← अध्यायः ७ पुरुषोत्तमसंहिता
अध्यायः ८
[[लेखकः :|]]
अध्यायः ९ →
पुरुषोत्तमसंहितायाः अध्यायाः


ओं
श्रीपांचरात्रे श्रीपुरुषोत्तमसंहितायां
अष्टमोध्यायः
धृवबेरादि विग्रहलक्षणविधिः
ऋषयः-
[अधिकपाठानि
भगवन् मुनिशार्दूल आश्रितार्थफलप्रदा
कध्यतां बिंब निर्माण विधिं शास्त्र प्रमाणतः
कतिभेदानि बेराणि अर्चनार्थं मधुद्विषः
तेषां तु लक्षणंब्रुहि विस्तरेण यथाविधि]
श्रीवसिष्ठः-
धॆवबेर लक्षणं
अत- सरं प्रवक्ष्यामि विग्रहाणां च लक्षणम्
आलयस्य प्रमाणेन कूर्याद्द्वारप्रमाणतः. 1
यजमानस्य मानेन कारयेत्त्रिविधं भुवि
गर्भालयमानेन विग्रहमानः
गर्भालयस्य चायामं नवभागं च गण्यते. 2
यथा द्रव्यानुसारेण कुर्याद्द्वारानुसारतः
एकादिनवमांतं च कारये न्मूलविग्रहम्. 3
गर्भालयद्वारमानं पादं न्यूनं च वैद्विज
द्वारमानेन
द्वीरार्धं वा तदर्धं वा द्वारमानं चतुर्विधम्. 4
यजमानमानेन
यजमानसमं कुर्यात् (नेत्रांतं वायधारुचि)नेत्रांतं वा यथाविधि
चुबुकं चास्यमानं वा वक्षोजांतं हृदंतकम्. 5
सप्तमान मिदं ज्ञेयं यज मानवशं विदुः
शिल्पि नागमशास्त्रेण कारये द्विग्रहं शुभम्. 6
अंगुळादिमानानि मानांगुळं
अंतः परं प्रवक्ष्यामि अंगुळस्य प्रमाणकम्
अणुरेणुभि रष्टैश्च सर्षपं (तत्प्रचक्ष्यते)सविधीयते. 7
सर्षपै रष्टभि श्चैव तिल मेकं विधीयते
तिलाष्टभि र्यवं प्रोक्तं यवाष्टैस्ति र्यगंगुळम्. 8
(मानांगुलमि दंप्रोक्तं)इतिमाना गुळं प्रोक्तं मात्रांगुळ मिदं श्श्रुणु
मात्रांगुळं
मध्यमांगुळि मध्यस्य ऊर्थ्वं पर्वस्य तिर्यगम्. 9
मात्रांगुळं च द्विविधं देहलब्धांगुळं ततः
देहलब्धांगुळं
अंगुष्ठवलयार्थं च अष्ठार्थं च तधोन्नतम्. 10
इदं च द्विविधं प्रोक्तं सर्वशास्त्रेषु निश्चितम्
मानांगुलाद्युपयोगानि
मानांगुळप्रमाणेन आलयादिविधीयते. 11
मात्रांगुळ प्रमाणेन कुंडंकूर्चं सृचं स्रुवम्
इध्माद्यनलपात्राणि कुर्यात्सर्वाणि देशिकः. 12
देहलब्धांगुळेनैव प्रकुर्या त्सर्वदेवताः
(आलयस्य प्रमाणेन. तधाद्वारप्रमाणतः) आलयस्य वसे नैव तथाद्वारवशेन च. 13
बिंब निर्माण विधिः
यजमानवशे नैव मूर्ति कुर्या त्त्रिधा ततः
विग्रहप्रमाणः
तद्बिंबसव्यहस्तस्य देहलब्धांगुळेन च. 14
पादादिकेशपर्यंतं तथाचाष्ठोत्तरं शतम्
द्वादशांगुळमानेन नवतालानि गण्यते. 15
सर्वेषां विग्रहाणां च प्रमाण मिलि निश्चयम्
विग्रह विभागानि
लिंगस्थानं शरीरार्थ अधश्चोर्ध्वंच तत्समम्. 16
ऊर्ऴ्वकायं च तुर्भाग नाभेर्लिंगस्य मांतरम्
एकभाग मध श्चोर्थ्वॆहृदंतं चैकभागतः. 17
हृदादिचिबुकांतं च एकभागं विधीयते
तस्योर्थ्वेच शिरोजांत मेकभागं प्रकर्पयेत्. 18
अवयव प्रमाण विधिः
कर्णौ चतुर्भि रंगुळ्यैर्नाशिकं चतुरंगुळम्
नाशिकस्य समं नेत्रं वक्त्रं नेत्रस्य तत्समम्. 19
चतुरंगुळकं कंठं मेहनं चतुरंगुळम्
मेहनार्थं च वृषणं स्तनमध्यं दशांगुळम्. 20
अधःकायांतरे जानुहस्ता जान्वंत मुच्यते
नाभेस्समं बाहुमध्यं तत्समं मणिबंधकम्. 21
हस्तलक्षणं
तदर्धं स्या त्पाणितलं नखांतं कारये द्बुधः
अंगुळत्रयमानेन मध्यमांगुळि मुन्नतम्. 22
पर्वत्रयं समं कुर्यात् सर्वलक्षणसंयुतम्
तर्जन्यनामिकं चैव माषं न्यूनं विधीयते. 23
कनिष्ठिकं द्विमाषं स्यात् त्रिमाषांगुष्ठ मुच्यते
यथाबिंबप्रमाणेन तथा कुर्या द्विचक्षणः. 24
पादलक्षणं
पादं तालप्रमाणेन अंगुळानां विधिंश्रुणु
अंगुळत्रयमानेन पादमध्यांगुळं स्मृतम्. 25
ततः पाण्यंगुळा नेव कारयेच्छिल्बिसत्तमः
अवयव लक्षणं
मस्तकस्य च मध्येतु कर्णस्थानं विधीयते. 26
श्रोणीललाटं कुर्वीत कूर्मपृष्णव दुन्नम्
कर्णौ नेत्रे नासिके च जानूगुल्भौ कटीभुजौ. 27
वृषणं चिबुकं चोष्ठौ मणिबंधं च भ्रूयुगे
बाहुमूलौ कुचौ युग्मौसमं कुर्याद्यथाविधि. 28
स्थानके
(स्थानके विग्रहे कुर्यात्)तिष्ठतः प्रतिमायांतुगर्भावर्तं समुन्नतं
ऊर्थ्वहस्तौ भुजसमौ नेत्रांतं चालुधाग्रकम्. 29
अलंकारासनं कुर्यात् प्रमाणं न विचारयेत्
यथाबेंबोर्थ्वमानेन असनं च तधोन्नतम्. 30
नासादिचुभुकांतस्य द्विगुणं मकुटं तथा
यथा लाभं तथाकुर्याद्गर्तस्तूपीं प्रकल्पयेत्. 31
देप्यादिमानविधिः
देवीमानं ततो वक्ष्ये नासांतं विग्रहस्य च
ओष्ठांतं मध्यमं प्रोक्तं चिबुकांत मथाधमम्. 32
आसीना सा चतुर्हस्ता तिष्ठति द्विभुजा तथा
देवस्य पार्श्वयोःक्कुर्यात्तिष्ठुत्यौ प्रतिमेद्विज. 33
वामे श्रियो वामहस्तं लंबं दक्षिणपंगजम्
तथा दक्षिणदेशे च श्रियो (वामेन पंकजम्)वामे च पंकजम्. 34
दक्षिणे लंबहस्तं च श्रीभूदेव्योश्च लक्षणम्
सर्वेषां विष्णुबिंबानां लक्षणं पार्श्वयोश्रियोः. 35
आलयेन्ये स्थापितव्या (वीरलक्ष्मी श्चतुर्भुजा) राज्यलक्ष्मी श्चतुर्भुजा
[अधिकपाठानि
वरदाभयहस्तौ च ऊर्ध्वेपंकजधारिणी
कमलासनयुक्ता च वीरलक्ष्मीर्विधीयते.
पूर्णचंद्रनिभं चास्यं सर्वागं सुंदरं शुभं
सर्वाभरण संयुक्तं श्रीबिंबं सर्वत स्मृतं.]
वरदाभयहस्तं च पद्मं सव्यापसव्ययोः 36
पद्मपीठे समासीनां राज्यलक्ष्मीं तु कारयेत्
सर्वेषा मवताराणां (वीरलक्ष्मीं प्रकल्पयेत्)राज्यलक्ष्मीं प्रकल्पयेत्. 37
(इ त्येकं ध्रुवबिंबस्य लक्षणं कधितं द्विजाः) इ त्येवं ध्रुवबेरस्य लक्षणं सर्वसम्मतम्
कौतुकबेरादिमानानि सद्बेराणि
कौतुकं ध्रुवबेरार्थं कौतुकार्थं तथोत्सवम्. 38
स्नपनं चोत्सवार्थं स्यात् स्नापनार्थं बलि स्तथा
सालग्रामं च दीर्थार्थं इति ष ड्बेरलक्षणम्. 39
ध्रुवादिस्नपनांतस्तु धृवव त्कारयेत्क्रमात्
[अधिकपाठानि
अवतारेषु सर्वेषु कर्मार्चास्थानकं स्मृतं.]
सुदर्शनमूर्तिः
षट्कोणचक्रमध्ये च मूर्तिं षड्भुज मुच्यते. 40
पंकजं हेतिराजं च गदां दक्षिणबाहुभिः
शंखं च मुसलं शार्ग्ञंधारये द्वामबाहुभिः. 41
भ्रांतं षट्कोण चक्रस्य षडरैस्सहितं मतम्
द्वारपालक विग्रह लक्षणानि
(द्वारेद्वारे च कुर्वीत द्वारपालक वीग्रहौ)सर्वेषु द्पारदेशेषु द्वौबिंबौ द्वारपालकौ. 42
वामे चक्रं तथा शंखं गदां दक्षिणहस्तके
व्यस्तपादं सपादं वा द्वारदक्षिणविग्रहः. 43
वामे शंखं तथा चक्रं वामहस्ते गदाधरम्.
अन्यं वरदहस्तं वामविग्रहलक्षणम्. 44
[अधिकपाठानि
शंखचक्रगदापद्मा स्सर्वसामान्यलक्षणं]
द्वारविग्रहमानानि
द्वारमानं च तस्यार्थं तदर्थं च तदर्थकम्
यथा वित्तानुसारेण कारये द्द्वारपालकान्. 45
(गर्भालय प्रमाणेन ध्रुवबिंबानुसारतः)गर्भालयस्य मानेन ध्रुवमानेन वा भवेत्
प्रमाणै च श्च तुर्भिश्छ कुर्या द्वित्तानुसारतः
इति श्री पांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां
ध्रुवबेरादि विग्रह लक्षणं नामाष्ट
मोध्यायः
श्री श्री श्री