रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/सप्तदशः सर्गः(अतिथिवर्णनः)

← रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/षोडशः सर्गः(कुमुद्वतीपरिणयः) रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
सप्तदशः सर्गः(अतिथिवर्णनः)
कालिदासः
अष्टादशः सर्गः(वंशानुक्रमः) →
रघुवंशस्य सर्गाः
प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) द्वितीयः सर्गः(नन्दिनीवरप्रदानः)

तृतीयः सर्गः(रघुराज्याभिषेकः)

चतुर्थः सर्गः(रघुदिग्विजयः) पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
षष्ठः सर्गः(स्वयंवरवर्णनः) सप्तमः सर्गः(अजपाणिग्रहणः)

अष्टमः सर्गः(अजविलापः)

नवमः सर्गः(मृगयावर्णनः) दशमः सर्गः(रामावतारः)


एकादशः सर्गः(सीताविवाहवर्णनः) द्वादशः सर्गः(रावणवधः)

त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

चतुर्दशः सर्गः(सीतापरित्यागः) पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
षोडशः सर्गः(कुमुद्वतीपरिणयः) सप्तदशः सर्गः(अतिथिवर्णनः)

अष्टादशः सर्गः(वंशानुक्रमः)

एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

सप्तदशः सर्गः।

    नमो रामपदाम्भोजं रेणवो यत्र संततम् ।
    कुर्वन्ति कुमुदप्रीतिमरण्यगृहमेधिनः ॥

  अतिथिं नाम काकुत्स्थात्पुत्रं प्रा[१]प कुमुद्वती।
  पश्चिमाद्यमिनीयामात्प्रसादमिव चेतना ॥१॥

 अतिथिमिति ॥ कुमुद्वती काकुत्स्थात्कुशादतिथिं नाम पुत्रम् । चेतना बुद्धिः पश्चिमादन्तिमाद्यामिन्या रात्रेर्यामात्प्रहरात् ॥ "द्वौ यामप्रहरौ समौ" इत्यमरः ॥ प्रसादं वैशद्यमिव । प्राप । ब्राह्मे सर्वेषां बुद्धिवैशद्यं भवतीति प्रसिद्धिः॥

  स पितुः पितृमान्वंशं मातुश्चानुपमद्युतिः ।
  अपुनात्सवितेवोभौ मार्गावुत्तरदक्षिणौ ॥ २ ॥

 स इति ॥ पितृमान् ॥ प्रशंसार्थे मतुप् ॥ सुशिक्षित इत्यर्थः ॥ अनुपमद्युतिः सवितुश्चेदं विशेषणम् । सोऽतिथिः पितुः कुशस्य मातुः कुमुद्वत्याश्च वंशम् । सवितोत्तरदक्षिणावुभौ मार्गाविव । अपुनात्पवित्रीकृतवान् ॥

  तमादौ कुलविद्यानामर्थमर्थविदां वरः।
  पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता ॥ ३ ॥

 तमिति ॥ अर्थाच्छब्दार्थान्दानसंग्रहादिक्रियाप्रयोजनानि च विदन्तीत्यर्थविदः । तेषां वरः श्रेष्ठः पिता कुशस्तमतिथिमादौ प्रथमं कुलविद्यानामान्वीक्षि कीत्रयीवार्तादण्डनीतीनामर्थमभिधेयमग्राहयदबोधयत् । पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्स्वीकारितवान् । उदवाहयदित्यर्थः ॥ ग्रहेर्ण्यन्तस्य सर्वत्र द्विकर्मकत्वमस्तीत्युक्तं प्राक् ॥

  जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः।
  अमन्यतैकमात्मानमनेकं वशिना वशी ॥४॥

 जात्य इति ॥ जातौ भवो जात्यः कुलीनः शूरो वशी कुशोऽभिजातेन कुलीनेन ।। "अभिजातः कुलीनः स्यात्" इत्यमरः ।। शौर्यवता वशिना तेनातिथिना। करणेन ॥ एकमात्मानम् । एको न भवतीत्यनेकस्तम् । अमन्यत ॥ सर्वगुणसामग्र्यादात्मजमात्मन एव रूपान्तरममंस्तेत्यर्थः॥

  स कुलोचितमिन्द्रस्य सा[२]हायकमुपेयिवान् ।
  जघान समरे दैत्यं दुर्जयं तेन चा[३]वधि ॥५॥

 स इति ॥ स कुशः कुलोचितं कुलाभ्यस्तमिन्द्रस्य साहायकं सहकारित्वम् ॥ “योपधात्-" इत्यादिना वुञ् ॥ उपेयिवान्प्राप्तः सन्समरे नामतोऽर्थतश्च दुर्जयं दैत्यं जघानावधीत् । तेन दैत्येनावधि हतश्च ॥ "लुङि च" इति हनो वधादेशः॥

  तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती।
  अन्वगात्कुमुदानन्दं शशाङ्कमिव कौमुदी ॥ ६ ॥

 तमिति ॥ कुमुदस्य नाम नागराजस्य स्वसा कुमुद्वती कुशपत्नी । कुमुदानन्दं शशाङ्क कौमुदी ज्योत्स्नेव । तं कुशमन्वगात् ॥ कुशस्तु । कुः पृथ्वी । तस्या मुत्प्रीतिः

। सैवानन्दो यस्येति कुमुदानन्दः । परानन्देन स्वयमानन्दतीत्यर्थः ।।

  तयोर्दिवस्पतेरासीदेकः सिंहासनार्धभाक् ।
  द्वितीया[४]पि सखी शच्याः पारिजातांश[५]भागिनी॥७॥

 तयोरिति ॥ तयोः कुशकुमुद्वत्योर्मध्य एकः कुशो दिवस्पतेरिन्द्रस्य सिंहासनार्धं सिंहासनैकदेशः। तद्भागासीत् । द्वितीया कुमुद्वत्यपि शच्या इन्द्राण्याः पारिजातांशस्य भागिनी ग्राहिणी ॥ "संपृच-" इत्यादिना भजेर्घिनुण्प्रत्ययः ॥ सख्यासीत् ॥ कस्कादित्वाद्दिवस्पतिः साधुः ॥

  तदात्मसंभवं राज्ये मन्त्रिवृद्धाः समादधुः ।
  स्मरन्तः पश्चिमामाज्ञां भर्तुः सङ्ग्रामयायिनः ॥ ८॥

 तदिति ॥ सङ्ग्रामयायिनः सङ्ग्रामं यास्यतः॥ आवश्यकार्थे णिनिः । " अकेनोर्भविष्यदाधर्ण्ययोः" इति षष्ठीनिषेधः ॥ भर्तुः स्वामिनः कुशस्य पश्चिमामन्तिमामाज्ञांविपर्यये पुत्रोऽभिषेक्तव्य इत्येवंरूपां स्मरन्तो मन्त्रिवृद्धास्तदात्मसंभवमतिथिं राज्ये समादधुर्निदधुः॥

  ते तस्य कल्पयामासुरभिषेकाय शिल्पिभिः।
  वि[६]मानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम् ॥९॥

 त इति ॥ ते मन्त्रिणस्तस्यातिथेरभिषेकाय शिल्पिभिरुद्वेद्युन्नतवेदिकं चतुःस्तम्भप्रतिष्ठितं चतुर्षु स्तम्भेषु प्रतिष्ठितं नवं विमानं मण्डपं कल्पयामासुः कारयामासुः॥

  तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः ।
  उपतस्थुः प्रकृतयो भद्रपीठोप[७]वेशितम् ॥१०॥

 तत्रेति ॥ तत्र विमाने भद्रपीठे पीठविशेष उपवेशितमेनमतिथिं हेमकुम्भेषु संभृतैः संगृहीतैस्तीर्थवारिभिः । करणैः । प्रकृतयो मन्त्रिण उपतस्थुः ॥

  नदद्भिः स्निग्धगम्भीरं तूर्यैराहतपुष्करैः।
  अन्वमीयत कल्याणं तस्याविच्छिन्नसं[८]तति ॥ ११ ॥

 नदद्भिरिति ॥ आहतं पुष्करं मुखं येषां तैः ॥ “पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखेऽपि च" इत्यमरः ॥ स्निग्धं मधुरं गम्भीरं च

नदद्भिस्तूर्यैस्तस्यातिथेरविच्छिन्नसंतत्यविच्छिन्नपारंपर्यं कल्याणं भावि शुभमन्वमीयतानुमितम् ॥

  दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् ।
  ज्ञा[९]तिवृद्धैः प्रयुक्तान्स[१०] भेजे नीराजनाविधीन् ।॥ १२ ॥

 दूर्वेति ॥ सोऽतिथिः । दूर्वाश्च यवाङ्कुराश्च प्लक्षत्वचश्चाभिन्नपुटा बालपल्लवाश्चोत्तराणि प्रधानानि येषु तान् ॥ अभिन्नपुटानि मधूकपुष्पाणीति केचित् । कमलानीत्यन्ये ॥ ज्ञातिषु ये वृद्धास्तैः प्रयुक्तानीराजनाविधीन्भेजे ॥

  पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभिः ।
  उपचक्रमिरे पूर्वमभिषेक्तुं द्वि[११]जातयः ॥ १३ ॥

 पुरोहितेति ॥ पुरोहितपुरोगाः पुरोहितप्रमुखा द्विजातयो ब्राह्मणा जिष्णुं जयशीलं तमतिथिं जैत्रैर्जयशीलैरथर्वभिर्मन्त्रविशेषै। करणैः। पूर्वमभिषेक्तुमुचक्रमिरे।।

  तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत ।
  सशब्दमभिषेकश्रीगङ्गेव त्रि[१२]पुरद्विषः॥ १४ ॥

 तस्येति॥तस्यातिथेमूर्ध्नि सशब्दं निपतन्त्योघमहती महाप्रवाहा । अभिषिच्यतेऽनेनेत्यभिषेको जलम् । स एव श्रीः। यद्वा तस्य श्रीः। समृद्धिस्त्रिपुरद्विषः शिवस्य मूर्ध्नि निपतन्ती गङ्गेव । व्यरोचत । त्रयाणां पुराणां द्वेष्टीति विग्रहः॥

  स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स बन्दिभिः ।
  प्र[१३]वृद्ध इव पर्जन्यः सा[१४]रङ्गैरभिनन्दितः॥ १५॥

 स्तूयमान इति ॥ तस्मिन्क्षणेऽभिषेककाले बन्दिभिः स्तूयमानः सोऽतिथि: प्रवृद्धः प्रवृद्धवान् ॥ कर्तरि क्तः ॥ अतएव सारङ्गैश्चातकैरभिनन्दितः पर्जन्यो मेघ इव । अलक्ष्यत ॥

  तस्य सन्मन्त्रपूताभिः स्नानमद्भिः प्रतीच्छतः।
  ववृधे वैद्युतस्याग्नेर्वृष्टिसेकादिव द्युतिः॥ १६ ॥

 तस्येति ॥ सन्मन्त्रैः पूताभिः शुद्धाभिरद्भिः स्नानं प्रतीच्छतः कुर्वतस्तस्य । वृष्टिसेकात् । विद्युतोऽयं वैद्युतः । तस्याबिन्धनस्याग्नेरिव । द्युतिर्ववृधे ।

  स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु ।
  या[१५]वतैषां समाप्येरन्यज्ञाः पर्याप्तदक्षिणाः ।। १७॥

 स इति ॥ सोऽतिथिरभिषेकान्ते स्नातकेभ्यो गृहस्थेभ्यस्तावत्तावत्परिमाणं वसु धनं ददौ यावता वसुनैषां स्नातकानां पर्याप्तदक्षिणाः समग्रदक्षिणा यज्ञाः समाप्येरन् । तावद्ददावित्यन्वयः ॥

  ते प्रीतमनसस्तस्मै यामाशिषमु[१६]दैरयन् ।
  सा तस्य कर्मनि[१७]वृत्तैर्दूरं पश्चात्कृता फलैः॥१८॥

 त इति ॥ प्रीतमनसस्ते स्नातकास्तस्मा अतिथये यामाशिषमुदैरयन्व्याहरन्साशीस्तस्यातिथेः कर्मनिर्वृत्तैः पूर्वपुण्यनिष्पन्नैः फलैः साम्राज्यादिभिर्दूरं दूरतः पश्चात्कृता । स्वफलदानस्य तदानीमनवकाशात्कालान्तरोद्वीक्षणं न चकारेत्यर्थः ।।

  बन्धच्छेदं स बद्धानां वधार्हाणामवध्यताम् ।
  धुर्याणां च धुरो मोक्षमदोहं चादिशद्गवाम् ॥ १९ ॥

 बन्धेति ॥ सोऽतिथिबर्द्धानां बन्धच्छेदं वधार्हाणामवध्यताम् । धुरं वहन्तीति धुर्या बलीवर्दादयः । तेषां धुरो भारस्य मोक्षं गवामदोहं वत्सानां पानार्थं दोहनिवृत्तिं चादिशदादिदेश ॥

  क्रीडापतत्रिणोऽप्यस्य पञ्जरस्थाः शुकादयः।
  लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन् ॥२०॥

 क्रीडेति ॥ पञ्जरस्थाः शुकादयोऽस्यातिथेः क्रीडापतत्रिणोऽपि । किमुतान्य इत्यपिशब्दार्थः । तदादेशात्तस्यातिथे शासनाल्लब्धमोक्षाः सन्तो यथेष्टं गतिर्येषां ते स्वेच्छाचारिणोऽभवन् ॥

  ततः क[१८]क्ष्यान्तरन्यस्तं गजदन्तासनं शुचि ।
  सोत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः॥२१॥

तत इति ॥ तपः सोऽतिथिर्नेपथ्यग्रहणाय प्रसाधनस्वीकाराय । कक्ष्यान्तरं हर्म्याङ्गणविशेषः ॥ “कक्ष्या प्रकोष्ठे हर्म्यादेः" इत्यमरः॥ तत्र न्यस्तं स्थापितं शुचि निर्मलं सोत्तरच्छदमास्तरणसहितं गजदन्तस्यासनं पीठमध्यास्त । तत्रोपविष्ट इत्यर्थः।

  तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः।
  आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः॥ २२॥

 तमिति ॥ तोयेन निर्णिक्तपाणयः क्षालितहस्ताः प्रसाधका अलंकर्तारो धूपेन गन्धद्रव्यधूपेनाश्यानकेशान्तं शोषितकेशपाशान्तं तमतिथिं तैस्तैराकल्पस्य

नेपथ्यस्य साधनैर्गन्धमाल्यादिभिरुपसेदुरुपतस्थुः । अलंचक्रुरित्यर्थः ।।

  ते[१९]ऽस्य मु[२०]क्तागुणोन्नद्धं मौलिम[२१]न्तर्गतस्रजम् ।
  प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभि[२२]ना ॥ २३ ॥

 त इति ॥ ते प्रसाधका मुक्तागुणेन मौक्तिकसरेणोन्नद्धमुद्बद्धमन्तर्गतस्रजमस्यातिथेर्मौलिं धम्मिलं प्रभामण्डलशोभिना पद्मरागेण माणिक्येन प्रत्युपुः प्रत्युप्तं चक्रुः ॥

  चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना ।
  समापय्य ततश्चक्रुः पत्रं विन्यस्तरोचनम् ॥ २४ ॥

 चन्दनेनेति ॥ किंच । मृगनाभ्या कस्तूरिकया सुगन्धिना चन्दनेनाङ्गरागमङ्गविलेपनं समापय्य समाप्य ततोऽनन्तरं विन्यस्ता रोचना गोरोचना यस्मिंस्तत्पत्रं पत्ररचनं चक्रुः ॥

  आमुक्ताभरणः स्रग्वी हंसचिह्नदु[२३]कूलवान् ।
  आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः ॥ २५ ॥

 आमुक्तेति ॥ आमुक्ताभरण आसञ्जिताभरणः । स्रजोऽस्य सन्तीति स्रग्वी ॥ "अस्मायामेधास्रजो विनिः" इति विनिप्रत्ययः ॥ हंसाश्चिह्नमस्येति हंसचिह्नं यद्दुकूलं तद्वान् ॥ अत्र बहुव्रीहिणैवार्थसिद्धेर्मतुबानर्थक्येऽपि सर्वधनीत्यादिवत्कर्मधारयादपि मत्वर्थीयं प्रत्ययमिच्छन्ति । एवमन्यत्रापि द्रष्टव्यम् ॥ राज्यश्रीरेव वधूर्नवोढा तस्या वरो वोढा ॥ "वधूः स्नुषा नवोढा स्त्री वरो जामातृषिङ्गयोः" इति विश्वः ॥ सोऽतिथिरतिशयेन प्रेक्ष्यो दर्शनीय आसीत् । वरोऽप्येवंविशेषणः ॥

  नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये ।
  विरराजोदिते सूर्ये मे[२४]रौ कल्पतरोरिव ॥ २६ ॥

 नेपथ्येति ॥ हिरण्मये सौवर्ण आदर्शे दर्पणे नेपथ्यदर्शिनो वेषं पश्यतस्तस्यातिथेश्छाया प्रतिबिम्बम् । उदिते सूर्ये दर्पणकल्पे मेरौ यः कल्पतरुस्तस्य छायेव । विरराज ॥ तस्य सूर्यसंक्रान्तबिम्बस्य संभवान्मेरावित्युक्तम् ॥

  स राजककुदव्यग्रपाणिभिः पार्श्ववर्तिभिः ।
  ययावुदीरितालोकः सुधर्मानवमां सभाम् ॥ २७ ॥

 स इति ॥ सोऽतिथी राजककुदानि राजचिह्नानि छत्रचामरादीनि ॥ "प्राधान्ये राजलिङ्गे च वृषाङ्के ककुदोऽस्त्रियाम्" इत्यमरः ॥ तेषु व्यग्राः पाणयो येषां तैः पार्श्ववर्तिभिर्जनैरुदीरितालोक उच्चारितजयशब्दः ॥ "आलोको जयशब्दः स्यात्" इति हलायुधः ॥ सुधर्माया देवसभाया अनवमामन्यूनां सभामास्थानीं ययौ ॥ "स्यात्सुधर्मा देवसभा" इत्यमरः॥

  वितानसहितं तत्र भेजे पैतृकमासनम् ।
  चूडामणिभिरुद्धृष्टपादपीठं म[२५]हीक्षिताम् ॥ २८ ॥

 वितानेति॥तत्र सभायां वितानेनोल्लोचेन सहितम् ॥ “अस्त्री वितानमुल्लोचे" इत्यमरः ॥ महीक्षितां राज्ञां चूडामणिभिः शिरोरत्नैरुद्धृष्टमुल्लिखितं पादपीठं यस्य तत्। पितुरिदं पैतृकम् ॥"ऋतष्ठञ्' इति ठञ्प्रत्ययः॥ आसनं सिंहासनं भेजे ॥

  शुशुभे तेन चाक्रान्तं म[२६]ङ्गलायतनं महत् ।
  श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवम् ॥ २९ ॥

 शुशुभ इति॥तेन चाक्रान्तम् । श्रीवत्सो नाम गृहविशेषः । तल्लक्षणं श्रीवत्सरूपम् । “श्रीवत्सनन्द्यावर्तादिविच्छेदा बहवो द्वयोः" इति सज्जनः ॥ महदधिकं मङ्गलायतनं मङ्गलगृहं सभारूपम् । कौस्तुभेन मणिनाक्रान्तं श्रीवत्सलक्षणम् । केशवस्येदं कैशवम् । वक्ष इव । शुशुभे ॥

  बभौ भूयः कुमारत्वादा[२७]धिराज्यमवाप्य सः।
  रेखा[२८]भावादुपारूढः सामग्र्यमिव चन्द्रमाः॥३०॥

 बभाविति ॥ सोऽतिथिः कुमारत्वाद्वाल्याद्भूयो यौवराज्यमवाप्यैवानन्तरम् । अधिराजस्य भाव आधिराज्यं महाराज्यमवाप्य । रेखाभावादर्धेन्दुत्वमवाप्यैव सामग्र्यमुपारूढः पूर्णतां गतश्चन्द्रमा इव । बभौ इति व्याख्यानम् । तदपि यौवराज्याभावनिश्चये ज्याय एव ॥

  प्रसन्नमुखरागं तं स्मि[२९]तपूर्वाभिभाषिणम् ।
  मूर्तिमन्तममन्यन्त विश्वासमनुजीविनः ॥ ३१॥

 प्रसन्नेति॥प्रसन्नो मुखरागो मुखकान्तिर्यस्य तं स्मितपूर्वं यथा तथाभिभाषिणमाभाषणशीलं तमतिथिमनुजीविनो मूर्तिमन्तं विग्रहवन्तं विश्वासं विस्रम्भममन्यन्त ॥ "समौ विश्वासविस्रम्भौ" इत्यमरः ॥

  स पुरं पुरुहूतश्रीः कल्पद्रुमनिभध्वजाम् ।
  क्रममाणश्चकार द्यां नागेनैरा[३०]वतौजसा ॥ ३२ ॥

 स इति ॥ पुरुहूतश्री: सोऽतिथिः कल्पद्रुमाणां निभाः समाना ध्वजा

यस्यास्तां पुरमयोध्यामैरावतस्य ओज इवौजो बलं यस्य तेन नागेन कुञ्जरेण क्रममाणश्चरन् । “अनुपसर्गाद्वा" इति वैकल्पिकमात्मनेपदम् ॥ द्यां चकार । स्वर्गलोकदृशीं चकारेत्यर्थः॥ “द्यौः स्वर्गसुरवर्त्मनोः" इति विश्वः ॥

  तस्यैकस्योच्छ्रितं छत्रं मूर्ध्नि तेनामलत्विषा ।
  पूर्वराजवि[३१]योगौष्म्यं कृत्स्नस्य जगतो हृ<ref>हतम्; हतः.</refतम् ॥ ३३॥

 तस्येति ॥ तस्यैकस्य मूर्ध्नि छत्रमुच्छ्रितमुन्नमितम् । अमलत्विषा तेन छत्रेण कृत्स्नस्य जगतः पूर्वराजस्य कुशस्य वियोगेन यदौष्म्यं संतापस्तद्धृतं नाशितम् ॥ अत्र छत्रोन्नमनसंतापहरणलक्षणयोः कारणकार्ययोर्भिन्नदेशत्वादसंगतिरलंकारः । तदुक्तम्-"कार्यकारणयोर्भिन्नदेशत्वे सत्यसंगतिः" इति ॥

  धूमादग्नेः शि<ref>शिखा. </refखाः पश्चादुदयादंशवो रवेः।
  सोऽतीत्य ते<ref>तेजसः.</refजेसां वृत्तिं सममेवोत्थितो गुणैः॥ ३४॥

 धूमादिति ॥ अग्नेर्धूमात्पश्चात् । अनन्तरमित्यर्थः। शिखा ज्वालाः । रवेरुदयात्पश्चादनन्तरमंशवः । उत्तिष्ठन्त इति शेषः। सोऽतिथिस्तेजसामग्न्यादीनां वृत्तिं स्वभावमतीत्य गुणैः समं सहैवोत्थित उदितः । अपूर्वमिदमित्यर्थः ॥

  तं प्रीतिवि<ref>विशदम्,</refशदैर्नेत्रैरन्वयुः पौरयोषितः।
  शरत्प्रसन्नज्योतिर्भिर्विभावर्य इव ध्रु<ref>उडुपम्.</refवम् ॥ ३५॥

 तमिति ॥ पौरयोषितः प्रीत्या विशदैः प्रसन्नैर्नेत्रैः करणैस्तमतिथिमन्वयुरनुजग्मुः । सदृष्टिप्रसारमद्राक्षुरित्यर्थः ॥ कथमिव । शरदि प्रसन्नज्योतिभिर्नक्षत्रैर्विभावर्यो रात्रयो ध्रुवमिव ॥ ध्रुवपाशबद्धत्वात्ताराचक्रस्येत्यर्थः ॥

  अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः।
  अनुदध्युरनुध्येयं सांनिध्यैः प्रतिमागतैः ॥ ३६॥

 अयोध्येति ॥ प्रशस्तेष्वायतनेष्वालयेष्वर्चिता अयोध्यादेवताश्चानुध्येयमनुग्राह्यमेनमतिथिं प्रतिमागतैरर्चासंक्रान्तैः सांनिध्यैः संनिधानैरनुदध्युरनुजगृहुः ॥ "अनुध्यानमनुग्रहः” इत्युत्पलमालायाम् ॥ तदनुग्रहबुद्ध्या संनिदधुरित्यर्थः ।।

  यावन्नाश्यायते वेदिरभिषेकज<ref>बलाप्लुता</refलाप्लुता।
  तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः॥ ३७॥

 यावदिति ॥अभिषेकजलैराप्लुता सिक्ता वेदिरभिषेकवेदिर्यावन्नाश्यायते न

शुष्यति ॥ कर्तरि लट् ॥ तावदेवास्य राज्ञो दुःसह प्रतापो वेलान्तं वेलापर्यन्तं प्राप॥

  वसिष्ठस्य गुरोर्मन्त्राःसायकास्तस्य धन्विनः ।
  किं तत्साध्यं यदुभये साधयेयुर्न संगताः॥ ३८॥

 वसिष्ठस्येति ॥ गुरोर्वसिष्ठस्य मन्त्राः। धन्विनस्तस्यातिथेः सायकाः। इत्युभये संगताः सन्तो यत्साध्यं न साधयेयुस्तत्तादृक्साध्यं किम् । न किंचिदित्यर्थः ॥ तेषामसाध्यं नास्तीति भावः॥

  स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम् ।
  ददर्श सं[३२]शयच्छेद्यान्व्यवहारानतन्द्रितः॥ ३९ ॥

 स इति ॥ धर्मे तिष्ठन्तीति धर्मस्थाः सभ्याः।"राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः" इत्युक्तलक्षणाः । तेषां सखा धर्मस्थसखः । तत्सहित इत्यर्थः । अतन्द्रितोऽनलसः स नृपः शश्वत् । अन्वहमित्यत्यर्थः । अर्थिनां साध्यार्थवतां प्रत्यर्थिनां तद्विरोधिनां च संशयच्छेद्यान्संशयाद्धेतोच्छेद्यान्परिच्छेद्यान् । संदिग्धत्वादवश्यनिर्णेयानित्यर्थः । व्यवहारानृणादानादिविवादान्स्वयं ददर्शानुसंदधौ । न तु प्राड्विवाकमेव नियुक्तवानित्यर्थः । अत्र याज्ञवल्क्यः “व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह ।" इति ॥

  ततः परमभिव्यक्तसौमनस्यनिवेदितैः।
  युयोज पाकाभिमुखैर्भृत्यान्विज्ञापनाफलैः॥ १० ॥

 तत इति ॥ ततः परं व्यवहारदर्शनानन्तरं भृत्याननुजीविनः। अभिव्यक्तं मुखप्रसादादिलिङ्गैः स्फुटीभूतं यत्सौमनस्यं स्वामिनः प्रसन्नत्वं तेन निवेदितैः सूचितैः पाकाभिमुखैः सिद्ध्युन्मुखैर्विज्ञापनानां विज्ञप्तीनां फलैः प्रेप्सितार्थैर्युयोज योजयामास॥अत्र बृहस्पतिः-नियुक्तः कर्मनिष्पत्तौ विज्ञप्तौ च यदृच्छया । भृत्यान्धनैर्मानयंस्तु नवोऽप्यक्षोभ्यतां व्रजेत्" इति ॥ कविश्च वक्ष्यति-"अक्षोभ्यः-"(१७।४४) इति । अत्र सौमनस्यफलयोजनादिभिर्नृपस्य वृक्षसमाधिर्ध्वन्यत इत्यनुसन्धेयम् ॥

  प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिताः।
  तस्मिंस्तु[३३] भूयसीं वृद्धिं नभस्ये ता इवाययुः॥४१॥

 प्रजा इति ॥ प्रजास्तस्यातिथेर्गुरुणा पित्रा कुशेन । नभसा श्रावणमासेन नद्य इव । विवर्धिताः । तस्मिन्नतिथौ तु नभस्ये भाद्रपदे मासे ता इव नद्य इव

भूयसीं वृद्धिमभ्युदयमाययुः। प्रजापोषणेन पितरमतिशयितवानित्यर्थः ॥

  यदुवाच न तन्मिथ्या यद्ददौ न जहार तत् ।
  सोऽभूद्भग्नव्रतः शत्रूनु[३४]द्धृत्य प्रतिरोपयन् ॥ ४२ ॥

यदिति ॥ सोऽतिथिर्यद्वाक्यं दानत्राणादिविषयमुवाच तन्न मिथ्यानृतं नाभूत् । यद्वस्तु ददौ तन्न जहार न पुनराददे ॥ किंतु शत्रूनुद्धृत्योत्खाय प्रतिरोपयन्पुनः स्थापयन्भग्नव्रतो भग्ननियमोऽभूत् ॥

  वयोरूपविभूतीनामेकैकं मदकारणम् ।
  तानि तस्मिन्स[३५]मस्तानि न त[३६]स्योत्सि<ref>उत्सिषिचुः<ref>
षिचे मनः॥४३॥

 वय इति ॥ वयोरूपविभूतीनां यौवनसौन्दर्यैश्वर्याणां मध्य एकैकं मदकारणं मदहेतुः । तानि मदकारणानि तस्मिन्राज्ञि समस्तानि । मिलितानीति शेपः । तथापि तस्यातिथेर्मनो नोत्सिषिचे न जगर्व ॥ सिञ्चतेः स्वरितेत्त्वादात्मनेपदम् । अत्र वयोरूपादीनां गर्वहेतुत्वान्मदस्य च मदिराकार्यत्वेनातत्कारकत्वान्मदशब्देन गर्वो लक्ष्यत इत्याहुः । उक्तं च- “ऐश्वर्यरूपतारुण्यकुलविद्यावलैरपि । इष्टलाभादिना ह्येषामवज्ञा गर्व ईरितः । मदस्त्वानन्दसंमोहः संभेदो मदिराकृतः "इति। अतएव कविनापि “ उत्सिषिचे" इत्युक्तं नतु " उन्ममाद" इति ॥

इत्थं जनितरागासु प्रकृतिष्वनुवासरम् ।
अक्षोभ्यः स नवोऽप्यासीद्दृ[३७]ढ्अमूल इव द्रुमः ॥ ४४ ॥

 इत्थमिति ॥ इत्थमनुवासरमन्वहं प्रकृतिषु प्रजासु जनितरागासु सतीषु स राजा नवोऽपि । दृढमूलो द्रुम इव । अक्षोभ्योऽप्रधृष्य आसीत् ॥

  अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते य[३८]तः।
  अतः सोऽभ्यन्तरान्नित्याञ्षट्पूर्वमजयद्रिपून् ॥ ४५॥

 अनित्या इति॥यतो बाह्याः शत्रवः प्रतिनृपा अनित्याः। द्विषन्ति स्निह्यन्ति चेत्यर्थः। किंच ते वाह्या विप्रकृष्टा दूरस्थाश्च । अतः सोऽभ्यन्तरानन्तर्वतिनो नित्याञ्षड्रिपून्कामक्रोधादीन्पूर्वमजनयत् । अन्तःशत्रुजये बाह्या अपि न दुर्जया इति भावः ।।

  प्र[३९]सादाभिमुखे तस्मिंश्चपलापि स्वभावतः।
  निकषे हेम[४०]रेखेव श्रीरासीदनपायिनी ॥ ४६॥

 प्रसादेति ॥ स्वभावतश्चपला चञ्चलापि श्रीः प्रसादाभिमुखे तस्मिन्नृपे।

निकषे निकषोपले हेमरेखेव । अनपायिनी स्थिरासीत् ॥

  कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
  अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः॥४७॥

 कातर्यमिति ॥ केवला शौर्यवर्जिता नीतिः कातर्यं भीरुत्वम् । शौर्यं केवलमित्यनुषञ्जनीयम् । केवलं नीतिरहितं शौर्यं श्वापदचेष्टितम् । व्याघ्रादिचेष्टाप्रायमित्यर्थः ॥ "व्याघ्रादयो वनचराः पशवः श्वापदा मताः" इति हलायुधः ॥ अतो हेतोः सोऽतिथिः समेताभ्यां संगताभ्यामुभाभ्यां नीतिशौर्याभ्यां सिद्धिं जयप्राप्तिमन्वियेष गवेषितवान् ।

  न तस्य मण्डले रा[४१]ज्ञो न्यस्तप्रणिधिदीधितेः।
  अदृष्टमभवत्किंचिद्व्य[४२]भ्रस्येव विवस्वतः॥४८॥

 न तस्येति ॥ न्यस्ताः सर्वतः प्रहिताः प्रणिधयश्चरा एव दीधितयो रश्मयो यस्य तस्य ॥ “प्रणिधिः प्रार्थने चरे" इति शाश्वतः ॥ तस्य राज्ञः । व्यभ्रस्य निर्मेघस्य विवस्वतः सूर्यस्येव । मण्डले स्वविषये किंचिदल्पमप्यदृष्टमज्ञातं नाभवन्नासीत् । स चारचक्षुषा सर्वमपश्यदित्यर्थः ॥

  रात्रिंदिववि[४३]भागेषु यदादिष्टं म[४४]हीक्षिताम् ।
  तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥ ४९॥

 रात्रिंदिवेति ॥ रात्रौ च दिवा च रात्रिंदिवम् ॥ “ अचतुर-" इत्यादिनाधिकरणार्थे द्वन्द्वेऽच्प्रत्ययान्तो निपातः । अव्ययान्तत्वादव्ययत्वम् । अत्र षष्ठ्यर्थलक्षणया रात्रिंदिवमिति ॥ अहोरात्रयोरित्यर्थः । तयोर्विभागाः अंशाः प्रहरादयः । तेषु महीक्षितां राज्ञां यदादिष्टमिदमस्मिन्काले कर्तव्यमिति मन्वादिभिरुपदिष्टं तत्स राजा विकल्पपराङ्मुखः संशयरहितः सन् । नियोगेन निश्चयेन सिषेवे । अनुष्ठितवानित्यर्थः ॥ अत्र कौटिल्यः- “कार्याणां नियोगविकल्पसमुच्चया भवन्ति । अनेनैवोपायेन नान्येनेति नियोगः । अनेन वान्येन वेति विकल्पः । अनेन चेति समुच्चयः " इति ॥

  मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः ।
  स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते ॥५०॥

 मन्त्र इति ॥ तस्य राज्ञः प्रतिदिनं मन्त्रिभिः सह मन्त्रो विचारो बभूव । स मन्त्रः सेव्यमानोऽप्यन्वहमावर्त्यमानोऽपि जातु कदाचिदपि न सूच्यते न प्रकाश्यते । तत्र हेतुर्गुप्तद्वार इति । संवृतेङ्गिताकारादिज्ञापनमार्ग इत्यर्थः ।।

  परेषु स्वेषु च[४५] क्षिप्तैरविज्ञातपरस्परैः।
  सोऽपसर्जजागार य[४६]थाकालं स्वपन्नपि ॥ ५१ ॥

 परेष्विति ॥ यथाकालमुक्तकालानतिक्रमेण स्वपन्नपि सोऽतिथिः परेषु

शत्रुषु स्वेषु स्वकीयेषु च । मन्त्र्यादितीर्थेष्विति शेषः । क्षिप्तैः प्रहितैरविज्ञाताः परस्परे येषां तैः । अन्योन्याविज्ञातैरित्यर्थः । अपसर्पैश्चरैः ॥ “अपसर्पश्चरः स्पशः" इत्यमरः ॥ जजागार बुद्धवान् । चारमुखेन सर्वदा सर्वमज्ञासीदित्यर्थः ॥ अत्र कामन्दक:-" चारान्विचारयेत्तीर्थेष्वात्मनश्च परस्य च । पापण्ड्यादीनविज्ञातानन्योन्यमितरैरपि" इति ॥

  दुर्गाणि दु[४७]र्ग्रहाण्यासंस्तस्य रोद्धुरपि द्विषाम् ।
  न हि सिंहो गजास्कन्दी भयाद्गिरिगुहाशयः॥ ५२ ॥

 दुर्गाणीति ॥ द्विषां रोद्धू रोधकस्यापि । न तु स्वयं रोध्यस्येत्यर्थः । तस्य राज्ञो दुर्ग्रहाणि परैर्दुर्धर्षाणि दुर्गाणि महीदुर्गादीन्यासन् ॥ न च निर्भीकस्य किं दुर्गैरिति वाच्यामित्यर्थान्तरमुखेनाह-न हीति॥ गजानास्कन्दति हिनस्तीति गजास्कन्दी सिंहो भयाद्धेतोः । गिरिगुहासु शेत इति गिरिगुहाशयो न हि । किंतु स्वभाव एवेति शेषः । “अधिकरणे शेतेः" इत्यच्प्रत्ययः ॥ अत्र मनु:-"धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्ष्यमेव वा । नृदुर्ग गिरिदुर्गं वा समाश्रित्य वसेत्पुरम्” इति।।

  भव्यमुख्याः समारम्भाःप्रत्यवेक्ष्या निरत्ययाः ।
  गर्भशालिसधर्माणस्तस्य गूढं विपेचिरे ।। ५३॥

 भव्येति ॥ भव्यमुख्या कल्याणप्रधानाः । न तु विपरीताः । प्रत्यवेक्ष्या एतावत्कृतमेतावत्कर्तव्यमित्यनुसंधानेन विचारणीयाः । अतएव निरत्यया निर्बाधा गर्भेऽभ्यन्तरे पच्यन्ते ये शालयस्तेषां सधर्माणः । अतिनिगूढा इत्यर्थः ॥ “धर्मादनिच्केवलात्" इत्यनिच्प्रत्ययः समासान्तः ॥ तस्य राज्ञः समारभ्यन्त इति समारम्भाः कर्माणि गूढमप्रकाशं विपेचिरे । फलिता इत्यर्थः । “फलानुमेयाः प्रारम्भाः" इति भावः॥

  अपथेन प्र[४८]ववृते न जातूपचितोSपि सः ।
  वृद्धो नदीमुखेनैव[४९] प्रस्थानं ल[५०]वणाम्भसः ॥ ५४॥

 अपथेनेति ॥ सोऽतिथिरुपचितोऽपि वृद्धिं गतोऽपि सन् । जातु कदाचिदप्यपथेन कुमार्गेण न प्रववृते न प्रवृत्तः । मर्यादां न जहावित्यर्थः । तथाहि । लवणाम्भसो लवणसागरस्य वृद्धौ पूरोत्पीडे सत्यां नदीमुखेनैव नदीप्रवेशमार्गेणैव प्रस्थानं निःसरणम् । न त्वन्यथेत्यर्थः ॥

  कामं प्रकृतिवैराग्यं सद्यः शमयितुं क्षमाः।
  यस्य कार्यः प्रतीकारः स तन्नैवोदपादयत् ॥ ५५ ।

 काममिति ॥ प्रकृतिवैराग्यं प्रजाविरागम् । दैवादुत्पन्नमिति शेषः । सद्यः

कामं सम्यक्शमयितुं प्रतिकर्तुं क्षमः शक्तः स राजा यस्य प्रकृतिवैराग्यस्य प्रतीकारः कार्यः कर्तव्यः । अनर्थहेतुत्वादित्यर्थः । तद्वैराग्यं नोदपादयत्। उत्पन्नप्रतीकारादनुत्पादनं वरमिति भावः ॥ अत्र कौटिल्य: क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम् । विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयम्" ॥ तस्मात्पृकृतीनां विरागकारणानि नोत्पादयेदित्यर्थः॥

  शक्येष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः।
  समीरणसहायोऽपि नाम्भः प्रार्थी द[५१]वानलः ॥५६ ॥

शक्येष्विति ॥ शक्तिमतः शक्तिसंपन्नस्यापि सतस्तस्य राज्ञः शक्येषु शक्तिविषयेषु स्वस्माद्धीनबलेष्वेव विषये यात्रा दण्डयात्राभवत् । न तु समधिकेष्वित्यर्थः । तथाहि । समीरणसहायोऽपि दवानलोऽम्भःप्रार्थी जलान्वेषी न । दग्धुमिति शेषः। किंतु तृणकाष्ठादिकमेवान्विष्यतीत्यर्थः ॥ अत्र कौटिल्यः-“समज्यायोभ्यां संदधीत हीनेन विगृह्णीयात्" इति ॥

  न धर्ममर्थकामाभ्यां बबाधे न च तेन तौ।
  नार्थं कामेन कामं वा सोऽर्थेन सदृशस्त्रिषु ॥ ५७ ॥

 न धर्ममिति ॥ स राजार्थकामाभ्यां धर्मं न बबाधे न नाशितवान् । तेन धर्मेण च तावर्थकामौ न । अर्थं कामेन कामं वार्थेन न बबाधे ॥ एकत्रैवासक्तो नाभूदित्यर्थः । किंतु त्रिषु धर्मार्थकामेषु सदृशस्तुल्यवृत्तिः । अभूदित्यर्थः ॥

  हीनान्यनुपकर्तॄणि प्रवृद्धानि विकुर्वते।
  तेन मध्यमशक्तीनि मित्राणि स्थापितान्यतः॥ ५८॥

 हीनानीति ॥ मित्राणि हीनान्यतिक्षीणानि चेदनुपकर्तॄण्यनुपकारीणि । प्रवृद्धान्यतिसमृद्धानि चेद्विकुर्वते विरुद्धं चेष्टन्ते । अपकुर्वत इत्यर्थः ॥ “अकर्मकाच्च" इत्यात्मनेपदम् ॥ अतः कारणात्तेन राज्ञा मित्राणि सुहृदः॥ "मित्रं सुहृदिमित्रोर्के" इति विश्वः॥ मध्यमशक्तीनि नातिक्षीणोच्छ्रितानि यथा तथा स्थापितानि ॥

 " शक्येष्वेवाभवद्यात्रा " (१७।५६) इत्यादिनोक्तमर्थं सोपस्कारमाह-

  परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् ।
  ययावे[५२]भिर्बलिष्ठश्चेत्परस्मादास्त सोऽन्यथा ॥ ५९॥

 परेति ॥ सोऽतिथिः परात्मनोः शत्रोरात्मनश्च शक्त्यादीनां शक्तिदेशकालादीनां बलाबलं न्यूनाधिकभावं परिच्छिद्य निश्चित्य । एभिः शक्त्यादिभिः परस्माच्छत्रोर्बलिष्ठः स्वयमतिशयेन बलवांश्चेत् ॥ बलशब्दान्मतुबन्तादिष्ठन्प्रत्यः । "विन्मतोर्लुक्” इति मतुपो लुक् ॥ ययौ यात्रां चक्रे।अन्यथा बलिष्ठश्चेदास्तातिष्ठत् । न ययावित्यर्थः ॥ अत्र मनुः- “यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् । परस्य विपरीतं चेत्तदा यायादरीन्प्रति । यदा तु स्यात्परिक्षीणो वाहनेन बलेन च । तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन्" इति ॥

  को[५३]शेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः ।
  अम्बुगर्भो हि जीमूतश्चातकैर[५४]भिनन्द्यते ॥ ६०॥

 कोशेनेति ॥ कोशेनार्थचयेनाश्रयणीयत्वं भजनीयत्वम् । भवतीति शेषः । इति हेतोस्तस्य राज्ञः । कर्तुः । अर्थसंग्रहः । न तु लोभादित्यर्थः । तथाहि । अम्बु गर्भे यस्य सोऽम्बुगर्भः । जीवनस्य जलस्य मूतः पुटबन्धो जीमूतो मेघः ॥ "मूङ् बन्धने" | पृषोदरादित्वात्साधुः । चातकैरभिनन्द्यते सेव्यते ।अत्र कामन्दकः " धर्महेतोस्तथार्थाय भृत्यानां रक्षणाय च । आपदर्थं च संरक्ष्यः कोशो धर्मवता सदा" इति ॥

  परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु ।
  आवृणोदात्मनो रन्ध्रं र[५५]न्ध्रेषु प्रहर[५६]न्रिपून् ॥ ६१॥

 परकर्मेति ॥ स राजा परेषां कर्माणि सेतुवार्तादीन्यपहन्तीति परकर्मापहः सन् ॥“ अन्येष्वपि दृश्यते” इत्यपिशब्दसामर्थ्याद्धन्तेर्डप्रत्ययः ॥ स्वेषु कर्मसूद्यत उद्युक्तोऽभूत् । किंच। रिपून्रन्ध्रेषु प्रहरन्नात्मनो रन्ध्रं व्यसनादिकमावृणोत्संवृतवान् ।। अत्र मनुः-" नास्य च्छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु । गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः" इति ॥

  पि[५७]त्रा संवर्धितो नित्यं कृतास्त्रः सां[५८]परायिकः ।
  तस्य दण्डवतो दण्डः स्वदेहान्न[५९] व्यशिष्यत ॥ ६२॥

 पित्रेति ॥ दण्डो दमः सैन्यं वा । तद्वतो दण्डवतो दण्डसंपन्नस्य तस्य राज्ञः पित्रा कुशेन नित्यं संवर्धितः पुष्टः कृतास्त्रः शिक्षितास्त्रः । संपरायो युद्धम् ॥ "युद्धायत्योः संपरायः" इत्यमरः ॥ तमर्हतीति सांपरायिकः॥" तदर्हति" इति ठक्प्रत्ययः॥ दण्डः सैन्यम् ॥ “दण्डो यमे मानभेदे लगुडे दमसैन्ययोः" इति विश्वः ॥ स्वदेहान्न व्यशिष्यत नाभिद्यत ॥ स्वदेहेऽपि विशेषणानि योज्यानि । मूलबलं खदेहमिवारक्षदित्यर्थः॥

  सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः।
  स चकर्ष परस्मात्तदयस्कान्त इवायसम् ॥ ६३॥

 सर्पस्येति ॥ सर्पस्य शिरोरत्नमिव । अस्य राज्ञः शक्तित्रयं परः शत्रुर्न चकर्ष ।

स तु परस्माच्छत्रोस्तच्छक्तित्रयम् । अयस्कान्तो मणिविशेष आयसं लोहविकारमिव । चकर्ष ॥

  वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव ।
  सा[६०]र्थाः स्वैरं स्व[६१]कीयेषु चेरुर्वेश्मस्विवाद्रिषु ॥ ६४ ॥

 वापीष्विति ॥ स्रवन्तीषु नदीषु वापीषु दीर्घिकासुस्विव ॥ “वापी तु दीर्घिका" इत्यमरः ॥ वनेष्वरण्येषूपवनेष्वारामेष्विव ॥ "आरामः स्यादुपवनम्" इत्यमरः ॥ अद्रिषु स्वकीयेषु वेश्मस्विव । सार्था वणिक्प्रभृतयः स्वैरं स्वेच्छया चेरुश्चरन्ति स्म ॥

  तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च संपदः ।
  यथास्वमाश्रमैश्चक्रे वर्णैर[६२]पि षडंशभाक् ।। ६५॥

 तप इति ॥ विघ्नेभ्यस्तपो रक्षन् । तस्करेभ्यः संपदश्च रक्षन् । स राजाश्रमैर्ब्रह्मचर्यादिभिर्वर्णैरपि ब्राह्मणादिभिश्च यथास्वं स्वमनतिक्रम्य षडंशभाक्चक्रे । यथाक्रममाश्रमैस्तपसो वर्णैः संपदां च षष्ठांशभाक्कृत इत्यर्थः । षष्ठोंऽशः पडंशः । संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमुक्तं प्राक् ॥

  खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान् ।
  दिदेश वेतनं तस्मै रक्षासदृशमेव भूः॥६६॥

 खनिभिरिति ॥ भूर्भूमिस्तस्मै राज्ञे रक्षासदृशं रक्षणानुरूपमेव वेतनं भृतिं दिदेश ददौ । कथम् । खनिभिराकरैः ॥ “खनिः स्त्रियामाकरः स्यात्" इत्यमरः ।। रत्नं माणिक्यादिकं सुषुवेऽजीजनत् । क्षेत्रैः सस्यम् । वनैर्गजान्हस्तिनः सुषुवे ॥

  [६३] गुणानां बलानां च षण्णां षण्मुखविक्रमः।
  बभूव विनियोगज्ञः साधनीयेषु वस्तुषु ॥ ६७ ॥

 स इति ॥ षण्मुखविक्रमः स राजा षण्णां गुणानां संधिविग्रहादीनां बलानां मूलभृत्यादीनां च साधनीयेषु वस्तुषु साध्येष्वर्थेषु विनियोगं जानातीति । विनियोगस्य ज्ञ इति वा । विनियोगज्ञः ॥ कर्मविवक्षायामुपपदसमासः । “आतोऽनुपसर्गे कः” इति कप्रत्ययः । शेषविवक्षायां षष्ठीसमासः। “इगुपध-" इत्यादिना कप्रत्ययः॥ बभूव ॥ “इदमत्र प्रयोक्तव्यम्" इत्याद्यज्ञासीदित्यर्थः ॥

  इति क्रमात्प्रयुञ्जानो रा[६४]जनीतिं चतुर्विधाम् ।
  आ तीर्थादप्रतीघातं स तस्याः फलमानशे ॥ ६८॥

 इतीति ॥ इति चतुर्विधाम् । सामाद्युपायैरिति शेषः । राजनीतिं दण्डनीतिं

क्रमात्सामादिक्रमादेव प्रयुञ्जानः स राजा तीर्थान्मन्त्र्याद्यष्टादशात्मकतीर्थपर्यन्तम् ॥ “योनौ जलावतारे च मन्त्र्यायष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थं स्यात् इति हलायुधः ॥ तस्या नीतेः फलमप्रतीघातमप्रतिबन्धं यथा तथानशे प्राप्तवान् । “मन्त्रादिषु यमुद्दिश्य य उपायः प्रयुज्यते । स तस्य फलति" इत्यर्थः।।

  कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि ।
  भेजेऽभिसारिकावृत्तिं जयश्रीर्वी[६५]रगामिनी ॥ ६९ ॥

 कूटेति ॥ कूटयुद्धविधिज्ञेऽपि कपटयुद्धप्रकाराभिज्ञेऽपि सन्मार्गेण योधिनि धर्मयोद्धरि तस्मिन्नतिथौ वीरगामिनी जयश्रीरभिसारिकावृत्तिं भेजे॥“कान्तार्थिनी तु या याति संकेतं साभिसारिका" इत्यमरः ॥ जयश्रीस्तमन्विष्यागच्छदित्यर्थः।।

  प्रा[६६]यः प्रतापभग्नत्वादरीणां तस्य दुर्लभः ।
  रणो गन्धद्विपस्येव ग[६७]न्धभिन्नान्यदन्तिनः ॥७०॥

 प्राय इति ॥ अरीणां सर्वेषामपि प्रतापेनातितेजसैव भग्नत्वात्तस्य राज्ञः । गन्धेन मदगन्धेनैव भिन्ना भग्ना अन्ये दन्तिनो येन तस्य गन्धद्विपस्येव । प्रायः प्रायेण रणो दुर्लभः ॥ खलर्थयोगेऽपि शेषविवक्षायां षष्ठीमिच्छन्तीत्युक्तम् ॥

  प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः।
  स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी ॥७१॥

 प्रवृद्धाविति ॥ प्रवृद्धौ सत्यां चन्द्रो हीयते । समुद्रोऽपि तथाविधश्चन्द्रवदेव प्रवृद्धौ हीयते ॥ प्रवृद्धः" इति वा पाठः ॥ स राजा तु ताभ्यां चन्द्रसमुद्राभ्यां समा वृद्धिर्यस्य स तत्समवृद्धिश्चाभूत् । तौ चन्द्रसमुद्राविव क्षयी ॥ "जिदृक्षि-" इत्यादिनेनिप्रत्ययः ॥ नाभूत् ॥

  [६८]न्तस्तस्याभिगमनाद[६९]त्यर्थं महतः कृशाः।
  उदधेरिव जीमूताः प्रापुर्दातृत्वम[७०]र्थिनः॥७२ ॥

 सन्त इति ॥ अत्यर्थं कृशा दरिद्रा अत एवार्थिनो याचनशीलाः सन्तो विद्वांसो महतस्तस्य राज्ञोऽभिगमनात् । उदधेरभिगमनाज्जीमूता इव । दातृत्वं प्रापुः॥ अर्थिषु दानभोगपर्याप्तं धनं प्रयच्छतीत्यर्थः ।।

  स्तूयमानः स जिह्राय स्तुत्यमेव समाचरन् ।
  तथापि व[७१]वृधे तस्य त[७२]त्कारिद्वेषिणो यशः॥७३॥

 स्तूयमान इति ॥ स राजा स्तुत्यं स्तोत्रार्हमेव यत्तदेव समाचरन्नत एव

स्तूयमानः सन् । जिह्राय ललज्ज । तथापि ह्रीणत्वेऽपि तत्कारिणः स्तोत्रकारिणो देष्टीति तत्कारिद्वेषिणस्तस्य राज्ञो यशो ववृधे ॥ " गुणाढ्यस्य सतः पुंसः स्तुतौ लज्जैव भूषणम्" इति भावः॥

  दुरितं द[७३]र्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तमः ।
  प्रजाः स्व[७४]तन्त्रयांचक्रे श[७५]श्वत्सूर्य इवोदितः॥ ७४ ॥

 दुरितामिति ॥ स राजा । उदितः सूर्य इव । दर्शनेन दुरितं घ्नन्निवर्तयन् । तथा च स्मर्यते-" अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः । दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत नित्यशः" इति ॥ तत्त्वस्य वस्तुतत्त्वस्यार्थेन समर्थनेन प्रकाशनेन च तमोऽज्ञानं ध्वान्तं च नुदञ्शश्वत्प्रजाः स्वतंत्रयांचक्रे स्वाधीनाश्चकार।।

  इन्दोर[७६]गतयः पद्मे सूर्यस्य कुमुदेंऽशवः।
  गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम् ॥ ७५॥

 इन्दोरिति ॥ इन्दोरंशवः पद्मेऽगतयः । प्रवेशरहिता इत्यर्थः । सूर्यस्यांशवः कुमुदेऽगतयः । गुणिनस्तस्य गुणास्तु विपक्षे शत्रावप्यन्तरमवकाशं लेभिरे पापुः॥

  पराभिसंधानपरं य[७७]द्यप्यस्य विचेष्टितम् ।
  जिगीषोर[७८]श्वमेधाय ध[७९]र्म्यमेव बभूव तत्॥७६ ॥

परेति ॥ अश्वमेधाय जिगीषोरस्य विचेष्टितं दिग्विजयरूपं यद्यपि पराभिसंधानपरं शत्रुवञ्चनप्रधानं तथापि तद्धर्म्यं धर्मादनपेतमेव ॥ “ धर्मपथ्यर्थन्यायादनपेते” इति यत्प्रत्ययः ॥ बभूव ॥ “ मन्त्रप्रभावोत्साहशक्तिभिः परान्संदध्यात्" इति कौटिल्यः॥

  एवमुद्यन्प्रभावेण शास्त्रनिर्दिष्टवर्त्मना ।
  वृषेव देवो देवानां रा[८०]ज्ञां राजा बभूव सः॥७७॥

 एवमिति ॥ एवं शास्त्रनिर्दिष्टवर्त्मना शास्त्रोपदिष्टमार्गेण प्रभावेण कोशदण्डजेन तेजसा । “स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्" इत्यमरः ॥ उद्यन्नुद्युञ्जानः सः। वृषा वासवो देवानां देवो देवदेव इव । राज्ञां राजा राजराजो बभूव।।

  पञ्चमं लोकपालानामू[८१]चुः साधर्म्ययोगतः।
  भूतानां महतां षष्ठमष्टमं कुलभूभृताम् ॥ ७८॥

 पञ्चममिति ॥ तम् । राजानमिति शेषः । साधर्म्ययोगतो यथाक्रमं

लोकसंरक्षणपरोपकारभूधारणरूपसमानधर्मत्वबलाल्लोकपालानामिन्द्रादीनां चतुर्णां पञ्चममूचुः । महतां भूतानां पृथिव्यादीनां पञ्चानां षष्ठमूचुः । कुलभूभृतां कुलाचलानां महेन्द्रमलयादीनां सप्तानामष्टममूचुः ।।

  दूरापवर्जितच्छत्रैस्तस्याज्ञां शासनार्पिताम् ।
  दधुःशिरोभिर्भूपाला देत्र्[८२]वाः पौरंदरीमिव ॥७९॥

 दूरेति ॥ भूपालाः शासनेषु पत्रेष्वर्पितामुपन्यस्तां तस्य राज्ञ आज्ञाम् । देवाः पौरंदरीमैन्द्रीमाज्ञामिव । दुरापवर्जितच्छत्रैर्दूरात्परिह्रतातपत्रैः शिरोभिर्दधुः॥

  ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतौ।
  यथा साधारणीभूतं नामास्य धनदस्य च ॥८०॥

 ऋत्विज इति ॥स राजा महाक्रतावश्वमेधेऽर्त्विजोयाजकान्दक्षिणाभिस्तथानर्चयामास ॥ अर्चतेर्भौवादिकाल्लिट् ॥ यथास्य राज्ञो धनदस्य च नाम साधारणीभूतमेकीभूतम् । उभयोरपि धनदसंज्ञा यथा स्यात्तथेत्यर्थः ॥

  इन्द्राद्वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभू-
   द्यादोनाथः शिवजलपथः कर्मणे नौचराणाम् ।
  पूर्वापेक्षी तदनु विदधे कोषवृद्धिं कुबेर-
   स्तस्मिन्दण्डोपनतचरितं भेजिरे लोकपालाः॥ ८१ ॥

 इन्द्रादिति ॥ इन्द्राद्वृष्टिरभूत्। यमो नियमिता निवारिता गदस्य रोगस्योद्रेक एव वृत्तिर्येन सोऽभूत् । यादोनाथो वरुणो नौचराणां नाविकानां कर्मणे संचाराय शिवजलपथः सुचरजलमार्गोऽभूत् । तदनु पूर्वापेक्षी रघुरामादिमहिमाभिज्ञः कुबेरः कोषवृद्धिं विदधे । इत्थं लोकपालास्तस्मिन्राज्ञि विषये दण्डोपनतस्य शरणागतस्य चरितं वृत्तिं भेजिरे ॥ “दुर्बलो बलवत्सेवी विरुद्धाच्छङ्कितादिभिः। वर्तेत दण्डोपनतो भर्तर्येवमवस्थितः" इति कौटिल्यः॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
अतिथिवर्णनो नाम सप्तदशः सर्गः ।


  1. आप.
  2. सहायिकम,
  3. सः.
  4. च.
  5. अंशभाजिनी.
  6. वितानम्.
  7. उपशोभितम्.
  8. संततेः..
  9. जातिवृद्धप्रयुक्तान् .
  10. च.
  11. द्विजोत्तमाः.
  12. अद्रेरघापहा.अद्रेरघापहा.
  13. प्रवृष्टः.
  14. चातकैः.
  15. यावदेषाम्.
    यावत्तेषाम,
  16. उदीरयन्.
  17. निर्वृत्त्यै.
  18. कक्षान्तर.
  19. तस्य.
  20. मुक्तागुणानद्धम्.
  21. अभ्यन्तरस्रजम्.
  22. वर्धिना; बन्धिना.
  23. दुकुलभाक्; दुकूलभृत्.
  24. नवे.
  25. महीभुजाम्.
  26. मण्डलायतनम्.
  27. अधिराज्यम्.
  28. लेखाभावात्.
  29. स्मितपूर्वाभिभाषणम्.
  30. अमिततेजसा.
  31. वियोगोष्मा; वियोगोष्णम्.
  32. संशयच्छेदान् ; संशयच्छेत्ता; संशयच्छेदि.
  33. च.
  34. उत्खाय.
  35. समेतानि.
  36. चास्य.
  37. बद्धमूलः.
  38. सदा.
  39. प्रसादसुमुखे
    ममादविमुखे.
  40. हेमलेखा.
  41. राज्ञाम्.
  42. नभस्य.
  43. विभागेन.
  44. महीभृताम्.
  45. निक्षिप्तैः
  46. यथाकालस्वपन्नपि.
  47. दुर्गमाणि
  48. प्रवृत्तेन.
  49. इव.
  50. सरितांपतेः.
  51. दवोऽनलः.
  52. अतिविशिष्टः; अरीन्विशिष्टः; अरिं विशिष्ट:.
  53. कोशात्.
  54. अभिगम्यते; अनुगम्यते.
  55. रन्ध्रे च.
  56. द्विषाम्.
  57. पितृसंवर्धितः.
  58. सापरायणः.
  59. नावशिष्यत.
  60. स्वैरं सार्थाः.
  61. तदीयेषु.
  62. इव.
  63. गुणानां च.
  64. दण्डनीतिम्.
  65. वीरकामिनी.
  66. आसीत्.
  67. गन्धभग्नानि.
  68. जनाः.
  69. अत्यर्थमहतः; अत्यन्तं महितः.
  70. अर्थिषु; अर्थिनाम्
  71. पप्रथे.
  72. तत्कार्यद्वेषिणः.
  73. दर्शने निघ्नन्.
  74. स पालयांचक्रे, स रञ्जयांचक्रे, वितमसश्चक्रे.
  75. न ययौ ताविव क्षयम्; न
    ययौ तावदक्षयम्.
  76. गभस्तयः.
  77. यदपि.
  78. अश्वमेधार्थम्
  79. धर्माय.
  80. राजा राज्ञाम्,
  81. तमूचुः
    साम्ययोगतः.
  82. शेषाम्,