्मयपात्रदर्शनाच्छिथिलमनोरथः संस्तं रघुमिति वक्ष्यमाणप्रकारेणावोचत् ॥

  सर्वत्र नो वार्त्तमवेहि राजन्नाथे कुतस्त्वय्यशुभं प्रजानाम् ।
  सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा॥१३॥

 सर्वत्रेति ॥ हे राजन्, त्वं सर्वत्र नोऽस्माकं वार्त्तं स्वास्थ्यमवेहि जानीहि "वार्त्तं वल्गुन्यरोगे च" इत्यमरः ॥ “वार्त्तं पाटवमारोग्यं भव्यं स्वास्थ्यमनामयम्" इति यादवः ॥ न चैतदाश्चर्यमित्याह-नाथ इति ॥ त्वयि नाथ ईश्वरे सति प्रजानामशुभं दुःखं कुतः ॥ तथाहि । अर्थान्तरं न्यस्यति-सूर्य इत्यादिना ॥ सूर्ये तपति प्रकाशमाने सति तमिस्रा तमस्ततिः ॥ " तमिस्रं तिमिरं रोगे तमिस्रा तु तमस्ततौ । कृष्णपक्षनिशायां च" इति विश्वः ॥ "तमिस्रम्” इनि पाठे तमिस्रं तु तिमिरम् । “तमिस्रं तिमिरं तमः” इत्यमरः ॥ लोकस्य जनस्य ॥ भुवने जने" इत्यमरः ॥ दृष्टेरावरणाय कथं कल्पेत । दृष्टिमावरितुं नालमित्यर्थः॥ कृपेरलमर्थत्वात्तद्योगे “ नमःस्वस्ति-" इत्यादिना चतुर्थी ॥ "अलमिति पर्यात्यर्थग्रहणम्” इति भगवान्भाष्यकारः ॥ कल्पेत संपद्येतेत्यर्थः । कृपि संपद्यमाने चतुर्थीति वक्तव्यात् ॥

 तवार्हत:-" (५ । ११) इत्यादिनोक्तं यत्तन्न चित्रमिसाह-

  भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्म[११]हाभाग तयातिशेषे ।
  व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः।।१४॥

 भक्तिरिति ॥ प्रतीक्ष्येषु पूज्येषु ॥ “पूज्यः प्रतीक्ष्यः” इत्यमरः ॥ भक्तिरनुरागविशेषस्ते तव कुलोचिता कुलाभ्यस्ता ॥ अभ्यस्तेऽप्युचितं न्याय्यम्" इति यादवः ॥ हे महाभाग सार्वभौम, तया भक्त्या पूर्वानतिशेषेऽतिवर्तसे ॥ किंतु सर्वत्र वार्त्तं चेत्तर्हि कथं खेदखिन्न इव दृश्यसेऽत आह- व्यतीतेति ॥ अहं व्यतीतकालोऽतिक्रान्तकालः सन्नर्थिभावात्त्वामभ्युपेत इति मे मम विषादः॥

  शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः ।
  आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः॥१५॥

 शरीरेति ॥ हे नरेन्द्र, तीर्थे सत्पात्रे प्रतिपादिता दत्तर्द्धिर्येन स तथोक्तः ॥ "योनौ जलावतारे च मन्त्र्याद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थं स्याद्दर्शनेष्वपि " इति हलायुधः॥ शरीरमात्रेण तिष्ठन् । आरण्यका अरण्ये भवा मनुष्या मुनिप्रमुखाः ॥ “अरण्यान्मनुष्ये" इति वुञ्प्रत्ययः॥ तैरुपात्ता फलमेव प्रसूतिर्यस्य स स्तम्बेन काण्डेनावशिष्टः || प्रकृत्यादित्वात्तृतीया ॥नीवार इव । आभासि शोभसे ॥

  स्थाने भवानेकनराधिपः सन्नकिंचनत्वं मखजं व्यनक्ति ।
  पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः॥ १६॥

 स्थान इति ॥ भवानेकनराधिपः सार्वभौमः सन् । मखजं मखजन्यम् । न विद्यते किंचन यस्येत्यकिंचनः ॥ मयूरव्यंसकादित्वात्तत्पुरुषः ॥ तस्य भावस्तत्त्वं निर्धनत्वं व्यनक्ति प्रकटयति । स्थाने युक्तम् ।। " युक्ते द्वे सांप्रतं स्थाने" इत्यमरः।। तथाहि । सुरैर्देवैः पर्यायेण क्रमेण पीतस्य हिमांशोः कलाक्षयो वृद्धेरुपचयाच्छ्लाध्यतरो हि वरः खलु ॥ “मणिः शाणालीढः समरविजयी हेतिनिहतो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः । कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नृपाः" इति भावः ॥ अत्र कामन्दकः- “ धर्मार्थं क्षीणकोशस्य क्षीणत्वमपि शोभते । सुरैः पीतावशेषस्य कृष्णपक्षे विधोरिव" इति ।

  [१२]दन्यतस्तावदनन्यकार्यों गुर्वर्थमाहर्तुमहं यतिष्ये ।
  खस्त्यस्तु ते निर्गलिताम्बुगर्भ शरद्धनं नार्दति चातकोऽपि ॥१७॥

 तदिति ॥ तत्तस्मात्तावदनन्यकार्यः ॥ “ यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे” इति विश्वः ॥ प्रयोजनान्तररहितोऽहमन्यतो वदान्यान्तरादुर्वर्थं गुरुधनमाहर्तुमर्जयितुं यतिप्य उद्योक्ष्ये । ते तुभ्यं स्वस्ति शुभमस्तु ॥ " नमःस्वस्ति-" इत्यादिना चतुर्थी ॥ तथाहि । चातकोऽपि । “धरणीपतितं तोयं चातकानां रुजाकरम्" इति हेतोरनन्यगतिकोऽपीत्यर्थः । निर्गलितोऽम्ब्वेव गर्भो यस्य तं शरद्धनं नार्दति न याचते ॥ “अर्द गतौ याचने च" इति धातुः ॥ “याचनार्थे रणेऽर्दनम्” इति यादवः॥

  एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य ।
  किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्कः ॥ १८॥

 एतावदिति॥एतावद्वाक्यमुक्त्वा प्रतियातुं कामो यस्य तं प्रतियातुकामं गन्तुकामम् ॥

“तुम्काममनसोरपि” इति मकारलोपः ॥ महर्षेर्वरतन्तोः शिष्यं कौत्सं नृपती रघुर्निषिध्य निवार्य । हे विद्वन्, त्वया गुरवे प्रदेयं वस्तु किं किमात्मकं कियत्किंपरिमाणं वा । इत्येवं तं कौत्समन्त्रयुङ्क्त्वापृच्छत् ॥ "प्रश्नोऽनुयोगः पृच्छा च" इत्यमरः॥

  ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय ।
  वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥ १९॥

 तत इति ॥ ततो यथावद्यथार्हम् ॥ अर्हार्थे वतिः ॥ विहिताध्वराय विधिवदनुष्ठितयज्ञाय । सदाचारायेत्यर्थः । स्मयावेशविवर्जिताय गर्वाभिनिवेशशून्याय । अनुद्धतायेत्यर्थः । वर्णानां ब्राह्मणादीनामाश्रमाणां ब्रह्मचर्यादीनां च गुरवे नियामकाय ॥ “वर्णाः स्युर्ब्राह्मणादयः" इति । " ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये । आश्रमोऽस्त्री" इति चामरः ॥ सर्वकार्यनिर्वाहकायेत्यर्थः । तस्मै रघवे विचक्षणो विद्वान्वर्णो ब्रह्मचारी ॥ “वर्णिनो ब्रह्मचारिणः "इत्यमरः ॥ "वर्णाद्ब्रह्मचारिणि" इतीनिप्रत्ययः ॥ स कौत्सः प्रस्तुतं प्रकृतमाचचक्षे ।।

  [१३]माप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै ।
  स मे चिरायास्वलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् २०

 समाप्तेति ॥ समाप्तविद्येन मया महर्षिर्गुरुदक्षिणायै गुरुदक्षिणास्वीकारार्थं विज्ञापितोऽभूत् । स च गुरुश्चिरायास्खलितोपचारां तां दुष्करां मे भक्तिमेव पुरस्तात्प्रथममगणयत्संख्यातवान् । भक्त्यैव संतुष्टः किं दक्षिणयेत्युक्तवानित्यर्थः । अथवा भक्तिमेव तां दक्षिणामगणयदिति योज्यम् ॥

  निर्बन्धसंजातरुषार्थकर्श्यमचिन्तयित्वा गुरुणाहमुक्तः।
  वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति ॥२१॥

 निर्बन्धेति ॥ निर्बन्धेन प्रार्थनातिशयेन संजातरुषा संजातक्रोधेन गुरुणा । अर्थकार्श्यं दारिद्र्यमचिन्तयित्वाविचार्याहम् । वित्तस्य धनस्य चतस्रो दश च कोटीश्चतुर्दशकोटीर्में मह्यमाहरानयेति विद्यापरिसंख्यया विद्यापरिसंख्यानुसारेणैवोक्तः । अत्र मनु:-"अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश" इति ।।

  सोऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम् ।
  अभ्युत्सहे संप्रति नोपरोद्धुंमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ॥२२॥

 सोऽहमिति ॥ सोऽहं सपर्याविधिभाजनेनार्ध्यपात्रेण भवन्तं प्रभुशब्द एव शेषो यस्य तं मत्वा । निःखं निश्चित्येत्यर्थः । श्रुतनिष्क्रयस्य विद्यामूल्यस्याल्पेतरत्वादतिमहत्वात्संप्रत्युपरोद्धुं, निर्बन्धुं नाभ्युत्सहे ॥

  इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण ।
  एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ।। २३ ॥

 इत्थमिति ॥ द्विजराजकान्तिश्चन्द्रकान्तिः ॥ “ द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः इत्यमरः ॥ “ तस्मात्सोमो राजा नो ब्राह्मणानाम्" इति श्रुतेः ॥ द्विजराजकान्तित्वेनार्थावाप्तिवैराग्यं वारयति ॥ एनसः पापान्निवृत्तेन्द्रियवृत्तिर्यस्य स जगदेकनाथो रघुर्वेदविदां वरेण श्रेष्ठेन द्विजेन कौत्सेनेत्थमावेदितो निवेदितः सन् । एनं कौत्सं भूयः पुनर्जगाद ।।

  गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम् ।
  गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः ॥ २४ ॥

 गुर्वर्थमिति ॥ श्रुतस्य पारं दृष्टवाछुतपारदृश्वा ॥ “दृशेः क्वनिप् " इति क्वनिप् ॥ गुर्वर्थं गुरुदक्षिणार्थं यथा तथार्थी याचकः । विशेषणद्वयेनाप्यस्यापत्याख्येयत्वमाह । रघोः सकाशात्कामं मनोरथमनवाप्यापाप्य वदान्यान्तरं दात्रन्तरं गतः ॥ “स्युर्वदान्यस्थूललक्ष्यदानशौण्डा वहुप्रदे" इत्यमरः॥ इत्येवंरूपोऽयं परी- वादस्यापवादस्य नवो नूतनः प्रथमोऽवतार आविर्भावो मे मा भून्मास्तु ॥ रघोरिति स्वनामग्रहणं संभावितत्वद्योतनार्थम् । तथा च "संभावितस्य चाकीर्तिमर- णादतिरिच्यते" इति भावः॥

  स त्वं प्रशस्ते म[१४]हिते मदीये वसंश्चतुर्थोऽमिरिखान्यगारे ।
  द्वित्राण्यहान्यर्हसि सोढुमर्हन्यावद्यते साधयितुं त्वदर्थम् ॥२५॥

 स इति ॥ स त्वं महिते पूजिते प्रशस्ते प्रसिद्ध मदीयेऽग्यगारे त्रेताग्मिशालाया चतुर्थोऽग्निरिव वसन्दित्राणि द्वे त्रीणि वाहानि दिनानि । “संख्ययाव्ययासनादूराधिकसंख्याः संख्येये" इति बहुव्रीहिः। “बहुव्रीहौ संख्येये हजबहुगणात्" इति डप्रत्ययः समासान्तः ॥ सोढुमर्हसि । हे अर्हन्मान्य, त्वदर्थं तव प्रयोजनं साधयितुं यावद्यते यतिष्ये ॥ “यावत्पुरानिपातयोर्लट्" इति भविष्यदर्थे लट् ॥

  तथेति तस्या[१५]वितथं प्रतीतः प्रत्यग्रहीत्संगरमग्रजन्मा।
  गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात् ॥ २६ ॥

 तथेतीति । अग्रजन्मा ब्राह्मणः प्रतीतः प्रीतः संस्तस्य रपोरवितथममोघं संगरं प्रतिज्ञाम् ॥ “अथ प्रतिज्ञाजिसंविदापत्सु संगरः" इत्यमरः ॥"तां गिरम्" इति केचित्पठन्ति ॥ तथेति प्रत्यग्रहीत् । रघुरपि गां भूमिमात्तसारां गृहीतधनामवेक्ष्य कुबेरादर्थं निष्क्रष्टुमाहर्तुं चकम इयेष ॥

  वशिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु ।
  मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य ॥ २७॥

 वशिष्ठेति ।। वसिष्ठस्य यन्मन्त्रेणोक्षणमभिमन्त्र्य प्रोक्षणं तज्जात्मभावात्सामाद्धेतोः । उदन्वदाकाशमहीधरेषूद्न्वत्युदधावाकाशे महीधरेषु वा । मरुत्सखस्य ॥ मरुतः सखेति तत्पुरुषो बहुव्रीही समासान्ताभावात् । ततो वायुसहायस्येति लभ्यते ॥ वारीणां वाहको बलाहकः ॥ पृषोदरादित्वात्साधुः ॥ तस्येव मेघस्येव । तद्रथस्य गतिः संचारो न विजघ्ने न विहता हि ॥

  अथाधिशिश्ये प्रयतः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम् ।
  सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः २८ ॥

 अथेति ॥ अथ प्रदोषे रजनीमुखे । तत्काले यानाधिरोहणविधानात् । प्रयतो धीरो रघुः । समन्ताद्भवः सामन्तः । राजमात्रमिति संभावनयैव कैलासनाथं कुबेरं तरसा वलेन जिगीषुर्जेतुमिच्छुः सन् । कल्पितं सज्जितं शस्त्रं गर्भे यस्य तं रथमधिशिश्ये । रथे शयितवानित्यर्थः ॥ “अधिशीङ्स्थासां कर्म" इति कर्मवम्।।

  प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोषगृहे नियुक्ताः।
  हिरण्मयीं कोषगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ॥२९॥

 प्रातरिति ॥ प्रातः प्रयाणाभिमुखाय तस्मै रघवे कोषगृहे नियुक्ता अधिकृता भाण्डागारिकाः सविस्मयाः सन्तः कोषगृहस्य मध्ये नभस्तो नभसः ॥ पञ्चम्यास्तसिल्पत्ययः ॥ पतितां हिरण्मयीं सुवर्णमयीम् ॥ “ दाण्डिनायन-" इत्यादिना निपातनात्साधुः ॥ वृष्टिं शशंसुः कथयामासुः ॥

  तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् ।
  दिदेश कौ[१६]त्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ॥ ३०॥

 तमिति ॥ भूपती रघुः । अभियास्यमानादभिगमिष्यमाणात्कुबेराल्लब्धम् । वज्रेण कुलिशेन भिन्नं सुमेरोः पादं प्रत्यन्तपर्वतमिव स्थितम् ॥ “पादाः प्रत्यन्तपर्वताः" इत्यमरः ॥ "शृङ्गम्" इति क्वचित्पाठः ॥ तं भासुरं भास्वरम् ॥ भञ्जभासमिदो घुरच्" इति घुरच् ॥ हेमराशिं समस्तं कृत्स्नमेव कौत्साय दिदेश

ददौ । न तु चतुर्दशकोटिमात्रमित्येवकारार्थः ॥

  जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्धसत्त्वौ।
  गुरुप्रदे्याधिकनिःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ॥३१॥

 जनस्येति ॥ तावर्थिदातारौ द्वावपि साकेतनिवासिनोऽयोध्यावासिनः ॥ "साकेतः स्यादयोध्यायां कोसला नन्दिनी च सा" इति यादवः ॥ जनस्याभिनन्धसत्त्वौ स्तुत्यव्यवसायभूताम् ॥ “ द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु” इत्यमरः ॥ कौ द्वौ । गुरुप्रदेयादधिकेऽतिरिक्तद्रव्ये निःस्पृहोऽर्थी । अधिकामादार्थमनोरथादधिकं प्रददातीति तथोक्तः ॥ “प्रेदाज्ञः" इति कप्रत्ययः॥ नृपश्च।।

  अथोष्ट्रवामीशतवाहितार्थं प्रजेश्वरं प्रीतमना म[१७]हर्षिः ।
  स्पृशन्करेणानतपूर्वकायं संप्रस्थितो वा[१८]चमुवाच कौत्सः॥३२॥

 अथेति ॥ अथ प्रीतमना महर्षिः कौत्सः संप्रस्थितः प्रस्थास्यमानः सन् ॥ " आशंसायां भूतवच्च" इति भविष्यदर्थे क्तः ॥ उष्ट्राणां क्रमेलकानां वामीनां वडवानां च शतैर्वाहितार्थः प्रापितधनमानतपूर्वकायम् । विनयनम्रमित्यर्थः । प्रजेश्वरं रघु करेण स्पृशन्वाचमुवाच ।।

  किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानाम् ।
  अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा ॥३३॥

 किमिति ॥ वृत्ते स्थितस्य ॥ "न्यायेनार्जनमर्थस्य वर्धनं पालनं तथा । सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम्' इति कामन्दकः ॥ तस्मिन्वृत्ते स्थितस्य प्रजानामधिपतेर्नृपस्य भूः कामान्सूत इति कामसूर्यदि ॥ सत्सूद्विषद्रुह-" इत्यादिना क्विप् ॥ अत्र कामप्रसवने किं चित्रम् । न चित्रमित्यर्थः । किंतु तव प्रभावो महिमा त्वचिन्तनीयः । येन त्वया द्यौरपि मनीषितमभिलषितं दुग्धा ॥ दुहेर्दिद्विकर्मकत्वादप्रधाने कर्मणि क्तः । “प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्। अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः" इति स्मरणात् ॥

  आशास्थमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।
  पुत्रं लभस्वात्मगुणानुरूपं भवन्तमी[१९]ड्यं भवतः पितेव ॥ ३४ ॥

 आशास्यमिति ॥ सर्वाणि श्रेयांसि शुभान्यधिजग्मुषः प्राप्तवतस्ते तवान्यत्पुत्रातिरिक्तमाशास्यमाशीःसाध्यमाशंसनीयं वा पुनरुक्तभूतम् । सर्वं सिद्धमित्यर्थः । किं त्वीड्यं स्तुत्यं भवन्तं भवतः पितेवात्मगुणानुरूपम् । त्वया तुल्यगुणमित्यर्थः । पुत्रं लभस्व प्राप्नुहि ।।

  इत्थं प्रयुज्याशिषमग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् ।
  राजापि लेभे सुतमाशु तस्मादालोकमर्कादिव जीवलोकः॥३५॥

 इत्थमिति ॥ अग्रजन्मा ब्राह्मणः ॥ " अग्रजन्मा द्विजे श्रेष्ठे भ्रातरि ब्रह्मणि स्मृतः" इति विश्वः ॥ इत्थं राज्ञ आशिषं प्रयुज्य दत्त्वा गुरोः सकाशं समीपं प्रतीयाय प्राप्य ॥ राजापि । जीवलोको जीवसमूहः ॥ “जीवः प्राणिनि गीष्पतौ" इति विश्वः ॥ अर्कादालोकं प्रकाशमिव । “चैतन्यम्" इति पाठे ज्ञानम् ॥ तस्माद्द्षेराशु सुतं लेभे प्राप ।

  ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् ।
  अतः पिता ब्रह्मण एव नाम्ना त[२०]मात्मजन्मानमजं चकार॥३६॥

 ब्राह्म इति ॥ तस्य रघोर्देवी महिषी ब्राह्मे ॥ “ तस्येदम्" इत्यण् ॥ ब्रह्मदेवताकेऽभिजिन्नामके मुहूर्ते किलेषदसमाप्तं कुमारं कुमारकल्पं स्कन्दसदृशम् ॥ " ईषदसमाप्तौ-" इत्यादिना कल्पप्रत्ययः ॥ कुमारं पुत्रं सुषुवे ॥ “कुमारो बालके स्कन्दे" इति विश्वः ॥ अतो ब्राह्ममुहूर्तोत्पन्नत्वात्पिता रघुर्ब्रह्मणो विधेरेव नाम्ना तमात्मजन्मानं पुत्रमजमजनामकं चकार ॥ “ अजो हरौ हरे कामे विधौ छागे रघोः सुते" इति विश्वः ॥

  रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् ।
  न कारणात्स्वाब्दिभिदे कुमारःप्रवर्तितो दीप इव प्रदीपात् ॥३७॥

 रूपमिति ॥ ओजस्वि तेजस्वि बलिष्ठं वा ॥ "ओजस्तेजसि धातूनामवष्टम्भप्रकाशयोः। ओजो बले च दीप्तौ च" इति विश्वः ॥ रूपं वपुः ॥ अथ रूपं नपुंसकम् । स्वभावाकृतिसौन्दर्यवपुषि श्लोकशब्दयोः” इति विश्वः ॥ तदेव पैतृकमेव । वीर्यं शौर्यं तदेव । नैसर्गिकं स्वाभाविकमुन्नतत्वं तदेव । तादृशमेवेत्यर्थः ॥ कुमारो बालकः । प्रवर्तित उत्पादितो दीपः प्रदीपात्स्वोत्पादकदीपादिव । स्वात्स्वकीयात् ॥ “पूर्वादिभ्यो नवभ्यो वा” इति स्माद्भावो वैकल्पिकः ॥ कारणाज्जनकान्न बिभिदे भिन्नो नाभूत् । सर्वात्मना तादृश एवाभूदित्यर्थः ॥

  उपात्तविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् ।
  श्रीः सा[२१]भिलाषापि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष॥३८॥

 उपात्तेति ॥ गुरुभ्यो विधिवद्यथाशास्त्रमुपात्तविद्यं लब्धविद्यम् । यौवनस्योद्भेदादाविर्वाद्धेतोविशेषेण कान्तं सौम्यं तमजं प्रति साभिलाषापि श्रीः । धीरा स्थिरोन्नतचित्ता ॥ "स्थिरा चित्तोन्नतिर्या तु तद्धैर्यमिति संज्ञितम्" इति भूपालः।। कन्या पितुरिव । गुरोरनुज्ञमाचकाङ्क्षयेष । पौवराज्यार्होऽभूदित्यर्थः ॥ अनुज्ञाशब्दात्पितृपरतन्त्र्यमुपसामर्थ्यात्पाणिग्रहणयोग्यता च ध्वन्यते ॥

  अथेश्वरेण ऋ[२२]थकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः।
  आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः॥३९॥

 अथेति ॥ अथ स्वसुर्भगिन्या इन्दुमत्याः स्वयंवरार्थं कुमारस्याजस्यानयन उत्सुकेन क्रथकैशिकानां विदर्भदेशानामीश्वरेण स्वामिना भोजेन राज्ञाप्तो हितो दूतो रघवे विसृष्टः प्रेषितः ॥ क्रियामात्रयोगेऽपि चतुर्थी ॥

  तं श्लाघ्यसंबन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम् ।
  प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीम् ॥४०॥

 तमिति ॥ असौ रघुस्तं भोजं श्लाघ्यसंबन्धमनूचानत्वादिगुणयोगात्स्पृहणीयसंबन्धं विचिन्त्य विचार्य पुत्रं च दारक्रियायोग्यदशं विवाहयोग्यवयसं विचिन्त्य ससैन्यमेनं पुत्रमृद्धां समृद्धां विदर्भाधिपस्य भोजस्य राजधानीं पुरीं प्रति प्रस्थापयामास ॥ धीयतेऽस्यामिति धानी । "करणाधिकरणयोश्च" इत्यधिकरणे ल्युट्प्रत्ययः ॥राज्ञां धानीति विग्रहः॥

  तस्योपकार्यारचितोपचारा व[२३]न्येतरा जानपदोपदाभिः ।
  मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः॥४१॥

 तस्येति ॥ उपकार्यासु राजयोग्येषु पटभवनादिषु ॥ “सौधोऽस्त्री राजसदनमुपकार्योपकारिका" इत्यमरवचनव्याख्याने क्षीरस्वामी ॥ उपक्रियत उपकरोति वा पटमण्डपादि राजसदनमिति ॥ रचिता उपचाराः शयनादयो येषु ते तथोक्ताः। जानपदानां जनपदेभ्य आगतानामुपदाभिरुपायनैः । वन्या वने भवा इतरे येषां ते वन्येतराः । अवन्या इत्यर्थः ॥ “न बहुव्रीहौं इति सर्वनामसंज्ञानिषेधः । तत्पुरुषे सर्वनामसंज्ञा दुर्वारैव ॥ तस्य मनुजेन्द्रसूनोरजस्य मार्गे निवासा वासनिका उद्यानान्याक्रीडाः ॥ "पुमानाक्रीड उद्यानम्" इत्यमरः ॥ तान्येव विहारा विहारस्थानानि तत्कल्पाः । तत्सदृशा इत्यर्थः ॥ “ईषदसमाप्तौ-" इति कल्पप्रत्ययः ॥ बभूवुः॥

  स नर्मदारोधसि सीकराद्रैर्मरुद्भिरानर्तितनक्तमाले ।
  निवेशयामास विलङ्गिताध्वा क्लान्तं रजोधूसरकेतु सैन्यम् ॥१२॥

 स इति ॥ विलङ्घिताध्वातिक्रान्तमार्गः सोऽजः सीकरार्द्रैः। शीतलैरित्यर्थः । मरुद्भिर्वातैरानर्तिताः कम्पिता नक्तमालाश्चिरबिल्वाख्यवृक्षभेदाः ॥“चिरबिल्वो नक्तमालः करजश्च करञ्जके" इत्यमरः ॥ यस्मिस्तस्मिन् । निवेशार्ह इत्यर्थः । नर्मदाया रोधसि रेवायास्तीरे क्लान्तं श्रान्तं रजोभिर्धूसराः केतवो ध्वजा यस्य तत्सैन्यं निवेशयामास ॥

  अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः।
  नि[२४]र्धौतदानामलगण्डभित्तिर्वन्यः सरित्तो गज उन्ममज्ज ॥४॥

 अथेति ॥ अथोपरिष्टादूर्ध्वम् ॥ “उपर्युपरिष्टात्" इति निपातः॥ भ्रमद्भिः। मदलोभादिति भावः । भ्रमरैः प्रागुन्मज्जनात्पूर्वं सूचितो ज्ञापितोऽन्तःसलिले प्रवेशो यस्य स तथोक्तः । निर्धौतदाने क्षालितमदे अत एवामले गण्डभित्ती यस्य स तथोक्तः ॥ “दानं गजमदे त्यागे" इति शाश्वतः ॥ प्रशस्तौ गण्डौ गण्डभित्ती॥ “प्रशंसावचनैश्च" इति समासः । भित्तिशब्दः प्रशस्तार्थः । तथा च गणरत्नमहोदधौ “मतल्लिकोद्धमिश्राः स्युः प्रकाण्डस्थलभित्तयः" इति ॥ भित्तिः प्रदेशो वा ॥ “भित्तिः प्रदेशे कुड्येsपि" इति विश्वः ॥ निर्धौतदानेनामला गण्डभित्तिर्यस्येति वा ।। वन्यो गजः सरित्तो नर्मदायाः सकाशात् ॥ पञ्चम्यास्तसिल्प्रत्ययः ॥ उन्ममज्जोत्थितः ।।

  निःशेषविक्षालितधातुनापि वप्रक्रियामृ[२५]क्षवतस्तटेषु ।
  नीलोर्ध्वरेखाशबलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन ॥ १४ ॥

 निःशेषेति ॥ कथंभूतो गजः। निःशेषविक्षालितधातुनापि धौतगैरिकादिनापि । नीलाभिरूर्ध्वाभी रेखाभिस्तटाभिघातजनिताभिः शबलेन कर्बुरेण ॥ "चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे" इत्यमरः॥अश्मभिः पाषाणैर्विकुण्ठितेन कुण्ठीकृतेन दन्तद्वयेन । ऋक्षवान्नाम कश्चित्तत्रत्यः पर्वतः। तस्य तटेषु वप्रक्रियां वप्रक्रीडाम् । उत्खातकेलिमित्यर्थः ।। " उत्खातकेलिः शृङ्गायैर्वप्रक्रीडा निगद्यते” इति शब्दार्णवः ॥ शंसन्कथयन् । सूचयन्नित्यर्थः । युग्मम् ॥

  संहा[२६]रविक्षपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् ।
  बभौ स भिन्दन्बृ[२७]हतस्तरंगान्वार्यर्गलाभङ्ग इव प्रवृत्तः।। ४५॥

 संहारेति ॥ संहारविक्षेपयोः संकोचनप्रसारणयोर्लघुक्रियेण क्षिप्रव्यापारेण ॥ 'लघु क्षिप्रमरं द्रुतम्" इत्यमरः ॥ हस्तेन शुण्डादण्डेन ॥ " हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि” इति विश्वः ॥ स शब्दं सघोषं बृहतस्तरंगान्भिन्दन्विदारयस्तराभिमुखः स गजः । वारी गजबन्धनस्थानम् ॥ “वारी तु गजबन्धनी" इति यादवः ॥ वार्या अर्गलाया विष्कम्भस्य भङ्गे भञ्जने प्रवृत्त इव बभौ ॥

  शै[२८]लोपमः शैवलमञ्जरीणां जालानि कर्षन्नु[२९]रसा स पश्चात् ।
  पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प ॥ ४६ ॥

 शैलेति॥शैलोपमः स गजः शैवलमञ्जरीणां जालानि वृन्दान्युरसा कर्षन्पश्चात्तटमुत्ससर्प।पूर्वं तेन गजेनोत्पीडितो नुन्नो वारिराशिर्यस्य स सरित्प्रवाहस्तटामुत्ससर्प ।।

  तस्यैकनागस्य कपोलभित्त्योर्ज[३०]लावगाहक्षणमात्रशान्ता ।
  वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्रीः ॥ ४७ ॥

 तस्येति ॥ तस्यैकनागस्यैकाकिनो गजस्य कपोलभित्त्योर्जलावगाहेन क्षणमात्रं शान्ता निवृत्ता मददुर्दिनश्रीर्मदवर्षलक्ष्मीर्वन्येतरेषां ग्राम्याणामनेकपानां द्विपानां दर्शनेन पुनर्दिदीपे ववृधे ।।

  सप्तच्छदक्षोरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम् ।
  विलङ्किताधारणतीव्रयत्नाः सेनागजेन्द्रा वि[३१]मुखा बभूवुः॥४८॥

 सप्तच्छदेति ॥ सप्तच्छदस्य वृक्षविशेषस्य क्षीरवत्कटुः सुरभिः प्रवाहः प्रसारो यस्य तम् ॥ “कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः" इति यादवः ॥ असह्यं तदीयं मदमाघ्राय सेनागजेन्द्राः । विलङ्कितस्तिरस्कृत आधोरणानां हस्तिपकानां तीव्रो महान्यत्नो यैस्ते तथोक्ताः सन्तः ॥ “ आधोरणा हस्तिपका हस्त्यारोहा निपादिनः" इत्यमरः ॥ विमुखाः पराङ्मुखा बभूवुः ॥

  स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।
  रामापरित्राणविहस्तयोधं सेनानिवेशं तु[३२]मुलं चकार ॥ ४९ ॥

 स इति ॥ स गजः । छिन्ना बन्धा यैस्ते छिन्नबन्धा द्रुताः पलायिताः । युगं वहन्तीति युग्या वाहा यस्मिन्सः । स चासौ शून्यश्च तम् । भग्ना अक्षा रथावयवदारुविशेषाः ॥ “अक्षो रथस्यावयवे पाशकेऽप्यक्षमिन्द्रियम्" इति शाश्वतः ॥ येषां ते भग्नाक्षा अत एव पर्यस्ताः पतिता रथा यस्मिस्तम् । रामाणां स्त्रीणां परित्राणे संरक्षणे विहस्ता व्याकुलाः ॥ “विहस्तव्याकुलौ समौ" इत्यमरः ॥ योधा यस्मिस्तं सेनानिवेशं शिबिरं क्षणेन तुमुलं संकुलं चकार ॥

  तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः।
  निवर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशा[३३]र्ङ्गः ॥५०॥

 तमिति ॥ नृपते राज्ञो वन्यः कर्यवध्य इति श्रुतवाञ्छास्त्राज्ज्ञातवान्कुमार आपतन्तमभिधावन्तं तं गजं निवर्तयिष्यन्न तु प्रहरिष्यन् । अत एव नात्यायतमनतिदीर्घं यथा स्यात् ॥ नञर्थस्य नशब्दस्य सुप्सुपेति समासः ॥ कृष्टशार्ङ्ग ईपदाकृष्टचापः सन्विशिखेन बाणेन कुम्भे जघान ॥ अत्र चाक्षुषः- "लक्ष्मीकामो युद्धादन्यत्र करिवधं न कुर्यात् । इयं हि श्रीर्ये करिणः” इति । अत एव “युद्धादन्यत्र" इति द्योतनार्थमेव वन्यग्रहणं कृतम् ॥

  स विद्धमात्रः किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्टः ।
  स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्योमचरं प्रपेदे ॥५१॥

 स इति ॥ स गजो विद्धमात्रस्ताडितमात्रः किल न तु प्रहृतस्तथापि नागरूपं गजशरीरमुत्सृज्य । तेन वृत्तान्तेन विस्मितैस्तद्विस्मितैः सैन्यदृष्टः सन् । स्फुरतः प्रभामण्डलस्य मध्यवर्ति कान्तं मनोहरं व्योमचरं वपुः प्रपेदे पाप ॥

  अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः ।
  उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलता[३४]रहारः॥५२ ।।

 अथेति ॥ अथ प्रभावेनोपनतैः प्राप्तैः कल्पद्रुमोत्थैः कल्पवृक्षोत्पन्नैः पुष्पैः कुमारमजमवकीर्याभिवृष्य दशनप्रभाभिर्दन्तकान्तिभिः संवर्धिता उरःस्थले ये तारहाराः स्थूलमुक्ताहारास्ते येन स तथोक्तः । वाचोऽस्य सन्तीति वाग्मी वक्ता ॥ वाचो ग्मिनिः" इति ग्मिनिप्रत्ययः ॥ स पुरुष उवाच ॥

  मतगङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् ।
  अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥ ५३ ॥

 मतङ्गति ।। अवलेपमूलाद्गर्वहेतुकात् ॥ “ अवलेपस्तु गर्वे स्याल्लेपने द्वेषणेऽपि च" इति विश्वः ॥ मतङ्गस्य मुनेः शापान्मतङ्गजत्वमवाप्तवानस्मि ॥ मां प्रियदर्शनस्य प्रियदर्शनाख्यस्य गन्धर्वपतेर्गन्धर्वराजस्य तनूजं पुत्रम् ॥ “स्त्रियां मूर्तिस्तनुस्तनूः" इत्यमरः ॥ तन्वादेर्वेत्यूङिति केचित् ॥ प्रियंवदं प्रियंवदाख्यमवेहि जानाहि । प्रियं वदतीति प्रियंवदः ॥ “प्रियवशे वदः खच्" इति खच्प्रत्ययः ॥

  स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मदुतामगच्छत् ।
  उष्णत्वमग्न्यातपसंप्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्लजस्य ॥५४॥

 स इति ॥ स महर्षिश्च प्रणतेन मयानुनीतः सन्पश्चान्मृदुतां शान्तिमगच्छत् ॥ तथाहि । जलस्योष्णत्वमग्नेरातपस्य वा संप्रयोगात्संपर्कात् । न तु प्रकृत्योष्णत्वम् । यच्छैत्यं सा प्रकृतिः स्वभावः ॥ विधेयप्राधान्यात्सेति स्त्रीलिङ्गनिर्देशः॥ महर्षीणां शान्तिरेव खभावो न क्रोध इत्यर्थः ॥

  इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन ।
  संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम् ॥५५॥

 इक्ष्वाक्विति ॥ इक्ष्वाकुवंशः प्रभवो यस्य सोऽजो यदा ते कुम्भमयोमुखेन लोहाग्रेण शरेण भेत्स्यति विदारयिष्यति तदा स्वेन वपुषो महिम्ना पुनः संयोक्ष्यसे संगंस्यस इति स तपोनिधिर्मामवोचत् ॥

  संमोचितः सत्त्ववता त्वयाहं शापाच्चिरप्रार्थितदर्शनेन ।
  प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः॥५६॥

 संमोचित इति ॥ चिरं प्रार्थितं दर्शनं यस्य तेन सत्त्ववता बलवता त्वयाहं शापासंमोचितो मोक्ष प्रापितः । भवतः प्रतिप्रियं प्रत्युपकारं न कुर्यां चेन्मे स्वपदोपलब्धिः स्वस्थानप्राप्तिः ॥ “ पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु" इत्यमरः ॥ वृथा स्यादि । तदुक्तम्-“प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम्" इति।

  संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् ।
  गान्धर्वमा[३५]दत्स्व यतः प्र[३६]योक्तुर्न चारिहिंसा विजयश्व हस्ते।।५७॥

 संमोहनमिति ॥ हे सखे । सखिशब्देन समप्राणतोक्ता । यथोक्तम्-"अत्यागसहनो बन्धुः सदैवानुमतः सुहृत् । एकक्रियं भवेन्मित्रं समप्राणः सखा मतः" इति ॥ प्रयोगसंहारयोविभक्तमन्त्रं गान्धर्वं गन्धर्वदेवताकम् । संमोह्यतेऽनेनेति संमोहनं नाम ममास्त्रमादत्स्व गृहाण । यतोऽस्त्रात्प्रयोक्तुरस्त्रप्रयोगिणॊऽरिहिंसा न च विजयश्च हस्ते । हस्तगतो विजयो भवतीत्यर्थः॥   वधलज्जितः कथमस्त्रग्रहणपरः स्यामिति चेत्तत्राह--

  अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभूः प्रहरन्नपि त्वम् ।
  तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौ[३७]क्ष्यम् ५८

 अलमिति ॥ किं च । मां प्रति ह्रिया प्रहारनिमित्तयालम् । कुतः । यद्यतो हेतोस्त्वं मां प्रहरन्नपि मुहूर्तं दयापरः कृपालुरभूः । तस्मादुपच्छन्दयति प्रार्थयमाने मयि त्वया । प्रतिषेधः परिहारः । स एव रौक्ष्यं पारुष्यम् । तन्न प्रयोज्यं न कर्तव्यम् ॥

  तथेत्युपस्पृश्य पयः पवित्रं सोमोद्भवायाः सरितो नृसोमः ।
  उदङ्मुखः सोऽस्त्र[३८]विदस्त्रमन्त्रं जग्राह तस्मान्नि[३९]गृहीतशापात् ॥ ५९

 तथेति ॥ ना सोमश्चन्द्र इव नृसोमः ॥ उपमितसमासः ॥ "सोम ओषधिचन्द्रयोः" इति शाश्वतः ॥ पुरुषश्रेष्ठ इत्यर्थः । अस्त्रविदस्त्रज्ञः सोऽजस्तथेति सोम उद्भवो यस्याः सा तस्याः सोमोद्भवायाः सरितो नर्मदायाः ॥ "रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका" इत्यमरः ॥ पवित्रं पय उपस्पृश्य पीत्वा । आचम्येत्यर्थः । उदङ्मुखः सन्निगृहीतशापान्निवर्तितशापात् । उपकृतादित्यर्थः । तस्मात्प्रियंवदादस्त्रमन्त्रं जग्राह ॥

  एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु ।
  एको ययौ चैत्ररथप्रदेशान्सौराज्यरम्यानपरो विदर्भान् ॥ ६० ॥

 एवमिति ॥ एवमध्वनि मार्गे दैवयोगाद्दैववशादचिन्त्यहेत्वनिर्धार्यहेतुकं सख्यं सखित्वम् ॥ "सख्युर्यः" इति यप्रत्ययः ॥ आसेदुषोः प्राप्तवतोस्तयोर्मध्य एको गन्धर्वश्चैत्ररथस्य कुबेरोद्यानस्य प्रदेशान् ॥ "अस्योद्यानं चैत्ररथम्" इत्यमरः ॥ अपरोऽजः सौराज्येन राजन्वत्तया रम्यान्विदर्भान्विदर्भदेशान्ययौ ॥

  तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः ।
  प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली ॥ ६१ ॥

 तमिति ॥ नगरस्योपकण्ठे समीपे तस्थिवांसं स्थितं तमजं तस्याजस्यागमेनागमनेनारूढ उत्पन्नो गुरुः प्रहर्षो यस्य स क्रथकैशिकेन्द्रो विदर्भराजः । प्रवृद्धोर्मिरूर्मिमाली समुद्रश्चन्द्रमिव । प्रत्युज्जगाम ॥

  प्रवेश्य चैनं पुरमग्रयायी नीचैस्तथोपाचरदर्पितश्रीः ।
  मेने यथा तत्र जनः स[४०]मेतो वैदर्भमार्गन्तुमजं गृहेशम् ॥ ६२ ॥

 प्रवेश्येति ॥ एनमजमग्रयायी। सेवाधर्मेण पुरो गच्छन्नित्यर्थः । नीचैर्नम्रः

पुरं प्रवेश्य प्रवेशं कारयित्वा प्रीत्यार्पितश्रीस्तथा तेन प्रकारेणोपाचरदुपचरितवान् । यथा येन प्रकारेण तत्र पुरे समेतो मिलितो जनो वैदर्भं भोजमागन्तुं प्राघूर्णिकं मेने । अजं गृहेशं गृहपतिं मेने ॥

  तस्या[४१]धिकारपुरुषैः प्रणतैः प्रदिष्टां
   प्राग्द्वारवेदिविविवेशितपू[४२]र्णकुम्भाम् ।
  रम्यां रघुप्रतिनिधिः स नवोपकार्यां
   बाल्यात्परामिव दशां मदनोऽध्युवास ।। ६३॥

 तस्येति ॥ रघुप्रतिनिधी रघुकल्पः । रघुतुल्य इत्यर्थः । उक्तं च दण्डिना सादृश्यवाचकप्रस्तावे “ कल्पदेशीयदेश्यादि प्रख्यप्रतिनिधी अपि इति ॥ सोऽजः प्रणतैर्नमस्कृतवद्भिः॥ कर्तरि क्तः ॥ तस्य भोजस्याधिकारी नियोगस्तस्य पुरुषैः । अधिकृतैरित्यर्थः । मदिष्टां निर्दिष्टां प्राग्द्वारस्य वेद्यां विनिवेशितः प्रतिष्ठापितः पूर्णकुम्भो यस्यास्ताम् । स्थापितमङ्गलकलशामित्यर्थः । रम्यां रमणीयां नवोपकार्यां नूतनं राजभवनम् ॥ “ उपकार्या राजसद्मन्युपचारचितेऽन्यवत्' इति विश्वः ॥ मदनो बाल्यात्परां शैशवादनन्तरां दशामिव ॥ यौवनमिवेत्यर्थः । अध्युवासाधिष्ठितवान् । तत्रोषितवानित्यर्थः ॥ "उपान्वध्याङ्वसः" इति कर्मत्वम् ॥

  तत्र स्वयंवरसमाहृतराजलोकं
   कन्याललाम कमनीयमजस्य लिप्सोः ।
  भावावबोधकलुषा दयितेव रात्रौ
   निद्रा चिरेण नयनाभिमुखी बभूव ॥६४ ॥

 तत्रेति ॥ तत्रोपकार्यायाम् । स्वयंवरनिमित्तं समाहृतः संमेलितो राजलोको येन तत्कमनीयं स्पृहणीयं कन्याललाम कन्यासु श्रेष्ठम् ॥ “ललामोऽस्त्री ललामापि प्रभावे पुरुषे ध्वजे । श्रेष्ठभूषाशुण्डशृङ्गपुच्छचिह्नाश्वलिङ्गिषु" इति यादवः ॥ लिप्सोर्लब्धुमिच्छोः ॥ लमेः सन्नन्तादुप्रत्ययः॥ अजस्य भावावबोधे पुरुषस्याभिप्रायपरिज्ञाने कलुषासमर्था दयितेव । रात्री निद्रा चिरेण नयनाभिमुखी बभूव ।। "राजानं कामिनं चौरं प्रविशन्ति प्रजागराः" इति भावः ॥ अभिमुखीशब्दो

डीषन्तश्च्व्यन्तो वा॥

  तं कर्णभूषणनिपीडितपीवरांसं
   शय्योत्तरच्छदविमर्दकृशाङ्गरागम् ।
  सू[४३]तात्मजाः सवयसः प्रथितप्रबोधं
   प्राबोधयन्नुषसि वाग्भिरुदारवाचः॥६५॥

 तमिति ॥ कर्णभूषणाभ्यां निपीडितौ पीवरौ पीनावंसौ यस्य तम् । शय्याया उत्तरच्छदस्योपर्यास्तरणवस्त्रस्य विमर्देन घर्षणेन कृशो विमलोऽङ्गरागो यस्य तम् । न त्वङ्गनासङ्गादिति भावः । प्रथितप्रबोधं प्रकृष्टज्ञानं तमेनमजं सवयसः समानवयस्का उदारवाचः प्रगल्भगिरः सूतात्मजा बन्दिपुत्राः ॥ “वैतालिकाः" इति वा पाठः । “वैतालिका बोधकराः" इत्यमरः ॥ वाग्भिः स्तुतिपाठरुषसि प्राबोधयन्प्रबोधयामासुः॥

  रात्रिर्गता मतिमतां वर मुश्च शय्यां
   धात्रा द्विधैव ननु धूर्जगतो विभक्ता।
  ता[४४]मेकतस्तव बिभर्ति गुरुर्विनि[४५]द्र-
   स्तस्या भवानपरधुर्यपदावलम्बी ॥ ६६ ॥

 रात्रिरिति ॥ हे मतिमतां वर ॥ निर्धारणे षष्ठी ॥ रात्रिर्गता । शय्यां मुश्च । विनिद्रो भवेत्यर्थः । विनिद्रत्वे फलमाह-धात्रेति ॥ धात्रा ब्रह्मणा जगतो धूर्भारः ॥ "धूः स्याद्यानमुखे भारे" इति यादवः ॥ द्विधैव । द्वयोरेवेत्यर्थः । एवकारस्तृतीयनिषेधार्थः । विभक्ता ननु विभज्य स्थापिता खलु ॥ तत्किमत आह-तां धुरमेकत एककोटौ तव गुरुः पिता विनिद्रः सन्बिभर्ति । तस्या धुरो भवान् । धुरं वहतीति धुर्यो भारवाही । तस्य पदं वहनस्थानम् । अपरं यद्धुर्यपदं तदवलम्बी । ततो विनिद्रो भवेत्यर्थः । न ह्युभयवाह्यमेको वहतीति भावः ।।

  नि[४६]द्रावशेन भवताप्य[४७]नवेक्षमाणा
   पर्युत्सुकत्वमबला निशि खण्डितेव ।
  लक्ष्मीर्विनोदयति येन दिगन्तलम्बी
   सोऽपि त्वदाननरुचिं विजहाति चन्द्रः॥६७॥

 निद्रेति ।। चन्द्रारविन्दराजवदनादयो लक्ष्मीनिवासस्थानानीति प्रसिद्धिमाश्रित्योच्यते । निद्रावशेन निद्राधीनेन । स्त्र्यन्तरासगोऽत्र ध्वन्यते । भवता पर्युत्सुकत्वमपि । त्वय्यनुरक्तत्वमपीयर्थः ॥ “प्रसितोत्सुकाभ्यां तृतीया च" इति सप्तम्यर्थे तृतीया ॥ अपिशब्दस्तद्विषयानुरागस्यानपेक्ष्यत्वद्योतनार्थः ॥ निशि खण्डिता भर्तुर०न्यासङ्गज्ञानकलुषिताबलेव नायिकेव ॥ "ज्ञातेऽन्यासाङ्गविकृते खण्डितेर्ष्याकषायिता" इति दशरूपके ।। अनवेक्षमाणाविचारयन्ती सती । उपेक्षमाणेत्यर्थः ॥ " ह्यनवेक्ष्यमाणा" इति पाठे निद्रावशेन भवतानवेक्ष्यमाणानिरीक्ष्यमाणा ॥ कर्मणि शानच् ॥ लक्ष्मीः । प्रयोजककर्त्री । येन । प्रयोज्येन । चन्द्रेण ।

पर्युत्सुकत्वं त्वद्विरहवेदनाम् ।। “कालाक्षमत्वमौत्सुक्यं मनस्तापज्वरादिकृत् " इत्यलंकारे ॥ विनोदयति निरासयतीति योजना । शेषं पूर्ववत् ॥ नाथस्त्वर्थोपपत्तिमपश्यन्निमं पक्षमुपैक्षिष्ट ॥ लक्ष्मीर्येन चन्द्रेण सह । त्वदाननसदृशत्वादिति भावः । विनोदयति विनोदं करोति ॥ विनोदशब्दात् “ तत्करोति तदाचष्टे" इति णिच्प्रययः ॥ सादृश्यदर्शनादयो हि विरहिणां विनोदस्थानानीति भावः । स चन्द्रोऽपि दिगन्तलम्बी पश्चिमाशां गतः सन् । अस्तं गच्छन्नित्यर्थः ।। अत एव त्वदाननरुचिं विजहाति । त्वन्मुखसादृश्यं त्यजतीसर्थः । अतो निद्रां विहाय तां लक्ष्मीमनन्यशरणां परिगृहाणेति भावः ॥

  तद्वल्गुना युगपदुन्मिषितेन ताव-
   त्सद्यः परस्परतुलामधिरोहतां द्वे ।
  प्रस्पन्दमानपरुषतरतारमन्त-
   श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥ ६८॥

 तदिति ॥ तत्तस्माल्लक्ष्मीपरिग्रहणाद्वल्गुना मनोज्ञेन ॥ " वल्गु स्थाने मनोज्ञे च वल्गु भाषितमन्यवत्" इति विश्वः ॥ युगपत्तावदुन्मिषितेन युगपदेवोन्मीलितेन सद्यो द्वे अपि परस्परतुलामन्योन्यसादृश्यमधिरोहतां प्राप्नुताम् ।। प्रार्थनायां लोट् ॥ के द्वे । अन्तः प्रस्पन्दमाना चलन्ती परुषेतरा स्निग्धा तारा कनीनिका यस्य तत्तथोक्तम् ॥ " तारकाक्ष्णः कनीनिका" इत्यमरः।। तव चक्षुः । अन्तः प्रचलितभ्रमरं चलद्भृङ्गं पद्मं च । युगपदुन्मेषे सति संपूर्णसादृश्यलाभ इति भावः॥

  वृ[४८]न्ताच्छ्लथं हरति पुष्पमनोकहानां
   संसृज्यते सरसिजैररुणांशुभिन्नैः ।
  स्वा[४९]भाविकं परगुणेन विभातवायुः
   सौरभ्यमीप्सुरिव ते मुखमारुतस्य ॥ ६९ ॥

 वृन्तादिति ॥ बिभातवायुः प्रभातवायुः स्वाभाविकं नैसर्गिकं ते तव मुखमारुतस्य निःश्वासपवनस्य सौरभ्यम् । तादृक्सौगन्ध्यमित्यर्थः । परगुणेनान्यदीयगुणेन । सांक्रामिकगन्धेनेत्यर्थः । ईप्सुराप्तुमिच्छुरिव ॥ " आप्ज्ञप्यृधामीत्" इतीकारादेशः॥ अनोकहानां वृक्षाणां श्लथं शिथिलं पुष्पं वृन्तात्पुष्पबन्धनात् ॥ “वृन्तं प्रसवबन्धनम्" इत्यमरः॥ हरत्यादत्ते । अरुणांशुभिन्नैस्तरणिकरणोद्बोधितैः सरसि जातैः सरसिजैः कमलैः सह ॥ “तत्पुरुषे कृति बहुलम्" इति सप्तम्या अलुक् ॥संसृज्यते संगच्छते ॥ सृजेर्दैवादिकाकर्तरि लट् ॥

  ताम्रोदरेषु पतितं त[५०]रुपल्लवेषु
   नि[५१]र्धौतहारगुलिकाविशदं हिमाम्भः ।
  आभाति लब्धपरभागतयाधरोष्ठे
   लीलास्मितं सदशनार्चिरिव त्वदीयम् ॥ ७०॥

 तात्रेति ॥ ताम्रोदरेष्वरुणाभ्यन्तरेषु तरुपल्लवेषु पतितं निर्धौता या हारगुलिया मुक्तामणयस्तद्वद्विशदं हिमाम्भो लब्धपरभागतया लब्धोत्कर्षतया ॥ "परभागो गुणोत्कर्षे" इति यादवः ॥ अधरोष्ठे त्वदीयं सदशनार्चिर्दन्तकान्तिसहितं लीलास्मितमिवाभाति शोभते ।।

  यावत्प्रतापनिधिराक्रमते न भानु-
   रह्नाय तावदरुणेन तमो निरस्तम् ।
  आयोधनाग्रसरता त्वयि वीर याते
   किं वा रिपूंस्तव गुरुः स्वयमुच्छिनत्ति ॥७१ ॥

 यावदिति ॥ प्रतापनिधिस्तेजोनिधिर्भानुर्यावन्नाक्रमते नोद्गच्छति ॥ “आङ उद्गमने" इत्यात्मनेपदम् ॥ तावत् । भानावनुदित एवेत्यर्थः ॥ अह्नाय झटिति ॥ "द्राग्झटित्यञ्जसाह्नाय" इत्यमरः ॥ अरुणेनानूरुणा ॥ “सूर्यसूतोऽरुणोऽनूरुः" इत्यमरः । तमो निरस्तम् ॥ तथाहि । हे वीर त्वय्यायोधनेषु युद्धेषु ॥ “युद्धमायोधनं जन्यम्" इत्यमरः ॥ अग्रसरतां पुरःसरतां याते सति तव गुरुः पिता रिपून्स्वयमुच्छिनत्ति किं वा । नोच्छिनत्त्येवेत्यर्थः ॥ न खलु योग्यपुत्रन्यस्तभाराणां स्वामिनां स्वयं व्यापारखेद इति भावः ॥

  शय्यां जहत्युभयपक्षविनीतनिद्राः
   स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते ।

  येषां विभान्ति तरुणारुण[५२]रागयोगा-
   द्भिन्नाद्रिगैरिकतटा इव दन्तकोशाः॥७२॥

 शय्यामिति ॥ उभाभ्यां पक्षाभ्यां पार्श्वाभ्यां विनीतापगता निद्रा येषां त उभयपक्षविनीतनिद्राः ॥ अत्र समासविषय उभशब्दस्थान उभयशब्दप्रयोग एव साधुरित्यनुसंधेयम् ॥ यथाह कैयटः- "उभादुदात्तो नित्यमिति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषय उभशब्दस्य प्रयोगो मा भूत् । उभयशब्दस्यैव यथा स्यात् । उभयपुत्र इत्यादि भवति" इति ॥ मुखराण्युत्थानचलनाच्छब्दायमानानि शृङ्खलानि निगडानि कर्षन्तीन्ति तथोक्तास्ते तव स्तम्बे रमन्त इति स्तम्बेरमा हस्तिनः ॥ “ स्तम्बकर्णयो रमिजपोः" इत्यच्प्रत्ययः । “ हस्तिसूचकयोः" इति वक्तव्यात् ॥ “इभः स्तम्बेरमः पद्मी" इत्यमरः ॥ “तत्पुरुषे कृति बहुलम्" इति सप्तम्या अलुक् ॥ शय्यां जहति त्यजन्ति । येषां स्तम्बरमाणाम् । दन्ताः कोशा इव दन्तकोशाः । दन्तकुड्मलास्तरुणारुणरागयोगाद्वालार्कारुणसंपर्काद्धेतोर्भिन्नाद्रिगैरिकतटा इव विभान्ति । धातुरक्ता इव भान्तीत्यर्थः ॥

  दीर्घेष्वमी नियमिताः पटमण्डपेषु
   निद्रां विहाय व[५३]नजाक्ष वनायुदेश्याः ।
  वक्त्रोष्मणा मलिनयन्ति पुरोगतानि
   लेह्यानि सैन्धवशिलाशकलानि वाहाः॥७३॥

 दीर्घेष्विति ॥ हे वनजाक्ष नीरजाक्ष ॥ “वनं नीरं वनं सत्त्वम्” इति शाश्वतः ॥ दीर्घेषु पटमण्डपेषु नियमिता बद्धा वनायुदेश्या वनायुदेशे भवाः ॥ "पारसीका वनायुजाः" इति हलायुधः ॥ अमी वाहा अश्वा निद्रां विहाय पुरोगतानि लेह्यान्यास्वाद्यानि सैन्धवशिलाशकलानि ॥ “सैन्धवोऽस्त्री सितशिवं माणिमन्थं च सिन्धुजे" इत्यमरः ॥ वक्त्रोष्मणा मलिनयन्ति मलिनानि कुर्वन्ति । उक्तं च सिद्धयोगसंग्रहे-“पूर्वाह्णकाले चाश्वानां प्रायाशो लवणं हितम् । शूलमोहविबन्धघ्नं लवणं सैन्धवं वरम्" इत्यादि ।

  भवति विरलभक्तिर्म्लानपुष्पोपहारः
   स्वकिरणपरिवेषोद्भेदशून्याः प्रदीपाः।
  अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्ता-
   मनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः॥७४॥

 भवतीति ॥ म्लानः पुष्पोपहारः पुष्पपूजा म्लानत्वादेव विरलभक्तिर्विरलरचनो भवति । प्रदीपाश्च स्वकिरणानां परिवेषस्य मण्डलस्योद्भेदेन स्फुरणेन शून्या भवन्ति । निस्तेजस्का भवन्तीत्यर्थः । अपि चायं मञ्जुवाङ्मधुरवचनः पञ्जरस्थस्ते तव शुकस्त्वत्प्रबोधनिमित्ते प्रयुक्तामुच्चारितां नोऽस्माकं गिरं वाणीमनुवदति । अनुकृत्य वदतीयर्थः ।। इत्थं प्रभातलिङ्गानि वर्तन्ते । अतः प्रबोद्धव्यमिति भावः॥

  [५४]ति विरचितवाग्भिर्बन्दिपुत्रैः कुमारः
   सपदि वि[५५]गतनिद्रस्तल्पमुज्झांचकार ।
  मदपटुनिनदद्भिर्बोधितो राजहंसैः
   सुरगज इव गाङ्गं सैकतं सुप्रतीकः॥७५॥

 इतीति ॥ इतीत्थं विरचितवाग्भिर्वन्दिपुत्रैर्वैतालिकैः ॥ पुत्रग्रहणं समानवयस्कत्वद्योतनार्थम् । सपदि विगतनिद्रः कुमारः ॥ तल्पं शय्याम् ॥ " तल्पं शय्यादृदारेषु" इत्यमरः ॥ उज्झांचकार विससर्ज ॥ " इजादेश्च गुरुमतोऽनृच्छः" इत्याम्प्रत्ययः ॥ कथमिव । मदेन पटु मधुरं निनदद्भी राजहंसैर्बोधितः सुप्रतीकाख्यः ॥ सुरगज ईशानदिग्गजः । गङ्गाया इदं गाङ्गम् । सैकतं पुलिनमिव ॥ " तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्" इत्यमरः ॥ “सिकताशर्कराभ्यां च" इत्यण्प्रत्ययः ॥ सुप्रतीकग्रहणं प्रायशः कैलासवासिनस्तस्य नित्यं गङ्गातटविहारसंभवादित्यनुसंधेयम् ॥

  अथ विधिमवसाय्य शास्त्रदृष्टं
   दिवसमुखोचितमञ्चिताक्षिपक्ष्मा।
  कुशलविरचिता[५६]नुकूलवेषः
   क्षितिपसमाजमगात्स्वयंवरस्थम् ॥७६॥

 अथेति ॥ अथोत्थानानन्तरमञ्चितानि चारूण्यक्षिपक्ष्माणि यस्य सोऽजः शास्त्रे दृष्टमवगतं दिवसमुखोचितं प्रातःकालोचितं विधिमनुष्ठानमवसाय्य समाप्य ॥ स्यतेर्ण्यन्ताल्ल्यप् ॥ कुशलैः प्रसाधनदक्षैर्विरचितोऽनुकूलः स्वयंवरोचितो वेषो नेपथ्यं यस्य स तथोक्तः सन्स्वयंवरस्थं क्षितिपसमाजं राजसमूहमंगादगमत् ॥ "इणो गा लुङि" इति गादेशः ॥ पुष्पिताग्रावृत्तमेतत् । तल्लक्षणम् - "अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा" इति ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
अजस्वयंवराभिगमनो नाम पञ्चमः सर्गः।

  1. अनर्घ्यशीलः.
  2. अयि.
  3. चैतन्यमुग्रादिव दीक्षितेन.
  4. च.
  5. वज्रिणो धैर्यविलोपि तप्तम् .
  6. कडंकरीयैः.
  7. अयि.
  8. अनुग्रहेणाभिगमस्थितेन तवार्हतस्तुष्यति मे न चेतः.
  9. अयि.
  10. तं प्रत्यवोचद्वरतन्तुशिष्यः; प्रत्याह कौत्सस्तमपेतकुत्सम्.
  11. महाभागतया.
  12. त्वत्ख.
  13. अवाप्तविद्येन.
  14. महितः.
  15. अवितथां प्रतीत; अवितथप्रयत्नः.
  16. कौत्सस्य.
  17. मनीषी.
  18. वाक्यम्.
  19. ईड्यः .
  20. अग्र्यजन्मानम्.
  21. गन्तुकामा; कामयाना.
  22. कृथकौशकानाम्.
  23. कीर्णान्तरा.
  24. निर्धूतदानामलगल्लभित्तिः; निर्धूतदानामलगण्डलेखः.
  25. ऋष्यवतः.
  26. स भोगिभोगाधिकपीवरेण संवेष्टितार्धप्रसृतेन दीर्घान् । चिक्षेप तीराभिमुखः सशब्दं हस्तेन वारीपरिघानिवोर्वीन्.
    (१ संवेष्टितोऽर्धप्रसरेण.)
  27. सहसा.
  28. कारण्डवोत्सृष्टमृदुप्रवालाः पुलिन्दयोषाम्बुविहारकाञ्चीः। कर्षन्स सेवाललता नदीष्णः प्रौहाबलग्रास्तटामुत्सर्प.( १ प्रतानाः. २ शैवाल, ३ प्रोहावलग्नाः; प्रवाहलग्नाः.)
  29. तरसा.
  30. ह्रदावगाह.
  31. विमुखीबभूवुः.
  32. चपलम्.
  33. चापः.
  34. चारुहारः.
  35. आधत्स्व.
  36. प्रहर्तुः
  37. रूक्षम्.
  38. अस्त्रविदः.
  39. विगृहीतशासी.
  40. समस्तः.
  41. अधिकारिपुरुषैः.
  42. हेमकुम्भाम्.
  43. वैतालिका ललितबन्धमनोहराभिः.
  44. याम्.
  45. वितन्द्रः.
  46. निद्रावशं त्वयि गते * * *
    कथंचिदात्मानमाननरुचा भवतो वियुज्य । लक्ष्मीर्विभातसमयेऽपि हि दर्शनेन पर्युत्सुका प्रणयिनी
    निशि खण्डितेव.
  47. अप्यनपेक्षमाणा;अप्यनवेक्ष्यमाणा; ह्यनपेक्ष्यमाणा.
  48. वृन्तश्लथम्.
  49. सौरभ्यमीप्सुरिव ते मुखमारुतस्य यन्नो गुणान्मति निशापरिणामवायुः.
  50. द्रुमपल्लवेषु.
  51. निर्धूतहारगुटिका.
  52. कान्तियोगात्.
  53. वनजाक्ष वनायुजास्ते; वनजेक्षणवाह्निदेश्याः.
  54. इति स विगतनिद्रस्तल्पमल्पतराशः सुरगज इव गङ्गासैकतं सुप्रतीकः । परिजनवनितानां
    पादयोर्व्यापृतानां वलयमणिविदिष्टं प्रच्छदान्तं मुमोच.
  55. विहितनिद्रः; विहतनिद्रः
  56. अनुरूपवेषः.