रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)
← रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/अष्टादशः सर्गः(वंशानुक्रमः) | रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्) एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः) कालिदासः |
एकोनविंशः सर्गः।
मनसो मम संसारवन्धमुच्छेत्तुमिच्छतः ।
रामचन्द्रपदाम्भोजयुगलं निबिडायताम् ।।
अग्निवर्णमभिषिच्य राघवः स्वे पदे तनयमग्नितेजसम् ।
शिश्रिये श्रु[१]तवतामपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥१॥
अग्निवर्णमिति ॥ श्रुतवतां श्रुतसंपन्नानामपश्चिमः प्रथमो वशी जितेन्द्रियो राघवः सुदर्शनः पश्चिमे वयसि वार्द्धके स्वे पदे स्थानेऽग्नितेजसं तनयमग्निवर्णमभिषिच्य नैमिषं नैमिषारण्यं शिश्रिये श्रितवान् ॥
तत्र तीर्थसलिलेन दीर्घिकास्तल्पमन्तरितभूमिभिः कुशैः।
सौधवासमुटजेन वि[२]स्मृतः संचिकाय फलनिःस्पृहस्तपः ॥२॥
तत्रेति ॥ तत्र नैमिषे तीर्थसलिलेन दीर्घिका विहारवापीरन्तरितभूमिभिः कुशैस्तल्पं शय्यामुटजेन पर्णशालया सौधवासं विस्मृतो विस्मृतवान्सः ॥ कर्तरि क्तः ॥ फले स्वर्गादिफले निःस्पृहस्तपः संचिकाय संचितवान् ।
लब्धपालनविधौ न तत्सुतः खेदमाप गुरुणा हि मेदिनी ।
भोक्तुमेव भुजनिर्जितद्विषा न प्रसाधयितुमस्य कल्पिता ॥३॥
लब्धेति ॥ तत्सुतः सुदर्शनपुत्रोऽग्निवर्णो लब्धपालनविधौ लब्धस्य राज्यस्य पालनकर्मणि खेदं नाप । अक्लेशेनापालयदित्यर्थः॥ कुतः । हि यस्माद्भुजनिर्जितद्विषा गुरुणा पित्रा मेदिन्यस्याग्निवर्णस्य भोक्तुमेव कल्पिता । प्रसाधयितुं न। प्रसाधनं कण्टकशोधनम् ॥ अलंकृतिर्धन्यन्यते ॥ तथा च । यथालंकृता युवतिः केवलमुपभुज्यते तद्वदिति भावः॥
स इति ॥ अभिकः कामुकः॥ “अनुकाभिकाभीकः कमिता" इति निपातः ॥ "कम्रः कामयिताभीकः कमनः कामनोऽभिकः" इत्यमरः ॥ सोऽग्निवर्णः कुलोचितमधिकारं प्रजापालनं काश्चन समाः कतिचिद्वत्सरान्स्वयमवर्तयदकरोत् ॥ अतः
परं सचिवेषु संनिवेश्य निधाय स्त्रीविधेयं स्त्र्यधीनं नवं यौवनं यस्य सोऽभवत् । स्त्र्यासक्तोऽभूदित्यर्थः॥ कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु ।
ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः॥५॥
कामिनीति ॥ कामिनीसहचरस्य कामिनस्तस्य मृदङ्गनादिषु मृदङ्गनादवत्सु वेश्मस्वधिकर्ध्दिः पूर्वस्मादधिकसंभार उत्तर उत्सवः । ऋद्धिमन्तं साधनसंपन्नं पूर्वमुत्सवमपोहदपानुदत् ॥ उत्तरमुत्तरमधिका तस्योत्सवपरंपरा वृत्तेत्यर्थः ॥
इन्द्रियेति ॥ इन्द्रियार्थपरिशून्यं शब्दादिविषयरहितमेकमपि क्षणान्तरं क्षणभेदं सोढुमक्षमोऽशक्तः सोऽग्निवर्णो दिवानिशमन्तरेव विहरन्समुत्सुका दर्शनाकाङ्क्षिणीः प्रजा न व्यपैक्षत नापेक्षितवान् ॥
गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ ।
तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥७॥
गौरवादिति ॥ जातु कदाचिन्मन्त्रिणां गौरवाद्गुरुत्वाद्धेतोः। मन्त्रिवचनानुरोधादित्यर्थः । प्रकृतिभिः प्रजाभिः काङ्क्षितं यदपि दर्शनं ददौ तदपि गवाक्षविवरावलम्बिना केवलेन चरणेन चरणमात्रेण कल्पितं संपादितम् । न तु मुखावलोकनप्रदानेनेत्यर्थः॥
तं कृतप्रणतयोऽनुजीविनः को[७]मलात्मनखरागरूषितम् ।
भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम् ॥ ८॥
तमिति॥कोमलेन मृदुलेनात्मनखानां रागेणारुण्येन रूषितं छुरितम् । अतएव नवदिवाकरातपेन स्पृष्टं व्याप्तं यत्पङ्कजं तस्य तुलां साम्यतामधिरोहति प्राप्नोतीति तुलाधिरोहणम्। तं चरणमनुजीविनः कृतप्रणतयः कृतनमस्काराः सन्तो भेजिरे सिषेविरे॥
यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः ।
गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः॥९॥
यौवनेति ॥ विगाढमन्मथ: प्रौढमदनः सोऽग्निवर्णो यौवनेन हेतुनोन्नतानां
विलासिनीस्तनानां क्षोभेणाघातेन लोलानि चञ्चलानि कमलानि यासां ताः। तदम्बुभिस्तासां दीर्घिकाणामम्बुभिर्गूढान्यन्तरितानि मोहनगृहाणि सुरतभवनानि यासु ताश्च दीर्घिका व्यगाहत । स्त्रीभिः सह दीर्घिकासु विजहारेत्यर्थः।तत्रेति ॥ तत्र दीर्घिकास्वङ्गनाः सेकेन हृतं लोचनाञ्जनं नेत्रकज्जलं येषां तैः। रज्यतेऽनेनेति रागो रागद्रव्यं लाक्षादि । रागस्य परिपाटलोऽङ्गगुणः ॥ “गुणे शुक्लादयः पुंसि" इत्यमरः ॥ धौतो रागपरिपाटलो येषां ते तथोक्ता अधरा येषां तैः। निवृत्तसांक्रमिकरागैरित्यर्थः । अतएवार्पितप्रकृतकान्तिभिः। अभिव्यञ्जितस्वाभाविकरागैरित्यर्थः । एवंभूतैर्मुखैस्तमग्निवर्णमधिकं व्यलोभयन्प्रलोभितवत्यः ॥
घ्राणेति ॥ प्रियासखः सोऽग्निवर्णो घ्राणकान्तेन घ्राणतर्पणेन मधुगन्धेन कर्षिणीमनोहारिणीः। रच्यन्त इति रचनाः । पानभूमय एव रचनाः । रचिता पानभूमय इत्यर्थः । वासितासखः करिणीसहचरः ॥ “वासिता स्त्रीकरिण्योश्च" इत्यमरः ॥ द्विपः पुष्पिता: कमलिनीरिव । अभ्यपद्यताभिगतः ॥
सातिरेकमदकारणं रहस्तेन दत्तमभिलेषुरङ्गनाः।
ताभिरप्युपहृतं मुखासवं सोऽपिबद्धकुलतुल्यदोह[१४]दः॥ १२ ॥
सातिरेकेति ॥ अङ्गना रहो रहसि सातिरेकस्य सातिशयस्य मदस्य कारणं तेनाग्निवर्णेन दत्तं मुखासवमभिलेषुः । बकुलेन तुल्यदोहदस्तुल्याभिलाषः ॥ "अथ दोहदम् । इच्छाकाङ्क्षा स्पृहेहा तृट्" इत्यमरः ॥ बकुलद्रुमस्याङ्गनामद्यार्थित्वात्तुल्याभिलाषत्वम् ॥ सोऽपि ताभिरङ्गनाभिरुपहृतं दत्तं मुखासवमपिबत् ॥
अङ्कमिति ॥ अङ्कपरिवर्तनोचिते उत्सङ्गविहारार्हे उभे तस्याग्निवर्णस्याङ्कमशून्यतां पूर्णतां निन्यतुः ॥ के उभे । हृदयंगमस्वना मनोहरध्वनिर्वल्लकी वीणा च । वल्गुवाङ्मधुरभाषिणी वामलोचना कामिन्यपि च । हृदयं गच्छतीति हृदयंगमः ॥ खच्प्रकरणे गमेः सुप्युपसंख्यानात्खच्प्रत्ययः ॥ अङ्काधिरोपितयोर्वीणावामाक्ष्योर्वाद्यगीताभ्यामरंस्तेत्यर्थः॥स इति ॥ कृती कुशलः स्वयं प्रहतपुष्करो वादितवाद्यमुखो लोलानि माल्यानि वलयानि च यस्य स तथोक्तो मनो हरन् । नर्तकीनामिति शेषः । सोऽग्निवर्णोऽभिनयातिलङ्घिनीः । अभिनयेषु स्खलन्तीरित्यर्थः। नर्तकीविलासिनीः॥ शिल्पिनि ष्वुन्" इति वुन्प्रययः । “षिद्गौरादिभ्यश्च" इति ङीष् ॥ "नर्तकीलासिके समे" इत्यमरः ॥ गुरुषु नाट्याचार्येषु पार्श्ववर्तिषु समीपस्थेषु सत्स्वेवालज्जयल्लज्जामगमयत् ।।
चार्विति ॥ किंच । चारु सुन्दरं नृत्यविगमे लास्यावसाने परिश्रमावर्तनप्रयासात्स्वेदेन भिन्नतिलकं विशीर्णतिलकं तन्मुखं नर्तकीमुखं प्रेम्णा दत्तवदनानिलः प्रवर्तितमुखमारुतः पिबन् । अमराणामलकायाश्चेश्वराविन्द्रकुबेरावत्यजीवदतिक्रम्याजीवत् । ततोऽप्युत्कृष्टजीवित आसीदित्यर्थः ॥ इन्द्रादेरपि दुर्लभमीदृशं सौभाग्यमिति भावः॥
तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः।
वल्लभाभिरुपसृत्य चक्रिरे सा[२१]मिभुक्तविषयाः समागमाः ॥१६॥
तस्येति ॥ उपसृत्यान्यत्र गत्वा नवेषु नूतनेषु काम्यवस्तुषु शब्दादिष्विन्द्रियार्थेषु सङ्गिन आसक्तिमतः सतस्तस्य सावरणाः प्रच्छन्ना दृष्टाः प्रकाशाश्च संधयः साधनानि येषु ते समागमाः संगमा वल्लभाभिः प्रेयसीभिः सामिभुक्तविषया अर्धोपभुक्तेन्द्रियार्थाश्चक्रिरे । यथेष्टं भुक्तश्चेत्तर्ह्ययं निस्पृहः सन्नस्मत्समीपं नायास्यतीति भावः ॥ अत्र गोनर्दीयः-“ संधिर्द्विविधः । सावरणः प्रकाशश्च । सावरणो भिक्षुक्यादिना प्रकाशः स्वयमुपेत्य केनापि" इति ॥ " इतः स्वयमुपसृत्य विशेषार्थं तत्र स्थितोऽनुपजापं स्वयं संधेयः" इति वात्स्यायनः ॥ अन्यत्र गतं कथंचित्संधाय पुनरनुपगमायार्धोपभोगेनानिवृत्तवृष्णं चक्रुरित्यर्थः ।।
अङ्गलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् ।
मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः॥१७॥
अङ्गुलीति ॥ सोऽग्निवर्णः प्रणयिनीः प्रेयसीर्वञ्चयन्नन्यत्र गच्छन्नङ्गुल्यः किसलयानि तेषामग्राणि तैस्तर्जनं भर्त्सनं भ्रूविभङ्गेन भ्रूभेदेन कुटिलं वक्रं वीक्षितं वीक्षणं चासकृन्मेखलाभिर्बन्धनं चावाप । अपराधिनो दण्ड्या इति भावः॥
तेनेति ॥ सुरतस्य वारो वासरः । तस्य रात्रिषु दूतीनां विदितं यथा तथा पृष्ठतः प्रियजनस्य पश्चाद्भागे निषेदुषा तेनाग्निवर्णेन विप्रलम्भपरिशङ्किनो विरहशङ्किनः। प्रियश्चासौ जनश्च प्रियजनः । तस्य कातरं वचः प्रियानयनेन मां पाहीत्येवमादि दीनवचनं शुश्रुवे ॥
लौल्यमेत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः ।
वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः॥ १९॥
लौल्यमिति ॥ गृहिणीपरिग्रहाद्राज्ञीभिः समागमाद्धेतोर्नर्तकीपु वेश्यास्वसुलभासु दुर्लभामु सतीषु लौल्यमौत्सुक्यमेत्य प्राप्य । अङ्गुल्योः क्षरणेन स्वेदनेन सन्नवर्तिको विगलितशलाकः सोऽग्निवर्णस्तासां नर्तकीनां वपुस्तद्पुरालिखन्कथंचिद्वर्तते स्मावर्तत ॥
प्रेमगर्वितविपक्षमत्सरादायताच्च मदनान्महीक्षितम् ।
निन्युरुत्सवविधिच्छलेन तं देव्य उ[२४]ज्झितरुषः कृतार्थताम् ॥२०॥
प्रेमेति ॥ प्रेम्णा स्वविषयेण प्रियस्यानुरागेण हेतुना गर्विते विपक्षे सपत्नजने मत्सराद्वैरादायतात्प्रवृद्धान्मदनाच्च हेतोर्देव्यो राज्ञ्य उज्झितरुषस्त्यक्तरोषाः सत्यस्तं महीक्षितमुत्सवविधिच्छलेन महोत्सवकर्मव्याजेन । कृतोऽर्थः प्रयोजनं येन स कृतार्थः । तस्य भावस्तत्तां निन्युः । मदनमहोत्सवव्याजान्नीतेन तेन स्वमनोरथं कारयामासुरित्यर्थः॥
प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः।
प्राञ्जलिःप्रणयिनीःप्रसादयन्सोऽदुनोत्प्र[२५]णयमन्थरः पुनः॥२१॥
प्रातरिति ॥ सोऽग्निवर्णः प्रातरेत्यागत्य परिभोगशोभिना दर्शनेन हेतुना ॥ दृशेर्ण्यन्ताल्ल्युट् ॥ कृता खण्डनव्यथा यासां तास्तथोक्ताः । खण्डिता इयर्थः ॥
तदुक्तम्-"ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता" इति ॥ प्रणयिनी प्रञ्जलिः प्रसादयंस्तथापि प्रणयमन्थरः प्रणयेन नर्तकीगतेन मन्थरोऽलसः । अत्र शिथिलप्रयत्नः सन्नित्यर्थः । पुनरदुनोत्पर्यतापयत् ॥ स्वप्नकीर्तितविपक्षमङ्गनाःप्रत्यभैत्सुरवदन्त्य एव तम् ।
प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः॥२२॥
स्वप्नेति ॥ स्वप्ने कीर्तितो विपक्षः सपत्नजनो येन तं तमग्निवर्णम् । अवदन्त्य एव । त्वया गोत्रस्खलनं कृतमित्यनुपालम्भमाना एव । प्रच्छदस्यास्तरणपटस्यान्ते मध्ये गलिता अश्रुबिन्दवो येषु तैः क्रोधेन भिन्नानि भग्नानि वलयानि येषु तैर्विवर्तनैः पराग्विलम्वनैः प्रत्यभैत्सुः प्रतिचक्रुः । तिरश्चक्रुरित्यर्थः ॥
क्लृप्तपुष्पशयनॉंल्लताग्रहानेत्य दूतिकृतमार्गदर्शनः ।
अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरम् ॥ २३॥
क्लृप्तेति ॥ सोऽग्निवर्णो दूतिभिः कृतमार्गदर्शनः सन् । क्लृप्तपुष्पशयनॉंल्लतागृहानेत्यावरोधादन्तःपुरजनाद्भयेन यो वेपथुः कम्पस्तदुत्तरं तत्प्रधानं यथा तथा परिजनाङ्गनारतं दासीरतमन्वभूत् । परिजनश्चासावङ्गना चेति विग्रहः। अत्र ङीबन्तस्यापि दूतीशब्दस्य छन्दोभङ्गभयाध्रस्वत्वं कृतम् । “अपि माषं मषं कुर्याच्छन्दोभङ्गं त्यजेद्गिराम्" इत्युपदेशात् ॥
नाम वल्लभजनस्य ते मया प्राप्य भाग्यमपि तस्य काङ्क्ष्यते ।
लोलुपं न[२६]नु मनो ममेति तं गोत्रविस्खलितमूचुरङ्गनाः॥२४॥
नामेति ॥ मया ते वल्लभजनस्य प्रियजनस्य नाम प्राप्य तन्नाम्नाह्वानं लब्ध्वा तस्य त्वद्वल्लभजनस्य यद्भाग्यम् । तत्परिहासकारणमिति शेषः । तदपि काङ्क्ष्यते॥ननु बत मम मनो लोलुपं गृध्रुः । इत्यनेन प्रकारेण गोत्रे नाम्नि विस्खलितं स्खलितवन्तं तमग्निवर्णमूचुः ॥ “गोत्रं नाम्नि कुलेऽचले” इति यादवः ॥ तन्नामलाभे सति तद्भाग्यमपि काङ्क्षिणो मनः । अहो तृष्णेति सोल्लुण्ठमुपालम्भन्तेत्यर्थः ।।
चूर्णबभ्रु ल<ref>लुलितं स्रगाकुलम् ; ललितं स्रगाकुलम्.</refलितस्रगाकुलं छिन्नमेखलमलक्तकाङ्कितम् ।
उत्थितस्य शयनं विलासिनस्तस्य विभ्रमरतान्यपावृणोत्॥२५॥
चूर्णेति ॥ चूर्णबभ्रु चूर्णैर्व्यानतकरणैरधोमुखावस्थितायाः स्त्रियाश्चिकुरगलितैः कुङ्कुमादिभिर्बभ्रु पिङ्गलम् ॥ "बभ्रु स्यात्पिङ्गले त्रिषु" इत्यमरः ॥ लुलितस्रगाकुलं करिपदाख्यबन्धे स्त्रिया भूमिगतमस्तकतया पतिताभिर्लुलितस्रग्भिराकुलम्। छिन्नमेखलं हरिविक्रमकरणैः स्त्रिया उच्छ्रितैकचरणत्वाद्गलितमेखलम् । अलक्तकाङ्कितं धैनुकबन्धे भूतलनिहितकान्ताचरणत्वाल्लाक्षारागरुषितं शयनम् । कर्तृ। उत्थितस्य । शयनादिति भावः । विलासिनस्तस्याग्निवर्णस्य विभ्रमरतानि लीलारतानि । सुरतवन्धविशेषानित्यर्थः। अपावृणोत्स्फुटीचकार ॥ व्यानतादीनां लक्षणं रतिरहस्ये-"व्यानतं रतमिदं प्रिया यदि स्यादधोमुखचतुष्पदाकृतिः। तत्कटिं समधिरुह्य वल्लभः स्याद्वृषादिपशुसंस्थितस्थितिः॥ भूगतस्तनभुजास्यमस्तकामुन्नतस्फिचमधोमुखीं स्त्रियम् । क्रामति स्वकरकृष्टमेहने वल्लभे करिपदं तदुच्यते ॥ योषिदेकचरणे समुत्थिते जायते हि हरिविक्रमाह्वयः ॥ न्यस्तहस्तयुगला निजे पदे योषिदेति कटिरूढवल्लभा। अग्रतो यदि शनैरधोमुखी धैनुकं वृषवदुन्नते प्रिये" इति ॥
स इति ॥ सोऽग्निवर्णः स्वयमेव योषितां चरणयो रागं लाक्षारसमादधेऽर्पयामास ॥ किंच । श्लथांशुकैः । प्रियाङ्गस्पर्शादिति भावः । निम्बिभिर्नितम्बवद्भिर्मेखलागुणपदैर्जघनैः ॥ “पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः" इत्यमरः ॥ लोभ्यमाननयन आकृष्यमाणदृष्टिः सन् । तथा समाहितोऽवहितो नादधे यथा सम्यग्रागरचना स्यादिति भावः ॥
चुम्बन इति ॥ चुम्बने प्रवृत्ते सति विपरिवर्तिताधरं परिहृतोष्ठम् । रशनाविघट्टने ग्रन्थिविस्रंसने प्रसक्ते सति हस्तं रुणद्धि वारयतीति हस्तरोधि । इत्थं सर्वतः सर्वत्र विघ्नितेच्छं प्रतिहतमनोरथमपि वधूनां रतं सुरतं तस्याग्निवर्णस्य मन्मथेन्धनं कामोद्दीपनमभूत् ॥
दर्पणेष्विति ॥ सोऽग्निवर्णो दर्पणेषु परिभोगदर्शिनीः संभोगचिह्नानि पश्यन्तीर्वधूर्नर्मपूर्वं परिहासपूर्वमनुपृष्ठं तासां पृष्ठभागे संस्थितः सन् । स्मितेन मनोज्ञया छायया दर्पणगतेन स्वप्रतिबिम्बेन ह्रीनिमीलितमुखीर्लज्जावनतमुखीश्चकार । तमागतं दृष्ट्वा लज्जिता इत्यर्थः ॥
कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्रपादयोः।
प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययवि[३३]सर्गचुम्बनम् ॥२९॥
कण्ठेति ॥ प्रियाः शयनादुत्थितं तमग्निवर्णं कण्ठसक्तं कण्ठार्पितं मृदुबाहुबन्धनं यस्मिंस्तत् । अग्रपादयोः स्वकीययोर्न्यस्ते पादतले यस्मिंस्तत् । निशात्यये विसर्गो विसृज्य गमनं तत्र यच्चुम्बनं तत्प्रार्थयन्त ॥ "दुह्याच्-" इत्यादिना द्विकर्मकत्वम् । अत्र गोनर्दीयः-"रतावसाने यदि चुम्बनादि प्रयुज्य यायान्मदनोऽस्य वासः" इति ॥
प्रेक्ष्य दर्पणतलस्थमात्मनो राजवेषमतिशक्रशोभिनम् ।
पिप्रिये न स तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनम्॥३०॥
प्रेक्ष्येति ॥ युवा सोऽग्निवर्णोऽतिशक्रं यथा तथा शोभमानमतिशक्रशोभिनं दर्पणतलस्थं दर्पणसंक्रान्तमात्मनो राजवेषं प्रेक्ष्य तथा न पिप्रिये न तुतोष यथा व्यक्तलक्ष्म प्रकटचिह्नं परिभोगमण्डनं प्रेक्ष्य पिप्रिये ॥
मित्रेति ॥ मित्रकृत्यं सुहृत्कार्यमपदिश्य व्याजीकृत्य पार्श्वत: प्रस्थितमन्यतो गन्तुमुद्युक्तमनवस्थितमवस्थातुमक्षमं तमग्निवर्णं प्रिया हे शठ हे गूढविप्रियकारिन्॥ "गूढविप्रियकृच्छठः" इति दशरूपके ॥ तव पलायनस्य छलान्यञ्जसा तत्त्वतः॥ "तत्त्वे त्वद्धाञ्जसा द्वयम्" इसमरः ॥ विद्म जानीम ॥ " विदो लटो वा " इति वैकल्पिको मादेशः ॥ इति । उक्त्वेति शेषः । कचग्रहैः केशाकर्षणै रुरुधुः॥ अत्र गोनर्दीय:- " ऋतुस्नाताभिगमने मित्रकार्ये तथापदि । त्रिष्वेतेषु प्रियतमः क्षन्तव्यो वारगम्यया" इति । विरक्तलक्षणप्रस्तावे वात्स्यायनः - " मित्रकृत्यं चापदिश्यान्यत्र शेते" इति ॥
तस्येति ॥ निर्दयरतिश्रमेणालसा निश्चेष्टा योषितः कण्ठसूत्रमालिङ्गनविशेषमपदिश्य व्याजीकृत्य पीवरस्तनाभ्यां विलुप्तचन्दनं प्रमृष्टाङ्गरागं तस्याग्निवर्णस्य बृहद्भुजान्तरमध्यशेरत वक्षःस्थले शेरते स्म ॥ कण्ठसूत्रलक्षणं तु - " यत्कुर्वते वक्षसि वल्लभस्य स्तनाभिघातं निबिडोपगूहात् । परिश्रमार्थं शनकैर्विदग्धास्तत्कण्ठसूत्रं प्रवदन्ति सन्तः" ॥ इदमेव रतिरहस्ये स्तनालिङ्गनमित्युक्तम् । तथा च- "उरसि कमितुरुच्चैरादिशन्ती वराङ्गी स्तनयुगमुपधत्ते यत्स्तनालिङ्गनं तत्" इति।।
संगमायेति ॥ संगमाय सुरतार्थं निशि गूढमज्ञातं चरतीष्टगृहं प्रति गच्छतीति गूढचारी । तं चारदूतिकथितम् । चरन्तीति चारा गूढचारिण्यः ॥ “ज्वलिति कसन्तेभ्यो णः" इति णप्रत्ययः ॥ चाराश्च ता दूत्यश्च चारदूतयः । ताभिः कथितं निवेदितं तमग्निवर्णमङ्गनाः पुरोऽग्रे गताः । अवरुद्धमार्गाः सत्य इत्यर्थः ।हे कामुक, तमसा वृतो गूढः सन्कुतो वञ्चयिष्यसीति । उपालभ्येति शेषः । चकृषुः ॥ स्ववासं निन्युरित्यर्थः॥
योषितामिति ॥ उडुपतेरिन्दोरर्चिषां भासामिव ॥ “ज्वाला भासो न पुंस्यर्चिः" इत्यमरः ॥ योषितां स्पर्शनिर्वृतिं स्पर्शसुखमवाप्नुवन् । किंच । रात्रिषु जागरपरः । दिवा दिवसेषु शेते स्वपितीति दिवाशयः ॥ " अधिकरणे शेतेः " इत्यच्प्रत्ययः ॥ असावग्निवर्णः कुमुदाकरस्योपमा साम्यमारुरोह प्राप ॥
वेणुनेति ॥ दशनैः पीडिताधरा दष्टोष्ठा: । नखपदैर्नखक्षतैरङ्कितोरवश्चिह्नितोत्सङ्गाः । व्रणिताधरोरुत्वादक्षमा इत्यर्थः । तथापि वेणुना वीणया चेत्युभयेन । अधरोरुपीडाकारिणेत्यर्थः । वेजिताः पीडिताः शिल्पं वेणुवीणावाद्यादिकं कुर्वन्तीति शिल्पकार्यो गायिकाः ॥ “कर्मण्यण्" इत्यण् । “टिड्ढाणञ्-" इत्यादिना ङीप् ॥ तं विजिह्मनयनाः कुटिलदृष्टयः सत्यः । स्वं चेष्टितं जानन्नपि वृथा नः पीडयतीति साभिप्रायं पश्यन्त्य इत्यर्थः । व्यलोभयन् । तथाविधालोकनमपि तस्याकर्षकमेवाभूदिति भावः ।।
अङ्गेति ॥ अङ्ग हस्तादि । सत्त्वमन्तःकरणम् । वचनं गेयं चाश्रयः कारणं यस्य तदङ्गसत्त्ववचनाश्रयम् । आङ्गिकसात्त्विकवाचिकरूपेण त्रिविधमित्यर्थः॥ यथाह भरतः-“ सामान्याभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः" इति ॥ नृत्यमभिनयं मिथो रहसि स्त्रीषु नर्तकीषूपधाय निधाय दर्शयन् । स मित्रसंनिधौ सहचरसमक्षं प्रयोगेऽभिनये निपुणैः कृतिभिः प्रयोक्तृभिरभिनयार्थप्रकाशकैर्नाटयाचार्यैः सह संजघर्ष संघर्षं कृतवान् ॥ संघर्षः पराभिभवेच्छा ॥ इतः प्रभृति तस्य कृत्रिमाद्रिषु विरचितविहारप्रकारमाह-
अंसेति ॥ प्रावृष्यंसलम्बिन्यः कुटजानामर्जुनानां ककुभानां च स्रजो यस्य तस्य । नीपानां कदम्बकुसुमानां रजसाङ्गरागिणोऽङ्गरागवतस्तस्यानिवर्णस्य प्रमदबर्हिणेषून्मत्तमयूरेषु कृत्रिमाद्रिषु विहार एव विभ्रमो विलासोऽभूदभवत् ॥
विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुमबलाः स तत्वरे ।
आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरम् ॥ ३८॥
विग्रहादिति ॥ प्रावृषीत्यनुषज्यते । सोऽग्निवर्णो विग्रहात्प्रणयकलहाच्छयने पराङ्मुखीरबला अनुनेतुं न तत्वरे त्वरितवान् । किंतु घनशब्देन धनगर्जितेन विक्लवाश्चकिता अतएव विवृत्य स्वयमेवाभिमुखीभूय भुजान्तरं विशतीः प्रविशन्तीः॥ "आच्छीनद्योर्नुम्" इति नुम्विकल्पः ॥ ता अबला आचकाङ्क्ष । खयंग्रहादेव सांमुख्यमैच्छदित्यर्थः॥
कार्तिकीष्विति ॥ कार्तिकस्येमाः कार्तिक्यः ॥ “ तस्येदम्" इत्यण् ॥ तासु यामिनीषु निशासु । शरद्रात्रिष्वित्यर्थः । सवितानान्युपरिवस्त्रावृतानि हर्म्याणि भजतीति सवितानहर्म्यभाक् ॥ भजेर्ण्विप्रत्ययः॥ हिमवारणार्थं सवितानमुक्तम् । ललिताङ्गनासखः सोऽग्निवर्णः सुरतश्रमापहां मेघमुक्ता चासौ विशदा च ताम् ॥ बहुलग्रहणात्सविशेषणसमासः ॥ चन्द्रिकामन्वभुङ्क्त ॥
सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बमिव हंसमेखलम् ।
स्वप्रियाविलसितानुकारिणीं सौधजालविवरैर्व्यलोकयत् ॥४०॥
सैकतमिति ॥ किंच । हंसा एव मेखला यस्य तत्सैकतं पुलिनं श्रोणिबिम्बमिव । विवृण्वतीम् । अतएव स्वप्रियाविलसितान्यनुकरोतीवि तद्विषां सरयूम् । सौधस्य जालानि गवाक्षाः । त एव विवराणि । तैर्व्य॑लोकयत् ॥
मर्मरैरगुरुधूपगन्धिभिर्व्य[५६]क्तहेमरशनैस्तमेकतः ।
जह्रुराग्रथनमोक्षलोलुपं हैमनैर्निवसनैः सुमध्यमाः॥४१॥
मर्मरैरिति॥ मर्मरैः संस्कारविशेषाच्छब्दायमानैः॥ “अथ मर्मरः। स्वनिते वस्त्रपर्णानाम्" इत्यमरः ॥ अगुरुधूपगन्धिभिर्व्यक्तहेमरशनैर्लोल्याल्लक्ष्यमाणकनकमेखलागुणैर्हेमनैर्हेमन्ते भवैः ॥ “ सर्वत्राण्च तलोपश्च" इति हेमन्तशब्दादण्प्रत्ययस्तलोपश्च ॥ निवसनैरंशुकैः सुमध्यमाः स्त्रिय एकतो नितम्बैकदेश आग्रथनमोक्षयोर्निवीबन्धविस्रंसनयोर्लोलुपमासक्तं तं जह्रुराचकृषुः ॥
अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु ।
तस्य सर्वसुरतान्तरक्षमाः सा[५७]क्षितां शिशिररात्रयो ययुः।।४२॥
अर्पितेति ॥ निवाता वातरहिताः कुक्षयोऽभ्यन्तराणि येषां तेषु गर्भवेश्मसु गृहान्तर्गृहेष्वर्पिता दत्ताः स्तिमिता निवातत्वान्निश्चला दीपा एव दृष्टयो याभिस्ताः ॥ अत्रानिमिषदृष्टित्वं च गम्यते ॥ सर्वसुरतान्तरक्षमास्तापस्वेदापनोदनत्त्वाद्दीर्घकालत्त्वाच्च सर्वेषां सुरतान्तराणां सुरतभेदानां क्षमाः क्रियार्हाः शिशिररात्रयस्तस्याग्निवर्णस्य साक्षितां ययुः । विविक्तकालदेशत्वाद्यथेच्छं विजहारेत्यर्थः॥
दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवम् ।
अन्वनैषु[५८]रवधूतविग्रहास्तं दुरुत्सहवियोगमङ्गनाः॥४३॥
दक्षिणेनेति ॥ अङ्गना दक्षिणेन पवनेन मलयानिलेन संभृतं जनितं सपल्लवं चूतकुसुमं प्रेक्ष्यावधूतविग्रहास्त्यक्तविरोधाः सत्यो दुरुत्सहवियोगं दुःसहविरहं तमन्वनैषुः । तद्विरहमसहमानाः स्वयमेवानुनीतवत्य इत्यर्थः ।।
ता इति । ता अङ्गनाः स्वमङ्कं स्वकीयमुत्सङ्गमधिरोप्य परिजनेनापविद्धया
संप्रेषितया दोलया मुक्तरज्जु त्यक्तदोलासूत्रं यथा तथा प्रेङ्खयंश्चालयन्भयच्छलात्पतनभयमिषाद्बाहुभिरङ्गनाभुजैर्निबिडं कण्ठबन्धनमवाप प्राप । स्वयंग्रहाश्लेषसुखमन्वभूदित्यर्थः॥ तं पयोधरनिषिक्तचन्दनैर्मौक्तिकप्रथितचारुभूषणैः ।
ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेख[६२]लैः प्रियाः॥४५॥
तमिति ॥ प्रियाः पयोधरेषु स्तनेषु निषिक्तमुक्षितं चन्दनं येषु तैः । मौक्तिकैर्ग्रथितानि प्रोतानि चारुभूषणानि येषु तैः । मुक्तापायाभरणैरित्यर्थः । श्रोणिलम्बिन्यो मणिमेखला मरकतादिमणियुक्तकटिसूत्राणि येषु तादृशैर्ग्रीष्मवेषविघिभिरुष्णकालोचितनेपथ्यविधानैः । शीतलोपायैरित्यर्थः । तमग्निवर्णं सिषेविरे॥
यत्स ल[६३]ग्नसहकारमासवं रक्तपाटलसमागमं पपौ।
तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः ॥ १६ ॥
यदिति ॥ सोऽग्निवर्णो लग्नः सहकारश्चूतपल्लवो यस्मिंस्तं रक्तपाटलस्य पाटलकुसुमस्य समागमो यस्य तमासवं मद्यं पपी । इति यत्तेनासवपानेन मधुनिर्गमाद्वसन्तापगमात्कृशो मन्दवीर्यस्तस्य चित्तयोनिः कामः पुनर्नवः प्रबलोऽभवत् ।।
एवमिन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः।
आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवा[६४]हितः॥४७॥
एवमिति ॥ एवमनङ्गवाहितः कामप्रेरितोऽन्यकार्यविमुखः स पार्थिव इन्द्रियाणां सुखानि सुखकराणि शब्दादीनि निर्विशन्ननुभवन्नात्मनो लक्षणैः कुटजस्रग्धारणादिचिह्नैर्निवेदितान् । अयमृतुरिदानीं वर्तत इति ज्ञापितान् । ऋतून्वर्षादीनत्यवाहयदगमयत् ॥
तं प्रमत्तमपि न प्रभावतः शेकुराक्रमितुमन्यपार्थिवः ।
आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रमक्षिणोत् ॥१८॥
तमिति ॥ प्रमत्तं व्यसनासक्तमपि तं नृपं प्रभावतोऽन्यपार्थिवा आक्रमितुमभिभवितुं न शेकुर्न शक्ताः । रतिरागसंभव आमयो व्याधिस्तु । क्षयरोग इत्यर्थः। दक्षस्य दक्षप्रजापतेः शापश्चन्द्रमिव । अक्षिणोदकर्शयत् । शापोऽपि रतिरागसंभव इति । अत्र दक्षः किलान्याः स्वकन्या उपेक्ष्य रोहिण्यामेव रममाणं राजानं सोमं शशाप । स शापश्चाद्यापि क्षयरूपेण तं क्षिणोतीत्युपाख्यायते ।।
दृष्टेति ॥ भिषजा वैद्यानामनाश्रवो वचसि न स्थितः ॥ “वचने स्थित आश्रवः"इत्यमरः ॥ अविधेय इत्यर्थः । स दृष्टदोषमपि । रोगजननादिति शेषः । तत्सङ्गस्य वस्तु सङ्गवस्तु स्त्रीमद्यादिकं सङ्गजनकं वस्तु नात्यजत् । तथाहि । इन्द्रियगणः स्वादुभिर्विषयैर्हृतस्तु हृतश्चेत्ततस्तेभ्यो विषयेभ्यो दुःखं कृच्छ्रेण निवार्यते । यदि वार्येतेति शेषः । दुस्त्यजाः खलु विषया इत्यर्थः ॥तस्येति ॥ तस्य राज्ञः पाण्डुवदना । अल्पभूषणा परिमिताभरणा । सावलम्बं दासादिहस्तावलम्बसहितं गमनं यस्यां सा सावलम्बगमना । मृदुस्वना हीनस्वरा । राज्ञः सोमस्य यक्ष्मा राजयक्ष्मा क्षयरोगः । तेन या परिहानिः क्षीणावस्था सा । कामयते विषयानिच्छति कामयानः॥ केमर्णिङन्ताच्छानच् । “अनित्यमागमशासनम्" इति मुमागमाभावः। एतदेवाभिप्रेत्योक्तं वामनेनापि-"कामयान शब्दः सिद्धोऽनादिश्च' इति ॥ तस्य समवस्थया कामुकावस्थया तुलां साम्यमाययो प्राप । कालकृतो विशेषोऽवस्था ॥"विशेषः कालिकोऽवस्था" इत्यमरः ॥
व्योम पश्चिमकलास्थि[७१]तेन्दु वा पङ्कशेषमिव धर्मपल्वलम् ।
राज्ञि तत्कुलमभूक्षयातुरे वामनार्चिखि दीपभाजनम् ॥ ५॥
व्योमेति ॥ राज्ञिक्षयातुरे सति तत्कुलं रघुकुलं पश्चिमकलायां स्थित इन्दुर्यस्मिंस्तत्कलावशिष्टेन्दु व्योम वा व्योमेव ॥ वाशब्द इवार्थे । यथाह दण्डी-“इववद्वायथाशब्दौ” इति ॥ पङ्कशेषं घर्मपल्वलमिव । वामनार्चिरल्पशिखं दीपभाजनं दीपपात्रमिवाभूत् ॥
बाढमिति ॥ बाढं सत्यमेष पार्थिवो दिवसेषु पुत्रजन्मने पुत्रोदयार्थं कर्म जपादिकं साधयति । इत्येवमदर्शितरुजो निगृहितरोगाः सन्तोऽस्य राज्ञो मन्त्रिणोऽघशङ्किनीर्व्यसनशङ्किनीः प्रजाः शश्वदूचुः॥
स त्वनेकवनितासखोऽपि सन्पावनीमनवलोक्य संततिम् ।
वैद्ययत्नपरिभाविनं गदं न[७५] प्रदीप इव वायुमत्यगात् ॥ ५३ ॥
तं गृहोपवन एव संगताः पश्चिमक्रतुविदा पुरोधसा।
रोगशान्तिमपदिश्य मन्त्रिणः संभृते शिखिनि गूढमादधुः॥५४॥
तमिति ॥ पश्चिमक्रतुविदान्त्येष्टिविधिज्ञेन पुरोधसा संगताः समेता मन्त्रिणो गृहोपवन एव गृहाराम एव ॥ “आरामः स्यादुपवनम्" इत्यमरः॥ रोगशान्तिमपदिश्य शान्तिकर्म व्यपदिश्य तमग्निवर्णं संभृते समिद्धे शिखिन्यग्नौ गूढमप्रकाशमादधुर्निदधुः॥
तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी।
साधु दृ[७६]ष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियम् ।। ५५ ।।
तैरिति ॥ आशु शीघ्रं कृतः प्रकृतिमुख्यानां पौरजनप्रधानानां संग्रहः संनिपातनं यैस्तादृशैस्तैर्मन्त्रिभिः साधु निपुणं दृष्टशुभगर्भलक्षणा परीक्षितशुभगर्भचिह्रा तस्याग्निवर्णस्य सहधर्मचारिणी नराधिपश्रियं प्रत्यपद्यत राजलक्ष्मीं प्राप ॥
तस्यास्तथाविधनरेन्द्रविपत्तिशोका-
दुष्णैर्विलोचनजलैः प्रथमाभितप्तः ।
निर्वापितः कनककुम्भमुखोज्झितेन
वं[७७]शाभिषेकविधिना शिशिरेण गर्भः॥ ५६ ॥
तस्या इति ॥ तथाविधया नरेन्द्रविपत्त्या य: शोकस्तस्मादुष्णैर्विलोचनजलैः प्रथमाभितप्तस्तस्या गर्भः कनककुम्भानां मुखैर्धारैरुज्झितेन शिशिरेण शीतलेन वंशाभिषेकविधिना लक्षणयाभिषेकजलेन निर्वापित आप्यायितः ॥
तमिति ॥ प्रसवो गर्भमोचनम् । फलं च विवक्षितम् ॥ " स्यादुत्पादे फलेपुष्पे प्रसवो गर्भमोचने" इत्यमरः ॥ तस्य यः समयस्तदाकाङ्क्षिणीनां प्रजानां भावार्थं भावाय । भूतय इत्यर्थः । “भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु " इति यादवः ॥ क्षितिरन्तर्गूढं नभोवीजमुष्टिमिव । श्रावणमास्युप्तं बीजमुष्टिं यथा धत्ते तद्वदित्यर्थः ॥ मुष्टिशब्दो द्विलिङ्गः ॥"अक्लीबौ मुष्टिमुस्तकौ" इति यादवः॥ अन्तगूढमन्तर्गतं तं गर्भं दधाना हेमसिंहासनस्थाव्याहताज्ञा राज्ञी मौलैर्मूले भवैर्मूलादागतैर्वा । आप्तैरियर्थः । स्थविरसचिवैर्वृद्धामात्यैः सार्धं भर्तू राज्यं विधिवद्विध्यर्हम् । यथाशास्त्रमियर्थः ॥ अर्हार्थे वतिप्रसयः॥ अशिषच्छास्ति स्म ॥ "सतिंशास्त्यतिंभ्यश्च" इति च्लेरङ् । “शास इदङ्हलोः" इतीकारः॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
अग्निवर्णशृङ्गारो नामैकोनविंशः सर्गः ।
॥ समाप्तम् ॥
- ↑ सुतवताम्.
- ↑ विस्मरन्.
- ↑ अधिपः.
- ↑ तं निवेश्य.
- ↑ अन्तरे च; अन्तरेषु.
- ↑ समुत्सवाः.
- ↑ केवलाशुनखरागरूषितम् ; कोमलांशुनखरागभूषितम्.
- ↑ लोचनाञ्जनम्.
- ↑ व्यलम्भयन्.
- ↑ प्रकृति.
- ↑ वर्षिणी:; वाहिनीः.
- ↑ प्रियावृतः.
- ↑ हस्तिनीसखः.
- ↑ दोहदम्.
- ↑ स्वनाम्,
- ↑ मञ्जुवाक्.
- ↑ अहरत्.
- ↑ अमज्जयत्.
- ↑ वदनानिलम्.
- ↑ अन्वजीवत्; सोऽन्वजीवत्.
- ↑ साभिमुक्तविषया:.
- ↑ कथितम.
- ↑ परिशङ्कितम्.
- ↑ उज्झितरुषा.
- ↑ ग्रहणमन्थरः, द्विगुणमन्थरः.
- ↑ बत.
- ↑ न तु; तु न; ननु.
- ↑ समाहितम्.
- ↑ चुम्बने च परिवर्तिताधरम् ; चुम्बनेषु परिवर्तिताधरम् ;
चुम्बनेषु परिवर्तिताननम्. - ↑ मन्मथोत्तरम्.
- ↑ संश्रयः.
- ↑ दृशः.
- ↑ विरोध; वियोग.
- ↑ उपदिश्य.
- ↑ पार्थिवम्.
- ↑ विद्यते.
- ↑ निर्दयरतश्रमालसाः.
- ↑ अपविध्य.
- ↑ कु्ङ्मम्.
- ↑ पुरोगमाः.
- ↑ न नः.
- ↑ स्पर्शनिर्वृतसुखानि.
- ↑ अनाप्नुवन्.
- ↑ नखपदाङ्कितो रस:.
- ↑ शिल्पिकार्यः, शिल्पिकार्यम्.
- ↑ रचनाश्रयम्.
- ↑ उपधार्य दर्शयन् ; उपदर्शयन्नृपः.
- ↑ निपुणः
- ↑ प्रियोक्तिभिः-
- ↑ संजहर्ष.
- ↑ अंसलग्न.
- ↑ संभ्रमः.
- ↑ क्लमापहाम्: क्लमापहा:-
- ↑ विशदाः.
- ↑ चन्द्रिका..
- ↑ त्यक्त.
- ↑ साक्षताम् ; प्रेक्ष्यताम्.
- ↑ अवकीर्ण.
- ↑ काश्चित्.
- ↑ प्रेषयम् ; प्रैषयन्.
- ↑ प्रवृत्तया; प्रबद्धया..
- ↑ मणिमेखला:
- ↑ भग्न.
- ↑ मोहितः.
- ↑ च.
- ↑ अनाश्रयः; अनाश्रयम् ; अनास्पदम्.
- ↑ सः; हि.
- ↑ हि वार्यते.
- ↑ मृदुस्वनी
- ↑ यक्ष्मणात्मपरिहानिः; यक्ष्मणापि परिहानिः.
- ↑ स्थितेन्दुवत्; स्थितेन्दुमत्.
- ↑ गूढम्.
- ↑ एषु.
- ↑ पुत्रसाधने.
- ↑ प्राप्य दीपः.
- ↑ पृष्ट.
- ↑ वंशाभिषेकपयसा; राज्याभिषेकपयसा.
- ↑ भावाय प्रसवसमयाकाङ्क्षिणीनाम्; भूत्यर्थं
प्रसवसमयाकाङ्क्षिणीनाम् ; संतानप्रसवसमयाकाङ्क्षिणीनाम्. - ↑ अन्तर्गर्भा.
- ↑ बभौ बीजमुष्टिम्.
- ↑ स्वचिरसचिवैः.
- ↑ अवशात्.