रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/षोडशः सर्गः(कुमुद्वतीपरिणयः)

← पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः) रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
षोडशः सर्गः(कुमुद्वतीपरिणयः)
कालिदासः
सप्तदशः सर्गः(अतिथिवर्णनः) →
रघुवंशस्य सर्गाः
प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) द्वितीयः सर्गः(नन्दिनीवरप्रदानः)

तृतीयः सर्गः(रघुराज्याभिषेकः)

चतुर्थः सर्गः(रघुदिग्विजयः) पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
षष्ठः सर्गः(स्वयंवरवर्णनः) सप्तमः सर्गः(अजपाणिग्रहणः)

अष्टमः सर्गः(अजविलापः)

नवमः सर्गः(मृगयावर्णनः) दशमः सर्गः(रामावतारः)


एकादशः सर्गः(सीताविवाहवर्णनः) द्वादशः सर्गः(रावणवधः)

त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

चतुर्दशः सर्गः(सीतापरित्यागः) पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
षोडशः सर्गः(कुमुद्वतीपरिणयः) सप्तदशः सर्गः(अतिथिवर्णनः)

अष्टादशः सर्गः(वंशानुक्रमः)

एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

षोडशः सर्गः ।


   वृन्दारका यस्य भवन्ति भृङ्गा मन्दाकिनी यन्मकरन्दबिन्दुः ।
   तवारविन्दाक्ष पदारविन्दं वन्दे चतुर्वर्गचतुष्पदं तत् ॥

  अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च ।
  चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुसारि ॥ १ ॥

 अथेति ॥अथ रामनिर्वाणानन्तरमितरे लवादयः सप्त रघुप्रवीराः । पुरः पूर्वं ज

यस्य तस्य भावस्तत्ता तया। गुणैश्च ज्येष्ठं कुशं रत्नविशेषभाजं तत्तच्छ्रेष्ठवस्तुभागिनं चक्रुः ॥ तदुक्तम्-“जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते” इति ॥ तथाहि । सुभ्रातॄणां भावः सौभ्रात्रम् ॥ “हायनान्त-" इत्यादिना युवादित्वादण्प्रत्ययः । एषां कुशलवादीनां कुलानुसारि वंशानुगतं हि ॥

  ते सेतुवार्तागजबन्धमुख्यैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः ।
  अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः॥२॥

 त इति । सेतुर्जलबन्धः । वार्ता कृषिगोरक्षणादिः ॥ “वार्ता कृष्याद्युदन्तयोः" इति विश्वः॥ गजबन्ध आकरेभ्यो गजग्रहणम् । ते मुख्यं प्रधानं येषां तैरवन्ध्यैः सफलैः कर्मभिरभ्युच्छ्रिताः। अतिसमर्था अपीत्यर्थः। ते कुशादयः । प्रविभज्यन्त इति प्रविभागाः। अन्योन्यदेशप्रविभागानां या सीमा ताम् । वेलां समुद्रा इव । न व्यतीयुर्नातिचक्रमुः ॥ अत्र कामन्दकः-- " कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् । खन्याकरधनादानं शून्यानां च निवेशनम् । अष्टवर्गमिमं साधुः स्वयं वृद्धोऽपि वर्धयेत्" इति ॥

  चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानाम् ।
  सुरद्विपानामिव सामयोनिर्भिन्नोऽष्टधा विप्रससार वंशः॥ ३ ॥

 चतुर्भुजेति ॥ चतुर्भुजो विष्णुः । तस्यांशा रामादयः । ते प्रभवाः कारणानि यस्य स तथोक्तः । दानं त्यागो मदश्च ॥ “दानं गजमदे त्यागे” इति विश्वः॥ प्रवृत्तिव्यापारः प्रवाहश्च । दानप्रवृत्तेरनुपारतानां तेषां कुशलवादीनां स वंशः। सामयोनिः सामवेदप्रभवो दानप्रवृत्तेरनुपारतानां सुरद्विपानां दिग्गजानां वंश इव । अष्टधा भिन्नः सन् । विप्रससार विस्तृतोऽभूत् ॥ सामयोनिरित्यत्र पालकाव्यः-- "सूर्यस्याण्डकपाले द्वे समानीय प्रजापतिः । हस्ताभ्यां परिगृह्याथ सप्त सामान्यगायत । गायतो ब्रह्मणस्तस्मात्समुत्पेतुर्मतङ्गजाः" इति ।

  अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः ।
  कुशः प्रवासस्थकलत्रवेशामदृष्टपूर्वां वनितामपश्यत् ॥ ४॥

 अथेति ॥ अथ । अर्धं रात्रेरर्धरात्रः ॥ “अर्धं नपुंसकम्" इत्येकदेशसमासः । "अहःसर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः" इति समासान्तोऽच्प्रत्ययः । “रात्राह्नाहाः पुंसि" इति नियमात्पुंस्त्वम् ॥ अर्धरात्रे निशीथे स्तिमितप्रदीपे सुप्तजने शय्यागृहे

प्रबुद्धः । न तु सुप्तः । कुशः प्रवासस्थकलत्रवेशां प्रोषितभर्तृकावेशाम् ।अदृष्टा पूर्वमित्यदृष्टपूर्वा ताम् ॥ सुप्सुपेति समासः॥ वनितामपश्यत् ॥

  सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात्पुरुहूतभासः ।
  जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध ॥५॥

 सेति॥सा वनिता साधुसाधारणपार्थिवर्द्धेः सज्जनसाधारणराज्यश्रियः पुरुहूतभास इन्द्रतेजसः परेषां शत्रूणां जेतुर्बन्धुमतस्तस्य कुशस्य पुरस्तात्स्थित्वा जयशब्दपूर्वं यथा तथाञ्जलिं बबन्ध ॥

  []थानपोढार्गलमप्यगारं छायामिवादर्शतलं प्रविष्टाम् ।
  सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धविसृष्टतल्पः॥ ६ ॥

 अथेति ॥ अथ सविस्मयः पूर्वार्धेन शरीरपूर्वभागेन विसृष्टतल्पस्त्यक्तशय्यो दाशरथेस्तनूजः कुशः । अनपोढार्गलमनुद्घाटितविष्कम्भमपि ॥ "तद्विष्कम्भेऽर्गलं न ना" इत्यमरः॥ अगारम् । आदर्शतलं छायामिव । प्रविष्टां तां वनितां प्रोवाचावदत् ॥

  लब्धान्तरा सावरणेऽपि गेहे योग[]प्रभावो न च लक्ष्यते ते ।
  बिभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ॥७॥
  का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।
  आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥८॥

 लब्धेति।का त्वमिति च॥ युग्मम् ॥ सावरणेऽपि गेहे लब्धान्तरा लब्धावकाशा। त्वमिति शेषः। योगप्रभावश्च ते न लक्ष्यते । मृणालिनी हैमं हिमकृतमुपरागमुपद्रवमिव । अनिर्वृत्तानां दुःखितानामाकारं बिभर्षि च । न हि योगिनां दुःखमस्तीति भावः ॥ किञ्च । हे शुभे, त्वं का कस्य वा परिग्रहः पत्नी । ते तव मदभ्यागमे कारणं वा किम् । वशिनां जितेन्द्रियाणां रघूणां मनः परस्त्रीषु विषये विमुखा प्रवृत्तिर्यस्य तत्तथाभूतं मत्वाचक्ष्व ॥

  तमब्रवीत्सा गुरुणानवद्या या नीतपौरा स्वपदोन्मुखेन ।
  तस्याः पुरः सम्प्रति वीतनाथां जानीहि राजन्नधिदेवतां माम्।।९।।

 तमिति ॥ सा वनिता तं कुशमब्रवीत् । अनवद्यादोषा या पूः स्वपदोन्मुखेन विष्णुपदोन्मुखेन गुरुणा त्वत्पित्रा नीतपौरा हे राजन्, मां सम्प्रति वीतनाथामनाथां तस्याः पुरो नगर्या अयोध्याया अधिदेवतां जानीहि ॥

  वस्वौकसारामभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या
  समग्रशक्तौ त्वयि सूर्यवंश्ये सति प्रपन्ना करुणामवस्थाम्।।१०॥

 वस्वौकसारामिति ॥ साहं सौराज्येन राजन्वत्तया हेतुना बद्धोत्सवया विभूत्या । वस्वौकसारालका पुरी ॥ "अलका पुरी वस्वौकसारा स्यात्" इति कोशः॥ अथवा मानसोत्तरशैलशिखरवर्तिनी शक्रनगरी । “ वस्वौकसारा शक्रस्य" इति विष्णुपुराणात् ॥ तामभिभूय तिरस्कृत्य समग्रशक्तौ त्वयि सूर्यवंश्ये सति करुणामवस्थां दीनां दशां प्रपन्ना प्राप्ता ॥

  वि[]शीर्णतल्पाट्टशतो निवेशः पर्यस्तसालः प्रभुणा विना मे ।
  विडम्बयत्य[]स्तनिमग्नसूर्यं दिनान्तमुग्रानिलभिन्नमेघम् ॥११ ॥

 विशीर्णेति ॥ तल्पान्यट्टालिकाः ॥ “ तल्पं शय्याट्टदारेषु" इत्यमरः ॥ अट्टानि गृहभेदाः ॥ “अट्टं भक्ते च शुष्के च क्षौमेऽत्यर्थे गृहान्तरे" इति विश्वः।। विशीर्णानि तल्पानामट्टानां च शतानि यस्य स तथोक्तः ॥ विशीर्णकल्पाट्टशतो निवेशः" इति वा पाठः। अट्टा क्षौमाः। “स्यादट्टः क्षौममस्त्रियाम्" । इत्यमरः ॥ ईषदसमाप्तं विशीर्णानि विशीर्णकल्पान्यट्टशतानि यस्य स तथोक्तः॥ पर्यस्तसालः स्रस्तप्राकारः ॥ “प्राकारो वरणः सालः" इत्यमरः॥प्रभुणा स्वामिना विनैवम्भूतो मे निवेशो निवेशनम् । अस्तनिमग्नसूर्यमस्ताद्रिलीनार्कमुग्रानिलेन भिन्नमेघं दिनान्तं विडम्बयत्यनुकरोति ॥

  निशासु भास्वत्कलनूपुराणां यः सञ्चरोऽभूदभिसारिकाणाम् ।
  []दन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथःशिवाभिः॥१२॥

 निशास्विति॥निशासु भास्वन्ति दीप्तिमन्ति कलान्यव्यक्तमधुराणि नूपुराणि यासां तासामभिसारिकाणाम् ॥ “कान्तार्थिनी तु या याति सङ्केतं साभिसारिका" इत्यमरः ॥ यो राजपथः । सञ्चरत्यनेनेति सञ्चरः । सञ्चारसाधनमभूत् ॥ “गोचरसञ्चर"-- इत्यादिना घप्रत्ययान्तो निपातः ॥ नदत्सु मुखेषु या उल्कास्ताभिर्विचितामिषाभिरन्विष्टमांसाभिः शिवाभिः क्रोष्ट्रीभिः स राजपथो वाह्यते गम्यते ।। वहेरन्यो वहिधातुरस्तीत्युपदेशः ॥

  आस्फालितं यत्प्रमदाकराग्नैर्मृदङ्गधीरध्व[]निमन्वगच्छत् ।
  वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घि[]काणाम्॥१३॥

 आस्फालितमिति ॥ यदम्भः प्रमदाकराग्रैरास्फालितं ताडितं सत् । जलक्रीडास्विति शेषः । मृदङ्गानां यो धीरध्वनिस्तमन्वगच्छदन्वकरोत् । तद्दीर्घिकाणामम्भ इदानीं वन्यैर्महिषैः । कर्तृभिः । शृङ्गैर्विषाणैराहतं सत्क्रोशति । न तु मृदङ्गध्वनिमनुकरोतीत्यर्थः॥

  वृक्षेशया यष्टिनिवासभङ्गान्मृदङ्गशब्दापगमादलास्याः।
  प्राप्ता दवोल्काहतशेषबर्हाः क्रीडामयूरा वनबर्हिणत्वम् ।।१४॥

 वृक्षेशया इति ।। यष्टिरेव निवासः स्थानं तस्य भङ्गात् । वृक्षे शेरत इति

वृक्षेशयाः ॥ “ अधिकरणे शेतेः" इत्यच्प्रत्ययः । “शयवासवासिष्वकालात् इत्यलुक्सप्तम्याः ॥ मृदङ्गशब्दानामपगमादभावादलास्या नृत्यशून्याः । दवोऽरण्यवह्निः|| " दवदावौ वनारण्यवह्नी" इत्यमरः ॥ तस्योल्काभिः स्फुलिङ्गैर्हतेभ्यः शेषाणि बर्हाणि येषां ते क्रीडामयूरा वनबर्हिणत्वं वनमयूरत्वं प्राप्ताः ॥

  सोपानमार्गेषु च येषु रामा निक्षिप्तवत्यश्च[]रणान्सरागान् ।
  सद्यो हतन्यङ्कुभिरस्रदिग्धं व्याघ्रैः पदं तेषु निधीयते मे[]।।१५॥

 सोपानेति ॥ किञ्च । येषु सोपानमार्गेषु रामा रमण्यः सरागाल्लाक्षारसार्दांश्चरणान्निक्षिप्तवत्यः| तेषु मे मम मार्गेषु सद्यो हतन्यङ्कुभिर्मारितमृगैर्व्याघ्रैरस्रदिग्धं रुधिरलिप्तं पदं निधीयते ॥

  चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर्दत्तमृणालभङ्गाः ।
  नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति ॥ १६ ॥

 चित्रेति ॥ पद्मवनमवतीर्णाः प्रविष्टाः। तथा लिखिता इत्यर्थः । करेणुभिः करिणीभिः। चित्रगताभिरेव ॥ “करेणुरिभ्यां स्त्री नेभे" इत्यमरः ॥ दत्तमृणालभङ्गाश्चित्रद्विपा आलेख्यमातङ्गाः। नखा एवाङ्कुशाः॥ तेषामाघातैर्विभिन्नकुम्भाः सन्तः संरब्धसिंहप्रहृतं कुपितसिंहप्रहारं वहन्ति ॥

  स्तम्भेषु योषित्प्रतियातनानामुत्क्रान्तवर्णक्रमधूसराणाम् ।
  स्तनोत्तरीयाणि भवन्ति सङ्गान्नि[१०]र्मोकपट्टाः फणिभिर्विमुक्ताः॥१७॥

 स्तम्भेष्विति ॥ उत्क्रान्तवर्णक्रमा विशीर्णवर्णविन्यासास्ताश्च धूसराश्च यास्तासां स्तम्भेषु योषित्प्रतियातनानां स्त्रीप्रतिकृतीनां दारुमयीणां फणिभिर्विमुक्ता निर्मोकाः कञ्चुका एव पट्टाः ॥ "समौ कञ्चुकनिर्मोकौ" इत्यमरः ॥ सङ्गात्सक्तत्वात्स्तनोत्तरीयाणि स्तनाच्छादनवस्त्राणि भवन्ति ॥

  कालान्तरश्यामसुधेषु नक्तमितस्ततो रूढतृणाङ्कुरेषु ।
  त एव मुक्तागुणशुद्धयोऽपि हर्म्येषु मूर्छन्ति न चन्द्रपादाः ॥१८॥

 कालेति ॥ कालान्तरेण कालभेदवशेन श्यामसुधेषु मलिनचूर्णेष्वितस्ततो रूढतृणाङ्कुरेषु हर्म्येषु गृहेषु नक्तं रात्रौ मुक्तागुणानां शुद्धिरिव शुद्धिः स्वाच्छ्यं, येषां तादृशा अपि । ततः पूर्वं ये मूर्छन्ति स्म त एव चन्द्रपादाश्चन्द्ररश्मयः। “पादा

रश्म्यङ्घ्रितुर्यांशाः" इत्यमरः॥ न मूर्छन्ति । न प्रतिफलन्तीत्यर्थः ।।

 आवर्ज्य शाखाः सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः ।
 वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः॥ १९ ॥

 आवर्ज्येति ॥ किंच । विलासिनीभिः सदयं शाखा लतावयवानावार्ज्यानमय्य यासां लतानां पुष्पाण्युपात्तानि गृहीतानि । ता मदीया उद्यानलताः । वन्यैः पुलिन्दैर्म्लेच्छविशेषैरिव वानरैः । उभयैरपीत्यर्थः । क्लिश्यन्ते पीड्यन्ते ॥ क्लिश्नातेः कर्मणि लट् ॥ "भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः" इत्यमरः ॥

 रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि ।
 तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छिन्नधू[११]मप्रसरा गवाक्षाः ॥ २०॥

 रात्राविति ॥ रात्रावनाविष्कृतदीपभासः । दीपप्रभाशून्या इत्यर्थः । दिवापि दिवसेऽपि कान्तामुखानां श्रिया कान्त्या वियुता रहिता विच्छिन्नो नष्टो धूमप्रसरो येषां ते गवाक्षाः कृमितन्तुजालैर्लूतातन्तुवितानैस्तिरस्क्रियन्ते छाद्यन्ते ।

 बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गमनाप्नुवन्ति ।
 उपान्तवानीरगृ[१२]हाणि दृष्ट्वा शून्यानि दूये सरयूज[१३]लानि ॥ २१ ॥

 बलिक्रियेति ॥ "बलिः पूजोपहारः स्यात्" इति शाश्वतः ॥ बलिक्रियावर्जितानि सैकतानि येषां तानि । स्नानीयानि स्नानसाधनानि चूर्णादीनि ॥ कृत्यल्युटो बहुलम्" इति करणेऽनीयर्प्रत्ययः ॥ स्नानीयसंसर्गमनाप्नुवन्ति सरयूजलानि शून्यानि रिक्तान्युपान्तेषु वानीरगृहाणि येषां तानि च दृष्ट्वा दूये परितप्ये ॥

 तदर्हसीमां वसतिं विसृज्य मामभ्युपैतुं कुलराजधानीम् ।
 हित्वा तनुं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिम् ॥ २२ ॥

 तदिति ॥ तत्तस्मादिमां वसतीं कुशावतीं विसृज्य कुलराजधानीमयोध्यां मामभ्युपैतुमर्हसि ॥ कथमिव । ते गुरुः पिता रामस्तां प्रसिद्धां कारणवशान्मानुषीं तनुं मानुषमूर्तिं हित्वा परमात्ममूर्तिं यथा विष्णुमूर्तिमिव ॥

 तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्रा[१४]ग्रहरो रघूणाम् ।
 पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव ॥ २३ ॥

 तथेति ॥ रघूणां प्राग्रहरः श्रेष्ठः कुशस्तस्याः पुरः प्रणयं याच्ञां प्रतीतो हृष्टः संस्तथेति प्रत्यग्रहीत्स्वीकृतवान् ॥ पूः पुराधिदेवताप्यभिव्यक्तमुखप्रसादा सती । इष्टलाभादिति भावः । शरीरबन्धेन शरीरयोगेन । करणेन । तिरोबभूवान्तर्दधे । मानवं रूपं विहाय दैवं रूपमग्रहीदित्यर्थः ॥

  तदद्भुतं संसदि रात्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस ।
  श्रुत्वा त एनं कुलराजधान्या साक्षात्पतित्वे वृतमभ्यनन्दन्।।२४॥

तदिति ॥ नृपतिः कुशस्तदद्भुतं रात्रिवृत्तान्तं प्रातः संसदि सभायां द्विजेम्यः शशंस । ते द्विजाः श्रुत्वैनं कुशं कुलराजधान्या साक्षात्खयमेव पतित्वे विषये वृत मभ्यनन्दन् । पतित्वेन वृतोऽसीत्यपूजयन् । आशीभिरिति शेषः॥ अत्र गार्ग्य:- "दृष्ट्वा स्वप्नं शोभनं नैव सुप्यात्पश्चाद्दृष्टो यः स पाकं विधत्ते । शंसेदिष्टं तत्र साधु र्द्विजेभ्यस्ते चाशीभिः प्रीणयेयुर्नरेन्द्रम्" ॥ इदमपि स्वप्नतुल्यमिति भावः॥

  कुशावतीं श्रोत्रियसात्स कृत्वा यात्रानुकूलेऽहनि सावरोधः ।
  अनुद्रुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे ॥ २५॥

कुशावतीमिति ॥ स कुशः कुशावतीं श्रोत्रियेषु छान्दसेष्वधीनां श्रोत्रिय सात् ॥ " तदधीनवचने" इति सातिप्रत्ययः । श्रोत्रियश्छन्दोऽधीते" इति निपातः ॥ “श्रोत्रियच्छान्दसौ समौ " इत्यमरः ॥ कृत्वा यात्रानुकूलेऽहनि सा वरोधः सान्तःपुरः सन् । वायुरभ्रवृन्दैरिव । सैन्यैरनुद्रुतोऽनुगतः सन्नयोध्याभिमुखः प्रतस्थे॥

  सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतेव नागैः ।
  सेना रथोदारगृहा प्रयाणे तस्याभवज्जंगमराजधानी ॥ २६ ॥

 सेति ॥ केतुमाला एवोपवनानि यस्याः सा बृहद्भिर्नागैर्गजैविहारशैलैः क्री डाशैलैरनुगतेव स्थिता । रथा एवोदारगृहा यस्याः सा सा सेना तस्य कुशस्य प्र याणे जंगमराजधानी संचारिणी नगरीवाभवद्बभूव ।।

  तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिम् ।
  बभौ बलौघः शशिनोदिते[१५]न वेलामुदन्वानिव नीयमानः॥२७॥

 तेनेति ॥ आतपत्रमेवामलं मण्डलं बिम्बं यस्य तेन तेन कुशेन पूर्वनिवासभू मिमयोध्यां प्रति प्रस्थापितो बलौघः। आतपत्रवदमलमण्डलेनोदितेन शशिना वेलां नीयमानः प्राप्यमाणः । उदकमस्यास्तीत्युदन्वान् । उदधिरिव ।बभौ ॥ " उदन्वानुदधौ च " इति निपातनात्साधुः॥

  तस्य प्रयातस्य वरूथिनीनां पीडामपर्याप्तवतीव[१६] सोढुम् ।
  वसुंधरा विष्णुपदं द्वितीयमध्यारुरोहेव रजश्छलेन ॥२८॥

 तस्येति॥प्रयातस्य प्रस्थितस्य तस्य कुशस्य वरूथिनीनां सेनानाम् ।कर्त्रीणाम्। "कर्तृकर्मणोःकृति" इति कर्तरि षष्ठी ॥ पीडां सोढमपर्याप्तवतीवाशक्तेव वसुंधरा रजश्छलेन द्वितीयं विष्णुपदमाकाशमध्यारुरोहेव । इत्युत्प्रेक्षा ॥

  [१७]द्यच्छमाना गमनाय पश्चात्पुरो निवेशे पथि व्रजन्ती
  सा यत्र सेना ददृशे नृपस्य तत्रैव सा[१८]मग्र्यमतिं चकार ॥ २९॥

 उद्यच्छमानेति ॥ पश्चात्कुशावत्याः सकाशाद्गमनाय प्रयाणाय तथा पुरोऽग्रे निवेशे निमित्ते । निवेष्टुं चेत्यर्थः । उद्यच्छमानोद्योगं कुर्वती ॥ “समुदाङ्भ्यो यमोऽग्रन्थे" इत्यस्य सकर्मकाधिकारत्वादात्मनेपदम् ॥ पथि च व्रजन्ती नृपस्य कुशस्य सा सेना यत्र पश्चात्पुरो मध्ये वा ददृशे तत्रैव सामग्र्यमतिं कृत्स्नताबुद्धिं चकार । अपरिमिता तस्य सेनेत्यर्थः॥

  तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरंगमाणाम् ।
  रेणुः प्रपेदे पथि पङ्कभावं पङ्कोऽपि रेणुत्वमियाय नेतुः ॥ ३० ॥

 तस्येति ॥ नेतुस्तस्य कुशस्य द्विपानां मदवारिभिः सेकात्तुरंगमाणां खुराभिघाताच्च यथासंख्यं पथि रेणू रजः पङ्कभावं पङ्कतां प्रपेदे। पङ्कोऽपि रेणुत्वमियाय । तस्य तावदस्तीत्यर्थः॥

  मा[१९]र्गैषिणी सा कटकान्तरेषु वै[२०]न्ध्येषु सेना बहुधा विभिन्ना ।
  चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ॥ ३१ ।।

 मार्गेति ॥ वैन्ध्येषु विन्ध्यसंबन्धिषु कटकान्तरेषु नितम्बावकाशेषु ॥ "कटकोऽस्त्री नितम्बोऽद्रेः" इत्यमरः ॥ मार्गैषिणी मार्गावलोकिनी । अत एव बहुधा विभिन्ना । महाविरावा दीर्घशब्दा सा सेना । रेवेव नर्मदेव ॥ "रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका" इत्यमरः ॥ गुहामुखानि बद्धप्रतिश्रुन्ति प्रतिध्वानवन्ति चकाराकरोत् ॥

  स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः ।
  व्यलङ्घयद्विन्ध्यमुपायनानि पश्यन्पुलिन्दैरुपपादितानि॥३२॥

 स इति ॥धातूनां गैरिकादीनां भेदेनारुणा याननेमी रथचक्रधारा यस्य । प्रयाणे ये ध्वनयः क्ष्वेडहेषादयः। तन्मिश्राणि तूर्याणि यस्यैवंविधः स प्रभुः कुशः। पुलिन्दैः किरातैरुपपादितानि समर्पितान्युपायनानि पश्यन् । विन्ध्यं व्यलङ्घयत्॥

  तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम्।
  अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षाः॥३३॥

 तीर्थ इति ॥ तदीये वैन्ध्ये तीर्थेऽवतारे गजा एव सेतुस्तस्य बन्धाद्धेतोः प्रतीपगां

पश्चिमवाहिनीं गङ्गामुत्तरतोऽस्य कुशस्य नभोलङ्घनेन लोलपक्षा हंसा अयत्नेन बालव्यजनीबभूवुश्चामराण्यभूवन् ॥ अभूततद्भावे च्विः॥

  स पूर्वजानां कपिलेन रोषाद्भस्मावशेषीकृतविग्रहाणाम् ।
  सुरालयप्राप्तिनिमित्तमम्भस्त्रैस्रोतसं नौ[२१]ललितं ववन्दे ॥ ३४॥

 स इति ॥ स कुशः कपिलेन मुनिना रोषाद्भस्मावशेषीकृता विग्रहा देहा येषां तेषां पूर्वजानां वृद्धानां सागराणां सुरालयस्य स्वर्गस्य प्राप्तौ निमित्तं नौभिर्लुलितं क्षुभितम् । त्रिस्रोतस इदं त्रैस्रोतसम् । गाङ्गमम्भो ववन्दे ॥

  इत्यध्वनः कैश्चिदहोभिरन्ते कू[२२]लं समासाद्य कुशः सरय्वाः।
  वेदिप्रतिष्ठान्वितताध्वराणां यूपानपश्यच्छतशो रघूणाम् ॥३५॥

 इतीति॥इति कैश्चिदहोभिरध्वनोऽन्तेऽवसाने कुशः सरय्वाः कूलं समासाद्य वितताध्वराणां विस्तृतमखानां रघूणाम् । वेदिः प्रतिष्ठास्पदं येषां तान् । यूपाञ्छतशोऽपश्यत् ॥

  आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरंगान् ।
  तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामो[२३]पवनान्तवायुः ३६

 आधूयेति ॥ कुलराजधान्या उपवनान्तवायुः कुसुमद्रुमाणां शाखा आधूयेषद्धूत्वा । सुरभिर्मन्दश्चेत्यर्थः । शीतान्सरयूतरंगांश्च स्पृष्ट्वा । अनेन शैत्योक्तिः । क्लान्तसैन्यं तं कुशं प्रत्युजगाम ॥

  अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौरसखः स राजा।
  कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि॥३७॥

 अथेति॥अथ रिपुषु मग्नं शल्यं शङ्कुः शरो वा यस्य सः॥"शल्यं शङ्कौ शरे वंशे" इति विश्वः ॥पौराणां सखा पौरसखः। कुलस्य ध्वजश्चिह्नभूतो बली स राजा चलाश्चलन्तो वा ध्वजा येषां तानि तानि बलानि सैन्यानि तस्याः पुरः पुर्या उपशल्ये ग्रामान्ते ॥ "ग्रामान्त उपशल्यं स्यात्" इत्यमरः॥निवेशयामास ॥

  तां शिल्पिसंघाः प्रभुणा नि[२४]युक्तास्त[२५]थागतां संभृतसाधनत्वात् ।
  पु[२६]रं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितामिवोर्वीम् ॥३८॥

 तामिति॥प्रभुणा नियुक्ताः शिल्पिनां तक्षादीनां संघाः संभृतसाधनत्वान्मिलितोपकरणत्वात्तां तथागताम् । शून्यामित्यर्थः । पुरमयोध्याम् । मेघा अपां विसर्गाज्जलसेकानिदाघग्लपितां ग्रीष्मतप्तामुर्वीमिव। नवीचक्रुः परिपूरयांचक्रुः ॥

  ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः ।
  उपोषितैर्वास्तुविधानविद्भिर्निर्व[२७]तयामास रघुप्रवीरः॥ ३९ ॥

 तत इति ॥ ततो रघुप्रवीरः कुशः प्रतिमा देवताप्रतिकृतयः । अर्च्या इत्यर्थः। परार्घ्यप्रतिमागृहायाः प्रशस्तदेवतायतनायाः पुर उपोषितैर्वास्तुविधानविद्भिः प्रयोज्यैः पशूपहारैः सहितां सपशूपहारां सपर्यां निर्वर्तयामास कारयामास ॥ अत्र ण्यन्ताण्णिच्पुनरित्यनुसंधेयम् । अन्यथा वृतेरकर्मकस्य करोत्यर्थत्वे कारयत्यर्था भावप्रसङ्गात् । भवितव्यं कृतेरण्यन्तकर्त्रा प्रयोज्यत्वेन तन्निर्देशात्प्रयोगान्तरस्यापेक्षितत्वात् ॥

  तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य ।
  यथार्हमन्यैरनुजीविलोकं संभावयामास य[२८]थाप्रधानम् ॥ ४० ॥

 तस्या इति ॥ स कुशस्तस्याः पुरः संबन्धि राजोपपदं राजशब्दपूर्वं निशान्तम् । राजभवनमित्यर्थः ॥" निशान्तं भवनोषसोः" इति विश्वः ॥ कामी कान्ताहृदयमिव । प्रविश्य । अन्यनिशान्तैरनुजीविलोकममात्यादिकं यथाप्रधानं मान्यानुसारेण । यथार्हं यथोचितम् । तत्तदुचितगृहैरित्यर्थः। संभावयामास ॥

  सा मन्दुरासंश्रयिभिस्तुरंगैः शा[२९]लाविधिस्तम्भगतैश्च नागैः ।
  पूरावभासे वि[३०]पणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥४१॥

 सेति ॥ विपणिस्थानि पण्यानि क्रयविक्रयार्हवस्तूनि यस्याः सा ॥ “विपणिः पण्यवीथिका" इत्यमरः॥सा पूरयोध्या मन्दुरासंशयिभिरश्वशालासंश्रयणशीलैः।। “वाजिशाला तु मन्दुरा" इत्यमरः ॥ “ जिदृक्षि-" इत्यादिनेनिप्रत्ययः॥ तुरङ्गैरश्वैः। शालासु गृहेषु ये विधिना स्थापिताः स्तम्भास्तान्गतैः प्राप्तैर्नागैश्च । सर्वाङ्गेषु नद्धान्याभरणानि यस्याः सा नारीव । आबभासे ॥

  वसन्स तस्यां वसतौ रघूणां पुराणशोभाम[३१]धिरोपितायाम् ।
  न मैथिलेयः स्पृहयांबभूव भर्त्रे दिवो नाप्यलकेश्वराय ॥४३॥

 वसन्निति ॥ स मैथिलेयः कुशः पुराणशोभा पूर्वशोभामधिरोपितायां तस्यां रघूणां वसतावयोध्यायां वसन् । दिवो भर्त्रे देवेन्द्राय तथालकेश्वराय कुबेरायापि न स्पृहयांबभूव । तावपि न गणयामासेत्यर्थः ॥ "स्पृहेरीप्सितः" इति संप्रदानत्वात्चतुर्थी ॥ एतेनायोध्याया अन्यनगरातिशायित्वं गम्यते ॥  कुशस्य कुमुद्वतीसंगमं प्रस्तौति-

  अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम् ।
  निःश्वासहार्यांशुकमाजगाम घर्मः प्रि[३२]यावेशमिवोपदेष्टुम् ॥४॥

 अथेति ॥ अथास्य कुशस्य । रत्नैर्मुक्तामणिभिर्ग्रंथितान्युत्तरीयाणि यस्मिं स्तम् । एकान्तमत्यन्तं पाण्डोः स्तनयोर्लम्बिनो हारा यस्मिंस्तम् । निःश्वासहा र्याण्यतिमूक्ष्माण्यंशुकानि यत्र तम् । एवं शीतलप्रायं प्रियाया वेशं नेपथ्यमुपदे- टुमिव । घर्मो ग्रीष्म आजगाम ॥

  अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते ।
  आनन्दशीतामिव बाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज ॥४४॥

 अगस्त्येति॥अगस्त्यश्चिह्नं यस्य तस्मादयनान्मार्गाद्दक्षिणायनाद्भास्वति समी पं संनिवृत्ते सति । उत्तरा दिक् । आनन्दशीतां बाष्पवृष्टिमिव । हैमवतीं हिमवत्सं बन्धिनी हिमस्रुतिं हिमनिष्यन्दं ससर्ज॥ अत्र प्रोषितप्रियासमागमसमाधिर्गम्यते ॥

  प्रवृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी।
  उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्ताम्

 प्रवृद्धेति ॥ अतिमात्रं प्रवृद्धतापो दिवसः । अत्यर्थमेवानल्पं तन्वी कृशा क्षणदा च । इत्येतावुभौ । विरोधक्रियया प्रणयकलहादिना विरोधाचरणेन विभिनौ सानुशयौ सानुतापौ जायापती दंपती इव । आस्ताम् । तयोरपि तापकार्य संभवात्तत्सदृशावभूतामित्यर्थः॥

  दिने दिने शैवलवन्त्यघस्तात्सोपानपर्वाणि वि[३३]मुञ्चदम्भः।
  उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव ॥ १६ ॥

 दिने दिन इति ॥ दिने दिने प्रतिदिनं शैवलवन्त्यधस्ताद्यानि सोपानानां पर्वाणि भङ्ग्यस्तानि विमुञ्चत् । अत एवोद्दण्डपद्मं गृहदीर्घिकाणामम्भः । नारी- नितम्बः प्रमाणमस्य नारीनितम्बद्वयसं बभूव । विहारयोग्यमभूदित्यर्थः॥ "प्रमाणे द्वयसच्-" इति द्वयसच्प्रत्ययः॥

  वनेषु सायंतनमल्लिकानां वि[३४]जृम्भणोद्गन्धिषु कुड्मलेषु ।
  प्रत्येकनिक्षिप्तपदः सशब्दं संख्या[३५]मिवैषां भ्रमरश्रकार ॥१७॥

 वनेष्विति॥ वनेषु विजृम्भणेन विकासेनोद्गन्धिषूत्कटसौरभेषु॥"गन्धस्य-" इत्यादिना समासान्त इकारादेशः ॥ सायंतनमल्लिकानां कुड्मलेषु सशब्दं यथा तथा प्रत्येकमेकैकस्मिन्निक्षिप्तपदः। मकरन्दलोभादित्यर्थः । भ्रमर एषां कुड्मलानां संख्यां गणनां चकारेव ।।

  खेदानुविद्धानखक्षताङ्के भू[३६]यिष्ठसंदृष्टशिखं कपोले।
  च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥४८॥

 स्वेदेति ॥ स्वेदानुविद्धमार्द्रं नूतनं नखक्षतमङ्को यस्य तस्मिन्कामिनीनां क पोले भूयिष्ठमत्यर्थं संदष्टशिखं विश्लिष्टकेसरम् । अतएव कर्णाच्युतमपि । शिरीष पुष्पं सहसा न पपात ॥

  यन्त्रप्रवाहैः शिशिरैः परीतान्रसेन धौ[३७]तान्मलयोद्भवस्य ।
  शिलाविशेषानधिशय्य निन्युर्धारागृहेष्वातपमृद्धिमन्तः॥४९॥

 यन्त्रेति ॥ ऋद्धिमन्तो धनिका धारागृहेषु यन्त्रधारागृहेषु शिशिरैर्यन्त्रप्रवा हेर्यन्त्रसंचारितसलिलपूरैः परीतान्व्याप्तान्मलयोद्भवस्य रसेन चन्दनोदकेन धौ तान्क्षालिताञ्छिलाविशेषान्मणिमयासनान्यधिशय्य तेषु शयित्वातपं निन्युरातप परिहारं चक्रुः॥

  स्नानार्द्रमुक्तेष्व[३८]नुधूपवासं विन्यस्तसायंतनमल्लिकेषु ।
  कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥५०॥

 स्नानेति ॥ वसन्तस्यात्मसहकारिणोऽत्ययेनातिक्रमेण मन्दवीर्योऽतिदुर्बलः कामः स्नानार्द्राश्च ते मुक्ताश्च । धूपसंचारणार्थमित्यर्थः । तेषु । अनुधूपवासं धूप- वासानन्तरं विन्यस्ताः सायंतनमल्लिका येषु तेषु । अङ्गनानां केशेषु वलं लेभे। तै रुद्दीपित इत्यर्थः॥

  आपिञ्जरा बद्धरजःकणत्वान्मञ्जर्युदारा शु[३९]शुभेऽर्जुनस्य ।
  दग्ध्वापि देहं गिरिशेन रोषात्ख[४०]ण्डीकृता ज्येव मनोभवस्य॥५१॥

 आपिञ्जरेति ॥ बद्धरजःकणत्वाव्याप्तरजःकणत्वादापिञ्जरोदारा द्राघीय स्यर्जुनस्य ककुभवृक्षस्य ॥ “ इन्द्रद्रुः ककुभोऽर्जुनः" इत्यमरः ॥ मञ्जरी । देहं दग्ध्वापि रोषाद्गिरिशेन गिरिरस्त्यस्य निवासत्वेन गिरिशस्तेन ॥ लोमादित्वाच्छ प्रत्ययः । गिरौ शेत इति विग्रहे तु “गिरौ शेतेर्डः" इत्यस्य छन्दसि विधानाल्लोके प्रयोगानुपपत्तिः स्यात् । तस्मात्पूर्वोक्तमेव विग्रहवाक्यं न्याय्यम् । खण्डीकृता मनोभवस्य ज्या मौर्वीव । शुशुभे ॥

  मनोज्ञगन्धं सहकारभङ्गं पु[४१]राणशीध्रुं नवपाटलं च ।
  संबध्ननता कामिजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः ॥५२॥

 मनोज्ञेति ॥ मनोज्ञगन्धमिति सर्वत्र संबध्यते । सहकारभङ्गं चूतपल्लवखण्डम् ।

पुराणं वासितं शेरतेऽनेनेति शीधुः पक्वैक्षुरसप्रकृतिकः सुराविशेषस्तम् ॥ "शीङो धुक्" इत्युणादिसूत्रेण “ शीङ् स्वप्ने ” इत्यस्माद्धातोर्धुक्प्रत्ययः । “पक्वैरिक्षुरसैरस्त्री शीधुः पक्वरसः शिवः" इति यादवः॥ नवं पाटालायाः पुष्पं पाटलं च संबध्नता संघट्टयता निदाघावधिना ग्रीष्मकालेन ॥ "अवधिस्ववधाने स्यात्सीम्नि काले बिलेऽपि च" इति विश्वः॥ कामिजनेषु विषये सर्वे दोषास्तापादयः प्रमष्टाः परिहृताः॥

  जनस्य तस्मिन्समये विगाढे बभूवतुर्द्वौ[४२] सविशेषकान्तौ ।
  तापापनोदक्षमपा[४३] दसेवौ स[४४] चोदयस्थौ नृपतिः शशी च ॥५३॥

 जनस्येति ॥ तस्मिन्समये ग्रीष्मे विगाढे कठिने सति जनस्य द्वौ सविशेषं सातिशयं यथा तथा कान्तो बभूवतुः । कौ द्वौ । तापापनोदे क्षमा योग्या पादयोरङ्घ्र्योः पादानां रश्मीनां च सेवा ययोस्तावुदयस्थावभ्युदयस्थौ स च नृपतिः शशी च ॥

  अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः ।
  विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥५४॥

 अथेति॥ अथोर्मिषु लोलाः सतृष्णा उन्मदा राजहंसा यस्मिस्तस्मिन् ॥ “लोलश्चलसतृष्णयोः” इत्यमरः॥ रोधोलतापुष्पाणां वहे प्रापके ॥ पचाद्यच् ॥ ग्रीष्मेषु सुखे सुखकरे सरय्वा अम्भसि पयसि तस्य कुशस्य वनितासखस्य । वनिताभिः सहेत्यर्थः । विहर्तुमिच्छा बभूव ।।

  स तीरभूमौ विहि[४५] तोपकार्यामानायिभिस्तामपकृष्टनक्राम् ।
  विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥ ५५ ॥

 स इति ॥ चक्रधरप्रभावो विष्णुतेजाः स कुशस्तीरभूमौ विहितोपकार्या यस्यास्ताम् । आनायो जालमेषामस्तीत्यानायिनो जालिकाः॥"जालमानायः" इति निपातः ॥ आनायः पुंसि जालं स्यात्" इत्यमरः ॥ तैरपकृष्टनक्रामपनीतग्राहां तां सरयूं श्रीमहिम्नोः संपत्प्रभावयोरनुरूपं योग्यं यथा तथा विगाहितुं प्रचक्रमे ॥ अत्र कामन्दक: " परितापिषु वासरेषु पश्यंस्तटलेखास्थितमाप्त- सैन्यचक्रम् । सुविशोधितनक्रमीनजालं व्यवगाहेत जलं सुहृत्समेतः इति ॥

  सा तीरसोपानपथावतारादन्योन्यकेयूरविघट्टिनीभिः ।
  सनूपुरक्षोभपदाभिरासीदु[४६] द्विग्नहंसा सरिदङ्गनाभिः॥ ५६ ॥

 सेति॥सा सरित्सरयूस्तीरसोपानपथैनावतारादवतरणादन्योन्यं केयूरविघट्टिट्टिनीभिः संनद्धाङ्गदसंघर्षिणीभिः सनूपुरक्षोभाणि सनूपुरस्खलनानि पदानि यासां ताभिरङ्गनाभिर्हेतुभिरुद्विग्नहंसा भीतहंसासीत् ॥

  [४७]रस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी ।
  नौसंश्रयः पार्श्वगतां किरातीमुपात्तबालव्यजनां बभाषे ।।५७॥

 परस्परेति ॥ नौसंश्रयः परस्परमभ्युक्षणे सेचने तत्पराणामासक्तानां तासां स्त्रीणां मज्जने रागोऽभिलापस्तदृशीं नृपः पार्श्वगतामुपात्तबालव्यजनां गृहीतचामरा किराती चामरग्राहिणी बभापे ॥ “किरातस्तु द्रुमान्तरे । स्त्रियां चामरवाहिन्यां मत्स्यजात्यन्तरे द्वयोः" इति केशवः॥

  पश्यावरोधैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः ।
  संध्योदयः साभ्र इवैष वर्णं पुष्यत्यनेकं सरयूप्रवाहः॥ ५८ ॥

 पश्येति ॥ गलिताङ्गरागैर्मदीयैः शतशोऽवरोधैर्विगाह्यमानो विलोड्यमान एष सरयूप्रवाहः । साभ्रः समेघः संध्योदयः संध्याविर्भाव इव । अनेकं नानाविधं वर्णं रक्तपीतादिकं पुष्यति पश्य ॥ वाक्यार्थः कर्म ॥

  विलुप्तमन्तःपुरसुन्दरीणां यदञ्जनं नौललिताभिरद्भिः।
  तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तमासाम् ॥ ५९॥

 विलुप्तमिति ॥ नौलुलिताभिर्नौक्षुभिताभिरद्भिरन्तःपुरसुन्दरीणां यदञ्जनं कज्जलं विलुप्तं हृतं तदञ्जनं विलोचनेषु नयनेषु मदेन या रागशोभा तां बध्नतीभिर्घटयन्तीभिरद्भिरासां प्रतिमुक्तं प्रत्यर्पितम् ॥ प्रतिनिधिदानमपि तत्कार्यकारि त्वात्प्रत्यर्पणमेवेति भावः॥

  एता गुरुश्रोणिपयोधरत्वादात्मानमुद्वोढुम[४८]शक्नुवत्यः ।
  गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते ॥६॥

 एता इति ॥गुरु दुर्वहं श्रोणिपयोधरं यस्यात्मन इति विग्रहः । गुरुश्रोणिप योधरत्वादात्मानं शरीरमुद्रोढुमशक्नुवत्यः एता बाला गाढाङ्गदैः श्लिष्टाङ्गदैर्बाहुभिः क्लेशोत्तरं दुःखपायं यथा तथा रागवशात्क्रीडाभिनिवेशपारतन्त्र्यात्प्लवन्ते तरन्ति ॥

  अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् ।
  पारिप्लवाःस्रोतसिनिम्नगायाः शैवाललोलाश्छलयन्ति मीनान् ६१

 अमी इति॥वारिविहारिणीनामासां प्रभ्रंशिनो भ्रष्टा निम्नगायाः स्रोतसि पारिप्लवाश्चञ्चलाः ॥"चञ्चलं तरलं चैव पारिप्लवपरिप्लवे" इत्यमरः ॥ अमी शिरीषप्रसवा एवावतंसाः कर्णभूषाः शैवाललोलाञ्जलनीलिप्रियान् ॥ "जलनीली तु शैवालम्" इत्यमरः ॥ मीनांश्छलयन्ति प्रादुर्भावयन्ति । शैवालप्रियत्वाच्छिरीषेषु शैवालभ्रमात्प्रादुर्भवन्तीत्यर्थः ॥

  आसां ज[४९]लास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु ।
  पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न च्छिदुरोऽपि हारः॥६२

 आसामिति ॥ जलस्यास्फालने तत्पराणामासक्तानामासां स्त्रीणां मुक्ताफलस्पर्धिषु मौक्तिकानुकारिषु पयोधरेषु स्तनेषूत्सर्पन्त्युत्पतन्ति ये तेषु शीकरेषु शीकराणां मध्ये शीर्यमाणो गलन्हारोऽतएव छिदुरः स्वयं छिन्नोऽपि न संलक्ष्यते । “ विदिभिदिच्छिदेः कुरच्” इति कुरच्प्रत्ययः ॥ शीकरसंसर्गाच्छिन्न इति न ज्ञायत इति भावः॥

  आवर्तशोभा नतनाभिकान्तेर्भङ्गो[५०]ध्रुवां द्वन्द्वचराः स्तनानाम् ।
  जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनाम्॥६३

 आवर्तेति ॥ विलासिनीनां विलसनशीलानां स्त्रीणाम् ॥"वौ कषलसकत्थस्रम्भः" इति घिनुष्प्रत्ययः॥ रूपावयवानामुपमेयानां यान्युपमानानि लोकासिद्धानि तान्यदूरवर्तीन्यन्तिकगतानि जातानि । कस्य किमुपमानमित्यत्राह- नतनाभिकान्तेर्निम्ननाभिशोभाया आवर्वशोभा ॥ " स्यादावर्तोऽम्भसा भ्रमः इत्यमरः ॥ध्रुवां भङ्गस्तरंगः । स्तनानां द्वन्द्वचराश्चक्रवाकाः । उपमानमिति सर्वत्र संबध्यते॥

  तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानम् ।
  श्रोत्रेषु संमू[५१]र्च्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् ॥६४॥

 तीरेति॥ उत्कलापैरुच्चबर्हैः अस्निग्धा मधुराः केका येषां तैस्तीरस्थलीषु स्थितैबर्हिभिर्मयूरैरभिनन्द्यमानं रक्तं श्राव्यं गीतानुगं गीतानुसार्यासां स्त्रीणां संबन्धि वार्येव मृदङ्गस्तस्य वाद्यं वाद्यध्वनिः श्रोत्रेषु संमूर्च्छति व्याप्नोति ॥

  संदृष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडु[५२] तुल्याः।
  [५३]मी जलापूरितसूत्रमार्गा मौनं भजन्ते र[५४]शनाकलापाः॥६५॥

 संदष्टेति ॥ संदष्टवस्त्रेषु जलसेकात्संश्लिष्टांशुकेष्वबलानां नितम्बेष्वधिकरणेष्विन्दुप्रकाशेन ज्योत्स्नयान्तरितान्यातानि यान्युडूनि नक्षत्राणि तत्तुल्याः। मुक्तामयत्वादिति भावः । अमी जलापूरितसूत्रमार्गाः । निश्चला इत्यर्थः । रशना एव कलापा भूषाः॥"कलापो भूषणे बर्हे" इत्यमरः॥मौनम् । निःशब्दतामित्यर्थः। भजन्ते॥

  एताः करोत्पीडितवा[५५]रिधारा द[५६]र्पात्सखीभिर्वदनेषु सिक्ताः।
  वक्रेतराग्रैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान्वमन्ति ॥ ६६ ॥

 एता इति ॥ दर्पात्सखीजनं प्रति करैरुत्पीडिता उत्सारिता वारिधारा याभिस्ताः स्वयमपि पुनस्तथैव सखीभिर्वदनेषु सिक्ता एतास्तरुण्यो वक्रेतराग्रैर्जलसेकादृज्वग्रैरलकैः करणैश्चूर्णैः कुङ्कुमादिभिररुणान्वारिलवानुदकबिन्दून्वमन्ति वर्षन्ति ।

  [५७]द्बन्धकेशश्र्युतपत्रलेखो विश्लेषिमुक्ताफलप[५८]त्रवेष्टः ।
  मनोज्ञ एव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः॥६७॥

 उद्बन्धेति॥ उद्बन्धा उद्भ्रष्टाः केशा यस्मिन्सः। च्युतपत्रलेखः क्षतपत्ररचनः । विश्लेषिणो विस्रंसिनो मुक्ताफलपत्रवेष्टा मुक्तामयताडङ्का यस्मिन्सः । एवमम्भोविहाराकुलितोऽपि प्रमदामुखानां वेषो नेपथ्यं मनोज्ञ एव ॥ "रम्याणां विकृतिरपि श्रियं तनोति" इनि भावः ॥

  स नौविमानादवतीर्य रेमे वि[५९]लोलहारः सह ताभिरप्सु ।
  स्क[६०]न्धावलग्नोद्दृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः ॥६८॥

 स इति ॥ स कुशो नौर्विमानमिव नौविमानम् ॥ उपमितसमासः ॥ तस्मादवतीर्य विलोलहारः संस्ताभिः स्त्रीभिः सह करेणुभिः सहस्कन्धावलग्नोदृतपद्मन्युत्पाटितनलिनी यस्य स तथोक्तः सन् ॥ "नद्यृतश्च" इति कप्रत्ययः ॥ वन्यो द्विपेन्द्र इव । अप्सु रेमे ॥

  ततो नृपेणा[६१]नुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयं विरेजुः ।
  प्रागेव मुक्ता नयनाभिरामाः प्राप्ये[६२]न्द्रनीलं किमुतोन्मयूखम् ६९

  तत इति ॥ ततो भ्राजिष्णुना प्रकाशनशीलेन ॥ “भुवश्च" इति चकारादिष्णुच् ॥ नृपेणानुगताः संगतास्ताः स्त्रियः सातिशयं यथा तथा विरेजुः । प्रागेव । इन्द्रनीलयोगात्पूर्वमेव । केवला अपीत्यर्थः। मुक्ता मणयो नयनाभिरामाः ।

उन्मयूखमिन्द्रनीलं प्राप्य किमुत । अभिरामा इति किमु वक्तव्यमित्यर्थः ॥

  वर्णोदकैः काञ्चनशृ[६३]ङ्गमुक्तैस्तमायताक्ष्यः प्रणयादसिञ्चन् ।
  तथागतः सोऽतितरां बभासे सधातुनिष्यन्द इवाद्रिराजः॥७०॥

 वर्णोदकैरिति ॥ तं कुशमायताक्ष्यः काञ्चनस्य शृङ्गैर्मुक्तानि तैर्वर्णोदकैः कुङ्कुमादिवर्णद्रव्यसहितोदकैः प्रणयात्स्नेहादसिञ्चन् ॥ तथागतस्तथास्थितः । वर्णोंदकसिक्त इत्यर्थः । स कुश: सधातुनिष्यन्दो गैरिकद्रव्ययुक्तोऽद्रिराज इव । अतितरां बभासेऽत्यर्थं चकासे ॥

  तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् ।
  आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः ॥७१ ॥

 तेनेति ॥ अवरोधप्रमदासखेनान्तःपुरसुन्दरीसहचरेण तां सरिद्वरां सरयूं विगाहमानेन तेन कुशेनाकाशगङ्गायां रतिः क्रीडा यस्य सोऽप्सरोभिर्वृत आवृतो मरुत्वानिन्द्रोऽनुयातलीलोऽनुकृतश्रीः। अभूदिति शेषः । इन्द्रमनुकृतवानित्यर्थः ॥

  यत्कुम्भयोनेरधिगम्य रामः कुशाय राज्येन समं दिदेश।
  तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज ॥ ७२ ।।

 यदिति ॥ यदाभरणं रामः कुम्भयोनेरगस्त्यादधिगम्य प्राप्य कुशाय राज्येन समं दिदेश ददौ । राज्यसममूल्यमित्यर्थः । सलिले विहर्तुः क्रीडितुरस्य कुशस्य तज्जैत्राभरणं जयशीलमाभरणमज्ञातपातं सन्ममज्ज बुबोड ॥

  स्नात्वा यथाकाममसौ सदारस्तीरोपकार्यां गतमात्र एव ।
  दिव्येन शून्यं वलयेन बाहु[६४]मपोढनेपथ्यविधिर्ददर्श ॥७३ ॥

 स्नात्वेति ॥ असौ कुशः सदारः सन्यथाकामं यथेच्छं स्नात्वा विगाह्य । तीरे योपकार्या पूर्वोक्ता तां गतमात्रो गत एवापोढनेपथ्यविधिरकृतप्रसाधन एव दिव्येन वलयेन शून्यं बाहुं ददर्श ॥

  जयश्रियः सं[६५]वननं यतस्तदा[६६]मुक्तपूर्वं गुरुणा च यस्मात् ।
  सेहेऽस्य न भ्रंशमतो न लोभात्स तुल्यपुष्पाभरणो हि धीरः[६७]।७४

जयेति ॥ यतः कारणात्तदाभरणं जयश्रियः संवननं वशीकरणम् ॥ "वशक्रिया संवननम्” इत्यमरः ।। यस्माच्च गुरुणा पित्रामुक्तपूर्वं पूर्वमामुक्तम् । धृतमित्यर्थः ॥ सुप्सुपेति समासः ॥ अतो हेतोरस्याभरणस्य भ्रंशं नाशं न सेहे। लोभान्न। कुतः। हि यस्माद्धीरो विद्वान्स कुशस्तुल्यानि पुष्पाण्याभरणानि च यस्य

सः ।पुष्पेष्विभरणेषु धृतेषु निर्माल्यबुद्धिं करोतीत्यर्थः ॥

  ततः समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान् ।
  वन्ध्यश्रमास्ते सरयूं विगाह्य तमूचुर[६८]म्लानमुखप्रसादाः ।। ७५॥

 तत इति ॥ ततः । नद्यां स्नान्ति कौशलेनेति नदीष्णाः । तान् ॥ “सुपि" इति योगविभागात्कप्रत्ययः । “निनदीभ्यां स्नातेः कौशले इति षत्वम् ॥ सर्वानानयिनो जालिकांस्तस्याभरणस्य विचयेऽन्वेषणे निमित्त आशु समाज्ञापयदादिदेश । त आनायिनः सरयूं विगाह्य विलोड्य वन्थ्यश्रमा विफलप्रयासास्तथापि तद्गतिं ज्ञात्वाम्लानमुखप्रसादाः सश्रीकमुखाः सन्तस्तं कुशमूचुः ॥

  कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते ।
  नागेन लौल्यात्कुमुदेन नूनमुपात्तमन्तर्ह्रदवासिना तत् ॥७६ ॥

 कृत इति ॥ हे देव, प्रयत्नः कृतः । पयसि मग्नं त आभरणोत्तमं न च लब्धम् । किंतु तदाभरणमन्तर्ह्रदवासिना कुमुदेन कुमुदाख्येन नागेन पन्नगेन लौल्याल्लोभादुपात्तं गृहीतम् । नूनमिति वितर्के ।।

  ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः ।
  गारुत्मतं तीरगतस्तरस्वी भुजंगनाशाय समाददेऽस्त्रम् ॥७७॥

 तत इति ॥ ततो धनुर्धरः कोपविलोहिताक्षस्तरस्वी बलवान्स कुशस्तीरगतः सन्धनुराततज्यमधिज्यं कृत्वा भुजंगस्य कुमुदस्य नाशाय गारुत्मतं गुरुत्मद्देवताकमस्त्रं समाददे॥

  तस्मिन्ह्रदः संहितमात्र एव क्षोभात्समाविद्धतरंगहस्तः ।
  रोधांसि नि[६९]घ्नन्नवपातमग्नः करीव वन्यः परुषं ररास ॥ ७८ ॥

 तस्मिन्निति ॥ तस्मिन्नस्त्रे संहितमात्रे सत्येव ह्रदः क्षोभाद्धेतोः समाविद्धाः संघट्टितास्तरंगा एव हस्ता यस्य स रोधांसि निघ्नन्पातयन् । अवपाते गजग्रहणगर्ते मग्नः पतितः॥ "अवपातस्तु हस्त्यर्थे गर्तश्छन्नस्तृणादिना" इति यादवः ।। वन्यः करीव । परुषं घोरं ररास दध्वान ॥

  तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज ।
  लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंगराजः॥७९॥

 तस्मादिति ॥ मथ्यमानात्समुद्रादिव । उद्वृत्तक्राक्षुभितग्राहात्तस्माद्ह्रदात् । लक्ष्म्या सार्धं सुरराजस्येन्द्रस्य वृक्षः पारिजात इव । कन्यां पुरस्कृत्य भुजंगराजः कुमुदः सहसोन्ममज्ज ॥

  विभूषणप्रत्युपहारहस्तमुपस्थितं वीक्ष्य विशांपतिस्तम् ।
  सौपर्णमस्त्रं प्रतिसंजहार प्रह्वेष्वनिर्बन्धरुषो हि हि सन्तः॥८०॥

 विभूषणेति ॥ विशांपतिर्मनुजपतिः कुशः ॥ “द्वौ विशौ वैश्यमनुजौ"

इत्यमरः ॥ विभूषणं प्रत्युपहरति प्रत्यर्पयतीति विभूषणप्रत्युपहारः॥कर्मण्यण् ॥ विभूषणप्रत्युपहारो हस्तो यस्य तम् । उपस्थितं प्राप्तं तं कुमुदं वीक्ष्य सौपर्णं गारुत्मतमस्त्रं प्रतिसंजहार ॥ तथाहि । सन्तः प्रह्वेषु नम्रेष्वनिर्बन्धरुषोऽनियतकोपा हि ॥

  त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषाम[७०]ङ्कुशमस्त्रविद्वान् ।
  मानोन्नतेनाप्यभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो बभाषे ।।८१।।

 त्रैलोक्येति ॥ अस्त्रं विद्वानस्त्रविद्वान् ॥ “न लोक-" इत्यादिना षष्ठीसमासनिषेधः ॥ "द्वितीया श्रिता-" इत्यत्र गम्यादीनामुपसंख्यानाद्द्वितीयेति योगविभागाद्वा समासः ॥ गारुडास्त्रमहिमाभिज्ञ इत्यर्थः । कुमुदः । त्रयो लोकास्त्रैलोक्यम् ॥ चतुर्वर्णादित्वात्स्वार्थे ष्यञ्प्रत्ययः ॥ त्रैलोक्यनाथो रामः प्रभवो जनको यस्य तम् । अतएव प्रभावाद्विषामङ्कुशं निवारकं मूर्धाभिषिक्तं राजानं कुशं मानोन्नतेनापि मूर्ध्ना अभिवन्ध्य प्रणम्य बभाषे॥

  अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् ।
  सोऽहं कथं नाम तवाचरेयमाराधनीयस्य धृतैर्विघातम् ॥८२॥

 अवैमीति ॥ त्वाम्। ओदनान्तरस्तण्डुल इतिवत्कार्यान्तरः कार्यार्थः ॥ “स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्येषु चान्तरम्” इति शाश्वतः ॥ स चासौ मानुषश्चेति तस्य विष्णो रामस्य सुताख्यां पुत्रसंज्ञामपरां तनुं मूर्तिमवैमि । “आत्मा वै पुत्रनामासि” इति श्रुतेरित्यर्थः ॥ स जानन्नहमाराधनीयस्योपास्यस्य तव धृतेः प्रीतेः "धृ प्रीतौ" इति धातोः स्त्रियां क्तिन् ॥ विघातं कथं नामाचरेयम् । असंभावितमित्यर्थः॥

  [७१]राभिघातोत्थितकन्दुकेयमालोक्य बालातिकुतूहलेन ।
  ह्र[७२]दात्पतज्ज्योतिरिवान्तरिक्षादादत्त जैत्राभरणं त्वदीयम् ॥ ८३॥

 करेति॥कराभिघातेनोत्थित ऊर्ध्वं गतः कन्दुको यस्याः सा कन्दुकार्थमूर्ध्वं पश्यन्तीत्यर्थः । इयं बालातिकुतूहलेनात्यन्तकौतुकेनान्तरिक्षाज्ज्योतिर्नक्षत्रमिव ॥ "ज्योतिर्भद्योतदृष्टिषु" इत्यमरः ॥ ह्रदात्पतत्वदीयं जैत्राभरणमालोक्यादत्तागृह्णात् ॥

  तदेतदाजानुविलम्बिना ते ज्या[७३]घातरेखाकिणलाञ्छनेन ।
  भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन ॥ ८४ ॥

 तदिति॥तदेतदाभरणमाजानुविलम्बिना दीर्येण । ज्याघातेन या रेखारेखाकारा

ग्रन्थयस्तासां किणं चिन्हं तदेव लाञ्छनं यस्य तेन । भूमे रक्षायाः परिघेण रक्षार्गलेन ॥"परिघोयोगभेदास्त्रमुद्गरेऽर्गलघातयोः" इत्यमरः॥ अंसलेन बलवता ते भुजेन पुनर्योगं संगतिमुपैतु ॥ एतैर्विशेषणैर्महाभाग्यशौर्यधुरंधरत्वबलवत्त्वादि गम्यते ॥

  इमां स्वसारं च यवीयसी मे कुमुद्वतीं नार्हसि नानुमन्तुम् ।
  [७४]त्मापराधं नुदती चिराय शुश्रूषया पार्थिव पादयोस्ते ॥८५॥

 इमामिति ॥ किंच । हे पार्थिव, ते तव पादयोश्चिराय शुश्रूषया परिचर्यया॥ शुश्रूषा श्रोतुमिच्छायां परिचर्याप्रदानयोः" इति विश्वः॥ आत्मापराधमाभरणग्रहणरूपं नुदतीम् । परिजिहीर्षन्तीमित्यर्थः॥"आशंसायां भूतवच्च" इति चकाराद्वर्तमानार्थे शतृप्रत्ययः॥ “आच्छीनद्योर्नुम्" इत्यस्य वैकल्पिकत्वान्नुमभावः ॥ इमां मे यवीयसीं कनिष्ठां स्वसारं भगिनीं कुमुद्वतीमनुमन्तुं नार्हसीति न । अर्हस्येवेत्यर्थः॥

  इत्यूचिवानु[७५]पहृताभरणः क्षितीशं
   श्लाघ्यो भवान्स्वजन इत्य[७६]नुभाषितारम् ।
  संयोजयां विधिवदास स[७७]मेतबन्धुः
   कन्यामयेन कुमुदः कुलभूषणेन ॥८६॥

 इतीति ॥ इति पूर्वश्लोकोक्तमूचिवानुक्तवान् ॥ ब्रुवः क्वसुः ॥ उपहृताभरणः प्रत्यर्पिताभरणः कुमुदः । हे कुमुद, भवाञ्श्लाघ्यः स्वजनो बन्धुः। इत्यनुभाषितारमनुवक्तारं क्षितीशं कुशं समेतबन्धुर्युक्तबन्धुः सन्कन्यामयेन कन्यारूपेण कुलयोर्भूषणेन विधिवत्संयोजयामास ॥ न केवलं तदीयमेव किंतु स्वकीयमपि भूषणं तस्मैदत्तवानितिध्वनिः॥ आम्पत्ययानुप्रयोगयोर्व्यवधानं तु प्रागेव समाहितम् ॥

  तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते
   माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य ।
  दिव्यतूर्स्यर्ध्वनिरुदचरद्व्यश्नुवानो दिगन्ता-
   न्गन्धोदग्रं तदनु ववृषुः पुष्पमाश्चर्यमेघाः॥ ८७ ।।

 तस्या इति ॥मनुजपतिना कुशेन साहचर्याय । सहधर्माचरणायेत्यर्थः । माङ्गल्या मङ्गले साधुर्योर्णा मेषादिलोम ॥ " ऊर्णा मेषादिलोम्नि स्यात् " इत्यमरः ॥ अत्र लक्षणया तन्निर्मितं सूत्रमुच्यते। तया वलयिनि वलयवति तस्याः कुमुद्वत्याः हस्ते पाणावुच्छिखस्योदर्चिषः पावकस्य पुरोऽग्रे स्पृष्टे गृहीते सति दिगन्तान्व्यश्नुवानो व्याप्नुवन्दिव्यस्तूर्यध्वनिरुदचरदुत्थितः । तदन्वाश्चर्या अद्भुता मेघा गन्धेनोदग्रमुत्कटं पुष्पं पुष्पाणि॥ जात्यभिप्रायेणैकवचनम् ॥ ववृषुः॥ आश्चर्यशब्दस्य "रौद्रं तूग्रममी त्रिषु । चतुर्दश" इत्यमरवचनात्त्रिलिङ्गत्वम् ॥

  इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं
   लब्ध्वा बन्धुं तमपि च कुशः पञ्चमं तक्षकस्य ।
  एकः शङ्कां पि[७८]तृवधरिपोरत्यजद्वैनतेया-
   च्छान्तव्यालामवनिमपरः पौरकान्तः शशास ॥ ८८॥

 इत्थमिति ॥ इत्थं नागः कुमुदः । त्रयाणां भुवनानां समाहारस्त्रिभुवनम् ॥ "तद्धितार्थ-" इत्यादिना तत्पुरुषः ॥ “अदन्तद्विगुत्वेऽपि पात्राद्यन्तत्वान्नपुंसकत्वम् ॥" पात्राद्यन्तैरनेकार्थो द्विगुर्लक्ष्यानुसारतः" इत्यमरः ॥ तस्य गुरू रामः। तस्यौरसं धर्मपत्नीजं पुत्रम् ॥ "औरसो धर्मपत्नीजः" इति याज्ञवल्क्यः ।। मैथिलेयं कुशं बन्धुं लब्ध्वा । कुशोऽपि च तक्षकस्य पञ्चमं पुत्रं तं कुमुदं बन्धुं लब्ध्वा । एकस्तयोरन्यतरः कुमुदः पितृवधेन रिपोर्वैनतेयाद्गरुडात् ॥ गुरुणा वैष्णवांशेन कुशेन त्याजितक्रौर्यादिति भावः ॥ शङ्कां भयमत्यजत् । अपरः कुशः शान्तव्यालां कुमुदाज्ञया वीतसर्पभयामवनिमतएव पौरकान्तः पौरप्रियः सन्छशास ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
कुमद्वतीपरिणयो नाम षोडशः सर्गः ।


  1. तां सोऽनपोढार्गलम्
  2. प्रवेशः
  3. विशोर्णतल्पो गृहसंनिवेशः
  4. अर्ध
  5. ज्वलन्मुख
  6. ध्वनितामगच्छत्
  7. दीर्घिकासु
  8. चरणाङ्गरागान्
  9. अद्य
  10. निर्मोकपट्यः
  11. धूप.
  12. वनानि.
  13. तटानि.
  14. प्राग्रसरः.
  15. उद्गतेन.
  16. विसोढुम्.
  17. उद्गच्छमाना.
  18. सामग्र्यपदम्.
  19. मार्गेषिणी.
  20. विन्ध्येषु; विन्ध्यस्य.
  21. सोल्लसितम्.
  22. तीरम्.
  23. उपवनान्तवातः.
  24. प्रयुक्ताः.
  25. तथाविधाम्.
  26. पुनः.
  27. निवर्तयामास.
  28. गृहस्तदीयैः.
  29. शालविधिस्तम्भगतैः; शालागृहैः स्तम्भगतैः; शालागृहस्तम्भगतैः.
  30. विपणिस्थपण्यैः.
  31. अधिरोहितायाम्.
  32. प्रिया वेशम्.
  33. व्यमुञ्चत्.
  34. विजृम्भितोद्गन्धिषु.
  35. शय्याम्,
  36. भूयिष्ठसंदिष्टशिखम् ; भूयिष्ठसंसृष्टशिखम् ; संबद्धभूयिष्ठशिखम्.
  37. सिक्तान्.
  38. अनुधूप-
    वसात्.
  39. रुरुचे.
  40. खण्डीकृतज्या.
  41. पुराणसीधुम्,
  42. तौ.
  43. पादसेवः.
  44. स चोदयस्थः; नवोदयस्थौ; नवोदयस्थः.
  45. विहतोपकार्याम्.
  46. विल-
    ग्नहंसा; विविग्नहंसा.
  47. परस्पराक्षेपण.
  48. अशक्नुवन्त्यः.
  49. करास्फालन.
  50. भङ्गाः; भङ्ग्यः.
  51. मूर्छत्यनुरक्तम्.
  52. उडुकल्पाः.
  53. आसाम्.
  54. रसना.
  55. गन्धधारम्.
  56. आरात्; हर्षात्.
  57. उद्बद्धकेशः.
  58. जालशोभः; कर्णवेष्ट:.
  59. विलोलमाल;
    बिलोलमाल्यः.
  60. स्कन्धावलग्नोद्दृतपद्मिणीकः; स्कन्धावलग्न्नोन्नतपद्मिनीकः.
  61. अधिगता; अभिगताः.
  62. उन्मयूषं किमुतेन्द्रनीलम्.
  63. शृङ्गसंस्थैः.
  64. अपोढनेपथ्यविधिम्; उपोढनेपथ्यविधिः.
  65. संजननम्.
  66. आभुक्तमुक्तम्,
  67. वीरः.
  68. आम्लानमुखारविन्दाः; अम्लानमुखप्रसादम्; आम्लानमुखारविन्दम्,
  69. अभिघनन् ; भिन्दन्.
  70. अङ्कुशमाशु विद्वान्; अङ्कुशवद्विदित्वा.
  71. कराभिघातोच्छ्रितकन्दुका.
  72. जवात्पतत्, औत्पातिकम्.
  73. ज्याघातलेखास्थिर.
  74. निजापराधम्.
  75. उपचिताभरणः; उपहिताभरणः.
  76. अभिभाषितारम्.
  77. तमेकबन्धुम्.
  78. विषधररिपोः; अहिकुलरिपोः.