← अध्यायः २२ पुरुषोत्तमसंहिता
अध्यायः २३
[[लेखकः :|]]
अध्यायः २४ →
पुरुषोत्तमसंहितायाः अध्यायाः


ओं
श्रीमत्पांचरात्रदिव्यागमे श्रीपुरुषोत्तमसंहितायां
त्रयोविंशोध्यायः
ध्वजारोहणदेवताह्वानविधिः
महोत्सव विधाने
ब्रह्म-
ब्रह्म प्रश्नः-
भगवन्पुंडरीकाक्ष शरणागतवत्सल
महोत्सवः कधं कश्चि त्कीदृक्तस्य फलं चकिम्. 1
मम जिज्ञास मनसः विस्तराद्वद (सुव्रत)मे प्रभो
भगवत्प्रतिवचनं
श्रीभगवान्-
महोत्सव प्रशस्तत
ब्रह्मन्नाराधन मिदं श्रेयःकामै रनुष्ठितम्. 2
 मत्प्रीतिजनकं भद्रं महोत्सव (मितरितं)मनुष्टितम्
पुरावृत्रवधे (प्राप्तपापमोच हेतवे)तात तत्पापस्य प्रशांतये. 3
(इंद्रेणाचरितं वत्सशृणुष्वे तन्महोत्सवम्)देवेंद्रेणापि मत्प्रीत्यै कृतमे तन्महोत्सवम्
उत्सवशब्दार्धः.
विधानंतस्य वक्ष्यामि उत्सवस्य विशेषतः. 4
सवस्सांसारिकंदुःख मुत्तरंति तदंबुधिम्
कर्तायितिच विद्वां सो निर्चृवं त्युत्सवाह्वायम्. 5
उत्सवभेदाः.
(नित्यं नैमित्तिकंकाम्य मुत्सवं त्रिविधं स्मृतम्) नित्योनैमित्तिकः काम्य स्त्रिविध स्समहोत्सवः
पापापनोदनैकांतं कर्तुरायु र्विवर्थनम्. 6
प्रजानामपि राष्ट्रन्य सर्वाभ्युदयसाधकम्
दुर्भिक्षदुर्निमित्तादि घोराणां शांतिदंपरम्. 7
धर्मार्थकाम (मोक्षादि)मोक्षाणां पुरुषार्धप्रदं शुभम्
दीर्धनक्षत्र निर्णयः
(अयनंचोत्तरं शस्तं चारंभेतु हरेस्सवः)अरंभे देवयागाना मुत्तरायण मुत्तमम्. 8
दर्शेतु पौर्णमास्यांच द्वादस्यां श्रवणेपिवा
अयने विषुवेचैव रोहिण्यां तु पुनर्वसा. 9
[अधिकपाठाणि
अन्येषु पुण्यतिथिषु ग्रहणादिक पर्वसु
यजमान्यजन्मर्क्षे प्रतिष्ठाऋक्षकेतथा]
निश्चित्य तीर्थदिवसं यागकर्म समारभेत्
उत्सव दिवस निर्णयः
द्वादशाहं न वाहंवा सप्ताहं वा चतुर्मुख. 10
पंचाहं त्य्रहंचापि चैकाहंवा महोत्सवम्
ध्वजकर्ण निर्णयः
एकाहॆ च (त्य्रहेचैव) त्रयाहे च ध्वजकर्म न कारयेत्. 11
यागमंटप लक्षणं
देवालयस्य चैशान्ये पूर्वव द्यागमंटपम्
दशहस्तायतं यद्वा नवहस्तायंतं तुवा. 12
पंचहस्तायतं वापि विस्तारायाम संमितम्
चतुर्द्वार समायुक्तं मंटपं परिकर्बयेत्. 13
मंटपस्य चतुर्दिक्षु कारये न्महतीं प्रपाम्
मध्येतस्य महावेदीं हस्तोछ्रेदां मनोहराम्. 14
निर्मायत च्चतुर्दिक्षु कुंडानि परिकल्पयेत्
आश्रं चापं तधावृत्तं त्रिश्रंपूर्दादितःक्रमात्. 15
यद्वैकंचतुरश्रंवा कल्पयेत्कर्तु रिच्छया
शालालंकरणं.
अश्वद्धतोरणादीनि पूर्वव द्बंधये त्ततः. 16
सृक्क्सृवौकारये दष्ट मंगळानि यधाक्रमम्
क्षामैःकार्पासकै (र्व्रस्त्रैः)श्चित्रैश्चित्रयेन्मंटप प्रपाम्. 17
स्तंभांश्च वेष्टयेत्क्षौमैः र्मुक्तादामानिलंबयेत्
स्तंभेषु दीपानारोप्य पताकाभि र्विभूषयेत्. 18
शुभ्रैर्वितानैर्बध्नी यात्पुष्पमाल्यैश्च शोभयेत्
एवं शालामलंकृत्य आचार्यादीन वरेत्ततः 19
ऋत्विग्वरणं.
ऋत्विजष्षोडशब्रह्मन्‌ यद्वाष्टौ चतुरोपिवा
तेच भूष्य यधावित्तं स्वर्णहारांबरादिभि 20
सुगंधद्रव्यलेपैश्च उष्णीषैरूर्थ्वपुंड्रकैः
अलंकार्या यधा वित्तं यजमानेन भक्तितः. 21
उत्सवारंभः.
देवस्य स्नपनं कुर्या दुत्सचारंभणांतयोः
उत्सवारंभणा त्बूर्वं ध्वजारोहण मुच्यते 22
ध्वजारोहण पूर्वेद्यु रंकुरार्पण माचरेत्
कौशेयेवा धकार्पासे (गरुडं लेखये त्पटे)पटे गरुडमालिखेत्. 23
ध्वजपट लक्षणं.
दशहस्त समायामं विस्तारं पंचहस्तकम्
तन्मध्ये नवतालेन गरुडं कांचनप्रभम्. 24
नील नासाग्रसंयुक्तं कुंचितं सव्यपादकम्
पक्षविक्षेपसंयुक्तं श्वेतांबरधरं विभुम्. 25
गगने गमनाकारं ललाटे रचितालकम्
हारकेयूरसंयुक्तं नूपुराभरणोज्वलम्. 26
नागेंद्राभरणं देवं गरुडं लेख्य यत्नतः
पंचवर्णैश्चित्रयित्वा शिल्पिनान्येन वा गुरुः, 27
[अधिकपाठाणि
छत्रचामरकुंभादि मंगळानि यधाक्रमं
पटस्य पार्श्वे पतिमान्‌ यधाविथि समालिखेत्.]
गरुडाधिवासः
तत्पटं गृह्यधामादि प्रादक्षिण्येन देशिकः
प्रवेशये द्यागभूमिं पटंधान्येधिवासयेत्. 28
नयनोन्मीलनादीनि प्रतिष्ठायामि वा चरेत्
दर्पणे स्नपनंकृत्वा शय्यायां शोयये द्गुरुः 29
तत्पटस्य च वायव्ये धान्य तंडुलमंडले
विन्यस्य च महाकुंभं उत्तरे करकं न्यसेत्. 30
अष्टदिक्ष्यष्टकलशान्‌ शास्त्रलक्षण संयुतान्‌
संस्थाप्य मध्यमे कुंभे गरुडं वेदरूपिणम्. 31
आवाह्यरकरके चक्र (मनंतादी व्यधाक्रमं, कलशेषुयजेत्सम्यग्यधोक्तेनैववर्त्मना)मिंद्रादी नष्टदिक्षुच
नैवेद्यांतंतु संपूज्य पटस्थं गरुडं ततः 32
आधिवास होमं.
संशोध्यशोषणादिभ्यः कुंडाग्निंज्वालयेत्ततः
दर्भमूलेन पर्यग्निं कृत्वा देशिकसत्तमः. 33
प्राणप्रतिष्ठाः
तत्वानां सृष्टिसंहार न्यासहोमौचकारयेत्
कुंभस्थशक्तिं कूर्चेन समादाय पटेन्यसेत्. 34
ततः प्राणप्रतिष्ठां च गारुडन्यास पूर्वकम्
कृतांजलिपुटोभूत्वा प्रार्थये द्विनतासुतम्. 35
गरुडप्रार्धना.
एहिदेव मषाभाग वैनतेय महाबल
सान्निध्यं कुरुपक्षींद्र प्रसीदात्र नमोस्तुते. 36
आहूतः कर्मणासिद्धिं कुरुत्वं विनतासुत
आहूतव्यास्त्रयो लोकाः देवस्योत्सवसंपदि. 37
गायत्य्रानि हगेशस्य पूजये दुपचारकैः
प्रभातेग्राम प्रदक्षिणं
प्रभाते तत्पटं न्यस्य शिबिकादौ यधोदिते. 38
नर्तगायकनादित्र (वेदवादित्रनिस्वनैः)वेदघोष समन्वितम्
ध्वजारोहणविथिः
ग्रामप्रदक्षिणेनैव देवागारं प्रवेशयेत्. 39
ध्वजस्थंभसमीपोर्वीं गत्वाध्वजपटेनतु
[अधिकपाठाणि
आलंकृत्यध्वजस्थानं स्तंभं च तु यधोचितं
दर्भमालादिभिः पुष्पैः पल्लवैश्च गुरुस्स्वय
पुण्याहंवाचयित्वातु तूर्यवादित्रनिस्वनैः.]
पुण्यै रब्लिंगकै र्मंत्रै स्त्संभं संप्रोक्ष्यवारिणा. 40
विष्णुसूक्तं समुच्चार्य दर्भसूत्रेण वेष्टयेत्
स्तंभावटे रत्न लोह थातुबीजानि निक्षिपेत्. 41
स्तंभाग्रेपटमाबध्य सुवर्णोसीतिमंत्रतः
रत्नन्यासकृतेगर्ते स्तंभमूलं दृढं यथा. 42
प्रतिष्ठापनमंत्रेण स्थापये द्देशिकोत्तमः
देवस्याभिमुखं स्थाप्य पटस्थं विनतासुतं. 43
चतुर्दिक्षु चतुर्देवा नावाह्यविधिपूर्वकम्
गरुडप्रार्थना.
गरुडं प्रार्थये त्तत्र गाधयापक्ष्यमाणया. 44
पक्षींद्रपक्षविक्षेप तरंगानिल संपदा
निरस्तासुरसंन्नाह समरे शत्रुसूदन. 45
सन्निधत्स्यपटेयाव दुत्सवावबृथांतिकम्
एवं विज्ञाप्यपक्षीशं तदारभ्य दिनेदिने. 46
कालद्वये चार्चनीयं यावत्तीर्थ दिनावधि
एवं कृत्वातु सायाह्ने देवताह्वानमाचरेत्. 47
भेरीपूजास्थानशुद्थिः
देवस्य दक्षिणे पार्श्वे उपविश्यासनेशुभे
चरणं पवित्रमंत्रेण (भूमिं प्रक्षाळ्यवारिण्)भुवं प्रक्षाळ्यवारिणा. 48
विष्णोरराटमंत्रेण दर्भै स्संमार्जये त्क्रमात्
गंधद्वारेतिमंत्रेण गोमयेन विलेपयेत्. 49
आपवुंदंतु मंत्रेण (पंचचूर्णॆरलंकृतम्)रंगवल्लीः प्रकल्पयेत्
अक्षतान् विकिरेद्भूमौ देवस्य त्वेति मंत्रतः. 50
धान्यम स्येतिमंत्रेण धान्यपीठं प्रकल्पयेत्
शन्नोदेवीति मंत्रेण पद्मपत्रैरलंकृतिः. 51
त्रातारं मंत्रमुच्चार्य पद्मंमध्ये समालिखेत्
धन्वनागेतिमंत्रेण (दर्भानास्तीर्यदेशिकः)दर्भैरूर्ध्वं परिस्तरेत्. 52
मूर्थ्नान मितिमंत्रेण समस्कुर्याद्भुवं गुरुः
न्यसेत्कोण चतुष्टेषु घृतदीप चतुष्टयम्. 53
विष्वक्चेनपूजा पुण्याहादि.
विष्वक्सेनं व्रपूज्याध पुण्याहं वाचयेत्ततः
तज्जलैःप्रोक्षयेद्भेरी मापवुंदंतु मंत्रतः. 54
अग्नि रायुष्म मंत्रेण प्रोक्षये त्सर्ववाद्यकान्
अर्यमायेति तद्भेरीं विन्यसेद्थान्यविष्ठरे. 55
संस्थाप्यभेरीं तन्मथ्ये देवानावाहये त्क्रमात्
भॆर्यथि देवता वाहनः
भूतेशं च महाभूतं विष्णुभक्तं गदाधरम्. 56
प्रजापतिं सूर्यचंद्रौ शेषं भूमातृकास्ततः
वाचस्पतिं सप्तऋषी न्नंदीशं च समर्चयेत्. 57
मर्दळाद्युपवाद्यानि
मर्दळं काहळं शंखं मृदंगं वल्लकीं तधा
सटहं झल्लरीं कांश्य ताळ मिंद्रादिषु क्रमात् 58
परितःस्थाप्य तद्बाह्ये स्थापये न्नृत्तगायकान्
पटस्थं गरुडं पूज्य भेरीमावेष्ठ्यवानसा. 59
कद्विष्णो रितिमंत्रेण भेरीताडन माचरेत्
श्रीसूक्तंतु समुच्चार्यसर्ववाद्यानि घोषयेत्. 60
देवताह्वानं
कुमुदादिगणानां च ऋषीणां ब्रह्मण स्ततः
रुद्राणांचैव सर्वेषा माह्वानं सम्यगाचरेत्. 61
तत्तद्देवादितृप्त्यर्थं तत्तत्ताळानि घोषयेत्
बलिप्रदानविथिः
ततस्तुसोत्सवं बिंबं श्रीभूमिभ्यांसमन्वितम्. 62
शिबिकादौ समारोप्य चालंकृत्य विशेषतः
बलिबेरेण नहितो भ्रामये त्क्रमयोगतः. 63
नृत्तगीतयुतै र्वाद्यै स्सर्वैः परिजनै स्सह
अर्घ्यैद्गंधैश्च माल्यैश्च तांबूलैर्धूपदीपकैः 64
विमानद्वार मारभ्य ग्रामवीध्यांत मेवच
पायसेन बलिं दद्याद्देवताह्वानपूर्वकम्. 65
ग्रामस्य प्राग्भागे कर्तव्यबलिः
ग्रामस्यदिशि पूर्वस्यां प्राङ्मुखस्संस्थितोगुरुः
देवतावाहनं कुर्यास्मंत्रेणानेन देशिकः. 66
आगच्छतामरगणाः प्रागाशांयेधीशेरते
विरूपाश्च सुरूपाश्च सपर्यामुद्यतामिमाम्. 67
गृहीत्वापांतु नस्तृप्ताः कुमुदस्यानुयायिवः
महंत्वि ममुपायांतु प्रीतास्तेभ्योनमोस्तुवः 68
मंत्रेणानेन कुमुदान्‌ सगणान्‌ पूजयेत्क्रमात्
गंधादिदीपपर्यंतं (पायसेन बलिंक्षिपे) पायसान्नं बलिं क्षिपेत्. 69
तांबूलं च समर्प्याध तत्तत्संगीत ताळकैः
संतोषयेत्ततः पश्चात्प्राप्याग्नेयांदिशंगुरुः 70
आग्नेय दिग्भाग बलिः
आगच्छतामरगणा येग्न्याशामधिशेरते
भीमभीममुखारौद्रा सपर्यामुद्यतामिमाम्. 71
गृहीत्वांपांतुनस्तृप्ताः कुमुदाक्षानुयायिनः
महंत्वि ममुपायांतु प्रीतास्तेभ्योनमोनमः. 72
अनेनकुमुदाक्षंतु तोषयित्वातुपूर्ववत्
दक्षिणभागे.
आगच्छतां पितृगणाः याम्याशांयेधिशेरते. 73
दारुणादारुणाचारा स्सपर्या मुद्यतामिमाम्
गृहीत्वापांतुनस्तृप्ताः पुडरीकानुयायिनः 74
महंत्वि ममुपायांतु प्रीतास्तेभ्योनमोस्तुवः
अनेनपुंडरीकाक्षं समावाह्य च पूर्ववत्. 75
नैरुतिभागे.
आगच्छतां यातुधानाः कोणेशांयेधिशेरते
क्रव्याशनः क्रूरधिय स्सवर्यामुद्यतामिमाम्. 76
गृहीत्वापांतु नस्तृप्ता वामनस्यानुयायिनः
महंत्वि ममुपायांतु प्रीतास्तेभ्योनमोस्तुवः. 77
इत्येवं निरृतिंपूज्य प्रतीचींदि शमाश्रितः
पश्चिमदिग्भागे.
आगच्छताहि प्रथमाः प्रतीच्यांयेधिशेरते. 78
महाविषादंदशूका स्सपर्यामुद्यतामिमाम्
गृहीत्वापांतुनस्तृप्ता श्शंकुर्णानु यायिनः 79
महंत्वि ममुपायांतु प्रीतास्तेभ्योनमोस्तुवः
इति संपूज्यवरुणं वायदींति शमाश्रितः. 80
वायव्यभागे.
आयांतुगंधर्वगणाः वायुव्याशांयेधिशेरते
संदर्शनाभीमवेगा स्सपर्यामुद्यतामिमाम्. 81
गृहीत्वापांतुन स्तृप्ता स्सर्पनेत्रामयायिनः
महंत्वि ममुपायांतु प्रीतान्तेभोनमोस्तुवः. 82
वायुमेवंतुसंपूज्य कौबेरीं दिशमाश्रितः
उत्तरदिग्भागे
आगच्छतां यक्षगणः उदीचीयेधिशेरते. 83
विरूपा दंडहस्ताश्च सपर्यामुद्यतामिमाम्
गृहीत्वापांतु नस्तृप्ता स्सुमुखस्यानुयायिवः. 84
[अधिकपाठाणि
इद्थं कुबेर मभ्यर्च्य माहेश्वरदिशंगतः
आयांतु पैशाचकगणाः रौद्राशांयेधिशेरते. 85
सशूलायुधहस्ताश्च सपर्यामुद्यतामिमां
गृहीत्वापांतुनस्तृप्ता स्सुप्रतिष्ठानुयायिनः 86
महंत्वि ममुपायांतु प्रीतास्तेभ्योनमोस्तुवः]
महंत्वि ममुपायांतु प्रीतास्तेभ्योनमोस्तुवः. 87
एवं संपूज्यग्रामस्य मध्यंगत्वाधदेशिकः
आगच्छतां सिद्धगणाः गगनंयेधि शेरते. 88
शुचय स्सत्यहृदया स्सपर्यामुद्य तामिमाम्.
गृहीत्वापांतुनस्तृप्ताः पृस्निगर्भानुयायिवः. 89
महंत्विममुपायांतु प्कीतास्तेभ्योनमोस्तुवः
एवं संपूज्यगगनं पृधिवीं पूजयेत्ततः 90
आगच्चताधरगणाः पृधिवींयेधिशेरते
बहुरूपा बहुज्ञाना स्सपर्यामुद्य तामिमाम्. 91
गृहीत्वापांतु नस्तृप्ता मानवस्यानुयायिवः
महंत्वि ममुपायांतु प्रीतास्तेभ्योनमोस्तुवः. 92
आवाह्यतोषयेदेवं तत्तद्देवस्यतृप्तये
ततो नृत्तैश्च ताळैश्च तोषयित्वातु देशिकः. 93
भेरीताडन पूर्वंतु (देवताह्वान माचरेत्)देवतावाहनं चरेत्
ग्राममेवं परिभ्राम्य आलयं संप्रविश्यच. 94
ध्वजस्थानं समासाद्य (गरुडं पूजये द्गुरुः)संपूज्यगरुडं ततः
ताळादिनृत्तगीतैश्च विष्वक्चेनंतु तोषयेत्. 95
कृत्वैवं देवताह्वानं महाकुंभंनमर्चयेत्
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तम संहितायां
ध्वजारोहण देवताह्वानविधिर्नाम त्रयोविंशोध्यायः
श्रीश्रीश्री