← अध्यायः २ पुरुषोत्तमसंहिता
अध्यायः ३
[[लेखकः :|]]
अध्यायः ४ →
पुरुषोत्तमसंहितायाः अध्यायाः


ओं
श्रीमत्पांचरात्रदिव्यागमे-श्रीपुरुषोत्तम संहितायां
तृतीयोध्यायः
आलय निर्माण-फलकथनविधिः
ऋषयः-
देवालय निर्माण फलश्रवणार्थं ऋषि प्रश्नः
देवालयं विनिर्माय देवं संस्थाप्य भक्तितः
पूजां कारयितु स्तस्य पुण्यमाचक्ष्वभोमुने. 1
वसिष्ठ प्रति वचनं देवालय निर्माण फलश्रुतिः
वसिष्ठः-
वासुदेवा द्यालयस्य कृतौ वक्ष्ये फलादिकम्
चिकीर्षो र्देवधामादि सहस्रजनिपापनुत् 2
मनसा सद्मकर्तॄणां शतजन्माघनाशनम्
येतु मोदंति कृष्णस्य क्रियमाणं नरागृहम् 3
तेपि पापै र्विमुच्यंते प्राप्नु वंति परां गतिम्
नमतीतं भविष्यं च कुलाना मयुतं नरः. 4
विष्णुलोकं नयत्याशु कारयित्वा हरेक्गृहम्
वसंति पितरो दृष्ट्वा विष्णुलोके ह्यलंकृताः. 5
विमुक्ता नारकैर्दुखैः कर्तुः कृष्णस्य मंदिरम्
ब्रह्महत्यादिपापौघघातकं विष्णतमंदिरम्. 6
फलं यन्नाप्यतेयज्ञैर्धाम कृत्वात दाप्यते
देवागारे कृते सर्व तीर्थस्नानफलं लभेत्. 7
देवा द्यद्देहतनां च रणे यत्तत्फलादिकम्
शाठ्येव प्रासूना चापि कृतं धानु च नाकथम्. 8
एकायतनकृत्स्वर्गीत्य्रगारी ब्रह्मलोकभाक्
पंचागारी शंभुलोक मष्ठागारा द्धरौ स्थितिः 9
षोडशालयकारीतु भक्तिमुक्ति मवाप्नुयात्
कनिष्ठंमध्यमंश्रेष्ठंकारयित्वाहरेर्गृहम्. 10
स्वर्गंच वैष्णवं लोकंमोक्ष माप्नोतिच क्रमात्
श्रेष्ठमायतनं विष्णोःकृत्वायद्धनवान् लभेत्. 11
कनिष्ठेनैव तत्पुण्यं प्राप्नो त्यद्धनवान्नरः
समुत्पाद्यधनं कृत्वान्वल्पे नापिसुरालयम्. 12
कारयित्वाहरेः पुण्यं संप्राप्नो त्यधिकंवरम्
लक्षेणा पि सहस्रेण शतॆ नार्धॆन वा हरेः. 13
कारणं भवनं याति त त्रासै गरुडध्वजः
बोल्येतु क्रीडमाना ये पांसुभिर्भवनं हरेः 14
वासुदेनस्य कुर्वंति पितरो लोकगामिनः
तीर्थे चायतने पुण्ये सिद्धक्षेत्रेत थाश्रमे. 15
कर्तु रायतनं विष्णो र्यथोक्ता त्रिगुणं फलम्
देवालये सम्मार्जनादि फल विशेषः
बंधूकपुष्पविन्यासै स्सुधासंकेन वैष्णवम्. 16
ये विलिप्यंति भवनं ते यांति भगवत्पुरम्
पतितं पतमानं तु तदार्थपतितं नरः. 17
समुधृत्य हरेर्धाम प्राप्नोति द्विगुणं फलम्
पतितस्य तु यःकर्ता पतितस्य च रक्षिता. 18
विष्णो रायतन स्यॆह न नरो विष्णुलोकभाक्
इष्टकानि च यत्तिष्ठे द्या वदायतनं हरेः 19
स कुल स्तस्य वैकर्ता विष्णुलोके महीयते
स एवपुण्यवान् न्पूज्य इहलोकेपरत्रच. 20
कृष्णस्य वासुदेवस्य यः कारयति केतनम्
जात स्स एव सकृतः कुलं ते नैव पालितम्. 21
विष्णुरुद्रार्क देव्यादेर्गृहकर्ता न कीर्तिभाक्
किं तस्य वित्तनिचयै र्मूढन्य परिरक्षिणः. 22
दुःखार्जितै र्यः कृष्णस्य नकारयति केतनम्
नोपभोग्य धनं यस्य पितृविप्रदिवौकसाम्. 23
नोपभौगाय बंधूनां व्यर्थस्तन्य धनागमः
यथा ध्रुवो नृणांमृत्युःवित्तनाशस्ततो ध्रुवः 24
मूढ स्तत्रानुबध्नाति जीविते ध च वैधने
यथावित्तं न दानाय रोपभोगाय देहिनाम्. 25
नापि कीर्त्यै नधर्मर्थं तस्य स्वा म्येधको गुणः
तस्मा द्वित्तं समासाद्यदैवाद्वापौरुषा दथा. 26
दद्या त्सम्यगोद्द्विजाग्रेभ्यःकीर्तनानि च कारयेत्
दानेभ्यश्चाधिकं यस्मात्कीर्तनेभ्यो वरंयतः. 27
अत स्तत्कालये द्धीमान् विष्ण्वादे र्मंदिरादिकम्
विनिवेस्य हरेर्धामा भक्तिमद्भिर्नरोत्तमैः 28
निवेसितं भवेत्कृच्छ्रं त्रैलोक्यं सचराचरम्
भूतं भव्यं भविष्यंचस्थूलं सूक्ष्मंतथेतरम्. 29
आब्रह्मस्तंभपर्यंतं सर्वं विष्णो स्समुद्भवम्
तस्य देवादि देवस्य सर्वगन्य महात्मनः. 30
निवेस्त्य भगवन् विष्णोर्न भूयो भुविजायते
यदा विष्णोर्दामकृतौ फलंतद्वद्दिवौकसाम्. 31
प्रतिमाकरणे फलकथनं
शिवब्रह्मार्क विघ्नेश चंडीलक्ष्म्यादि कात्मनाम्
देवालयकृतेः पुण्यं प्रतिमाकर णेऽधिकम्. 32
प्रतिमास्थापने यागे फलस्यांतो न विद्यते
मृण्मयाद्दारुजे पुण्यं दारुजा दैष्टकेभवेत्. 33
यिष्टकोद्धाच्छैलजेस्यात् हेमादे रथिकं फलम्
सप्तजन्मकृतं पापं प्रारंभादेवनस्यति. 34
देवालयस्य स्वर्गी स्यात् नरकं नैव गच्छति
कारय न्भगवद्धाम नय त्यच्युतलोकताम्. 35
सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम्
तारयत्यक्षतान् लोकानक्षयास्प्रतिपद्यते. 36
इष्टकाचय विन्याचो यावं त्यब्दानि तिष्ठति
तावद्वर्षसहस्राणि तत्कर्तुर्दिवि संस्थितिः 37
इति श्रीपांचरात्रॆ महोपनिषदि श्रीपुरुषोत्तम संहिताया
मालयनिर्माण फलकथनं नाम
तृतीयोध्यायः.