रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)
← रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/द्वादशः सर्गः(रावणवधः) | रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्) त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः) कालिदासः |
चतुर्दशः सर्गः(सीतापरित्यागः) → |
त्रयोदशः सर्गः ।
त्रैलोक्यशल्योद्धरणाय सिन्धोश्चकार बन्धं मरणं रिपूणाम् ।
पुण्यप्रणामं भुवनाभिरामं रामं विरामं विपदामुपासे ॥
अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः।
रत्नाकरं वीक्ष्य मिथःस जायां रामाभिधानो हरिरित्युवाच ॥ १ ॥
अथेति ॥ अथ प्रस्थानानन्तरम् । जानातीति ज्ञः ॥ “इगुपध-" इत्यादिना कप्रत्ययः॥ गुणानां ज्ञो गुणज्ञः । रत्नाकरादिवर्ण्यैश्वर्यगुणाभिज्ञ इत्यर्थः । स रामाभिधानो हरिर्विष्णुः शब्दो गुणो यस्य तच्छब्दगुणमात्मनः स्वस्य पदं विष्णुपदम् । आकाशमित्यर्थः ॥ "वियद्विष्णुपदम्" इत्यमरः॥"शब्दगुणमाकाशम्" इति तार्किकाः॥ विमानेन पुष्पकेण विगाहमानः सन् । रत्नाकरं वीक्ष्य मिथो
रहसि ॥"मिथोऽन्योन्यं रहस्यपि" इत्यमरः ॥ जायां पत्नीं सीतामिति वक्ष्यमाणप्रकारेणोवाच ॥ रामस्य हरिरित्यभिधानं निरङ्कुशमहिमद्योतनार्थम् ॥ मिथोग्रहणं गोष्ठीविश्रम्भसूचनार्थम् ॥
वैदेहि पश्या मलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् ।
छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥ २ ॥
वैदेहीति ॥ हे वैदेहि सीते । आ मलयान्मलयपर्यन्तम् ॥ “पञ्चम्यपाङ्परिभिः" इति पञ्चमी ॥ पदद्वयं चैतत् ॥ मत्सेतुना विभक्तं द्विधाकृतम् । अत्यायतसेतुनेत्यर्थः । हर्षाधिक्याच्च मद्ग्रहणम् ॥ फेनिलं फेनवन्तम् ॥ “फेनादिलच्च" इतीलच्प्रत्ययः ॥ क्षिप्रकारी चायमिति भावः । अम्बुराशिम् । छायापथेन विभक्तं शरत्प्रसन्नमाविष्कृतचारुतारमाकाशमिव । पश्य ॥ मम महानयं प्रयासस्त्वदर्थ इति हृदयम् ॥ छायापथो नाम ज्योतिश्चक्रमध्यवर्ती कश्चित्तिरश्चीनोऽवकाशः ॥
गुरोर्यियक्षोः कपिलेन मे[१]ध्ये रसातलं संक्रमिते तुरंगे।
तदर्थमुर्वीमवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः ॥ ३ ॥
गुरोरिति ॥ यियक्षोर्यष्टुमिच्छोः ॥ यजेः सन्नन्तादुप्रत्ययः । गुरोः सगरस्य मेध्येऽश्वमेधार्हे तुरंगे हये कपिलेन मुनिना रसातलं पातालं संक्रमिते सति । तदर्थमुर्वीमवदारयद्भिः खनद्भिर्नोऽस्माकं पूर्वैर्वृद्धः सगरसुतैरयं समुद्रः परिवर्धितः किल । किलेत्यैतिह्ये । अतो नः पूज्य इति भावः । यद्यपि तुरंगहारी शतक्रतुस्तथापि तस्य कपिलसमीपे दर्शनात्स एवेति तेषां भ्रान्तिः । तन्मत्वैव कविना कपिलेनोति निर्दिष्टम् ॥
गर्भं दधत्यर्कमरीचयोऽस्माद्विवृद्धिमत्राश्नुवते वसूनि ।
अबिन्धनं वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन ॥ ४ ॥
गर्भमिति ॥ अर्कमरीचयोऽस्मादब्धेः । अपादानात् । गर्भमम्मयं दधति । वृष्ट्यर्थमित्यर्थः । अयमर्थो दशमसर्गे “ताभिर्गर्भ:-" (५८) इत्यत्र स्पष्टीकृतः । अयं लोकोपकारीति भावः । अत्राब्धौ वसूनि धनानि ॥ “धने रत्ने वसु स्मृतम्" इति विश्वः ॥ विवृद्धिमश्रुवते प्राप्नुवन्ति । संपद्वानित्यर्थः । असावाप इन्धनं दाह्यं यस्य तद्दाहकं वह्नि बिभर्ति । अपकारेऽप्याश्रितं न त्यजतीति भावः। अनेन प्रह्लादनमाह्लादकं ज्योतिश्चन्द्रोऽजनि जनितम् ॥ जनेर्ण्यन्तात्कर्मणि लुङ् ॥ सौम्य इति भावः ॥
तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना।
विष्णोरिवास्यानवधारणीयमीदृक्तया रूपमियत्तया वा ॥ ५ ॥
तां तामिति ॥ तां तामनेकाम् ॥ “नित्यवीप्सयोः" इति वीप्सायां द्विरुक्तिः ॥ अवस्थामक्षोभाद्यवस्थाम् । विष्णुपक्षे सत्त्वाद्यवस्थाम् । प्रतिपद्यमानं भजमानं महिम्ना दश दिशो व्याप्य स्थितं विष्णोरिवास्य रत्नाकरस्य रूपं स्वरूपमुक्तरीत्या बहुप्रकारत्वाद्व्यापकत्वाच्चेदृक्तयेयत्तया वा प्रकारतः परिमाणतश्चानवधारणीयं दुर्निरूपम् ॥
नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा।
अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥ ६ ॥
नाभीति ॥ युगान्ते कल्पान्त उचिता परिचिता योगाः स्वात्मनिष्ठैव निद्रेव निद्रा यस्य स पुरुषो विष्णुर्लोकान्संहृत्य । नाभ्यां प्ररूढं यदम्बुरुहं पद्मं तदासनेन तन्नाभिकमलाश्रयेण प्रथमेन धात्रा दक्षादीनामपि स्रष्टा पितामहेन संस्तूयमानः सन् । अमुमधिशेते । अमुष्मिञ्छेत इत्यर्थः । कल्पान्तेऽप्यस्तीति भावः ॥
पक्षेति ॥ पक्षच्छिदा गोत्रभिदेन्द्रेण ।। उभयत्र "सत्सूद्विष" इत्यादिना क्विप् ॥ आत्तगन्धा हृतगर्वाः । अभिभूता इत्यर्थः ॥ “गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः" इति विश्वः ॥ “आत्तगन्धोऽभिभूतः स्यात्" इत्यमरः ॥ महीं धारयन्तीति महीध्राः पर्वताः ॥ मूलविभुजादित्वात्कप्रत्ययः ॥ शतं शतं शतशः शरण्यं रक्षणसमर्थमेनं समुद्रम् । परेभ्यः शत्रुभ्य उपप्लविनो भयवन्तो नृपा धर्मोत्तरं धर्मप्रधानं मध्यमं मध्यमभूपालमिव । आश्रयन्ते ॥ "अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः इति कामन्दकः ॥ आर्तबन्धुरिति भावः ॥
रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः।
अ[६]स्याच्छमम्भः प्रलयप्रवृद्धं मुहूर्तवक्राभरणं बभूव ॥ ८ ॥
रसातलादिति॥आदिभवेन पुंसादिवराहेण रसातलात्प्रयुक्तोद्वहनक्रियायाः कृतोद्धरणक्रियायाः । विवाहक्रिया च व्यज्यते । भुवो भूदेवतायाः प्रलये प्रवृद्धमस्याब्धेरच्छमम्भो मुहूर्तं वक्राभरणं लज्जारक्षणार्थं मुखावगुण्ठनं बभूव ॥ तदुक्तं -- "उद्धृतासि वराहेण कृष्णेन शतबाहुना" इति ॥
मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरंगाधरदानदक्षः ।
अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धूः ॥ ९ ॥
मुखेति ॥ अन्येषां पुंसां सामान्या साधारणा न भवतीत्यनन्यसामान्या कलत्रेषु वृत्तिर्भोगरूपा यस्य स तथोक्तः । इममेवार्थं प्रतिपादयति--तरंग एवाधरस्तस्य दाने समर्पणे दक्षश्चतुरोऽसौ समुद्रो मुखार्पणेषु प्रकृत्या सख्यादिप्रेषणं विना प्रगल्भा धृष्टाः सिन्धूर्नदीः ॥ "सिन्धुः समुद्रे नद्यां च" इति विश्वः ॥ स्वयं पिबति पाययते च । तरंगाधरमिति शेषः ॥ "न पादभ्याङ्यम्-" इत्यादिना पिबतेर्ण्यन्तान्नित्यं परस्मैपदनिषेधः । "गतिबुद्धिप्रत्यवसानार्थ-" इत्यादिना सिन्धूनां कर्मत्वम् ॥ दंपत्योर्युगपत्परस्पराधरपानमनन्यसाधारणमिति भावः ॥
ससत्त्वमिति ॥ अमी तिमयो मत्स्यविशेषाः ॥ तदुक्तम्-"अस्ति मत्स्यस्तिमिर्नाम शतयोजनमायतः" इति ॥ विवृताननत्वाद्व्यात्तमुखत्वाद्धेतोः ॥ आननविवृत्येत्यर्थः । ससत्त्वं मत्स्यादिप्राणिसहितं नदीमुखाम्भ आदाय संमीलयन्तश्चञ्चुपुटानि संघट्टयन्तः सन्तः सरन्ध्रैः शिरोभिर्जलप्रवाहानूर्ध्वं वितन्वन्ति ॥ जलयन्त्रक्रीडासमाधिर्व्यज्यते ॥
मातंगनक्रैः सहसोत्पतद्भिर्भिन्नान्द्विधा पश्य समुद्रफेनान् ।
कपोलसंसर्पितया य एषां व्रजन्ति कर्णक्षणचामरत्वम् ॥ ११ ॥
मातंगेति ॥ सहसोत्पतद्भिर्मातंगनक्रैर्मातंगाकारैर्ग्राहैर्द्विधा भिन्नान्समुद्रफेनान्पश्य । ये फेना एषां जलमातंगनक्राणां कपोलेषु संसर्पितया संसर्पणेन हेतुना कर्णेषु क्षणं चामरत्वं व्रजन्ति ॥
वेलेति ॥ वेलानिलाय । वेलानिलं पातुमित्यर्थः ॥ "क्रियार्थोपपद-" इत्यादिना चतुर्थी ॥ प्रसृता निर्गता महोर्मीणां विस्फूर्जथुरुद्रेकः ॥ "ट्वितोऽथुच्" इत्यथुच्प्रत्ययः ॥ तस्मान्निर्विशेषा दुर्ग्रहभेदा एते भुजंगाः सूर्यांशुसंपर्केण समृद्धरागैः प्रवृद्धकान्तिभिः फणस्थैर्मणिभिर्व्यज्यन्त उन्नीयन्ते ॥
तवाधरस्पर्धिषु विद्रुमेषु पर्यस्तमेतत्सहसोर्मिवेगात् ।
ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित्क्लेशा[११]दपक्रामति शङ्खयूथम् ॥ १३ ॥
तवेति ॥ तवाधरस्पर्धिषु । अधरसदृशेष्वित्यर्थः । विद्रुमेषु प्रवालेषु सहसोर्मिवेगात्पर्यस्तं प्रोत्क्षिप्तमूर्ध्वाङ्कुरैर्विद्रुमप्ररोहैः प्रोतमुखं स्यूतवदनमेतच्छङ्खानां यूथं वृन्दं
कथंचित्क्लेशादपक्रामति । विलम्ब्यापसरतीत्यर्थः ॥ प्रवृत्तमात्रेण पयांसि पातुमावर्तवेगाद्बमता घनेन ।
आभाति भूयिष्ठम[१२]यं समुद्रः प्रमथ्यमानो गिरिणेव भूयः ॥१४॥
प्रवृत्तेति ॥पयांसि पातुं प्रवृत्त एव प्रवृत्तमात्रो न तु पीतवांस्तेनावर्तवेगात् ॥ "स्यादावर्तोऽम्भसां भ्रमः" इत्यमरः॥ भ्रमता घनेनायं समुद्रो भूयः पुनरपि गिरिणा मन्दरेण प्रमथ्यमान इव भूयिष्ठमत्यन्तमाभाति ॥
दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला ।
आभाति वेला लवणाम्बुराशेर्धारानिबध्देव कलङ्करेखा[१३] ॥१५॥
दूरादिति ॥ अयश्चक्रानिभस्य लवणाम्बुराशेर्दूरात्तन्व्यत्वेनावभासमाना तमालतालीवनराजिभिनीला वेला तीरभूमिर्धारानिबद्धा चक्राश्रिता कलङ्करेखा मालिन्यरेखेव । आभाति ॥ “मालिन्यरेखां तु कलङ्कमाहुः" इति दण्डी ॥
वेलानिलः केतकरेणुभिस्ते संभावयत्याननमायताक्षि ।
मामक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् ॥ १६ ॥
वेलेति ॥ हे आयताक्षि ॥ “वेला स्यात्तीरनीरयोः" इति विश्वः॥ वेलानिलः केतकरेणुभिस्त आननं संभावयति ॥ किमर्थमित्यपेक्षायामुत्प्रेक्ष्यते-बिम्बाधरे बद्धतृष्णं मां मण्डनेनाभरणक्रियया कालहानिर्विलम्बस्तस्या अक्षममसहमानम् ॥ कर्मणि षष्ठी ॥ कालहानिमसहमानं वेत्तीव वेत्ति किम् । नो चेत्कथं संभावयेदित्यर्थः॥
एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः ।
प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालम् ॥ १७ ॥
एत इति ॥ एते वयं सैकतेषु भिन्नाभिः स्फुटिताभिः शुक्तिभिः पर्यस्तानि परितः क्षिप्तानि मुक्तानां पटलानि यस्मिंस्तत्तथोक्तं फलैरार्वजिता आनमिता पूगमाला यस्मिस्तत्पयोधेः कूलं विमानवेगान्मुहूर्तेन प्राप्ताः ॥
कुरुष्व तावत्करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्टिपातम् ।
एषा विदूरोभवतः समुद्रात्सकानना नि[१४]ष्पततीव भूमिः।। १८॥
कुरुष्वेति ॥ “मणिवन्धादाकनिष्ठ करस्य करभो बहिः” इत्यमरः ॥ करभ इवोरू यस्याः सा करभोरूः ॥ “ऊरुत्तरपदादौपम्ये” इत्यूङ् ॥ तस्याः संबुद्धिर्हे करभोरु । मृगवत्प्रेक्षत इति विग्रहः।हे मृगप्रेक्षिणि । तावत्पश्चान्मार्गे लङ्घिताध्वनि दृष्टिपातं कुरुष्व । एषा सकानना भूमिर्विदूरीभवतः समुद्रान्निष्पतति निष्क्रामतीव ॥
विदूरशब्दाद्विशेष्यनिघ्नाच्च्विः॥ क्वचित्पथा संचरते सुराणां कचिद्धनानां प[१५]ततां क्वचिच्च ।
यथाविधो मे मनसोऽभिलाषः प्रवर्तते पश्य तथा विमानम् ॥१९॥
क्वचिदिति ॥ हे देवि, विमानं पुष्पकं मे मनसोऽभिलाषो यथाविधस्तथा प्रवर्तते पश्य ॥ क्वचित्सुराणां पथा संचरते । क्वचिद्धनानां क्वचित्पततां पक्षिणां च पथा संचरते ॥ “ समस्तृतीयायुक्तात्" इति संपूर्वाच्चरतेरात्मनेपदम् ॥
असौ म[१६]हेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः।
आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते॥२०॥
असाविति॥ महेन्द्रद्विपदानगन्धिरैरावतमदगन्धिः। त्रिभिर्मार्गैर्गच्छतीति त्रिमार्गगा गङ्गा ॥ “तद्धितार्थ-" इत्यादिनोत्तरपदसमासः॥ तस्या वीचीनां विमर्दैन संपर्केण शीतोऽसावाकाशवायुर्दिनयौवनोत्थान्मध्याह्नसंभवांस्ते मुखे स्वेदलवानाचामति हरति । अनेन सुरपथसंचारो दर्शितः॥
करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या ।
आमुञ्चतीवाभरणं द्वितीयमुद्भिन्नविद्युद्वलयो घनस्ते ॥ २१ ॥
करेणेति ॥ हे चण्डि कोपने ॥“चण्डस्त्वत्यन्तकोपनः" इत्यमरः॥ कुतूहलिन्या विनोदार्थिन्या त्वया । कर्त्र्या । वातायने गवाक्षे लम्बितेनावस्रंसितेन करेण स्पृष्ट उद्भिन्नवियुद्वलयो घनस्ते द्वितीयमाभरणं वलयमामुञ्चतीवार्पयतीव ॥ चण्डीत्यासनेन कोपनशीलत्वाद्भीतः क्षिप्रं त्वां मुञ्चति मेघ इति व्यज्यते ॥
अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि ।
अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि॥२२॥
अमी इति ॥ अमी चीरभृतस्तापसा जनस्थानमपोढविघ्नमपास्तविघ्नं मत्वा ज्ञात्वा समारब्धा नवा उटजाः पर्णशाला येषु तानि ॥ “पर्णशालोटजोऽस्त्रियाम्" इत्यमरः ॥ चिरोज्झितानि । राक्षसभयादित्यर्थः । आश्रममण्डलान्याश्रमविभागान्यथास्वं स्वं स्वमनतिक्रम्याध्यासतेऽतिष्ठन्ति ।
सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् ।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ २३ ॥
सैषेति ॥ सा पूर्वानुभूता स्थल्येषा । दृश्यत इत्यर्थः । यत्र स्थल्यां त्वां विचिन्वतान्विष्यता मया । त्वच्चरणारविन्देन यो विश्लेषो वियोगस्तेन यद्दुःखं तस्मा-
३५ दिव बद्धमौनं निःशब्दस् । उर्व्यां भ्रष्टमेकं नूपुरं मजीरः ॥ “ मञ्जीरो
नूपुरोऽस्त्रियाम्" इत्यमरः ॥ अदृश्यत दृष्टम् ॥ हेतूत्प्रेक्षा ।
त्वं रक्षसा भीरु यतोऽपनीता तं मार्गमेताः कृपया लता मे[१७]।
अदर्शयन्वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥२४॥
त्वमिति ॥ हे भीरु भयशीले ॥ “ऊङुतः" इत्यूङ् । ततो नदीत्वात्संबुद्धौ ह्रस्वः॥ त्वं रक्षसा रावणेन यतो येन मार्गेण ॥ सार्वविभक्तिकस्तसिः ॥ अपनीतापहृता तं मार्गं वागिन्द्रियाभावाद्वक्तुमशक्नुवत्य एता लता वीरुध आवर्जिता नमिताः पल्लवाः पाणिस्थानीया याभिस्ताभिः शाखाभिः स्वावयवभूताभिः कृपया मेऽदर्शयन् । हस्तचेष्टयासूचयन्नित्यर्थः ॥ “शाखा वृक्षान्तरे भुजे” इति विश्वः ॥ लतादीनामपि ज्ञानमस्त्येव । तदुक्तं मनुना-“अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः" इति ॥
मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् ।
व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥
मृग्यश्चेति ॥ दर्भाङ्कुरेषु भक्ष्येषु निर्व्यपेक्षा निःस्पृहा मृग्यो मृगाङ्गनाश्चोत्पक्ष्मराजीनि विलोचनानि दक्षिणस्यां दिशि व्यापारयन्त्यः प्रवर्तयन्त्यः सत्यस्तवागतिज्ञं गत्यनभिज्ञं मां समबोधयन् ॥ दृष्टिचेष्टया त्वद्गतिमबोधयन्नित्यर्थः ॥
एतदिति ॥ माल्यवतो नाम गिरेरम्बरलेख्यभ्रंकषं श्रुङ्गमेतत्पुरस्तादग्र आविर्भवति । यत्र श्रुङ्गे धनैर्मेधैर्नवं पयो मया त्वद्विपयोगेन यदश्रु तच्च समं युगपद्विसृष्टम् । मेघदर्शनाद्वर्षतुल्यमश्रु विमुक्तमिति भावः ॥
गन्धश्चेति ॥ यस्मिञ्छृङ्गे धाराभिर्वर्षधाराभिराहतानां पल्वलानां गन्धश्च । अर्धोद्गतकेसरं कादम्ब नीपकुसुमं च । स्निग्धा मधुराः शिखिनां बर्हिणाम् ॥ "शिखिनौ वन्हिबर्हिणौ" इत्यमरः ॥ केकाश्च । त्वया विना मेऽसह्यानि बभूवुः॥
" नपुंसकमनपुंसकेन-" इति नपुंसकैकशेषः॥ पूर्वानुभूतं स्मरता च ये[२२]त्र कम्पोत्तरं भीरु तवोपगूढम् ।
गुहाविसारीण्यतिवाहितानि मया कथंचिद्धनगर्जितानि ॥२८॥
पूर्वेति ॥ किंच । हे भीरु । श्र्ङ्गे विभिन्नकोशर्विकसि पूर्वानुभूतं कम्पोत्तरं कम्पप्रधानं तवोपगूढमुपगूहनं स्मरता मया गुहाविसारीणि घनगर्जितानि कथंचिदतिवाहितानि । स्मारकत्वेनोद्दीपकत्वात्क्लेशेन गमितानीत्यर्थः॥
आसारसिक्तक्षितिबाष्पयोगान्मामक्षिणोद्यत्र विभिन्नकोशैः ।
विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः॥२९॥
आसारेति ॥ यत्र शृङ्गे विभिन्नकोशैर्विकसितकुड्मलैर्नवकद्नलैः लैर्नवकन्दलैः कन्दलीपुष्पैररुणवर्णैरासारेण धारासंपातेन ॥ “ धारासंपात आसारः" इत्यमरः॥ सिक्तायाः क्षितेर्बाष्पस्य धूमवर्णस्य योगाद्धेतोर्विडम्ब्यमानानुक्रियमाणा ते विवाहधूमेनारुणा लोचनश्रीः । सादृश्यात्स्मर्यमाणेति शेषः । मामक्षिणोदपीडयत् ॥
उपान्तवानीवनोपगूढान्यालक्ष्यपारिप्लवसारसानि ।
दूरावतीर्णा पिबतीव खेदादमूनि पम्पासलिलानि दृष्टिः॥३०॥
उपात्तेति॥ उपान्तवानीरवनोपगूढानि पार्श्ववञ्जुलव्व्नच्छन्नान्यालक्ष्या ईषद्दृश्याः पारिप्लवाश्चञ्चलाः सारसा येषु तान्यमूनि पम्पासलिलानि पम्पासरोजलानिदूरादवतीर्णा मे दृष्टिरतएव खेदात्पिबतीव । न विहातुमुत्सहत इत्यर्थः ।।
अत्रावियुक्तानि रथाङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि ।
द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये सस्पृहमीक्षितानि ॥३१॥
अत्रेति॥ अत्र पम्पासरस्यन्योन्यस्मै दत्तोत्पलकेसराण्यवियुक्तानि रथाङ्गनाम्नां द्वन्द्वानि चक्रवाकमिथुनानि ते तव दूरान्तरवर्तिना दूरदेशवर्तिना मया हे प्रिये सस्पृहं साभिलाषमीक्षितानि । तदानीं त्वामस्मार्षमित्यर्थः ॥
इमामिति ॥ किंच । स्तनवदभिरामाभ्यां स्तबकाभ्यामभिनम्रां तन्वीमिमा तटाशोकस्य लतां शाखामतस्त्वत्माप्तिबुद्ध्या त्वमेव मातेति भ्रान्त्या परिरब्धुमालिङ्गितुं कामो यस्य सोऽहं सौमित्रिणा लक्ष्मणेन साश्रुर्निषिद्धः। नेयं सीतेति
निवारितः ॥ परिरब्धुकामा इत्यत्र "तुं काममनसोरपि" इति वचनान्मकारलोपः॥ अ[२६]मूर्विमानान्तरलम्बिनीनां श्रूत्वा स्वनं काञ्चनकिङ्किणीनाम् ।
प्रत्युद्व्रजन्तीव खमुत्पतन्त्यो गोदावरीसारसपतङ्कयस्त्वाम् ॥ ३३॥
अमूरिति ॥ विमानस्यान्तरेष्ववकाशेषु लम्बन्ते यास्तासां काञ्चनकिङ्किणीनां स्वनं श्रुत्वा स्वयूथशब्दभ्रमात्खमाकाशमुत्पतन्त्योऽमूर्गोदावरीसारसपङ्कयस्त्वां प्रत्युद्व्रजन्तीव ॥
एषेति ॥ पेशलमध्ययापि । भाराक्षमयापीत्यर्थः । त्वया घटाम्बुभिः संवर्धिता बालचूता यस्याः सा । उन्मुखा अस्मदभिमुखास्त्वत्संवर्धिता एव कृष्णसारा यस्याः सा चिराद्दृष्टैषा पञ्चवटी मे मन आनन्दयसाहादयति ॥ पञ्चवटीशब्दः पूर्वमेव व्याख्यातः॥
अत्रानुगोदं मृगयानिवृत्तस्तरंगवातेन विनीतखेदः।
रहस्त्वदुत्सङ्गनिष[३०]ण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः॥ ३५ ॥
अत्रेति ॥ अत्र पञ्चवट्याम् । गोदा गोदावरी । तस्याः समीपेऽनुगोदम् ॥ "अनुर्यत्समया" इत्यव्ययीभावः। मृगायाया निवृत्तस्तरंगवातेन विनीतखेदो रहो रहसि ॥ अत्यन्तसंयोगे द्वितीया ॥ त्वदुत्सङ्गनिषण्णमूर्धा सन्नहं वानीरगृहेषु सुप्तः स्मरामि ॥ वाक्यार्थः कर्म ॥ सुप्त इति यत्तत्स्मरामीत्यर्थः ।।
भ्रू[३१]भेदमात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार ।
तस्याविलाम्भःपरिशुद्धिहेतोर्भैमो मुनेः स्थानपरिग्रहोऽयम् ॥३६॥
भ्रूभेदेति ॥ यो मुनिर्भूभेदमात्रेण भ्रूभङ्गमात्रेणैव नहुषं राजानं मघोनः पदादिन्द्रत्वात्मभ्रंशयांचकार प्रभ्रंशयति स्म । आविलाम्भःपरिशुद्धिहेतोः कलुषजलमसादहेतोस्तस्य मुनेरगस्त्यस्य । अगस्त्योदये शरदि जलं प्रसीदतीत्युक्तं प्राक् । भूमौ भवो भौमः स्थानपरिग्रह आश्रमोऽयम् । दृश्यत इति शेषः॥भौम इत्यनेन दिव्योऽप्यस्तीत्युक्तम् । परिगृह्यत इति परिग्रहः । स्थानमेव परिग्रह इति विग्रहः॥
त्रेतागिधूमाग्रमनिन्द्यकीर्तेस्तस्येदमाक्रान्तविमानमार्गम् ।
घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानमात्मा ॥३७॥
आतेति॥अनिन्द्यकीर्तेस्तास्यागस्त्यस्त्याक्राविमानमार्गम् हविर्गन्धोऽस्यास्तीति हविर्गन्धि त्रेताग्निरग्नित्रयम् ॥“अग्नित्रयमिदं त्रेता" इत्यमरः।। पृषोदरादित्वादेत्वम् ॥ त्रेताग्नेर्धूमाग्रमिदं घ्रात्वाघ्राय रजसो गुणाद्विमुक्तो मे ममात्मान्तःकरणं लघिमानं लघुत्वगुणं समश्नुते प्राप्नोति ॥
एतन्मुनेर्मानिनि शा[३२]तकर्णेः पञ्चाप्सरो नाम विहारवारि ।
आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम् ॥३८॥
एतदिति ॥ हे मानिनि, शातकर्णेर्मुनेः संबन्धि पञ्चाप्सरो नाम पञ्चाप्सर इति प्रसिद्धम् ॥ पञ्चाप्सरसो यस्मिन्निति विग्रहः ॥ पर्यन्तेषु वनानि यस्य तत्पर्यन्तवनमेतद्विहारवारि क्रीडासरो विदूरात् । मेघानामन्तरे मध्य आलक्ष्यमीषद्दृश्यम् ॥ "आ ईषदर्थेऽभिव्याप्तौ" इत्यमरः ॥ इन्दुविम्बमिव । आभाति ॥
पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धमृषिर्मघोना।
समाधिभीते[३३]न किलोपनीतः पञ्चाप्सरोयौवनकूटबन्धम् ॥३९॥
पुरेति ॥ पुरा पूर्वस्मिन्काले दर्भाङ्करमात्रवृत्तिस्तन्मात्राहारो मृगैः सार्धं सह चरन्स ऋषिः समाधेस्तपसो भीतेन मघोनेन्द्रेण पञ्चानामप्सरसां यौवनम् ॥ “तद्धितार्थ-" इत्यादिनोत्तरपदसमासः ॥ तदेव कूटबन्धं कपटयन्त्रमुपनीतः ॥ उन्माथः कूटयन्त्र स्यात्" इत्यमरः ॥ किलेत्यैतिह्ये ॥ मृगसाहचर्यान्मृगवदेव बद्ध इति भावः ॥
तस्येति ॥}} अन्तर्हितसौधभाजो जलान्तर्गतप्रासादगतस्य तस्य शातकर्णेरयं प्रसक्तः संततः संगीतमृदङ्गघोषो वियद्गतः सन्पुष्पकस्य चन्द्रशाला: शिरोगृहाणि॥ चन्द्रशाला शिरोगृहम्" इति हलायुधः ॥ क्षणं प्रतिश्रुद्भिः प्रतिध्वानैर्मुखरा ध्वनन्तीः करोति ॥ “ स्त्री प्रतिश्रुत्पतिध्वाने" इत्यमरः॥
हविर्भुजामेधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः ।
असौ त[३६]पस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥४१॥
हविरिति ॥ नाम्ना सुतीक्ष्णः सुतीक्ष्णनामा चरितेन दान्तः सौम्योऽसावपरस्तपस्वी । एधवतामिन्धनवताम् ॥ "काष्ठं दार्विन्धनं त्वेधः" इत्यमरः ॥ चतुणीं हविर्भुजामग्नीनां मध्ये । ललाटं तपतीति ललाटंतपः सूर्यः ॥ " असूर्यललाटयोर्दृशितपोः" इति खश्प्रत्ययः । “अरुर्द्विषत्-" इत्यादिना मुमागमः ।। ललाटंतपः सप्तसप्तिः सप्ताश्वः सूर्यो यस्य स तथोक्तः सन् । तपस्यति तपश्चरति ॥ "कर्मणा रोमन्थतपोभ्यां वर्तिचरोः" इति क्याङ् । तपसः परस्मैपदं च" इति वक्तव्यम् ॥
अमुं सहासप्रहितेक्षणानि व्याजासंदर्शितमेखलानि ।
नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥४२॥
अमुमिति ॥ जनितेन्द्रशङ्कम् । तपसेति शेषः । अमुं सुतीक्ष्णं सहासं प्रहितानीक्षणानि दृष्टयो येषु तानि । व्याजेन केनचिन्मिषेण ॥ “पुंस्यर्थोऽर्धं समेंऽशके " इति विश्वः ॥अर्धमीषत्पसंदर्शिता मेखला येषु तानि सुराङ्गनानामिन्द्रप्रेषितानां विभ्रमा विलासा एव चेष्टितानि विकर्तुं स्खलयितुमलं समर्थानि न । बभूवुरिति शेषः॥
एष इति ॥ ऊर्ध्वबाहुरेष सुतीक्ष्णोऽक्षमालैव वलयं यस्य तं मृगाणां कण्डूयितारम् । कुशा एव सूचयस्ता लुनातीति कुशसूचिलावस्तम् ॥ “कर्मण्यम्" इत्यण्॥ एभिर्विशेषणैर्जयशीलत्वं भूतदया कर्मक्षमत्वं च द्योत्यते ॥ सव्यादितरं दक्षिणं भुजं मे मम सभाजने संमाननिमित्ते ॥ "निमित्तात्कर्मयोगे" इति सप्तमी ॥ इतः प्राध्वं प्रकृतानुकूलबन्धं प्रयुङ्क्ते ॥ “आनुकूल्यार्थकं प्राध्वम्" इत्यमरः ॥ अव्ययं चैतत् ॥
वाचंयमत्वात्प्रणति ममैष कम्पेन किंचित्प्रतिगृह्य मूर्ध्नः ।
दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि संनिधत्ते ॥४४॥
वाचंयमेति ॥ एष सुतीक्ष्णः । वाचं यच्छतीति वाचंयमो मौनव्रती ॥ "वाचि यमो व्रते" इति खच्प्रत्ययः । “वाचंयमपुरंदरौ च" इति मुम् ॥ तस्य भावस्तत्त्वान्मम प्रणतिं किंचिन्मूर्ध्नः कम्पेन प्रतिगृह्य विमानेन व्यवधानं तिरोधानं तस्मान्मुक्ताम् ॥ “अपेतापोढमुक्तपतित-" इत्यादिना पञ्चमीसमासः॥ दृष्टिं पुनः सहस्रार्चिषि सूर्ये संनिधत्ते । सम्यग्धत्त इत्यर्थः । अन्यथाकर्मकत्वा प्सारसङ्ड्त्गा॥
अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनमाहिताग्नेः ।
चिराय संतर्प्य समिद्भिरग्नीं यो मन्त्रपूतां तनुमप्यहौषीत् ॥४५॥
अद इति ॥ शरणे रक्षणे साधु शरण्यम् । पावयतीति पावनम् । अदो दृश्यमानं तपोवनमाहिताग्नेः शरभङ्गनाम्नो मुनेः संबन्धि । यः शरभाश्चिराय चिरमग्निं समिद्भिः संतर्प्य तर्पयित्वा ततो मन्त्रैः पूतां शुद्धां तनुमप्यहैषीदुतवान् ॥ जुहोतेर्लुङ् ॥
छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु ।
तस्यातिथीनामधुना सपर्या स्थिता सुपुत्रेष्विव पादपेषु ॥४६॥
“पूजा नमस्यापचितिः सपर्याचार्हणाः समाः" इत्यमरः ॥ छायाभिर्विनीतोऽपनीतोऽध्वपरिश्रमो यैस्तेषु भूयिष्ठानि बहुतमानि संभाव्यानि श्लाघ्यानि फलानि येषां तेष्वमीषु पादपेष्वाश्रमवृक्षेषु सुपुत्रेष्विव स्थिता । तत्पुत्रइरिव पादपैरनुष्ठीयत इत्यर्थः ॥
धारास्वनोद्गारिदरीमुखोऽसौ शृङ्गाग्रलग्नाम्बुदप्रपङ्कः ।
बध्नाति मे बन्धुरगात्रि चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः॥४७॥
धारेति ॥ धारा निर्झरधाराः । यद्वा धारया सातत्येन स्वनोद्गारिदर्येव मुखं यस्य सः। शृङ्गं शिखरं विषाणं च । तस्याग्रे लग्नोऽम्बुद एव वप्रपङ्को वप्रक्रीडासक्तपङ्को यस्य सः । असौ चित्रकूटो हे बन्धुरगात्रि उन्नतानताङ्गि ॥ “बन्धुरं तूनतानतम्" इत्यमरः ॥ दृप्तः ककुद्मान्वृषभः इव । मे चक्षुर्बध्नात्यनन्यासक्तं करोति ॥
एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी ।
मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः।।४८।।
एषेति ॥ प्रसन्नो निर्मलः स्तिमितो निःस्पन्दःप्रवाहो यस्याः सा विदूरस्यान्तरस्य मध्यवर्त्यवकाशस्य भावात्तन्वी दूरदेशवर्तित्वात्तनुत्वेनावभासमाना मन्दाकिनी नाम काचिच्चित्रकूटनिकटगैषा सरिन्नगोपकण्ठे । भूमेः कण्ठगता मुक्तावलीव । भाति ॥ अत्र नगस्य शिरस्त्वं तदुपकण्ठस्य कण्ठत्वं च गम्यते ॥
अयं सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य ।
यवाङ्करापाण्डुकपोलशोभी मयावतंसः परिकल्पितस्ते ॥४९॥
अयमिति ॥ गिरेः समीपेऽनुगिरम् ॥ “गिरेश्च सेनकस्य” इति समासान्तष्टप्रत्ययः ॥ सुजातः स तमालोऽयं दृश्यते । यस्य तमालस्य । शोभनो गन्धो यस्य तत्सुगन्धि ॥ गन्धस्य-" इत्यादिनेकारः समासान्तः ॥ प्रवालं पल्लवमादाय मया ते यवाङ्कुरवदापाण्डौ कपोले शोभी शोभते यः सोऽवतंसः परिकल्पितः ॥
अनिग्रहेति ॥ अनिग्रहत्रासा दण्डभयरहिता अपि विनीताः सत्त्वा जन्तवोयस्मिंस्तत् । अपुष्पलिङ्गात्पुष्परूपनिमित्तं विनैव फलबन्धिनः फलग्राहिणो वृक्षा
यस्मिंस्तत् । अतएवाविष्कृतोदग्रतरप्रभावमत्रेर्मुनेस्तपसः साधनं वनमेतत् ।। अत्राभिषेकाय तपोधनानां सप्तर्षिहस्तोद्धृतहेमपद्माम् ।
प्रवर्तयामास किलानुसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥५१॥
अत्रेति॥ अत्र वनेऽनुसूयात्रिपत्नी । सप्त च ते ऋषयश्च सप्तर्षयः ॥ “दिक्संख्ये संज्ञायाम्" इति तत्पुरुषसमासः ॥ तेषां हस्तैरुद्धृतानि हेमपद्मानि यस्यास्तां त्र्यम्बकमौलिमालां हरशिरःस्रजं त्रिस्रोतसं भागीरथीं तपोधनानामृषीणामभिषेकाय स्नानाय प्रवर्तयामास प्रवाहयामास । किलेत्यैतिह्ये ॥
वीरासनैर्ध्यानजुषामृषीणाममी समध्यासितवेदिमध्याः।
निवातनि[४१]ष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥५२॥
वीरेति ॥वीरासनैर्जयसाधनैः । ध्यानं जुषन्ते सेवन्त इति ध्यानजुषः । तेषां तैरुपविश्य ध्यायतामृषीणां संबन्धिनः समध्यासितवेदिमध्याः । इदं वीरासनस्थानीयम् । अमी शाखिनोऽपि निवाते निष्कम्पतया योगाधिरूढा इव ध्यानभाज इव विभान्ति । ध्यायन्तोऽपि निश्चलाङ्गा भवन्ति ॥वीरासने वसिष्ठः-"एकपादमथैकस्मिन्विन्यस्योररुणि संस्थितम् । इतरस्मिंस्तथा चान्यं वीरासनमुदाहृतम्" इति ॥
त्वया पुरस्तादुपयाचितो यः सोऽयं वटःश्याम इति प्र[४२]तीतः।
राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति॥५३॥
त्वयेति ॥ त्वया पुरस्तात्पूर्वं य उपयाचितः प्रार्थितः ॥ तथा च रामायणे -"न्यग्रोधं तमुपस्थाय वैदेही वाक्यमब्रवीत् । नमस्तेऽस्तु महावृक्ष पालयेन्मे व्रतं पतिः' इति ॥श्याम इति प्रतीतः स वटोऽयं फलितः सन् । सपद्मरागो गारुडानां मणीनां मरकतानां राशिरिव । विभाति ॥ "क्वचित्-" इत्यादिभिश्चतुर्भिः श्लोकः प्रयागे गङ्गायमुनासंगमं वर्णयति
कचित्प्रभालेपिभिरीन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा।
अन्यत्र माला सितपङ्कजानामिन्दीवरैरु[४३]त्खचितान्तरेव ॥ ५४ ॥
५३-५४ श्लोकयोर्मध्य इमे श्लोका दृश्यन्ते-
तमिस्रया शुक्लनिवेशभिन्ना कुन्दलगिम्दीवरमालयेव ।
कृत्तिर्हरेः कृष्णमृगत्वचेव भूतिः स्मरोरेरिव कण्ठभासा ।।
द-र्धया शारदमेघलेखा निर्धूतनिस्त्रिंशरुचा दिशेव ।
गवाक्षकालागरुधूमराज्या हर्म्यस्थलीलेपसुधा नवेव ॥
तुषारसंघातशिला हिमाद्रेर्ज्यात्यञ्जनप्रस्तरशोभयेव ।
पतत्रिणां मानसगोचराणां श्रेणीव कादम्बविहंगपङ्क्त्या।
क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव पङ्क्तिः।
अन्यत्र कालागुरुदत्तपत्रा भक्तिर्भुवश्चन्दनकल्पितेव ॥ ५५ ॥
क्वचित्प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव ।
अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभः प्रदेशा ॥५६॥
कचिच्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य ।
पश्यानवद्याङ्गि विभाति गङ्गा भिन्नप्रवाहा यमुनातरंगैः॥५७॥
हे अनवद्याङ्गि, यमुनातरङ्गैर्भिन्नप्रवाहा व्यामिश्रौघा गङ्गा जाह्नवी विभाति । त्वं पश्य । केव । क्वचित्पदेशे प्रभया लिम्पन्ति संनिहितमिति प्रभालेपिभिरिन्द्रनीलैरनुविद्धा । सह गुम्फिता मुक्तामयी यष्टिरिव हारावलिरिव । विभाति ॥ अन्यत्र प्रदेश इन्दीवरैर्नीलोत्पलैरुत्खचितान्तरा । सह ग्रथिता सितपङ्कजानां पुण्डरीकाणां मालेव । विभातीति सर्वत्र संबन्धः ॥ क्वचित्कादम्बसंसर्गवती नीलहंससंसृष्टा प्रियं मानसं नाम सरो येषां तेषां खगानां राजहंसानां पङ्क्तिरिव ॥ "राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः" इत्यमरः ॥ अन्यत्र कालागुरुणा दत्तपत्रा रचितमकरिकापत्रा भुवश्चन्दनकल्पिता भक्तिरिव ॥ क्वचिच्छायासु विलीनैः स्थितैस्तमोभिः शबलीकृता कर्बुरीकृता चान्द्रमसी प्रभा चन्द्रिकेव ॥ अन्यत्र रन्ध्रेष्वालक्ष्यनभःप्रदेशा शुभ्रा शरदभ्रलेखा शरन्मेघपङ्क्तिरिव ॥ क्वचित्कृष्णोरगभूषणा भस्माङ्गरागेश्वरस्य तनुरिव । विभाति ॥ शेषो व्याख्यातः॥ कलापकम् ॥
समुद्रपल्योर्जलसंनिपाते पूतात्मनामत्र किलाभिषेकात् ।
तत्त्वावबोधेन विनापि भूयस्तं[४४]नुत्यजां नास्ति शरीरबन्धः॥५८॥
समुद्रेति ॥ अत्र समुद्रपत्न्योर्गङ्गायमुनयोर्जलसंनिपाते संगमेऽभिषेकात्स्नानात्पूतात्मनां तनुत्यजां शुद्धात्मनां पुंसां तत्त्वावबोधेन तत्त्वज्ञानेन विनापि प्रारब्धशरीरत्यागानन्तरं भूयः पुनः शरीरबन्धः शरीरयोगो नास्ति किल ॥ अन्यत्र ज्ञानादेव मुक्तिः । अत्र तु स्नानादेव मुक्तिरित्यर्थः।।
पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलि[४५]मणिं विहाय ।
जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि कामाः फलितास्तवेति॥५९॥
पुरमिति ॥ निषादाधिपतेर्गुहस्य तत्पुरमिदम् । यस्मिन्पुरे मया मौलिमणिं विहाय जटासु बद्धासु रचितासु सतीषु सुमन्त्रः "हे कैकेयि, तव कामा मनोरथाः
फलिताः : सफला जाताः" इत्यरुदत् ॥ “रुदिरश्रुविमोचने" इति धातोर्लुङ् । पयोधरैः पुण्यजनाङ्गनाना नि[४६]र्विष्टहेमाम्बुजरेणु यस्याः।
ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति ॥६०॥
पयोधरैरिति ॥ पुण्यजनाङ्गनानां यक्षस्त्रीणां पयोधरैः स्तनैर्निविष्ट उपभुक्तो हेमाम्बुजरेणुर्यस्य तत् । तत्र ताः क्रीडन्तीति व्यज्यते । ब्रह्मण इदं ब्राह्मम् ॥ "नस्तद्धिते” इति टिलोपः ॥ ब्राह्मं सरो मानसाख्यं यस्याः सरय्वाः । बुद्धमहत्तत्वस्याव्यक्तं प्रधानमिव कारणम् । आप्तस्य वाच आप्तवाचो वेदाः । यद्वा बहुव्रीहिणा मुनयः । उदाहरन्ति प्रचक्षते ॥
जलानि या तीरनिखातयू[४७]पा वहत्ययोध्यामनु राजधानीम् ।
तुरंगमेधावभृथावतीर्णैरिक्ष्वाकुभिः पुण्यतरीकृतानि ॥६१॥
जलानीति ॥ यूपः संस्कृतः पशुबन्धनार्हो दारुविशेषः । तीरनिखातयूपा या सरयस्तुरंगमेधा अश्वमेधास्तेष्ववभृथार्थमेवावतीर्णरवरूढरिक्ष्वाकुभिरिक्ष्वाकुगोत्रापत्यैर्नः पूर्वैः ॥ तद्राजत्वादणो लुक् ॥ पुण्यतरीकृतान्यतिशयेन पुण्यानि कृतानि जलान्ययोध्यां राजधानी नगरीमनु समीपे । तया लक्षितयेत्यर्थः ॥ अनुशब्दस्य "लक्षणेत्थंभूत-" इत्यादिना कर्मप्रवचनीयत्वात्तद्योगे द्वितीया ॥ वहति प्रापयति।।
यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानाम् ।
सामान्यधात्रीमिव मानसं मे संभावयत्युत्तरकोसलानाम्॥६२॥
यामिति ॥ यां सरयूं मे मानसम् । कर्तृ । सैकतं पुलिनम् । तदेवोत्सङ्गः । तत्र यत्सुखं तत्रोचितानां प्राज्यैः प्रभूतैः पयोभिरम्बुभिः क्षीरैश्च ॥ “पयः क्षीरं पयोऽम्बु च" इत्यमरः ॥ परिवर्धितानां पुष्टानामुत्तरकोसलानामुत्तरकोसलेश्वराणां सामान्यधात्री साधारणमातरमिव । संभावयति ॥ “धात्री जनन्यामलकी वसुमत्युपमातृषु" इति विश्वः॥
सेयमिति ॥ मदीया जननी कौसल्येव मान्येन पूज्येन तेन राज्ञा दशरथेन वियुक्ता सेयं सरयूर्दूरे वसन्तम् । प्रोष्यागच्छन्तमित्यर्थः । मां पुत्रभूतं शिशिरानिलस्तरंगैरेव हस्तैरुपगूहतीवालिङ्गतीव ॥
विरक्तति ॥ विरक्तातिरक्ता या संध्या तद्वत्कपिशं ताम्रवर्णम् । पृथिव्याइदं पार्थिवम् । रजो धूलिः पुरस्तादग्रे यतो यस्मात्कारणादुज्जिहीत उद्गच्छति । तस्मात् । हनुरस्यास्तीति हनूमान् ॥ “शरादीनां च" इति दीर्घः ॥ तेन कथि सा प्रवृत्तिरस्मदागमनवार्ता यस्मै स भरतः ससैन्यः सन्मां प्रत्युद्गत इति शङ्के तर्कयामि ॥ " शङ्का भयवितर्कयोः” इति शब्दार्णवे ॥ अत्र यत्तदोर्नित्यसंबन्धात्तच्छब्दलाभः ॥
अ[५२]द्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः ।
हत्वा निवृत्ताय मृधे खरादीन्संरक्षितां त्वामिव लक्ष्मणो मे ॥६५॥
अद्धेति ॥ किंच । साधुः सजनः स भरतः ॥ “साधुर्वार्धुश्हिके चारो सज्जने चापि वाच्यवत्" इति विश्वः ॥ पालितसंगराय पालितपितृप्रतिज्ञाय मे मह्यमनघामदोषां भोगाभावादनुच्छिष्टां किंतु संरक्षितां श्रियम् । मृधे युद्धे खरादीन्हत्वा निवृत्ताय मे लक्ष्मणः संरक्षितामनघां त्वामिव प्रत्यर्पयिष्यत्यद्धा सत्यम् ॥ “सत्ये त्वद्धाञ्जसा द्वयम्" इत्यमरः ॥
असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः ।
वृद्धैरमात्यैः सह चीरवासा माम[५३]य॑पाणिर्भरतोऽभ्युपैति ॥ ६६ ॥
असाविति ॥ असौ पदातिः पादचारी चीरवासा वल्कलवसनो भरतः पश्चात्पृष्ठभागेऽवस्थापिता वाहिनी सेना येन स तथोक्तः सन् ॥ “नवृतश्च” इति कप् ॥ गुरुं वसिष्टं पुरस्कृत्य वृद्धैरमात्यैः सहार्घ्यपाणिः सन्मामभ्युपैति ॥
पित्रेति ॥ यो भरतः पित्रा विसृष्टां दत्तामङ्कमुत्सङ्गं च गतामपि । यां श्रियं युवापि मदपेक्षया मद्भक्त्याभोक्ता सन् ॥ तृन्नन्तत्वात् “न लोक-" इति षष्ठीनिषेधः ॥ इयन्ति वर्षाण्येतावतो वत्सरान् ॥ असन्तसंयोगे द्वितीया ॥ तया श्रिया सह । स्त्रियेति च गम्यते । उग्रं दुश्वरमासिधारं नाम व्रतमभ्यस्यतीव वर्तयतीव ॥ "युवा युवया सार्धं यन्मुग्धभर्तृवदाचरेत् । अन्तनिवृत्तसङ्गः स्यादासिधारवंतं हि तत्" इति यादवः ॥ इदं चासिधाराचंक्रमणतुल्यत्वादासिधारव्रतमित्युक्तम् ॥
एतावदुक्तवति दाशरथौ तदीया-
मिच्छां विमानमधिदेवतया विदित्वा ।
ज्योतिष्पथादवततार सविस्मयाभि-
रुद्वीक्षितं प्रकृतिभिर्भरतानुगाभिः॥ ६८॥
तदीयां रामसंबन्धिनीमिच्छामधिदेवतया मिषेण विदित्वा । तत्प्रेरितं सदित्यर्थः । सविस्मयाभिर्भरतानुगाभिः प्रकृतिभिः प्रजाभिरुद्वीक्षितं सज्ज्योतिष्पथादाकाशादवततार ॥
तस्मात्पुरःसरबिभीषणदर्शितेन
सेवाविचक्षणहरीश्वरदत्तहस्तः ।
यानादवातरददूरमहीतलेन
मार्गेण भङ्गिरचितस्फटिकेन रामः ॥ ६९ ॥
तस्मादिति ॥ रामः सेवायां विचक्षणः कुशलो हरीश्वरः सुग्रीवस्तेन दत्तो हस्तो हस्तावलम्बो यस्य तादृशः सन् । स्थलज्ञत्वात्पुरःसरो विभीपणस्तन दर्शितेनादूरमासन्नं महीतलं यस्य तेन भङ्गिभिर्विच्छित्तिभी रचितस्फटिकेन बद्धस्फटिकेन सोपानपर्वणा मार्गेण तस्माद्यानात्पुष्पकादवातरदवतीर्णवान् ॥ तरतेर्लङ् ॥
इक्ष्वाक्विति ॥ प्रयत: स राम इक्ष्वाकुवंशगुरवे वसिष्ठाय प्रणम्य नमस्कृत्यार्घ्यस्य परिग्रहः स्वीकारस्तस्यान्ते पर्यश्रुः परिगतानन्दबाष्पः सन् । भ्रातरं भरतमस्वजतालिङ्गत् । तस्मिन्रामे भक्त्यापोढः परिहृतः पितृराज्यमहाभिषेको येन तस्मिन्मूर्धन्युपजघौ च ॥ घ्रा गन्धोपादाने" लिटि रूपम् ॥
श्मश्र्विति ॥ श्मश्रूणां मुखरोम्णां प्रवृद्ध्या संस्काराभावादभिवृद्ध्या जनिताननेषु विक्रिया विकृतिर्येषां तानतएव प्ररोहैः शाखावलम्बिभिरधोमुखैर्मूलैजटिलाञ्जटावतः प्लक्षान्यग्रोधानिव स्थितान् । प्रणमतो मन्त्रिवृद्धांश्च शुभैः
कृपादृष्टिपातैर्वार्तस्यानुयोगेन कुशलप्रश्नेन मधुराक्षरया वाचा चान्वग्रहीदनुगृहीतवान् ।दुर्जात इति ॥ अयं मे दुर्जातबन्धुरापद्बन्धुः। “दुर्जातं व्यसनं प्रोक्तम्" इति विश्वः ॥ ऋक्षहरीश्वरः सुग्रीवः । एष समरेषु पुरःमहर्ता पौलस्त्यो विभीषणः। इत्यादृतेनादरवता ॥ कर्तरि क्तः॥ रघूणां नन्दनेन रामेण कथितावुभौ विभीषणसुग्रीवौ लक्ष्मणमनुजमपि व्युत्क्रम्यालिङ्गनादिभिरसंभाव्य भरतो ववन्दे ।।
सौमित्रिणा तदनु संससृजे स चैन-
मुत्थाप्य नम्रशिरसं भृशमालिलिङ्ग ।
रूढेन्द्रजित्प्रहरणव्रणकर्कशेन
क्लिश्यन्निवास्य भुजमध्यमुरःस्थलेन ॥ ७३ ॥
सौमित्रिणेति ॥ तदनु सुग्रीवादिवन्दनानन्तरं स भरतः सौमित्रिणा संससृजे संगतः ॥ "सृज विसर्गे" देवादिकात्कर्तरि लिट् ॥ नम्रशिरसं प्रणतमेनं सौमित्रिमुत्थाप्य भृशं गाढमालिलिङ्ग च । किं कुर्वन् । रूढेन्द्रजिर्प्रहरणव्रणैः कर्कशेनास्य सौमित्रेरुर:स्थलेन भुजमध्यं स्वकीयं क्लिश्यन्निव पीडयन्निव ॥ क्लिश्नातिरयं सकर्मकः। “क्लिश्नाति भुवनत्रयम्" इति दर्शनात् ॥ ननु रामायणे-“ततो लक्ष्मणमासाद्य वैदेही च परंतपः। अभिवाद्य ततः प्रीतो भरतो नाम चाब्रवीत् " इति भरतस्य कानिष्ठ्यं प्रतीयते । किमर्थं ज्यैष्ठ्यमवलम्ब्यानार्जवेन श्लोको व्याख्यातः । सत्यम् । किंतु रामायणश्लोकार्थष्टीकाकृतोक्तः श्रूयताम् ॥ “ततो लक्ष्मणमासाद्य-" इत्यादिश्लोक आसादनं लक्ष्मणवैदेह्योः । अभिवादनं तु वैदेह्या एव । अन्यथा पूर्वोक्तं भरतस्य ज्यैष्ठ्यं विरुध्येतेति ॥
रामाज्ञया हरिचमूपतयस्तदानीं
कृत्वा मनुष्यवपुरारुरुहुर्गजेन्द्रान्।
तेषु[६५] क्षरत्सु बहुधा मदवारिधाराः
शैलाधिरोहणसुखान्युपलेभिरे ते ॥ ७४ ॥
रामेति ॥ तदानीं हरिचमूपतयो रामाज्ञया मनुष्यवपुः कृत्वा गजेन्द्रानारुरुहुः।
बहुधा मदवारिधाराः क्षरत्सु वर्षत्सु तेषु गजेन्द्रेषु ते कपियूथनाथाः शैलाधिरोहणसुखान्युपलेभिरेऽनुबभूवुः ॥{{gapसानुम्लव इति ॥}} सानुप्लवः सानुगः ॥ "अभिसारस्त्वनुसरः सहायोऽनुप्लवोऽनुगः" इति यादवः ॥क्षणदाचराणां प्रभुर्विभीषणोऽपि । प्रभवत्यस्मादिति प्रभवो जनकः । दशरथः प्रभवो यस्य स दशरथप्रभवो रामः। तेनानुशिष्ट आज्ञप्तःसरथान्भेजे ॥ तानेव विशिनष्टि-ये रथा मायाविकल्परचितैः संकल्पविशेषनिमितैरपि तदीयविभीषणीयैः स्यन्दनै रथस्तुलितकृत्रिमभक्तिशोभास्तुलिता समीकृता कृत्रिमा क्रियया निवृत्ता भक्तीनां शोभा येषां ते तथोक्ता न भवन्ति । तेऽपि तत्साम्यं न लभन्त इत्यर्थः ॥ कृत्रिमेत्यत्र “ड्वितः क्रिः" इति क्रिप्रत्ययः । कत्रेमम्नित्यम्” इति ममागमः ॥
भूय इति ॥ ततो रघुपतिः सावरजो भरतलक्ष्मणसहितः सन्। विलसत्पताकं कामेनेच्छानुसारेण गतिर्यस्य तद्विमानं भूयः पुनरपि । बुधबृहस्पतिभ्यां योगेन दृश्यो दर्शनीयस्तारापतिश्चन्द्रो दोषाभवं दोषातनम् ॥ “सायंचिरंप्राह्णे-" इत्यादिना दोषाशब्दादव्ययाट्ट्युप्रत्ययः ॥ तरलविद्युच्चञ्चलतडिदभ्रवृन्दमिव । अध्यास्ताधिष्ठितवान् ॥
तत्रेश्वरेण जगतां प्रलयादिवोर्वी
वर्षात्ययेन रुचमभ्रघनादिवेन्दोः।
रामेण मैथिलसुतां दशकण्ठकृच्छा-
प्र[७१]त्युद्धृतां धृतिमतीं भरतो ववन्दे ॥ ७७ ।।
तत्रेति ॥ तत्र विमाने । जगतामीश्वरेणादिवराहेण प्रलयादुर्वीमिव । वर्षात्ययेन शरदागमेनाभ्रघनान्मेघसंघातादिन्दो रुचं चन्द्रिकामिव । रामेण दशकण्ठ एव
कृच्छं संकटं तस्मात्प्रत्युद्धृतां धृतिमतीं संतोषवतीं मैथिलसुतां सीतां भरतो ववन्दे ।। लङ्केश्वरप्रणतिभङ्गदृढव्रतं त-
द्वन्द्यं युगं चरणयोर्जनकात्मजायाः।
ज्येष्ठानुवृत्तिज[७२]टिलं च शिरोऽस्य साधो-
रन्योन्यपावनमभूदुभयं समेत्य ॥ ७८॥
लङ्केश्वरेति ॥ लङ्केश्वरस्य रावणस्य प्रणतीनां भङ्गेन निरासेन दृढव्रतमखण्डितपातिव्रत्यमत एव वन्यं तज्जनकात्मजायाश्चरणयोर्युगं ज्येष्ठानुवृत्त्या जटिलं जटायुक्तं साधोः सज्जनस्यास्य भरतस्य शिरश्चेत्युभयं समेत्य मिलित्वान्योन्यस्य पावनं शोधकमभूत् ॥
क्रोशार्धं प्रकृतिपु[७३]रःसरेण गत्वा
काकुत्स्थः स्तिमितजवेन पुष्पकेण ।
शत्रुघ्नप्रतिविहितोपकार्यमार्यः
साकेतोपवनमुदारमध्युवास ॥ ७९ ॥
क्रोशेति ॥ आर्यः पूज्यः काकुत्स्थो रामः प्रकृतयः प्रजाः पुरःसर्यो यस्य तेन स्तिमितजवेन मन्दवेगेन पुष्पकेण । क्रोशोऽध्वपरिमाणविशेषः । क्रोशार्धं क्रोशैकदेशं गत्वा शत्रुघ्नेन प्रतिविहिताः सज्जिता उपकार्याः पटभवनानि यस्मिंस्तदुदारं महत्साकेतस्यायोध्याया उपवनमध्युवासाधितष्ठौ ॥ “साकेतः स्यादयोध्यायां कोसलानन्दिनी तथा" इति यादवः॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदास कृतौ रघुवंशे महाकाव्ये
दण्डकाप्रत्यागमनो नाम त्रयोदशः सर्गः ।
- ↑ पूर्वम्.
- ↑ पक्षच्छिदः.
- ↑ गोत्रभिदः; गोत्रभित्तः.
- ↑ भयार्ताः-
- ↑ एतम्.
- ↑ यस्य.
- ↑ संमीलयम्त्यः.
- ↑ विवृताननत्वम्.
- ↑ विस्फूजिति.
- ↑ विवृद्ध.
- ↑ कष्टात्.
- ↑ इतः.
- ↑ लेखा.
- ↑ निःसरति.
- ↑ मरुताम्.
- ↑ महेन्द्रद्दिपदानगन्धो; सुरेन्द्रद्विषदानगन्धो.
- ↑ ते.
- ↑ अम्बरलेढि.
- ↑ विमुक्तम्.
- ↑ त्वया; अभूवन्.
- ↑ विना दुःप्रसहान्यभूवन्.
- ↑ रात्रौ.
- ↑ अवनम्राम्.
- ↑ परिरिप्समाणः; परिरप्स्यमानः.
- ↑ सास्त्रम्.
- ↑ अमुम्.
- ↑ पेलवमध्यया; कोमलमध्यया.
- ↑ बालचूतान्.
- ↑ आह्लादयति; आक्लेदयति
- ↑ निषङ्गमूर्धा.
- ↑ भूभङ्गमात्रेण.
- ↑ माण्डकर्णेः मान्दकर्णेः.
- ↑ भेदेन.
- ↑ प्रयुक्त.
- ↑ नादः.
- ↑ हि तप्स्यति.
- ↑ उग्रतेजाः
- ↑ प्रांशु.
- ↑ अपुण्यलिङ्गाप्तमपुण्यवृक्षम्.
- ↑ प्रवाहम्.
- ↑ निष्कम्पितया.
- ↑ प्रकाशः.
- ↑ उद्ग्रन्थितान्तरा.
- ↑ शरीरिणाम्.
- ↑ मौलिमणीन्.
- ↑ निर्घुष्ट.
- ↑ यूपैः.
- ↑ विमुक्ता.
- ↑ अपि सन्तम्.
- ↑ यस्मात्; एतत्; यथा
- ↑ हनूमान्कथित.
- ↑ अद्य
- ↑ अर्घपाणिः.
- ↑ निसृष्टाम्.
- ↑ अङ्गगताम्.
- ↑ सभ्रातरम्.
- ↑ अर्धपरिग्रहान्ते.
- ↑ आकृतिविक्रियान्.
- ↑ वृक्षान्.
- ↑ प्रत्यग्रहीत्.
- ↑ दाने:
- ↑ दुःखैकबन्धुः.
- ↑ समरे च.
- ↑ आदरेण.
- ↑ येषु.
- ↑ रथम्.
- ↑ यः.
- ↑ भक्तिशोभः.
- ↑ ताराधिपः.
- ↑ अभ्रकूटम्.
- ↑ अभ्युद्धृताम्.
- ↑ जटिलेन.
- ↑ पुरःसरोऽपि.