पञ्चतन्त्रम् ०२

(पञ्चतन्त्रम् 02 इत्यस्मात् पुनर्निर्दिष्टम्)

मित्रभेदःसम्पाद्यताम्

वर्धमानवृत्तान्तःसम्पाद्यताम्


अथातः प्रारभ्यते मित्रभेदो नाम प्रथमं तन्त्रम्। यस्यायम् आदिमः श्लोकः

वर्धमानो महान् स्नेहः सिंहगोवृषयोर्वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः॥१.१॥

तद् यथानुश्रूयते। अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तत्र धर्मोपार्जितभूरिविभवो वर्धमानको नाम वणिक्पुत्रो बभूव। तस्य कदाचिद् रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना। तत् प्रभूतेऽपि वित्तेर्थोपायाश्चिन्तनीयाः कर्तव्याश्चेति। यत उक्तं च..

नहि तद्विद्यते किञ्चिद्यदर्थेन न सिध्यति।
यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥ १.२॥

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमान्लोके यस्यार्थाः स च पण्डितः॥ १.३॥

न सा विद्या न तद्दानं न तच्छिल्पं न सा कला।
न तत् स्थैर्यं हि धनिनां याचकैर्यन्न गीयते ॥१.४॥

इह लोके हि धनिनां परोऽपि स्वजनायते ।
स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते॥१.५॥

अर्थेभ्योऽपि हि वृद्धेभ्यः संवृत्तेभ्येतस्ततस्ततः ।
प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः॥१.६॥

पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते ।
वन्द्यते यदवन्द्योऽपि स प्रभावो धनस्य च॥ १.७॥

अशनादिन्द्रियाणीव स्युः कार्याण्यखिलान्यपि ।
एतस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ॥१.८॥

अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते।
त्यक्त्वा जनयितारं स्वं निःस्वं यच्छति दूरतः॥१.९॥

गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः।
अर्थे तु ये हीना वृथास्ते यौवनेपि स्युः ॥१.१०॥

स चार्थः पुरुषाणां षड्भिरुपायैर्भवति भिक्षया नृपसेवया कृषिकर्मणा विद्योपार्जनेन व्यवहारेण वणिक्कर्मणा वा। सर्वेषाम् अपि तेषां वाणिज्येनातिरस्कृतोऽर्थलाभः स्यात्। उक्तं च यतः

कृता भिक्षानेकैर् वितरति नृपो नोचितम् अहो
कृषिः क्लिष्टा विद्या गुरुविनयवृत्त्त्याऽतिविषमा।
कुसीदाद् दारिद्र्यं परकरगतग्रंथिशमनान्
न मन्ये वाणिज्यात् किम् अपि परमं वर्तनम् इह॥पञ्च_१.११॥

उपायानां च सर्वेषाम् उपायः पण्यसंग्रहः।
धनार्थं शस्यते ह्येकस् तदन्यः संशयात्मकः॥पञ्च_१.१२॥

तच् च वाणिज्यं सप्तविधम् अर्थागमाय स्यात्। तद् यथा गांधिकव्यवहारः, निक्षेपप्रवेशः, गोष्ठिककर्म, परिचितग्राहकागमः, मिथ्याक्रयकथनम्, कूटतुलामानम्, देशांतराद् भांडानयनं चेति। उक्तं च

पण्यानां गांधिकं पण्यं किम् अन्यैः काञ्चनादिभिः।
यत्रैकेन च यत् क्रीतं तच् छतेन प्रदीयते॥पञ्च_१.१३॥

निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्वदेवताम्।
निक्षेपी म्रियते तुभ्यं प्रदास्याम्य् उपयाचितम्॥पञ्च_१.१४॥

गोष्ठिककर्मनियुक्तः श्रेष्ठी चिंतयति चेतसा हृष्टः।
वसुधा वसुसंपूर्णा मयाद्य लब्धा किम् अन्येन॥पञ्च_१.१५॥

परिचितम् आगच्छंतं ग्राहकम् उत्कंठ्या विलोकयासौ।
हृष्यति तद्धनलब्धो यद्वत् पुत्रेण जातेन॥पञ्च_१.१६॥

अन्यं च
पूर्णापूर्णे माने परिचितजनवञ्चनं तथा नित्यम्।
मिथ्याक्रयस्य कथनं प्रकृतिर् इयं स्यात् किरातानाम्॥पञ्च_१.१७॥

द्विगुणं त्रिगुणं वित्तं भांडक्रयविचक्षणाः।
प्राप्नुवंत्य् उद्यमाल् लोका दूरदेशांतरं गताः॥पञ्च_१.१८॥

इत्य् एवं संप्रधार्य मथुरागामीनि भांडानि आदाय शुभायां तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः। तस्य च मंगलवृषभो संजीवकनंदकनामानौ गृहोत्पन्नौ धूर्वोढारौ स्थितौ। तयोर् एकः संजीवकाभिधानो यमुनाकच्छम्
अवतीर्णः संपंकपूरम् आसाद्य कलितचरणो युगभंगं विधाय निषसाद।
अथ तं तद्अवस्थम् आलोक्य वर्धमानः परं विषादम् आगमत्। तद् अर्थं च स्नेहार्द्रहृदयस् त्रिरात्रं प्रयाणभंगम् अकरोत्। अथ तं विषण्णम् आलोक्य सार्थिकैर् अभिहितम् भोः श्रेष्ठिन्! किम् एवं वृषभस्य कृते सिंहव्याघ्रसमाकुले बह्वपायेस्मिन् वने समस्तसार्थस् त्वया संदेहे नियोजितः। उक्तं च

न स्वल्पस्य कृते भूरि नाशयेन् मतिमान् नरः।
एतद् एवात्र पांडित्यं यत् स्वल्पाद् भूरिरक्षणम्॥पञ्च_१.१९॥

अथासौ तद् अवधार्य संजीवकस्य रक्षापुरुषान् निरूप्याशेषसार्थं नीत्वा प्रस्थितः। अथ रक्षापुरुषा अपि बह्व्अपायं तद्वनं विदित्वा संजीवकं परित्यज्य पृष्ठतो गत्वान्येद्युस् तं सार्थवाहं मिथ्याहुः स्वामिन्, मृतोऽसौ संजीवकः। अस्माभिस् तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः इति।

तच् छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहार्द्रहृदयस् तस्यौर्ध्वदेहिकक्रिया वृषोत्सर्गादिकाः सर्वाश् चकार। संजीवको प्य् आयुःशेषतया यमुनासलिलमिश्रैः शिशिरतरवातैर् आप्यायितशरीरः कथंचिद् अप्य् उत्थाय यमुनातटम् उपपेदे। तत्र मरकतसदृशानि बालतृणाग्राणि भक्षयन् कतिपयैर् अहोभिर् हरवृषभ इव पीनः ककुद्मान् बलवांश् च संवृत्तः। प्रत्यहं वल्मीकशिखराग्राणि शृंगाभ्यां विदारयन् गर्जमान आस्ते। साधु चेदम् उच्यते

अरक्षितं तिष्ठति देवरक्षितं
सुरक्षितं देवहतं विनश्यति।
जीवत्य् अनाथोऽपि वने विसर्जितः
कृतप्रयत्नोऽपि गृहे विनश्यति॥पञ्च_१.२०॥

अथ कदाचित् पिंगलको नाम सिंहः सर्वमृगपरिवृतः पिपासाकुल उदकपानार्थं यमुनातटम् अवतीर्णः संजीवकस्य गंभीरतररावं दूराद् एवाशृणोत्। तच् छ्रुत्वातीव व्याकुलहृदयः ससाध्वसम् आकारं प्रच्छाद्य वटतले चतुर्मंडलावस्थानेनावस्थितः। चतुर्मंडलावस्थानं त्व् इदं सिंहः सिंहानुयायिनः काकरवाः किंवृत्ता इति।

अथ तस्य करटकदमनकनामानौ द्वौ शृगालौ मंत्रिपुत्रौ भ्रष्टाधिकारौ सदानुयायिनाव् आस्ताम्। तौ च परस्परं मंत्रयतः। तत्र दमनकोऽब्रवीत् भद्र करटक, अयं तावद् अस्मत्स्वामी पिंगलक उदकग्रहणार्थं यमुनाकच्छम् अवतीर्य स्थितः। स किं निमित्तं पिपासाकुलोऽपि निवृत्त्य व्यूहरचनां विधाय दौर्मनस्येनाभिभूतोऽत्र वटतले स्थितः।

करटक आह भद्र किम् आवयोर् अनेन व्यापारेण उक्तं च यतः

अव्यापारेषु व्यापारं यो नरः कर्तुम् इच्छति।
स एव निधनं याति कीलोत्पाटीव वानरः॥ १.२१॥


==कथा - १ - कीलोत्पाटिवानरकथा==

कस्मिंश्चिन् नगराभ्याशे केनापि वणिक्पुत्रेण तरुखंडमध्ये देवतायतनं कर्तुम् आरब्धम्। तत्र च ये कर्मकराः स्थापनादयः। ते मध्याह्नवेलायाम् आहारार्थं नगरमध्ये गच्छंति। अथ कदाचित् तत्रानुषंगिकं वानरयूथम् इतश् चेतश् च परिभ्रमद् आगतम्। तत्रैकस्य कस्यचिच् छिल्पिनोऽर्धस्फाटितोऽञ्जनवृक्षदारुमयः स्तंभः खदिरकीलकेन मध्यनिहितेन तिष्ठति। एतस्मिंन् अन्तरे ते वानरास् तरुशिखरप्रसादशृंगदारुपर्यंतेषु यथेच्छया क्रीडितुम् आरब्धाः। एकश् च तेषां प्रत्यासन्नमृत्युश् चापल्यात् तस्मिन्न् अर्धस्फोटितस्तंभे उपविश्य पाणिभ्यां कीलकं संगृह्य यावद् उत्पादयितुम् आरेभे तावत् तस्य स्तंभमध्यगतवृषणस्य स्वस्थानाच् चलितकीलकेन यद् वृत्तं तत् प्राग् एव निवेदितम्। अतोऽहं ब्रवीमि अव्यापारेषु इति। आवयोर् भक्षितशेष आहारोऽस्त्य् एव। तत् किम् अनेन व्यापारेण। दमनक आह तत् किं भवान् आहारार्थी केवलम् एव। तन् न युक्तम्। उक्तं च

सुहृदाम् उपकारणाद् द्विषताम् अप्य् अपकारणात्।
नृपसंश्रय इष्यते बुधैर् जठरं को न बिभर्ति केवलम्॥पञ्च_१.२२॥

किं च
यस्मिञ् जीवंति जीवंति बहवः सोऽत्र जीवतु।
वयांसि किं न कुर्वंति चञ्च्वा स्वोदरपूरणम्॥पञ्च_१.२३॥

तथा च
यज् जीव्यते क्षणम् अपि प्रथितं मनुष्यैर्
विज्ञानशौर्यविभवार्यगुणैः समेतम्।
तन् नाम जीवितम् इह प्रवदंति तज्ज्ञाः
काकोऽपि जीवति चिराय बलिं च भुंक्ते॥पञ्च_१.२४॥

यो नात्मना न च परेण च बंधुवर्गे
दीने दयां न कुरुते न च मर्त्यवर्गे।
किं तस्य जीवितफलं हि मनुष्यलोके
काकोऽपि जीवति चिराय बलिं च भुंक्ते॥पञ्च_१.२५॥

सुपूरा स्यात् कुनदिका सुपूरो मूषिकाञ्जलिः।
सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति॥पञ्च_१.२६॥

किं च
किं तेन जातु जातेन मातुर् यौवनहारिणा।
आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा॥पञ्च_१.२७॥

परिवर्तिनि संसारे मृतः को वा न जायते।
जातस् तु गण्यते सोऽत्र यः स्फुरेच् च श्रियाधिकः॥पञ्च_१.२८॥

किं च
जातस्य नदीतीरे तस्यापि तृणस्य जन्मसाफल्यम्।
यत् सलिलमज्जनाकुलजनहस्तालंबनं भवति॥पञ्च_१.२९॥

तथा च
स्तिमितोन्नतसञ्चारा जनसंतापहारिणः।
जायंते विरला लोके जलदा इव सज्जनाः॥पञ्च_१.३०॥

निरतिशयं गरिमाणं तेन
जनन्याः स्मरंति विद्वांसः।
यत् कम् अपि वहति गर्भं
महताम् अपि यो गुरुर् भवति॥पञ्च_१.३१॥

अप्रकटीकृतशक्तिः शक्तोऽपि जनस् तिरस्क्रियां लभते।
निवसन्न् अंतर्दारुणि लंघ्यो वह्निर् न तु ज्वलितः॥पञ्च_१.३२॥

करटक आह आवां तावद् अप्रधानौ तत् किम् आवयोर् अनेन व्यापरेण।

उक्तं च
अपृष्टोऽत्राप्रधानो यो ब्रूते राज्ञः पुरः कुधीः।
न केवलम् असम्मानं लभते च विडंबनम्॥पञ्च_१.३३॥

तथा च
वचस् तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम्।
स्थायी भवति चात्यन्तं रागः शुक्लपटे यथा॥पञ्च_१.३४॥

दमनक आह मा मैवं वद।
अप्रधानः प्रधानः स्यात् सेवते यदि पार्थिवम्।
प्रधानोऽप्य् अप्रधानः स्याद् यदि सेवाविवर्जितः॥पञ्च_१.३५॥

यत उक्तं च
आसन्नम् एव नृपतिर् भजते मनुष्यं
विद्याविहीनम् अकुलीनम् असंस्कृतं वा।
प्रायेण भूमिपतयः प्रमदा लताश् च
यत् पार्श्वतो भवति तत् परिवेष्टयंति॥पञ्च_१.३६॥

तथा च
कोपप्रसादवस्तूनि ये विचिन्वंति सेवकाः।
आरोहंति शनैः पश्चाद् धुन्वंतम् अपि पार्थिवम्॥पञ्च_१.३७॥

विद्यावतां महेच्छानां शिल्पविक्रमशालिनाम्।
सेवावृत्तिविदां चैव नाश्रयः पार्थिवं विना॥पञ्च_१.३८॥

ये जात्यादिमहोत्साहान् नरेंद्रान् नोपयांति च।
तेषाम् आमरणं भिक्षा प्रायश्चित्तं विनिर्मितम्॥पञ्च_१.३९॥

ये च प्राहुर् दुरात्मानो दुराराध्या महीभुजः।
प्रमादालस्यजाड्यानि ख्यापितानि निजानि तैः॥पञ्च_१.४०॥

सर्पान् व्याघ्रान् गजान् सिंहान् दृष्ट्वोपायैर् वशीकृतान्।
राजेति कियती मात्रा धीमताम् अप्रमादिनाम्॥पञ्च_१.४१॥

राजानम् एव संश्रित्य विद्वान् याति परां गतिम्।
विना मलयम् अन्यत्र चंदनं न प्ररोहति॥पञ्च_१.४२॥

धवलान्य् आतपत्राणि वाजिनश् च मनोरमाः।
सदा मत्ताश् च मातंगाः प्रसन्ने सति भूपतौ॥पञ्च_१.४३॥

करटक आह अथ भवान् किं कर्तुमनाः?
सोऽब्रवीत् अद्यास्मत्स्वामी पिंगलको भीतो भीतपरिवारश् च वर्तते। तदैनं गत्वा भयकारणं विज्ञाय संधिविग्रहयानआसनसंश्रयद्वैधीभावानाम् एकतमेन संविधास्ये।

करटक आह कथं वेत्ति भवान् यद् भयाविष्टोऽयं स्वामी?
सो ब्रवीत् ज्ञेयं किम् अत्र? यत उक्तं च

उदीरितोऽर्थः पशुनापि गृह्यते
हयाश् च नागाश् च वहंति चोदिताः।
अनुक्तम् अप्य् ऊहति पंडितो जनः
परेंगितज्ञानफला हि बुद्धयः॥पञ्च_१.४४॥

तथा च मनुः (८।२६)

आकारैर् इंगितैर् गत्या चेष्टया भाषणेन च।
नेत्रवक्त्रविकारैश् च लक्ष्यतेऽन्तर्गतं मनः॥१.४५॥

तद् अद्यैनं भयाकुलं प्राप्य स्वबुद्धिप्रभावेन निर्भयं कृत्वा वशीकृत्य च निजां साचिव्यपदवीं समासादयिष्यामि।

करटक आह अनभिज्ञो भवान् सेवाधर्मस्य। तत् कथम् एनं वशीकरिष्यसि?

सो ब्रवीत् कथम् अहं सेवानभिज्ञः? मया हि तातोत्संगे क्रीडताभ्यागतसाधूनां नीतिशास्त्रं पठता यच् छ्रुतं सेवाधर्मस्य सारं तद् हृदि स्थापितम्। श्रूयतां तच् चेदम्

सुवर्णपुष्पितां पृथ्वीं विचिन्वन्ति नरास् त्रयः।
शूरश् च कृतविद्यश् च यश् च जानाति सेवितुम्॥पञ्च_१.४६॥

सा सेवा या प्रभुहिता ग्राह्या वाक्यविशेषतः।
आश्रयेत् पार्थिवं विद्वांस् तद्द्वारेणैव नान्यथा॥पञ्च_१.४७॥

यो न वेत्ति गुणान् यस्य न तं सेवेत पंडितः।
न हि तस्मात् फलं किञ्चित् सुकृष्टाद् ऊषराद् इव॥पञ्च_१.४८॥

द्रव्यकृतिहीनोऽपि सेव्यः सेव्यगुणान्वितः।
भवत्य् आजीवनं तस्मात् फलं कालांतराद् अपि॥पञ्च_१.४९॥

अपि स्थाणुवद् आसीनः शुष्यन् परिगतः क्षुधा।
न त्व् अज्ञानात्मसंपन्नाद् वृत्तिम् ईहते पंडितः॥पञ्च_१.५०॥

सम्बद्धानुबन्धाःसम्पाद्यताम्

  1. पञ्चतन्त्रम्
    1. कथामुखम् १७
    2. प्रथमम् तन्त्रम् मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् मित्रसंप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् मित्रसंप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् मित्रसंप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् मित्रसंप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् लब्धप्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् लब्धप्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् अपरीक्षितकारकम् १-५०
    25. पञ्चमम् तन्त्रम् अपरीक्षितकारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाह्यनुबन्धाःसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०२&oldid=112144" इत्यस्माद् पुनः प्राप्तिः