← अध्यायः २५ पुरुषोत्तमसंहिता
अध्यायः २६
[[लेखकः :|]]
अध्यायः २७ →
पुरुषोत्तमसंहितायाः अध्यायाः


ओं
श्रीमतांच्परात्र दिव्यागमे श्रीपुरुषोत्तम संहितायां.
षड्विंशोध्यायः
पवित्रोत्सवविधिः
पवित्रोत्सव विधान श्रवणे ब्रह्म प्रश्नः-
ब्रह्म-
भगवन्पुंडरीकाक्ष पवित्रारोपणोत्सवम्
कदाकार्यं पवित्राणां लक्षणं पवमेनघ. 1
[अधिकपाठाणि
किमर्धमुत्सवं प्रोक्तं विधानं किं जगद्विभो
तत्पर्वं विस्तरेणैव ब्रूहिमेपुरुषर्षभ]
भगवत्प्रतिवचनं
श्रीभगवान्-
पवित्रोत्सवकाल निर्णयः
शृणुष्व परमं गुह्यं पदित्रारोवणोत्सवम्
श्रावणेवाध कार्तिक्यां मासेचाश्वयुजे तधा. 2
मासिभाद्रपतेवापि पवित्रारोपणं स्मृतं
द्वादश्यांवादशम्यांवा पौर्णमास्यांयथाविधिः. 3
द्वितीयायांत्रयोदश्यांपंचम्यांवाशुभेतिधौ
शुक्लपक्षेशुभेलग्ने सुनक्षत्रेसुशोभने. 4
सवित्रारोपणं कार्यं मंगळांकुर पूर्वकम्
पवित्रोत्सवक्रमः
पालिका घटिकाश्चैव शरावं तु त्रिभेदतः 5
प्रत्येकं द्वादशं ग्राह्यं मंगळांकुरकर्मणि
अंकुरारोपणं कृत्वा यधाविथि ततःपरम्. 6
पवित्र मंटप लक्षणं
मंटपं कारयेत्पूर्वं प्रासादस्या ग्रतश्शुभं
त्रयोदशकरं सम्यक् नवहस्ताच वेदिका. 7
एकहस्तोच्छ्रयं मध्ये कृत्वालंकारभूषितं
द्वारतोरण संयुक्तं पताकध्वजशोभितं. 8
वितानादिभिराकीर्णं दर्बणादिभिरन्वितं
आर्द्रशाखासमायुक्तं फलगुच्चै स्समन्वितं. 9
क्रमुकादिफलैश्चैव नारिकेळफलैस्सह
नारंगलिकुचै श्चैव शोभये न्मंटपं ततः. 10
नवम्यामेव संगृह्य यागद्रव्याणि (देशिकः) सर्वशः
पवित्र निर्माण विथिः
प्रधमं गर्णसूत्रं तु पट्टसूत्रमतःपरं. 11
सूत्रभेदानि
क्षौमसूत्रं तृतीयं तु पद्मसूत्रं चतुर्थकं
कार्पासं सूत्रमधवा कन्याभिःकृतसूत्रकं. 12
मलिनं नीलसूत्रं च प्रयत्नेन विसर्जयेत्
ब्राह्मणीभिः कृतं सूत्रं त्रिगुणीकृत्य तंतुभिः. 13
(पवित्राणि प्रकुर्वीत)पवित्रं तेन कुर्वीत कनिष्ठोत्तम मध्यमं
पवित्रभेदः
वनमालापवित्रं तु पवित्रं चाधिवानकं. 14
परिवारपवित्राणि पवित्रं दीक्षितस्यतु
[अधिकपाठाणि
एवमादि विभेदैस्तु पवित्राणि चकारयेत्.]
उत्तमादिभेदानि
मूर्धादिनाभिपर्यंतं पवित्रंतु कनिष्ठकं. 15
उरुमात्रं तदारभ्य पवित्रं मध्यमं स्मृतं
उत्तमंजानुमात्रंतु पवित्राणां प्रमाणकं. 16
वनमालादि पवित्र प्रमाणानि
वनमालापवित्रंतु प्रतिमायाम संमितं
कनिष्ठिक पवित्रं तु पवित्रमधिवासकं. 17
पवित्रं दीक्षितस्यैव नाभिमात्रं प्रचक्षते
उपलिप्तेशु चौदेशे दर्भानास्तीर्य भूतले. 18
आसने प्राङ्मुखो विद्वान् शिष्यैस्सर्वैस्सहात्मवान्‌
गायत्रीं च जपेदादौ सूत्रशंकून्‌परीक्षयेत्. 19
देवानुरूपकं कुर्यात्‌ पवित्रं तु प्रमाणतः
सूत्रसंख्या निर्णयविधिः
कनिष्ठंतं तु विज्ञेय मष्टाविंशति तंतुभिः. 20
चतुःपन्‌चाशतुज्ञेयं तंतूनां मध्यमं परं
उत्तमं चैव तंतूनां अष्टोत्तरशतं भवेत्‌. 21
अष्टोत्तर सहस्रंतु तंतूनां परिसंख्यया
वनमालाख्यया विष्णोर्दत्तासा मुक्तिदायिनी. 22
सप्त विंशतिकं ज्ञेयं तंतूना मधिवासके
वनमाला विशेषेण चोत्तमाधम मध्यमं. 23
तदर्थं सार्थमेवंच तंतूनां परिसंख्यया
तंतूनां द्वादशं ज्ञेयं परिवारपवित्रकं. 24
सप्तविंशति तंतूना माचारस्य पवित्रकं
पिचविंशति तंतूनां घंटायाश्च पवित्रकं. 25
अष्टाविंशति तंतूनां कुंडस्य चपवित्रकं
चतुश्शतंतु तंतूनां प्रासादस्य पवित्रकम्. 26
चतुर्विंशति तंतूनां धूपदंड पवित्रकं
पंचत्रिंशति तंतूनां दीपदंड पवित्रकं. 27
अष्टाविंशति तंतूनां आलयस्य पवित्रकं

एकोनविशत्तंतूनां गोपुरस्य पवित्रकं. 28
नवत्रिंश च्च तंतूनां बलपीठपवित्रकं
उपपीठपवित्रं तु पंचविंशति तंतुभिः. 29
सूत्रंतु त्रिगुणं कृत्वा प्राकारस्य पवित्रकं
पवित्र ग्रंधि संख्या
एवं कृत्वा पवित्राणि (ततोग्रंधीश्च)पुनर्ग्रंधींश्च बंधयेत्. 30
अंगुष्ठ मात्रमानंतु ग्रंधितानां यधातधं
कनिष्ठांगुळिमानं वा मध्यमांगुळि मानतः, 31
वनमाला पवित्रेतु शतमष्टोत्तरं शुभं
अधिवास पवित्रेषु ग्रंधयोद्वादशस्मृताः. 32
ग्रंधयश्चाष्ट विज्ञेया परिवार पवित्रके
ग्रंधयो द्वादशप्रोक्तां क्षेमायुश्चवि वर्थनं. 33
अन्येषु च पवित्रेषु यथासंभव माचरेत्
कुंकुमोशीरकर्पूर चंदनादि विलेपयेत्. 34

प्रथमेहनिरात्रौ
पवित्राणि विनिर्माय शास्त्रोक्तविधिना ततः
सायंकालेतु संप्राप्ते ऋत्विग्भिस्सहदेशिकः. 35
यजमानेन सहितो संविशेद्भगवद्गृहं
भगवत्प्रार्थना
तत्रदेवं नमभ्यर्च्य दंडवत्प्रणमेच्चवै. 36
उद्धाय प्रांजनिर्भूत्वा गाधामेना मुदीरयेत्
संवत्सरोपचारेषु यत्किंचिल्लोपसंभवे. 37
तद्दोषशमनार्धाय भवत्प्रीत्यै करोम्यहं
पवित्रारोपणं देव तस्मादनुगृहाणमां. 38
पवित्राथिवासः
इति विज्ञाप्य देवेशं विष्वक्चेनं तु पूजयेत्
पूण्यावाहचनं कृत्वा पवित्राणिच प्रोक्षयेत्. 39
रात्रौ प्रतिसरंबद्ध्वा दर्भाणां नंस्तरेस्वनेत्
द्वितीय दिवसे
प्रातरुद्धायनि यतो दंतधावन पूर्वकं. 40
स्नानंसंध्यादिकं कृत्वा जप्त्वामंत्रं यधाविधि
भगवंतं समभ्यर्च्य कलशैस्नपनं चरेत्. 41
महाहविर्मि वेद्याध वैष्णवान्‌ भोजये त्ततः
रात्रौतु नित्यपूजांते चक्राब्जं वर्तयेद्गुरुः. 42
पूर्वोक्तेन क्रमेणैव मंडले देवतान्‌ यजेत्‌
उपोष्ट्य देशिकेंद्रस्तु तूर्यघोषे प्रवर्तिते. 43
पात्रस्थानि पवित्राणि (धान्यराशिषु विन्यसेत्.) धान्यराश्यौ विनिक्षिपेत्
गंधादिभिस्समभ्यर्च पुष्बाणि विकिरे त्ततः. 44
वस्त्रेणाच्छाद्य पात्राणि मंत्रेणा स्त्रेणपूजयेत्
[अधिकपाठाणि
अथिवासपवित्रेषु देवं नारायणं यजेत्
गायत्य्रा विष्णुमंत्रैश्च चाभि मंत्य्रततः परं.
दीक्षितानां पवित्रेषु हेतिराजं प्रपूजयेत्
चक्रराजस्य गायत्य्रा चाभिमंत्रणमाचरन्‌
परिवारपवित्रेषु समावाह्यखगेश्वरं
तन्मंत्रेण च गायत्य्रा देशिकेंद्रोभिमंत्रयेत्]
शालायाश्च चतुर्दिक्षु (बलिंदत्वायाधाक्रमं)बिलमन्नेन कारयेत्. 45
पवित्राधिवास
चतुस्थानार्चनं कृत्वाहोमं कुर्याद्यधाविधि
होमः
अधिवासपवित्राणि गृहीत्वादेशिकस्स्वयं. 46
कुंभेच करकेकुंडे मंडले च यथाक्रमं
तद्विष्णोरिति मंत्रेण न्यसनीयानि पद्मज. 47

तृतीय दिवसे पवित्रारोपणं
ततःप्रभाते देवेशं चक्राब्जेस्थाप्य पूजयेत्‌
अर्घ्यादि धूपदीपांतं नैवेद्यं तु चतुर्विधं. 48
होमंतुपूर्ववत्कृत्वाहोमशेषं समापयेत्
ततोधृवादि बिंबानां कर्मार्चानां यथाक्रमं. 49
विष्वक्सेनादि भक्तानां छंडादीनां तधैवच
दुर्गारुद्रेंत्र देवानां (खगेशस्य तधैवचः) गरुडस्त्यचभक्तितः. 50
घटार्घ्यसृस्कृवादीनांपात्राणांधूपदीपयोः
कुंभानां तोरणानां च बलिपीठांतमेवहि. 51
एवं पवित्राण्यारोप्य तूर्यघोषेप्रवर्तिते
भक्तानां धारणार्थायकल्पितानि यधातथं. 52
पवित्रारोपणं कार्यं विमानेगोपुरेषुच
पवित्राणि समादाय न्यस्य देवस्यपादयोः 53
यजमाना यदातव्यं धारयन् देशिक पुरा
ऋत्विजांब्राह्मणादीनां भक्तानांचै वदापयेत्. 54
पवित्रधारणभेदः
ब्राह्मणाः क्षत्रिया श्चैव धारयॆयुश्चहारवत्
यज्ञोपवीत वद्धार्यं वैश्यैर्वैष्णवलक्षणैः 55
[अधिकपाठाणि
योभक्त्याधरतेचेदं पवित्रं श्रद्धयान्वितः
तस्यतत्सं वत्चरकृतकर्मलोपोविनस्यति.
ददंति सर्वकर्माणि तस्यपूर्णं महाफलं.]
ततोदेवस्य पार्श्वेतु स्थित्वेदं प्रार्धयेद्गुरुः
भगवत्प्रार्थना
भमवन् पुंडरीकाक्ष भक्ताभीष्ट प्रदायका. 56
संवत्सरस्य मध्येतु ज्ञानतो ज्ञाननतो पिवा
मयाच मदनुज्ञातै स्तथान्यैः परिचारकैः. 57
पूजालोपादिकं यच्चकृतं तद्दोषशांतये
कर्मसंपूरणार्थाय पवित्रारोपणं मया. 58
कृतंतदनुगृह्णीष्व (भक्तानुग्रह काम्यया) मदनुग्रह काम्यया
अस्वतंत्रश्चकिंचिज्ञः किंचत्कर्तु मशक्तवान्‌. 59
तस्मात्त्वत्पादविन्यस्त भारोहं प्रेरितस्त्वया
सर्वं करोमि देवेश रक्षमां शरणागतं. 60
इति संपार्ध्यदेवेशं यानमारोप्यदेशिकः
पवित्रधारकैर्भक्तैर्विशेषोत्सव माचरेत्. 61
उत्सवांतो चितस्नानं मंदिरे कारयेत्ततः
[अधिकपाठाणि
(पवित्रधारणफलः)
नैवेद्यांतं समभ्यर्च्य देवागारेनिवेशयेत्
नवाहं सप्तपंचाहं त्य्रहमेकाहमेववा.
यामं वाप्यर्थयामं वा मुहूर्त मधवागुरुः
देवदेवं समभ्यर्छ्य सविशेषं यधातधा.
उत्समांतेतु दिवसे सायंकालेतु देशिकः
यानमारोप्य देवेशं ग्रामं नीत्वा प्रदक्षिणं.
नृत्तवादित्र निर्घोषै रालयंतु समाविशेत्.
ब्राह्मणान्भोजयित्वातु यथा भवविस्तरं]
आचार्यो देवमभ्यर्च्य प्रविशेद्यागमंटपं. 62
तत्रमंडलमध्यस्थं कुंडस्थं कुंभगंतथा
पवित्रावरोहणं
देमुद्वास्य विधिवन्नित्य पूजां समाचरेत्. 63
एकविंशद्दिनेवासि चतुर्दश दिनेपिवा
सप्तमे दिवसेनापि त्रिरात्रे वावरोहणं. 64
पवित्राणि सर्वाण्यपि आचार्या यॆवदद्यात्
तत्पनित्राणि संछावा नाचार्याय प्रदापयेत्
तत्प्रदानं हरेः प्रीत्यै भविष्यतिससंशयः. 65
अन्यथा विनियुक्तश्चे द्राराराष्ट्रं विनस्यति
आचार्य दक्षिणादि
तत्काले यजमानस्तु आचार्यं तोषयेद्धनैः. 66
इति सम्यक्समाख्यातं पवित्रारोपणं (क्रमं) परं.
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तम संहितायां
पवित्रारोपणविधिर्नामषड्विंशोध्यायः
श्रीश्रीश्री